०६९ अयोमुख्याः कर्णादिछेदः

सीतान्वेषणं वर्णयन्नाह–कृत्वेत्यादिभिः । तस्मै जटायुषे उदकं कृत्वा सीतामवेक्षन्तौ अन्वेषन्तौ अत एव प्रस्थितौ गमनाय कृतप्रयत्नौ शरचापासिधारिणौ राघवौ पश्चिमां दक्षिणां पश्चिमदक्षिणदिगन्तरालं दिशं जग्मतुः तां दिशं गत्वा अविप्रहतं जनैरक्षुण्णं पन्थानं प्रतिपेदतुः प्रापतुः पश्चिमदक्षिणशब्दौ भाक्तौ । श्लोकद्वयमेकान्वयि ॥ ३।६९।१२ ॥

गुल्मैरिति । गुल्मैः वेणुप्रभृतिभिः बहुभिर्वृक्षैर्वृक्षान्तरैश्च प्रवेष्टितं लताभिश्च सर्वत आवृतं गहनं निबिडम् अत एव दुर्गं दुर्गमम् अत एव घोरदर्शनं क्रूरत्वेन प्रतीयमानम् अत एव सुभीमम् अतिभयंकरं यत् महारण्ये महाबलौ रामलक्ष्मणौ दक्षिणां दिशं गृहीत्वा व्यतीयातौ प्राप्तौ तत् वेगेन व्यतिक्रम्य उल्लङ्घ्य ततस्तस्माज्जनस्थानात्त्रिक्रोशं गम्य गत्वा क्रौञ्चारण्यं तदभिधं गहनं वनं विविशतुः । श्लोकत्रयमेकान्वयि ॥ ३।६९।३५ ॥

नानेति । नानामेघघनप्रख्यं नानामेघानां घनः समूहस्तद्वत्प्रख्या वर्णो यस्य तत् नानावर्णैरनेकविधवर्णविशिष्टैः पुष्पैः सर्वतः प्रहृष्टमिव पक्षिगणैर्युतं तद्वनं दिदृक्षमाणौ अत एव तत्र तत्रातिरमणीयप्रतिस्थले तिष्ठन्तौ सीताहरणदुःखितौ तौ रामलक्ष्मणौ वैदेहीं विचिन्वतुः । श्लोकद्वयमेकान्वयि ॥ ३।६९।६७ ॥

तत इति । ततो ऽनन्तरं त्रिक्रोशं पूर्वेण गत्वा क्रौञ्चारण्यमतिक्रम्यान्तरे मार्गमध्ये मतङ्गाश्रमं दृष्ट्वा बहुभीममृगद्विजम् अनेकविधभयंकरमृगपक्षिविशिष्टं नानासत्त्वसमाकीर्णं नानासत्त्वानामनेकविधमृगादीनां समाकीर्णं भक्षणाय राक्षसादिकर्तृकापक्षेपो यस्मिन् तत् गहनपादपं गहनाः निबिडाः पादपाः यस्मिन् तत् किंच पादपैर्गहनं राजदन्तादित्वात्पादपस्य परत्वं तत् मतङ्गाश्रमसमीपस्थं सर्वं वनं दशरथात्मजौ ददृशाते । तत्र तस्मिन्वने गिरौ पर्वते पातालसमगम्भीरां पातालतुल्यगाम्भीर्यविशिष्टामत एव तमसा अन्धकारेण नित्यसंवृतां दरीं कन्दरामासाद्य प्राप्य तस्याः दर्या अविदूरतः समीपे महारूपां बृहद्रूपविशिष्टां विकृताननां विकारविशिष्टाननविशिष्टां राक्षसीं ददर्शतुः ददृशतुः । श्लोकचतुष्टयमेकान्वयि ॥ ३।६९।८११ ॥

तामेव वर्णयन्नाह–भयदामिति । बीभत्सां घृणोत्पादिकां लम्बोदरीं लम्बोदरविशिष्टां तीक्ष्णाः दन्ताः यस्यास्तामत एव करालीं क्रूरस्वरूपामत एवाल्पसत्त्वानामबहुबलानां भयदां परुषत्वचं कठिनत्वग्विशिष्टां भीमान् भयंकरान् मृगान् व्याघ्रादीन् भक्षयन्तीं विकटां अतिस्थूलवक्रावयवविशिष्टां मुक्तमूर्धजां राक्षसीं तत्र दरीसमीपे रामलक्ष्मणौ अवैक्षताम् । श्लोकद्वयमेकान्वयि ॥ ३।६९।१२१३ ॥

