०३२ हनुमता सुग्रीवबोधनम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे द्वात्रिंशः सर्गः

अङ्गदस्य वचः श्रुत्वा सुग्रीवः सचिवैः सह ।

लक्ष्मणं कुपितं श्रुत्वा मुमोचासनमात्मवान् ॥ 4.32.1 ॥

अथ हनुमता हितोपदेशो द्वात्रिंशे अङ्गदस्येत्यादि । अङ्गदस्य प्राधान्यादङ्गदस्य वचः श्रुत्वेत्युक्तम् । आसनं मुमोच भयेनासनादुदतिष्ठदित्यर्थः ॥ 4.32.1 ॥

सचिवानब्रवीद्वाक्यं निश्चित्य गुरुलाघवम् ।

मन्त्रज्ञान्मन्त्रकुशलो मन्त्रेषु परिनिष्ठितान् ॥ 4.32.2 ॥

सचवानिति । मन्त्रकुशलः मन्त्रप्रयोगकुशलः ॥ 4.32.2 ॥

न मे दुर्व्याहृतं किञ्चिन्नापि मे दुरनुष्ठितम् ।

लक्ष्मणो राघवभ्राता क्रुद्धः किमिति चिन्तये ॥ 4.32.3 ॥

दुर्व्याहृतं परुषभाषणम् । दुरनुष्ठितम् अपकारः । किं किमर्थम्? ॥ 4.32.3 ॥

असुहृद्भिर्ममामित्रैर्नित्यमन्तरदर्शिभिः ।

मम दोषानसम्भूतान् श्रावितो राघवानुजः ॥ 4.32.4 ॥

असुहृद्भिरिति । असुहृद्भिः अशोभनहृदयैः ॥ 4.32.4 ॥

अत्र तावद्यथाबुद्धि सर्वैरेव यथाविधि ।

भावस्य निश्चयस्तावद्विज्ञेयो निपुणं शनैः ॥ 4.32.5 ॥

अत्रेति । तावत् प्रथमम् । यथाविधि यथाक्रमम् । भावस्य चेष्टायाः । निश्चयः अध्यवसायः ॥ 4.32.5 ॥

न खल्वस्ति मम त्रासो लक्ष्मणान्नापि राघवात् ।

मित्रं त्वस्थानकुपितं जनयत्येव सम्भ्रमम् ॥ 4.32.6 ॥

निजभयकृतमासनचलनमपह्नुते न खल्विति ॥ 4.32.6 ॥

सर्वथा सुकरं मित्रं दुष्करं परिपालनम् ।

अनित्यत्वाच्च चित्तानां प्रीतिरल्पे ऽपि भिद्यते ॥ 4.32.7 ॥

मित्रस्यास्थानकोषसम्भावनायां लोकन्यायमाह सर्वथेति । अल्पे, वैषम्य इति शेषः ॥ 4.32.7 ॥

अतो निमित्तं त्रस्तो ऽहं रामेण तु महात्मना ।

यन्ममोपकृतं शक्यं प्रतिकर्तुं न तन्मया ॥ 4.32.8 ॥

अत इति । महात्मना रामेण । मम यदुपकृतं तन्मया प्रति कर्तुं न शक्यम् । अतो निमित्तम् अस्मान्निमित्तात् त्रस्तो ऽहमिति सम्बन्धः ॥ 4.32.8 ॥

