०२९ हनुमत्-सुग्रीवसंवादः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे एकोनत्रिंशः सर्गः

समीक्ष्य विमलं व्योम गतविद्युद्बलाहकम् ।

सारसारवसङ्घुष्टं रम्यज्योत्स्नानुलेपनम् ॥ 4.29.1 ॥

समृद्धार्थं च सुग्रीवं मन्दधर्मार्थसङ्ग्रहम् ।

अत्यर्थमसतां मार्गमेकान्तगतमानसम् ॥ 4.29.2 ॥

निर्वृत्तकार्यं सिद्धार्थं प्रमदाभिरतं सदा ।

प्राप्तवन्तमभिप्रेतान् सर्वानेव मनोरथान् ॥ 4.29.3 ॥

स्वां च पत्नीमभिप्रेतां तारां चापि समीप्सिताम् ।

विहरन्तमहोरात्रं कृतार्थं विगतज्वरम् ॥ 4.29.4 ॥

क्रीडन्तमिव देवेशं नन्दने ऽप्सरसां गणैः ।

मन्त्रिषु न्यस्तकार्यं च मन्त्रिणामनवेक्षकम् ॥ 4.29.5 ॥

उत्सन्नराज्यसन्देशं कामवृत्तमवस्थितम् ।

निश्चितार्थो ऽर्थतत्त्वज्ञः कालधर्मविशेषवित् ॥ 4.29.6 ॥

प्रसाद्य वाक्यैर्मधुरैर्हेतुमद्भिर्मनोरमैः ।

वाक्यविद्वाक्यतत्त्वज्ञं हरीशं मारुतात्मजः ॥ 4.29.7 ॥

हितं तत्त्वं च पथ्यं च सामधर्मार्थनीतिमत् ।

प्रणयप्रीतिसंयुक्तं विश्वासकृतनिश्चयम् ।

हरीश्वरमुपागम्य हनुमान् वाक्यमब्रवीत् ॥ 4.29.8 ॥

अत हनुमान् रामभक्तो ऽपि स्वस्वाम्यनुज्ञाभावेन तं ध्यायन् सुग्रीवसमीप एव स्थितः स्वस्वामिना सर्वस्वामिहितानुगुणं कार्यमारब्धवानित्याहैकोनत्रिंशे समीक्ष्येत्यादि हनुमान्वाक्यमब्रवीदित्यन्तमेकं वाक्यम् । हनुमान् उक्तगुणविशिष्टं व्योम उक्तगुणविशिष्टं सुग्रीवं च समीक्ष्य । हरीशं प्रसाद्य हरीश्वरमुपागम्य प्रणयाद्वाक्यमब्रवीदिति सम्बन्धः । विमलमित्यादिना सेनासन्नाहस्य प्राप्तकालत्वमुक्तम् । समृद्धार्थमित्यादिना समयातिक्रमहेतवः प्रदर्श्यन्ते । समृद्धार्थं सम्पूर्णरत्नवस्त्राभरणादिकम् । मन्दः अल्पः धर्मार्थयोः सङ्ग्रहः सम्पादनं यस्य तम् । एकान्तगतमानसम् एकस्मिन् कामपुरुषार्थे अन्तं निश्चयं गतं मानसं यस्य तथोक्तम् । यद्वा असतां कामुकानां मार्गम् एकान्तगतम् अत्यन्तगतं मानसं यस्य स तथा । “तीव्रैकान्तनितान्तानि” इत्यमरः । निर्वृत्तकार्यं निष्पन्नवालिवधरूपकार्यम् । सिद्धार्थं प्राप्तराज्यम् । अभिप्रेतानीप्सितान् मनोरथान् राज्यप्राप्त्यनन्तरमेवं करिष्यामीति सङ्कल्पविषयीभूतानर्थान् तारां च प्राप्तवन्तमिति सम्बन्धः । कृतार्थं निष्पन्नधनम् ।

