०२७ रामेण प्रस्रवणगिरिनिवासः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे सप्तविंशः सर्गः

अभिषिक्ते तु सुग्रीवे प्रविष्टे वानरे गुहाम् ।

आजगाम सह भ्रात्रा रामः प्रस्रवणं गिरिम् ॥ 4.27.1 ॥

शार्दूलमृगसङ्घुष्टं सिंहैर्भीमरवैर्वृतम् ।

नानागुल्मलतागूढं बहुपादपसङ्कुलम् ॥ 4.27.2 ॥

ऋक्षवानरगोपुच्छैर्मार्जारैश्च निषेवितम् ।

मेघराशिनिभं शैलं नित्यं शुचिजलाश्रयम् ॥ 4.27.3 ॥

तस्य शैलस्य शिखरे महतीमायतां गुहाम् ।

प्रत्यगृह्णत वासार्थं रामः सौमित्रिणा सह ॥ 4.27.4 ॥

अथ रामस्यैकान्तवाससमुद्भूतसीताविरहशोकप्रशमनं लक्ष्मणेन क्रियते सप्तविंशे अभिषिक्त इत्यादि । शैलं शिलामयमिति मृच्छिलोभयमयगिरिभ्यो व्यावृत्तिः । अतो न गिरिं शैलमिति पुनरुक्तिः ॥ 4.27.14 ॥

कृत्वा च समयं सौम्यः सुग्रीवेण सहानघः ।

कालयुक्तं महद्वाक्यमुवाच रघुनन्दनः ।

विनीतं भ्रातरं भ्राता लक्ष्मणं लक्ष्मिवर्धनम् ॥ 4.27.5 ॥

कृत्वेति । कालयुक्तं तत्कालोचितम् ॥ 4.27.5 ॥

इयं गिरिगुहा रम्या विशाला युक्तमारुता ।

अस्यां वसाव सौमित्रे वर्षरात्रमरिन्दम ॥ 4.27.6 ॥

युक्तमारुता उचितमारुता, यावदपेक्षमारुतेत्यर्थः । वसाव, लोडुत्तमद्विवचनम् । वर्षरात्रमिति अच् समासान्त आर्षः । जात्येकवचनम् ॥ 4.27.6 ॥

गिरिशृङ्गमिदं रम्यमुन्नतं पार्थिवात्मज ।

श्वेताभिः कृष्णताम्राभिः शिलाभिरुपशोभितम् ॥ 4.27.7 ॥

नानाधातुसमाकीर्णं दरीनिर्झरशोभितम् ।

विविधैर्वृक्षषण्डैश्च चारुचित्रलतावृतम् ॥ 4.27.8 ॥

नानाविहगसङ्घुष्टं मयूररवनादितम् ।

मालतीकुन्दगुल्मैश्च सिन्दुवारकुरण्टकैः ॥ 4.27.9 ॥

कदम्बार्जुनसर्जैश्च पुष्पितैरुपशोभितम् ॥ 4.27.10 ॥

गिरिशृङ्गमित्यादि । कदम्बाः अर्जुनाः नदीसर्जाः ॥ 4.27.710 ॥

इयं च नलिनी रम्या फुल्लपङ्कजमण्डिता ।

नातिदूरे गुहाया नौ भविष्यति नृपात्मज ॥ 4.27.11 ॥

इयं चेति । नातिदूरे भविष्यतीत्यनेन वर्षाकालस्य प्रवृत्तत्वाद्भाविजलसमृद्ध्या समीपवर्तिनी भविष्यतीत्यर्थः ॥ 4.27.11 ॥

प्रागुदक्प्रवणे देशे गुहा साधु भविष्यति ।

पश्चाच्चैवोन्नता सौम्य निवातेयं भविष्यति ॥ 4.27.12 ॥

प्रागुदक्प्रवणे देशे वर्तमाना गुहा साधु भविष्यति । प्रागुदक्प्रवणे देशे वर्तमानत्वाभिधानाद्गुहाया नैर्ऋत्याभिमुखद्वारत्वमुक्तम् । अत एव पौरस्त्यवर्षप्रवेशाभावेन साधुत्वमुक्तं भवति । इयं पश्चादुन्नता पश्चाद्भागोन्नता । अत एव पुरोवातनिरोधकत्वान्निवाता च भविष्यति ॥ 4.27.12 ॥

