०७५ राम-लक्ष्मणयोः पम्पादर्शनम्

शबरीस्वर्गगमनानन्तरकालिकं रामवृत्तान्तमाह–दिवमित्यादिभिः । शबर्यां दिवं यातायां सत्यां राघवः चिन्तयामास मुनिप्रभावं प्रशंसयामासेत्यर्थः ॥ ३।७५।१ ॥

चिन्तयित्वेति । महात्मनां प्रभावं चिन्तयित्वा एकाग्रं समीहितचित्तं लक्ष्मणं राघवो ऽब्रवीत् ॥ ३।७५।२ ॥

तद्वचनाकारमाह–दृष्ट इति । बह्वाश्चर्यः अनेकविधाश्चर्यविशिष्टः विश्वस्ताः मृगशार्दूला यस्मिन्स कृतात्मनां परिशीलितपरमात्मनां मुनीनामाश्रमो मया दृष्टः ॥ ३।७५।३ ॥

सप्तानामिति । तेषां मुनिभिरानीतानां सप्तसमुद्राणां तीर्थेषु जलेषु विधिवत् उपस्पृष्टं स्नातं पितरस्तर्पिताश्च ॥ ३।७५।४ ॥

प्रणष्टमिति । अशुभं सीतापहरणजनितसंतापः प्रणष्टम् इदानीं नानुभूयते अत एव कल्याण्ां सीतासंयोगजनितसुखं समुपस्थितं समीपे प्राप्तं तेन हेतुना एतत् मे मनः प्रहृष्टम् अत एव शुभं प्रियासंयोगजनितसुखम् आविर्भविष्यति तत् तस्मात् हेतोः आगच्छ मत्समीपमिति शेषः । तत्प्रयोजनमाह–नातिदूरे इतः समीपे यत्र यस्यास्तीरे यस्मिन् अंशुमतः सुग्रीवो वालिभयात्त्रस्त उद्विग्नः सन् चतुर्भिर्वानरैः सह वसति स ऋष्यमूको गिरिः प्रकाशते तां पम्पां गमिष्यावः । सार्धश्लोकत्रयमेकान्वयि ॥ ३।७५।५७ ॥

अहमिति । तं कबन्धेन समादिष्टं सुग्रीवं द्रष्टुमहं त्वरे हि यतः मे कार्यं सीतायाः परिमार्गणमन्वेषणं तदधीनं सुग्रीवायत्तम् । अर्धद्वयमेकान्वयि ॥ ३।७५।८ ॥

इतीति । इति ब्रुवाणं रामं ममा ऽपि मनस्त्वरते अतस्त्वरितं गच्छावः इदं सौमित्रिरब्रवीत् ॥ ३।७५।९ ॥

आश्रमादिति । ततः लक्ष्मणोक्त्यनन्तरं विशां प्रजानां पतिः प्रभुः रामः तस्मादाश्रमान्निष्क्रम्य पुष्पाढ्यं विपुलद्रुमं बहुद्रुमविशिष्टं वनं समीक्षमाणः सन् लक्ष्मणेन सह ततः तां पम्पां जगाम प्राप । सार्धश्लोक एकान्वयी ॥ ३।७५।१०११ ॥

कोयष्टिकैरिति । कोयष्टिकादिभिर्नादितं तत्पम्पासंबन्धि महद्वनं सुसमाहितौ अत एव अव्यग्रौ राघवौ समाजग्मतुः । सार्धश्लोक एकान्वयी ॥ ३।७५।१२ ॥

तत्र कोयष्टिकाः टिट्टिभकाः अर्जुनका मयूराः ऽअर्जुनः ककुभे पार्थे कार्तवीर्यमयूरयोःऽ इति मेदिनी । शतपत्रा दार्वाघाटकाः कीरकाः शुकाः । स इति । विविधान् अनेकप्रकारान्वृक्षादीन् पश्यन् कामाभिसंतप्तः सीतासंगमविषयकातीच्छावान् स रामः परमं मतङ्गसंबन्धित्वेन अत्युत्कृष्टं ह्रदं पम्पैकदेशवर्ति दहरं जगाम ॥ ३।७५।१३ ॥

स इति । स रामः दूरात् दूरदेशं पानीयवाहिनीं पानयोग्यजलवहनशीलां तां पम्पाम् आसाद्य प्राप्य मतङ्गसरसं नाम ह्रदं पम्पैकदेशवर्ति दहरं समवगाहत पानीयवाहिनीमित्यनेन तस्याः स्रोतोविशिष्टात्वं व्यक्तं मतङ्गसरसमित्यत्र ऽअनोश्मायः सरसां जातिसंज्ञयोःऽ इत्यच् ॥ ३।७५।१४ ॥