मन्त्रिणामनवेक्षकं मन्त्रिकृतकार्यापरामर्शकम् । उत्सन्नराज्यसन्देशं नष्टराज्यनियमनम् । कामवृत्तं कामव्यापारम् । अवस्थितं कामव्यापारपरतन्त्रतया ऽवस्थितमित्यर्थः । निश्चितार्थः निश्चितकर्तव्यः । अत्र हेतुः अर्थतत्त्वज्ञ इति । कालोचितो धर्मः कालधर्मः तद्विशेषवित् । वाक्यवित् तदुचितव्यवहारवित् । हितम् उदर्कसुखकरम् । तत्त्वं यथार्थम् । पथ्यं नीतिमार्गादनपेतम् । सामधर्मार्थनीतिमत् साम च धर्मश्च अर्थश्च नीतिश्च सामधर्मार्थनीति तदस्यास्तीति सामधर्मार्थनीतिमत् । प्रणयप्रीतिसंयुक्तम् प्रणयः समानविषयस्नेहः, प्रीतिः न्यूनविषयः । विश्वासकृतनिश्चयम् आप्तवाक्यत्वविश्वासे विषये कृतनिश्चयम् ॥ 4.29.18 ॥

राज्यं प्राप्तं यशश्चैव कौली श्रीरभिवर्धिता ।

मित्राणां सङ्ग्रहः शेषस्तं भवान् कर्तुमर्हति ॥ 4.29.9 ॥

राज्यमिति । कौली कुलक्रमागता श्रीः सम्पत् अभिवर्धिता, अप्रतिद्वन्दत्वादिति भावः । मित्राणां सङ्ग्रहः तत्कार्यकरणम् । शेषः अवशिष्टो भवति । इदमेव वचनं प्रसाद्य वाक्यैरित्यादिना पूर्वं प्रशंसितम् ॥ 4.29.9 ॥

यो हि मित्रेषु कालज्ञः सततं साधु वर्तते ।

तस्य राज्यं च कीर्तिश्च प्रतापश्चाभिवर्धते ॥ 4.29.10 ॥

मित्रकार्यस्यावश्यकर्तव्यत्वमाह यो हीति । कालज्ञः मित्रसङ्ग्रहकालज्ञः । तत्कालातिक्रमे विपरीतं भवतीत्यर्थः । मित्रेषु वर्तते, मित्राधीनो भवतीत्यर्थः ॥ 4.29.10 ॥

यस्य कोशश्च दण्डश्च मित्राण्यात्मा च भूमिप ।

समवेतानि सर्वाणि स राज्यं महदश्नुते ॥ 4.29.11 ॥

यस्येति । दण्ड्यते ऽनेनेति दण्डः सेनाविशेषः । आत्मा प्रभुरित्यर्थः । समवेतानि समुदितानि । एकन्यूनत्वे महाराज्यहानिरिति भावः ॥ 4.29.11 ॥

तद्भावन् वृत्तसम्पन्नः स्थितः पथि निरत्यये ।

मित्रार्थमभिनीतार्थं यथावत्कर्तुमर्हति ॥ 4.29.12 ॥

तदिति । निरत्यये अविनाशिनि । पथि सन्मार्ग इत्यर्थः । मित्रार्थं मित्रकार्यम् । अभिनीतार्थं प्रापितप्रयोजनं यथा भवति तथा । यथावत् यथाप्रतिज्ञमिति यावत् ॥ 4.29.12 ॥

सन्त्यज्य सर्वकर्माणि मित्रार्थे यो ऽनुवर्तते ।

सम्भ्रमाद्धि कृतोत्साहः सो ऽनर्थैर्नावरुध्यते ॥ 4.29.13 ॥

सन्त्यज्येति । सर्वकार्माणि स्वभोगसाधनानि सन्त्यज्य । कृतोत्साहः सन् सम्भ्रमात् आदरात् मित्रार्थे विषये यः अनुवर्तते अनुस्यूततया तिष्ठति, सो ऽनर्थैर्नावरुध्यते न सम्बध्यते ॥ 4.29.13 ॥

