०४१ मारीचोपदेशः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे एकचत्वारिंशः सर्गः

आज्ञप्तो ऽराजवद्वाक्यं प्रतिकूलं निशाचरः ।

अब्रवीत् परुषं वाक्यं मरीचो राक्षसाधिपम् ॥ 3.41.1 ॥

येन सर्वात्मना वर्ज्यं प्रातिकूल्यं हितैषिणाम् । सर्वलोकानुकूलं तमाश्रये रघुनायकम् ॥ आज्ञप्त इत्यादि । अराजवत् यदा रामप्रातिकूल्ये प्रवृत्तस्तदैव राजत्वं गतमिति मुनेराशयः । यद्वा राजवत् राजार्हं “तदर्हम्” इत्यर्हार्थं वतिः । यद्वा राजवदिति पूर्वसर्गोक्तमौद्धत्यं लक्ष्यते । वाक्यं वाक्यार्थानुष्ठानं मृगरूपमासाद्य त्वया गन्तव्यमित्येवंरूपं प्रतीत्यर्थः । यद्वा प्रतिकूलं वाक्यम् आज्ञप्तः चोदितः उक्त इत्यर्थः ॥ 3.41.1 ॥

केनायमुपदिष्टस्ते विनाशः पापकर्मणा ।

सपुत्रस्य सराष्ट्रस्य सामात्यस्य निशाचर ॥ 3.41.2 ॥

विनाशः विनाशोपायः ॥ 3.41.2 ॥

कस्त्वया सुखिना राजन्नाभिनन्दति पापकृत् ।

केनेदमुपदिष्टं ते मुत्युद्वारमुपायतः ॥ 3.41.3 ॥

सुखिना त्वया, अवस्थानमिति शेषः । मृत्युद्वारं मृत्युद्वारतुल्यमिदं कार्यम् । उपायतः व्याजेन ॥ 3.41.3 ॥

शत्रवस्तव सुव्यक्तं हीनवीर्या निशाचराः ।

इच्छन्ति त्वां विनश्यन्तमुपरुद्धं बलीयसा ॥ 3.41.4 ॥

बलीयसा रामेण । उपरुद्धम् आक्रान्तम् । अत एव विनश्यन्तं त्वामिच्छन्ति त्वद्विनाशं रामविरोधमुखेनेच्छन्तीत्यर्थः ॥ 3.41.4 ॥

केनेदमुपदिष्टं ते क्षुद्रेणाहितवादिना ।

यस्त्वामिच्छति नश्यन्तं स्वकृतेन निशाचर ॥ 3.41.5 ॥

न केवलं शत्रवः तत्रापि क्षुद्रा एवेदं कार्यमिच्छन्तीत्याह केनेति । स्वकृतेन त्वत्कृताकृत्येन ॥ 3.41.5 ॥

वध्याः खलु न हन्यन्ते सचिवास्तव रावण ।

ये त्वामुत्पथमारुढं न निगृङ्णन्ति सर्वशः ॥ 3.41.6 ॥

ये उत्पथं लोकशास्त्रविरुद्धमार्गम् । आरूढं प्रविष्टं त्वां न निगृह्णन्ति तस्मान्मार्गान्न निवर्तयन्ति ते सचिवाः वध्याः वधार्हाः ॥ 3.41.6 ॥

अमात्यैः कामवृत्तो हि राजा कापथमाश्रितः ।

निग्राह्यः सर्वथा सद्भिर्न निग्राह्यो निगृह्यसे ॥ 3.41.7 ॥

एतदुपयुक्तत्वेन सचिवकर्तव्यं दर्शयन् प्रकृते तदभावं चतुर्थपादेनाह अमात्यैरिति । कापथं कुमार्गम् । निग्राह्यः निवर्तनीयः ॥ 3.41.7 ॥

धर्ममर्थं च कामं च यशश्च जयतां वर ।

स्वामिप्रसादात् सचिवाः प्राप्नुवन्ति निशाचर ॥ 3.41.8 ॥

स्वामिप्रसादात् स्वामिनः प्रसन्नभावात्, स्वामिसाद्गुण्यादित्यर्थः ॥ 3.41.8 ॥

विपर्यये तु तत्सर्वं व्यर्थं भवति रावण ।

व्यसनं स्वामिवैगुण्यात् प्राप्नुवन्तीतरे जनाः ॥ 3.41.9 ॥

विपर्यये स्वामिवैगुण्ये । स्वामिवैगुण्यान्न केवलममात्या एव नश्यन्ति किन्तु तदितरे ऽपि जना इत्याह व्यसनमिति ॥ 3.41.9 ॥

राजमूलो हि धर्मश्च जयश्च जयतां वर ।

तस्मात्सर्वास्ववस्थासु रक्षितव्या नराधिपाः ॥ 3.41.10 ॥

उक्तमर्थमुपसंहरति तस्मादिति ॥ 3.41.10 ॥

राज्यं पालयितुं शक्यं न तीक्ष्णेन निशाचर ।

न चापि प्रतिकूलेन नाविनीतेन राक्षस ॥ 3.41.11 ॥

तीक्ष्णेन क्रूरदण्डेन । प्रतिकूलेन प्रजाविरुद्धेन । अविनीतेन इन्द्रियजयरहितेन । “विनयो हीन्द्रियजयः” इति कामन्दकः ॥ 3.41.11 ॥