सीते । सा राक्षसी वीरौ रावलक्ष्मणौ समासाद्य प्राप्य भ्रातुः अग्रतो ऽग्रे व्रजन्तं लक्ष्मणमेहि रंस्यावहे इत्युक्त्वा समालम्भत अगृह्णात् गुण आर्षः ॥ ३।६९।१४ ॥

उवाचेति । एनं सौमित्रिमुपगूह्य उवाच । तद्वचनाकारमाह–अयोमुखी नामाहं ते लाभः अपूर्वनिध्यादिवल्लब्धा अतस्त्वं मे प्रियः भर्ता असि ॥ ३।६९।१५ ॥

नाथेति । हे स्वामिन् पर्वतदुर्गादिषु चिरं बहुकालिकमिदमायुः संप्राप्येति शेषः, मया सह रंस्यसे ॥ ३।६९।१६ ॥

एवमिति । एवमुक्तः अत एव कुपितः स लक्ष्मणस्तस्याः अयोमुख्याः कर्णनासस्तनं चकर्त चिच्छेद कर्णनासस्तनमित्यत्र प्राण्यङ्गत्वादेकवचनम् ॥ ३।६९।१७ ॥

कर्णेति । सा अयोमुखी कर्णनासे निकृत्ते छिन्ने सति विस्वरं यथा स्यात्तथा विननाद यथागतं प्रदुद्राव च ॥ ३।६९।१८ ॥

तस्यामिति । तस्यां राक्षस्यां गतायां सत्यां व्रजन्तौ रामलक्ष्मणौ गहनं निबिडं वनमासेदतुः प्रापतुः ॥ ३।६९।१९ ॥

लक्ष्मण इति । महातेजाः लक्ष्मणः प्राञ्जलिः सन् भ्रातरं राममब्रवीत् ॥ ३।६९।२० ॥

तद्वचनाकारमाह–स्पन्दते इति । मे मम बाहुः बाहुद्वयं दृढं स्पन्दते प्रस्फुरति अत एव मे मनः उद्विग्नमिव उद्विग्नसदृशम् । उद्विग्नसदृशमित्युक्त्या वस्तुत उद्विग्नत्वाभावः सूचितः तेन दक्षिणस्यापि भुजस्य प्रस्फुरणात् यथाकथंचित्प्राप्तस्य विघ्नस्य विध्वंसो भविष्यतीति निश्चयः सूचितः । विनिगमनाविरहाद्बाहुशब्देन बाहुद्वयग्रहणम् एकवचनं तु जात्यभिप्रायेण । अर्धं पृथक्–प्रायश इति । हे आर्य प्रायशअनिष्टानि इष्टविरोधीनि निमित्तानि उपलक्षये पश्यामि तस्माद्धेतोः त्वं सज्जीभव अवधानतां प्राप्नुहि हि यतः निमित्तानि सद्यो मम संभ्रमं शंसन्ति बोधयन्ति ॥ ३।६९।२१२२ ॥

ननु यदि दुर्निमित्तानि पश्यसि तर्हि अनिष्टं भविष्यत्येवेति किं सज्जीभवनेनेत्यत आह–एष इति । वञ्जुलकस्तदभिधः परमदारुणः एष पक्षी युद्धे आवयोर्विजयं शंसन्निव विनर्दति ॥ ३।६९।२३ ॥

तयोरिति । सर्वं वनमन्वेषतोः तद्वनं प्रभञ्जन्निव विपुलो ऽतिमहाञ्छब्दः संजज्ञे ॥ ३।६९।२४ ॥

संवेष्टितमिति । अत्यर्थमत्यन्तं मातरिश्वना वायुना संवेष्टितमिव गहनं वनमासीदिति शेषः, तस्य वनसंबन्धी शब्दः प्रतिस्वनः वनमापूरयन्निव अभूत् ॥ ३।६९।२५ ॥

तमिति । तं शब्दं काङ्क्षमाणो निश्चेतुकामः सहानुजो रामः सुमहाकायम् अतिबृहच्छरीरम् अत एव विपुलोरसं राक्षसं ददर्श ॥ ३।६९।२६ ॥

आसेदतुरिति । विवृद्धं विवृद्धशरीरम् उदरे संलग्नं मुखं यस्य तम् “अमूर्धमस्तकात्” इत्यलुक् । अत एव अशिरोग्रीवम् अदृश्यमानशिरोग्रीवाविशिष्टं प्रमुखे संग्रामे स्थितमास्थावन्तं तत्प्रसिद्धं कबन्धं नाम रक्षः उभौ रामलक्ष्मणौ आसेदतुः तत्समीपं प्रापतुः ॥ ३।६९।२७ ॥