स इति । शोकसमाविष्टः स रामः पङ्कजैः समावृतां तिलकादिभिः प्रकाशितां रम्यां पवनसंबाधां रमणीयानेकविधोपवननिबिडां पद्मसंपीडितोदकां पद्मपुष्पमिश्रोदकविशिष्टां स्फटिकोपमतोयां स्फटिकमणिसदृशतोयविशिष्टां श्लक्ष्णवालुकसंततां स्वच्छवालुकैर्विशिष्टां मत्स्यकच्छपसंबाधां मत्स्यादिनिबिडां तीरस्थद्रुमैः शोभितां लताभिः अनुवेष्टिताम् अत एव सखीभिरिव संयुक्तां किंनरादिभिः संचितां नानाद्रुमलताकीर्णाम् अनुक्तानेकविधतरुलतासंयुक्तां शीतवारिनिधिं शीतैर्वारिभिः पूर्णां पद्मसौगन्धिकैः अरुणकमलैः ताम्रामरुणां कुमुदमण्डलैः शुक्लां कुवलयोद्घाटैः नीलकमलसमूहैः नीलाम् अत एव बहुवर्णां कुथां करिकम्बलमिव अरविन्दोत्पलवतीं अरविन्दोत्पलयोर्जातिविशेषैरपि विशिष्टां पद्मसौगन्धिकजातिविशेषैर्विशिष्टां पुष्पिताम्रवनैरुपेतां बर्हिणां मयूराणामुद्घुष्टैः शब्दैः नादितां नलिनीं सरसीं पम्पां विवेश । त्रयोदशानामर्धानामेकान्वयित्वम् ॥ ३।७५।१५२१ ॥

स इति । सौमित्रिणा सह रामो ऽभिरामदाता रामो विललाप ॥ ३।७५।२२ ॥

तिलकैरिति । तिलकादिभिः अन्यश्च वृक्षैः शोभितां प्रमदामिव तां पम्पाम् आसाद्य महामनाः अपि रामः विषसाद सीतावियोगेन विषादं प्राप । अर्धषट्कमेकान्वयि ॥ ३।७५।२३२५ ॥

अस्या इति । पूर्वोक्तः कबन्धेन पूर्वं वर्णितः धातुमण्डितः अनेकधातुभिः शोभितः ऋष्यमूक इति ख्यातः अस्याः पम्पायास्तीरे यो ऽयं पर्वतः तं पर्वतम् ऋक्षरजोनाम्नः महात्मनः तस्य पुत्रः सुग्रीव इति विश्रुतः महीवीर्यः हरिर्वानरः अध्यास्ते तत्र वसतीत्यर्थः, तं वानरेन्द्रं सुग्रीवं नरर्षभ हे लक्ष्मण त्वमभिगच्छ इति, सीतां विना मया जीवितुं कथं शक्यम् इति च वाक्यम् सत्यविक्रमो रामः लक्ष्मणं पुनरुवाच । अर्धसप्तकमेकान्वयि ॥ ३।७५।२६२८ ॥

इतीति । मदनाभिपीडितः सीताविरहजनि तदैन्याक्रान्तः अनन्यचेतनः न अन्यस्मिन् सीतातिरिक्तवस्तुनि चेतनं चित्तं यस्य सः रघूत्तमः स रामः इत्येव लक्ष्मणमुक्त्वा शोकविषादयन्त्रितः तिरोहितशोकविषादः सन् नलिनीं सरसीं पम्पां विवेश ॥ ३।७५।२९ ॥

क्रमेणेति । वनं पम्पातीरवर्तिकाननं प्रविलोकयन् सन् क्रमेण गत्वा शुभो दर्शो दर्शनं येषां तानि काननानि यस्याः ताम् अनेकैर्बहुभिर्नानाविधैरनेकप्रकारकैः पक्षिभिः संकुलां व्याप्तां पम्पां लक्ष्मणेन सह रामः ददर्श विवेश च चतुर्दिक्ष्विति शेषः ॥ ३।७५।३० ॥

नमामः श्रीरामं परममभिरामं सुमनसां

समाप्ता संसेव्यं गुरुमपि हनूमन्तमभयम् ।

त्रिवेणीं वाल्मीकिं सुखदमनिशं यत्सुकृपया

सुगारण्यव्याख्या परमपुरुषार्थैकहृदया ॥ १ ॥

आरण्यकाण्डव्याख्यानं रामायणाशिरोमणिः ।

विदध्यात्परमां प्रीतिं श्रीरामे परतः परे ॥ २ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावारण्यकाण्डे पञ्चसप्ततितमः सर्गः ॥ ३।७५ ॥