सुग्रीवेणैवमुक्तस्तु हनुमान् हरिपुङ्गवः ।

उवाच स्वेन तर्केण मध्ये वानरमन्त्रिणाम् ॥ 4.32.9 ॥

तर्केण ऊहेन ॥ 4.32.9 ॥

सर्वथा नैतदाश्चर्यं यस्त्वं हरिगणेश्वर ।

न विस्मरसि सुस्निग्धमुपकारकृतं शुभम् ॥ 4.32.10 ॥

राघवेण तु वीरेण भयमुत्सृज्य दूरतः ।

त्वत्प्रियार्थं हतो वाली शक्रतुल्यपराक्रमः ॥ 4.32.11 ॥

सर्वथा प्रणयात् क्रुद्धो राघवो नात्र संशयः ।

भ्रातरं सम्प्रहितवान् लक्ष्मणं लक्ष्मिवर्द्धनम् ॥ 4.32.12 ॥

त्वं प्रमत्तो न जानीषे कालं कालविदां वर ।

फुल्लसप्तच्छदश्यामा प्रवृत्ता तु शरच्छिवा ॥ 4.32.13 ॥

निर्मलग्रहनक्षत्रा द्यौः प्रनष्टबलाहका ।

प्रसन्नाश्च दिशः सर्वाः सरितश्च सरांसि च ॥ 4.32.14 ॥

प्राप्तमुद्योगकालं तु नावैषि हरिपुङ्गव ।

त्वं प्रमत्त इति व्यक्तं लक्ष्मणो ऽयमिहागतः ॥ 4.32.15 ॥

उपकारकृतम् उपकारकारिणम् ॥ 4.32.1015 ॥

आर्तस्य हृतदारस्य परुषं पुरुषान्तरात् ।

वचनं मर्षणीयं ते राघवस्य महात्मनः ॥ 4.32.16 ॥

आर्तस्येति । पुरुषान्तरात् लक्ष्मणात्, आगतमिति शेषः । अत्र मर्षणीयत्वे बहवो हेतव उपन्यस्यन्ते । हृतदारस्य परुषवचनं मर्षणीयम् । एवमार्तस्येत्यादौ । राघवस्य महात्मनः परमात्मनः, सर्वस्वामिन इत्यर्थः ॥ 4.32.16 ॥

कृतापराधस्य हि ते नान्यत् पश्याम्यहं क्षमम् ।

अन्तरेणाञ्जलिं बद्ध्वा लक्ष्मणस्य प्रसादनात् ॥ 4.32.17 ॥

अथापराधप्रायश्चितं विदधाति कृतेति । कृतापराधस्य न त्वारब्धापराधस्य अपराधारम्भकाले सानुतापो यदि लघुप्रायश्चितेन तदा तस्य परिहारः स्यात्, न तथा ऽभूः किन्तु निश्चयेन कृतापराधो ऽसि, तेन अञ्जलिं बद्ध्वा लक्ष्मणस्य प्रसादनादन्तरेण प्रसादनं विना अन्यत् क्षमम् अपराधपरिहारक्षमं साधनं न पश्यामि । “अञ्जलिः परमा मुद्रा क्षिप्रं देवप्रसादिनी” इति शास्त्रात् । लक्ष्मणस्येत्यनेन तदीयं प्रत्यञ्जलिरेव भगवदपचारपरिहारक इत्युक्तम्, “त्वदङ्घ्रिमुद्दिश्य” इतिवत् । ते इत्यनेनात्राधिकरिनियमो नास्तीत्युच्यते । अञ्जलिमित्येकवचनेन सकृत्करणमेवालमित्युक्तम् । बद्ध्वेत्यनेन देशकालनियमाभावः सूचितः । बद्ध्वा लक्ष्मणस्य प्रसादनादित्यनेन क्षिप्रं देवप्रसादिनीत्यस्यार्थः उक्तः ॥ 4.32.17 ॥

नियुक्तैर्मन्त्रिभिर्वाच्यो ह्यवश्यं पार्थिवो हितम् ।

अत एव भयं त्यक्त्वा ब्रवीम्यवधृतं वचः ॥ 4.32.18 ॥

किमेव मां प्रति हीनवृत्तमुपदिष्टवानसीत्यत्राह नियुक्तैःरिति ॥ 4.32.18 ॥

अभिक्रुद्धः समर्थो हि चापमुद्यम्य राघवः ।

सदेवासुरगन्धर्वं वशे स्थापयितुं जगत् ॥ 4.32.19 ॥

कथमिदं हितम्? तत्राह अभिक्रुद्ध इति ॥ 4.32.19 ॥

न स क्षमः कोपयितुं यः प्रसाद्यः पुनर्भवेत् ।

पूर्वोपकारं स्मरता कृतज्ञेन विशेषतः ॥ 4.32.20 ॥

हेत्वन्तरमाह न स इति ॥ 4.32.20 ॥

तस्य मूर्ध्ना प्रणम्य त्वं सपुत्रः ससुहृज्जनः ।

राजंस्तिष्ठ स्वसमये भर्तुर्भार्येव तद्वशे ॥ 4.32.21 ॥

अञ्जलिं बद्ध्वेत्युक्तं विवृणोति तस्येति स्वसमये तिष्ठ तद्वशे च तिष्ठ ॥ 4.32.21 ॥

न रामरामानुजशासनं त्वया कपीन्द्र युक्तं मनसाप्यपोहितुम् ।

मनो हि ते ज्ञास्यति मानुषं बलं सराघवस्यास्य सुरेन्द्रवर्चसः ॥ 4.32.22 ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे द्वात्रिंशः सर्गः ॥ 32 ॥

सुरेन्द्रवर्चसः सराघवस्व सलक्ष्मणस्य अस्य रामस्य मानुषं बलं दिव्यास्त्रादिबलमन्तरेण केवलं स्वाभाविकं बलं ते मनो ज्ञास्यति हि जानात्येव, सालगिरिभेदनादौ दृष्टचरत्वादिति भावः ॥ 4.32.22 ॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने द्वात्रिंशः सर्गः ॥ 32 ॥