तमेव वर्णयन्नाह–रोमभिरिति । निचितैर्निबिडैः तीक्ष्णैः रोमभिरुपलक्षितं महागिरिमिव उच्छ्रितमुन्नतं नीलमेघनिभं मेघस्तनितनिःस्वनं मेघशब्दसदृशशब्दवन्तम् अग्निज्वालानिकाशेन अग्निज्वालासदृशेन ललाटस्थेन महापक्ष्मेण बृहत्पक्ष्मविशिष्टेन पिङ्गेन पिङ्गवर्णेन विपुलेन अतिविस्तारविशिष्टेन आयतेन दीर्घेण घोरेण भयंकरेण उरसि विद्यमानेन अत एव सुदर्शिना द्रष्टव्येन एकेन नयनेनोपलक्षितं लेलिहानं स्ववक्रमिति शेषः, महाघोरान् ऋक्षादीन् भक्षयन्तं योजनमायतौ विस्तृतौ घोरौ भुजौ विकुर्वन्तं विविधं क्षिपन्तं कराभ्याम् ऋक्षादीन् अनेकान् बहून् मृगयूथपाँश्च गृह्य गृहीत्वा आकर्षन्तं विकर्षन्तमनीप्सितान् त्यजन्तं प्रपन्नयोः समीपं प्राप्तयोर्भ्रात्रोः रामलक्ष्मणयोः पन्थानमावृत्य स्थितं महान्तं विलक्षणस्वरूपवत्त्वात्प्रशंसनीयं दारुणं हिंसकम् अत एव भीमं भयोत्पादकं भुजाभ्याम् आकर्षणप्रसारितहस्ताभ्यां संवृतं संयुक्तं संस्थानात् स्थितेरेव घोरप्रदर्शनं कबन्धं तौ रामलक्ष्मणौ क्रोशमात्रं समतिक्राम्य मार्गान्तरेण गत्वा ददर्शतुः ददृशतुः । श्लोकसप्तकमेकान्वयि ॥ ३।६९।२८३४ ॥

स इति । महाबाहुः स कबन्धः विपुलौ भुजौ प्रसार्य सहितौ राघवौ पीडयन् बलात् हठात् जग्राह ॥ ३।६९।३५ ॥

खड्गिनाविति । दृढधन्वानौ दृढे धनुषी ययोस्तौ तिग्मं तेजो ययोः कृष्यमाणौ भ्रातरौ विवशं कबन्धाधीनत्वं प्राप्तौ बभूवतुरिति शेषः ॥ ३।६९।३६ ॥

तत्रेति । तत्र तस्मिन् समये शूरो राघवो धैर्यात् हेतोर्न विव्यथे । शूरो लक्ष्मणस्तु बाल्यात् राक्षसबाहुना आच्छादनात् हेतोः अनाश्रयात् रामरूपाश्रयाराहित्यात् रामस्यास्वस्थत्वेन प्रतापमानादित्यर्थः, हेतोर्विव्यथे ॥ ३।६९।३७ ॥

उवाचेति । विषण्णो राघवानुजो लक्ष्मणः राघवमुवाच । तद्वचनाकारमाह–हे वीर राक्षसस्य वशमधीनत्वं गतं प्राप्तम् अत एव विवशमविगतकान्तिं मां पश्य ॥ ३।६९।३८ ॥

स्वव्यथां बोधयितुं राममाह–मयेति । मां भूतबलिं दत्त्वा पिशाचाकारराक्षसाय समर्प्येत्यर्थः, एकेन मया निर्युक्तो वियुक्तस्त्वं पलायस्व राक्षसमिति शेषः, अत एव यथासुखं परिमुञ्चस्व आत्मानमिति शेषः । मां भूतबलिं दत्त्वेत्यनेन मां प्राप्य संतोषप्राप्त्या पराक्रमात् राक्षसो निवर्तिष्यते इति सूचितं तेन सीतान्वेषणे विलम्बो न कार्य इति ध्वनितं तेन लक्ष्मणस्य सीताविषयकप्रेमातिशयो व्यञ्जितः ॥ ३।६९।३९ ॥

ननु त्वया विना कथमन्वेषणसिद्धिरित्यत आह–अधीति । अचिरेण अल्पेन कालेन वैदेहीमधिगन्तासीति मे मतिर्निश्चयः । अर्धं पृथक् । ननु तव सङ्गमः कदा भवितेत्यत आह–हे काकुत्स्थ तत्रायोध्यायां महीं स्वराज्यं प्रतिलभ्य सर्वदा नित्यं राज्यस्थस्त्वं मां स्मर्तुमर्हसि । तत्र स्थितेनैव भवता महानयनोद्योगः कर्तव्य इति व्यञ्जितम् ॥ ३।६९।४० ॥