यस्तु कालव्यतीतेषु मित्रकार्येषु वर्तते ।

स कृत्वा महतोप्यर्थान्न मित्रार्थेन युज्यते ॥ 4.29.14 ॥

एवं कर्तव्यं मित्रकार्यमुचितकाले कर्तव्यमित्याह यस्त्विति । कालव्यतीतेषु अतिक्रान्तकालेषु ॥ 4.29.14 ॥

यदिदं वीर कार्यं नो मित्रकार्यमरिन्दम ।

क्रियतां राघवस्यैतद्वैदेह्याः परिमार्गणम् ॥ 4.29.15 ॥

यदिदमिति । हेवीर नः अस्माभिः । यदिदं मित्रकार्यं कर्तव्यम् एतत् वैदेह्याः परिमार्गणं क्रियतामिति सम्बन्धः ॥ 4.29.15 ॥

तदिदं वीरकार्यं ते कालतीतमरिन्दम ॥ 4.29.16 ॥

तदिदमिति । ते कार्यं त्वया कर्तव्यम् । इदं मित्रकार्यम् ॥ 4.29.16 ॥

न च कालमतीतं ते निवेदयति कालवित् ।

त्वरमाणो ऽपि सन् प्राज्ञस्तव राजन् वशानुगः ॥ 4.29.17 ॥

न चेति । कालवित्, राम इति शेषः । त्वरमाण इत्यर्धं पूर्वेणान्वेति । कालवित् प्राज्ञो रामः त्वरमाणो ऽपि सन् वैदेहीसमानयनाय त्वरमाणो ऽपि सन् न निवेदयतीति सम्बन्धः ॥ 4.29.17 ॥

कुलस्य हेतुः स्फीतस्य दीर्घबन्धुश्च राघवः ।

अप्रमेयप्रभावश्च स्वयं चाप्रतिमो गुणैः ॥ 4.29.18 ॥

कुलस्येति । स्वयं चेति, त्वमपि गुणैरप्रतिम इत्यर्थः ॥ 4.29.18 ॥

तस्य त्वं कुरु वै कार्यं पूर्वं तेन कृतं तव ।

हरीश्वर हरिश्रोष्ठानाज्ञापयितुमर्हसि ॥ 4.29.19 ॥

तस्येति । अज्ञापयितुम्, वानरसोनामानेतुमिति शेषः ॥ 4.29.19 ॥

न हि तावद्भवेत्कालो व्यतीतश्चेदनादृते ।

चोदितस्य हि कार्यस्य भवेत्कालव्यतिक्रमः ॥ 4.29.20 ॥

इदानीं वानरानयने ऽपि कालव्यतिक्रमस्तुल्य इत्याशङ्क्याह नहीति । चोदनादृते रामप्रेरणं विना । कालो न व्यतीतो भवेत्, रामचोदनानन्तरं कार्यं क्रियते चेत्तदा कालातिक्रमः, तच्चोदनात्पूर्वमस्माभिः कार्यप्रवर्तने न कालातिक्रमदोष इति भावः ॥ 4.29.20 ॥

अकर्तुरपि कार्यस्य भवान् कर्ता हरीश्वर ।

किं पुनः प्रतिकर्तुस्ते राज्येन च धनेन च ॥ 4.29.21 ॥

अकर्तुः अनुपकर्तुः ॥ 4.29.21 ॥

शक्तिमानपि विक्रान्तो वानरर्क्षगणेश्वर ।

कर्तुं दाशरथेः प्रीतिमाज्ञायां किं न सज्जसे ॥ 4.29.22 ॥

कामं खलु शरैः शक्तः सुरासुरमहोरगान् ।

वशे दाशरथिः कर्तुं त्वत्प्रतिज्ञां तु काङ्क्षते ॥ 4.29.23 ॥

शक्तिमानपीति । प्रीतिं कर्तुम् । आज्ञायाम् आज्ञापने । न सज्जसे नोद्योगं करोषि ॥ 4.29.22,23 ॥