गुहाद्वारे च सौमित्रे शिला समतला शुभा ।

श्लक्ष्णा चैवायता चैव भिन्नाञ्जनचयोपमा ॥ 4.27.13 ॥

गुहाद्वारे चेति । अस्मिन् श्लोके वर्तत इति शेषः ॥ 4.27.13 ॥

गिरिशृङ्गमिदं तात पश्य चोत्तरतः शुभम् ।

भिन्नाञ्जनचयाकारमम्भोधरमिवोत्थितम् ॥ 4.27.14 ॥

दक्षिणस्यामपि दिशि स्थितं श्वेतमिवापरम् ।

कैलासशिखरप्रख्यं नानाधातुविभूषितम् ॥ 4.27.15 ॥

गिरिशृङ्गमित्यादि । श्वेतमिव रूप्यमिव । ” दुर्वर्णं रजतं रूप्यं खर्जूरं श्वेतम्” इत्यमरः । अपरं शृङ्गं पश्येति पूर्वेणान्वयः ॥ 4.27.14,15 ॥

प्राचीनवाहिनीं चैव नदीं भृशमकर्दमाम् ।

गुहायाः पूर्वतः पश्य त्रिकूटे जाह्नवीमिव ॥ 4.27.16 ॥

चम्पकैस्तिलैस्तालैस्तमालैरतिमुक्तकैः ।

पद्मकैः सरलैश्चैव अशोकैश्चैव शोभिताम् ॥ 4.27.17 ॥

वानीरैस्तिमिशैश्चैव वकुलैः केतकैर्धवैः ।

हिन्तालैस्तिरिटैर्नीपैर्वेत्रकैः कृतमालकैः ॥ 4.27.18 ॥

तीरजैः शोभिता भाति नानारूपैस्ततस्ततः ।

वसनाभरणोपेता प्रमदेवाभ्यलङ्कृता ॥ 4.27.19 ॥

प्राचीनवाहिनीमित्यादि । अतिमुक्तकैः पुण्ड्रकैः, पद्मकैः पद्मपर्णाख्यवृक्षविशेषैः, सरलैः यूपसरलैः, तिमिशैः स्यन्दनैः । “तिमि(नि)शे स्यन्दनो नेमिः” इत्यमरः । धवैः धुन्धुरैः, हिंतालैः लताङ्कुराख्यवृक्षैः । “अथ स्याल्लताङ्कुरः । हिन्तालस्तृणराजश्च” इति वैजयन्ती । तिरिटैः तिल्ववृक्षैः । “तिरिटस्तिल्वमार्जनै” इत्यमरः । वैत्रकैरिति सम्यक् ॥ 4.27.1619 ॥

शतशः पक्षिसङ्घैश्च नानानादैर्विनादिता ।

एकैकमनुरक्तैश्च चक्रवाकैरलङ्कृता ॥ 4.27.20 ॥

पुलिनैरतिरम्यैश्च हंससारससेवितैः ।

प्रहसन्तीव भात्यैषा नारी सर्वविभूषिता ॥ 4.27.21 ॥

क्वचिन्नीलोत्पलच्छन्ना भाति रक्तोत्पलैः क्वचित् ।

क्वचिदाभाति शुक्लैश्च दिव्यैः कुमुदकुड्मलैः ॥ 4.27.22 ॥

एकैकमनुरक्तैः अन्योन्यानुरागयुक्तैः ॥ 4.27.2022 ॥

पारिप्लवशतैर्जुष्टा बर्हिणक्रौञ्चनादिता ।

रमणीया नदी सौम्य मुनिसङ्घैर्निषेविता ॥ 4.27.23 ॥

पारिप्लवैः जलोपरिसञ्चारिपक्षिविशेषैः ॥ 4.27.23 ॥

पश्य चन्दनवृक्षाणां पड्क्तीः सुरचिता इव ।

ककुभानां च दृश्यन्ते मनसेवोदिताः समम् ॥ 4.27.24 ॥

पश्येति । सुरचिता इव मालारूपेण ग्रथिता इव ककुभानाम् अर्जुनवृक्षाणां दृश्यन्ते, पङ्क्तय इति शेषः । मनसेवोदिताः सममिति मनसा सङ्कल्पेन समं युगपत् उदिता इव स्थिताः ॥ 4.27.24 ॥