लक्ष्मणेनेति । एवमुक्तो रामः हे वीर त्रासं भयं मा कृथाः हि यतः त्वादृक् पुरुषः न विषीदति इति सौमित्रिमब्रवीत् ॥ ३।६९।४१ ॥

एतस्मिन्निति । एतस्मिन्नन्तरे समये दानवोत्तमः कबन्धः रामलक्ष्मणावुवाच । दानवोत्तम इत्युक्त्या दनुवंशोद्भवत्त्वे ऽपि कर्मणा राक्षसत्वादन्यत्र राक्षसोक्तिर्न विरुध्यते ॥ ३।६९।४२ ॥

तद्वचनाकारमाह–काविति । इमं घोरं देशं प्राप्तौ दैवेन मम भाग्येन चाक्षुषौ चक्षुर्विषयौ युवां कौ युवामिह किमर्थमागतौ वां युवां कार्यं प्रयोजनं वदतम् । ऽमम भक्ष्यावुपस्थितौऽ इति भूषणपाठः ॥ ३।६९।४३४४ ॥

इममिति । क्षुधार्तस्येह तिष्ठतो मम भाग्यात् सबाणचापखङ्गेन बाणसहितत्त्वापासिभ्यामुपलक्षितौ अत एव तीक्ष्णशृङ्गौ तीक्ष्णशृङ्गविशिष्टौ ऋषभौ वृक्षभाविव युवामिमं देशमनुप्राप्तौ ॥ ३।६९।४५ ॥

ननु किमप्राप्त्येत्यत आह–ममेति । हि प्राप्तः ममास्यं मुखं वां युवाम् अनुसंप्राप्तौ अतो वां युवयोः जीवितं दुर्लभम्, वामिति शब्दावृत्त्या उभयान्वयि । अर्धं पृथक् । ऽममास्यऽ इति पाठः । तस्येति । कबन्धस्य तद्वचनं श्रुत्वा परिशुष्यता मुखेनोपलक्षितो राम उवाच ॥ ३।६९।४६ ॥

तद्वचनाकारमाह–कृछ्रादिति । कृछ्रात् स्वजनत्यागदुःखात् दारुणम् असह्यमित्यर्थः, कृछ्रतरं सीतावियोगजनिताधिकक्लेशं प्राप्य तां प्रियां सीतामप्राप्य राक्षसवशेन

सीतान्वेषणोद्योगमलब्ध्वा जीवितान्ताय अवध्यतिक्रमणहेतुकायोध्यावासिजीवनविध्वंसाय व्यसनं राक्षसग्रहजनितदुःखं प्राप्तम् ॥ ३।६९।४७ ॥

इदानीमस्य रक्षसो ऽपि मरणसमयः प्राप्त इति बोधयन्नाह–कालस्येति । हे लक्ष्मण सर्वभूतेषु भूतविकारेषु कालस्य सुमहत् वीर्यं विनामकतया स्थितमिति शेषः, कालवशतयैव सर्वः प्रवर्तत इत्यर्थः, अत एव त्वां मां च व्यसनैः राक्षसदत्तदुःखैः मोहितौ विकलचित्तौ पश्य एतेन रक्षसामन्तकालः समागत इति व्यञ्जितम् ॥ ३।६९।४८ ॥

ननु तर्हि स्वस्वकल्याणार्थं काल एव सर्वैरुपासितव्य इत्यत आह–नेति । दैवस्य परमात्मायत्तस्य कालस्य सर्वभूतेषु अतिभारः स्वातन्त्र्येण पोषणं नास्ति यथा परमात्मेच्छं कल्याणकारक इत्यर्थः । एतेन कल्याणकामैः परमात्मैवोपास्य इति व्यञ्जितम् ॥ ३।६९।४९ ॥

ननु तर्हि कालो मास्त्वित्यत आह–शूरा इति । बलवन्तः कृतास्त्राश्च शूराः कालाभिपन्नाः कालवशं प्राप्ताः सन्तः वालुकसेतव इव सीदन्ति नश्यन्ति । एतेन प्रत्यक्षसिद्धस्य वस्तुनो बाधकमन्तरापलापः कर्तुमशक्य इति सूचितम् ॥ ३।६९।५० ॥

इतीति । दृढसत्यविक्रमः उदारकीर्तिः रामः सौमित्रिं सौमित्र्युक्तिमवेक्ष्य आत्मना स्वेच्छयैव स्वां मतिं स्थिरामकरोत् । ऽसौमित्रिमुदारकीर्तिःऽ इति पाठः ॥ ३।६९।५१ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावारण्यकाण्डे एकोनसप्ततितमः सर्गः ॥ ३।६९ ॥