प्राणत्यागाविशङ्केन कृतं तेन तव प्रियम् ।

तस्य मार्गाम वैदेहीं पृथिव्यामपि चाम्बरे ॥ 4.29.24 ॥

न देवा न च गन्धर्वा नासुरा न मरुद्गणाः ।

न च यक्षा भयं तस्य कुर्युः किमुत राक्षसाः ॥ 4.29.25 ॥

तदेवं शक्तियुक्तस्य पूर्वं प्रियकृतस्तव ।

रामस्यार्हसि पिङ्गेश कर्तुं सर्वात्मना प्रियम् ॥ 4.29.26 ॥

प्राणत्यागेति । प्राणत्यागाविशङ्केनेत्यनेन उपकारमहत्त्वं द्योतितम् ॥ 4.29.2426 ॥

नाधस्तादवनौ नाप्सु गतिर्नोपरि चाम्बरे ।

कस्यचित्सज्जते ऽस्माकं कपीश्वर तवाज्ञया ॥ 4.29.27 ॥

नाधस्तादिति । कस्यचिदिति अस्माकं मध्ये कस्यचिद्गनिर्न सज्जते न मन्दीभवति ॥ 4.29.27 ॥

तदाज्ञापय कः किं ते कृते कुत्र व्यवस्यतु ।

हरयो ह्यप्रधृष्यास्ते सन्ति कोट्यग्रतो ऽनघाः ॥ 4.29.28 ॥

तस्य तद्वचनं श्रुत्वा काले साधु निवेदितम् ।

सुग्रीवः सत्त्वसम्पन्नश्चकार मतिमुत्तमाम् ॥ 4.29.29 ॥

स सन्दिदेशाभिमतं नीलं नित्यकृतोद्यमम् ।

दिक्षु सर्वासु सर्वेषां सैन्यानामुपसङ्ग्रहे ॥ 4.29.30 ॥

तदिति । अप्रधृप्याः कोट्यग्रतः कोट्यधिकाः । हरयः ते सन्ति तेषां मध्ये कः । ते कृते त्वदर्थम् । किं, करोत्विति शेषः । कुत्र कुत्र कार्ये । व्यवस्यतु व्यवसायं करोतु । तदाज्ञापय ॥ 4.29.2830 ॥

यथा सेना समग्रा मे यूथपालाश्च सर्वशः ।

समागच्छन्त्यसङ्गेन सेनाग्राणि तथा कुरु ॥ 4.29.31 ॥

यथेति । सेनाग्राणि सेनाग्रेसरान्, सेनानेतृ़नित्यर्थः । तथा कुरु तथा आज्ञापय ॥ 4.29.31 ॥

ये त्वन्तपालाः प्लवगाः शीघ्रगा व्यवसायिनः ।

समानयन्तु ते सैन्यं त्वरिताः शासनान्म ।

स्वयं चानन्तरं सैन्यं भवानेवानुपश्यतु ॥ 4.29.32 ॥

ये त्विति । अन्तपालाः सेनापर्यन्तपालकाः ॥ 4.29.32 ॥

त्रिपञ्चरात्रादूर्ध्वं यः प्राप्नुयान्नेह वानरः ।

तस्य प्राणान्तिको दण्डो नात्र कार्या विचारणा ॥ 4.29.33 ॥

त्रिपञ्चेति । त्रिपञ्चरात्रादूर्ध्वं पञ्चदशरात्रादनन्तरदिवसे ॥ 4.29.33 ॥

हरींश्च वृद्धानुपयातु साङ्गदो भवान्ममाज्ञामधिकृत्य निश्चिताम् ।

इति व्यवस्थां हरिपुङ्गवेश्वरो विधाय वेश्म प्रविवेश वीर्यवान् ॥ 4.29.34 ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे एकोनत्रिंशः सर्गः ॥ 29 ॥

वृद्धान् जाम्बवत्प्रभृतीन् ॥ 4.29.34 ॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने एकोनत्रिंशः सर्गः ॥ 29 ॥