अहो सुरमणीयो ऽयं देशः शत्रुनिषूदन ।

दृढं रंस्याव सौमित्रे साध्वत्र निवसावहै ॥ 4.27.25 ॥

रंस्याव रंस्यावहे । अतः अत्र गिरौ निवसावहै निवसाव ॥ 4.27.25 ॥

इतश्च नातिदूरे सा किष्कन्धा चित्रकानना ।

सुग्रीवस्य पुरी रम्या भविष्यति नृपात्मज ॥ 4.27.26 ॥

अत्र वासे क्रियमाणे किष्किन्धा च समीपवर्तिनी भविष्यतीत्याह इतश्चेति ॥ 4.27.26 ॥

गीतवादित्रनिर्घोषः श्रूयते जयतां वर ।

नर्दतां वानराणां च मृदङ्गाडम्बरैः सह ॥ 4.27.27 ॥

लब्ध्वा भार्यां कपिवरः प्राप्य राज्यं सुहृद्वृतः ।

ध्रुवं नन्दति सुग्रीवः सम्प्राप्य महतीं श्रियम् ॥ 4.27.28 ॥

गीतेति । मृदङ्गाङम्बरैः सह नर्दतां वानराणां निर्घोषः श्रूयत इत्यन्वयः ॥ 4.27.27,28 ॥

इत्युक्त्वा न्यवसत्तत्र राघवः सहलक्ष्मणः ।

बहुदृश्यदरीकुञ्जे तस्मिन् प्रस्रवणे गिरौ ॥ 4.27.29 ॥

तत्र गुहायाम् । कुञ्जः लतागृहम् ॥ 4.27.29 ॥

सुसुखेपि बहुद्रव्ये तस्मिन् हि धरणीधरे ।

वसतस्तस्य रामस्य रतिरल्पापि नाभवत् ।

हृतां हि भार्यां स्मरतः प्राणेभ्यो ऽपि गरीयसीम् ॥ 4.27.30 ॥

सुसुखेपीति । बहुद्रव्ये बहुपुष्पफलादिधने ॥ 4.27.30 ॥

उदयाभ्युदितं दृष्ट्वा शशाङ्कं च विशेषतः ।

आविवेश न तं निद्रा निशासु शयनं गतम् ॥ 4.27.31 ॥

उदयेति । उदयाभ्युदितम् उदयपर्वतादुद्गतम् ॥ 4.27.31 ॥

तत्समुत्थेन शोकेन बाष्पोपहतचेतसम् ।

तं शोचमानं काकुत्स्थं नित्यं शोकपरायणम् ॥ 4.27.32 ॥

तुल्यदुःखो ऽब्रवीद्भ्राता लक्ष्मणो ऽनुनयन् वचः ॥ 4.27.33 ॥

अलं वीर व्यथां गत्वा न त्वं शोचितुमर्हसि ।

शोचतो व्यवसीदन्ति सर्वार्था विदितं हि ते ॥ 4.27.34 ॥

तत्समुत्थेनेत्यादि । “लक्ष्मणो ऽनुनयन् वचः” इति पाठः ॥ 4.27.3234 ॥

भवान् क्रियापरो लोके भवान् दैवपरायणः ।

आस्तिको धर्मशीलश्च व्यवसायी च राघव ॥ 4.27.35 ॥

क्रियापर इत्यनेन कार्यसिद्धिहेतुभूतपुरुषकारवत्त्वमुक्तम् । दैवपरायण इत्यनेन कार्यसिद्धिहेतुभूतदेवतानिष्ठतोक्ता ॥ 4.27.35 ॥

न ह्यव्यवसितः शुत्रुं राक्षसं तं विशेषतः ।

समर्थस्त्वं रणे हन्तुं विक्रमैर्जिह्मकारिणम् ॥ 4.27.36 ॥

समुन्मूलय शोकं त्वं व्यवसायं स्थिरं कुरु ।

ततः सपरिवारं तं निर्मूलं कुरु राक्षसम् ॥ 4.27.37 ॥

अव्यवस्थितः धैर्यरहित इत्यर्थः । रणे विक्रमैर्हन्तुं न समर्थ इत्यन्वयः ॥ 4.27.36,37 ॥

पृथिवीमपि काकुत्स्थ ससागरवनाचलाम् ।

परिवर्तयितुं शक्तः किमङ्ग पुन रावणम् ॥ 4.27.38 ॥

शरत्कालं प्रतीक्षस्व प्रावृट्कालो ऽयमागतः ।

ततः सराष्ट्रं सगणं रावणं त्वं वधिष्यसि ॥ 4.27.39 ॥

परिवर्तयितुम् अधरोत्तरं कर्तुम् । अङ्गेति सम्बोधनम् । पुनरित्यत्र दीर्घाभाव आर्षः ॥ 4.27.38,39 ॥