ये तीक्ष्णमन्त्राः सचिवा भज्यन्ते सह तेन वै ।

विषमे तुरगाः शीघ्रा मन्दसारथयो यथा ॥ 3.41.12 ॥

तीक्ष्णमन्त्राः तीक्ष्णोपायप्रयोक्तारः । तेन स्वमन्त्रग्राहिणा राज्ञा सह । विषमे निम्नोन्नतप्रदेशे । शीघ्रगास्तुरगाः मन्दसारथयः अपटुसारथयः सन्तः । यथा सारथिना सह नश्यन्ति नथेत्यर्थः ॥ 3.41.12 ॥

बहवः साधवो लोके युक्ता धर्ममनुष्ठिताः ।

परेषामपराधेन विनष्टाः सपरिच्छदाः ॥ 3.41.13 ॥

उत्तरश्लोके वक्ष्यमाणस्य सामान्यन्यायं दर्शयति बहव इति । साधवो धर्मज्ञाः । युक्ताः नीतिमार्गनिष्ठाः । धर्मम् अनुष्ठिताः अनुष्ठितवन्तः । “गत्यर्थाकर्मक” इत्यादिना कर्तरिक्तः । सपरिच्छदाः सपरिवाराः ॥ 3.41.13 ॥

स्वामिना प्रतिकूलेन प्रजास्तीक्ष्णेन रावण ।

रक्ष्यमाणा न वर्धन्ते मेषा गोमायुना यथा ॥ 3.41.14 ॥

गोमायुना क्रोष्ट्रा । स हि मेषघातुक इति प्रसिद्धिः ॥ 3.41.14 ॥

अवश्यं विनशिष्यन्ति सर्वे रावण राक्षसाः ।

येषां त्वं कर्कशो राजा दुर्बुद्धिरजितेन्द्रियः ॥ 3.41.15 ॥

कर्कशः क्रूरबुद्धिः ॥ 3.41.15 ॥

तदिदं काकतालीयं घोरमासादितं मया ।

अत्रैव शोचनीयस्त्वं ससैन्यो विनशिष्यसि ॥ 3.41.16 ॥

काकतालीयं यादृच्छिकम् । घोरं भयङ्करमिदं कृत्यं मया आसादितं ततो नाहं शोच्यः, नहि प्रमादविपन्नः शोच्य इति भावः । यद्वा ससैन्यस्त्वं विनशिष्यसीत्यत्रैव कृत्ये त्वं मे शोचनीयः बुद्धिपूर्वकारी त्वमेव हि शोच्य इति भावः । यद्वा ससैन्यो विनशिष्यसीति यत् तदिदं काकतालीयं घोरं कार्यं त्वया आसादितम् । अत्रैव मया त्वं शोचनीयः । हन्त दैवान्महाननर्थो राज्ञ उपस्थित इति शोचामीत्यर्थः ॥ 3.41.16 ॥

मां निहत्य तु रामश्च नचिरात्त्वां वधिष्यति ।

अनेन कृतकृत्यो ऽस्मि म्रिये यदरिणा हतः ॥ 3.41.17 ॥

दर्शनादेव रामस्य हतं मामुपधारय ।

आत्मानं च हतं विद्धि हृत्वा सीतां सबान्धवम् ॥ 3.41.18 ॥

आनयिष्यसि चेत् सीतामाश्रमात् सहितो मया ।

नैव त्वमसि नाहं च नैव लङ्का न राक्षसाः ॥ 3.41.19 ॥

त्वयि विद्यमाने मम का हानिरित्यत्राह मामिति । नचिरात् क्षणेनैव । अहं न शोयनीय इत्यत्र हेतुमाह अनेनेति । तवारिणा रामेण हतो म्रिये इति यत् अनेन हेतुना कृतकृत्यो ऽस्मि । विश्वामित्रयागसंरक्षणप्रभृतिखरादिवधान्तातिमानुषचारित्रानुस्मृतिकृतासाधारणमहिमस्फूर्त्या राघवं परमपुरुषं निश्चितवतो मम तत्करप्रापितमरणस्य परमपुरुषार्थत्वादिति भावः । तथोक्तं नृसिंहपुराणे “रामादपि हि मर्तव्यं मर्तव्यं रावणादपि । उभयोरपि मर्तव्ये वरं रामान्न रावणात् ॥” इति। यद्वा त्वत्तो निरुपाधिकवधाच्छत्रुहस्ताद्वधो निःश्रेयसकर इति भावः ॥ 3.41.1719 ॥

निवार्यमाणस्तु मया हितैषिणा न मृष्यसे वाक्यमिदं निशाचर ।

परेतकल्पा हि गतायुषो नरा हितं न गृह्णन्ति सुहृद्भिरीरितम् ॥ 3.41.20 ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे एकचत्वारिंशः सर्गः ॥ 41 ॥

उक्तमर्थं न्यायप्रदर्शनेन प्रतिपादयति निवार्यमाण इति । हिर्हेतौ । यस्मात् गतायुषो नराः हितं न गृह्णन्ति तस्माद्वाक्यमिदं न मृष्यसे न सहसे, गतायुष्कत्वाद्धितं न गृह्णासीत्यर्थः । परेतकल्पाः आसन्नमरणाः । ईषदसमाप्तौ कल्पप्प्रत्ययः ॥ 3.41.20 ॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने एकचत्वारिंशः सर्गः ॥ 41 ॥