अहं तु खलु ते वीर्यं प्रसुप्तं प्रतिबोधये ।

दीप्तैराहुतिभिः काले भस्मच्छन्नमिवानलम् ॥ 4.27.40 ॥

लक्ष्मणस्य तु तद्वाक्यं प्रतिपूज्य हितं शुभम् ।

राघवः सुहृदं स्निग्धमिदं वचनमब्रवीत् ॥ 4.27.41 ॥

दीप्तैः ज्वलनकरैः उद्बोधकैः, वाक्यैरिति शेषः ॥ 4.27.40,41 ॥

वाच्यं यदनुरक्तेन स्निग्धेन च हितेन च ।

सत्यविक्रमयुक्तेन तदुक्तं लक्ष्मण त्वया ॥ 4.27.42 ॥

एष शोकः परित्यक्तः सर्वकार्यावसादकः ।

विक्रमेष्वप्रतिहतं तेजः प्रोत्साहयाम्यहम् ॥ 4.27.43 ॥

शरत्कालं प्रतीक्षिष्ये स्थितो ऽस्मि वचने तव ।

सुग्रीवस्य नदीनां च प्रसादमनुपालयन् ॥ 4.27.44 ॥

अनुरक्तेन अनुरागयुक्तेन स्निगन्धेन तत्कालोचितप्रियपरेण हितेन हितपरेण सत्यविक्रमयुक्तेन अमोघविक्रमयुक्तेन यद्वाच्यं तत्सर्वं त्वयोक्तमिति सम्बन्धः ॥ 4.27.4244 ॥

उपकारेण वीरस्तु प्रतिकारेण युज्यते ।

अकृतज्ञो ऽप्रतिकृतो हन्ति सत्त्ववतां मनः ॥ 4.27.45 ॥

उपकारेणेति । तुशब्दो ऽवधारणे । उपकारेण युक्तो वीरः प्रतिकारेण युज्यत एव, प्रत्युपकारं करोत्येवेत्यर्थः । अप्रतिकृतः अकृतप्रत्युपकारः पुरुषः सत्त्ववतां सात्त्विकानां मनः हन्ति पीडयति, सात्त्विकास्तमजस्रं निन्दन्तीत्यर्थः । सज्जनापवादभीतः सुग्रीवो ऽस्माकं प्रत्युपकारं करोत्येवेति भावः ॥ 4.27.45 ॥

अथैवमुक्तः प्रणिधाय लक्ष्मणः कृताञ्जलिस्तत्प्रतिपूज्य भाषितम् ।

उवाच रामं स्वभिरामदर्शनं प्रदर्शयन् दर्शनमात्मनः शुभम् ॥ 4.27.46 ॥

प्रणिधाय भाविकार्यमालोच्य दर्शनं मतम्, प्रणिधानेन दृष्टार्थमित्यर्थः ॥ 4.27.46 ॥

यथोक्तमेतत्तव सर्वमीप्सितं नरेन्द्र कर्ता नचिराद्धरीश्वरः ।

शरत्प्रतीक्षः क्षमतामिमं भवान् जलप्रपातं रिपुनिग्रहे धृतः ॥ 4.27.47 ॥

न चिरात् अविलम्बितम् । जलानि प्रपात्यन्ते ऽस्मिन्निति (प्रपतन्त्यस्मिन्निति) जलप्रपातो वर्षाकालः । भवान् क्षमतां त्वं क्षमस्व । वर्षाकालकृतविरहवेदनां मा कुर्वित्यर्थः । रिपुनिग्रहे धृतः धैर्ययुक्तः ॥ 4.27.47 ॥

नियम्य कोपं प्रतिपाल्यतां शरत्क्षमस्व मासांश्चतुरो मया सह ।

वसाचले ऽस्मिन्मृगराजसेविते संवर्धयन् शत्रुवधे समुद्यमम् ॥ 4.27.48 ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे सप्तविंशः सर्गः ॥ 27 ॥

सुग्रीवः प्रत्युपकारं करोतु वा मा वा, सद्यः शत्रुवधः कर्तव्य इति पुनः सञ्जातकोपं रामं प्रत्याह नियम्येति । चतुरो मासान् आषाढश्रावणभाद्रपदाश्वयुजान् । शरत् कार्तिकमासः । शत्रुवधे समुद्यमम् उत्साहम् । संवर्धयन् अभिवर्धयन् । समुद्यत इति पाठे संवर्तयन् मृगराजादीन्नाशयन् ॥ 4.27.48 ॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने सप्तविंशः सर्गः ॥ 27 ॥