०६८ राम-जटायुसंवादः

किंचित्स्वास्थ्यप्राप्त्यनन्तरं लक्ष्मणं प्रति रामोक्तिं वर्णयितुमाह–राम इति । रौद्रेण अतिभयंकरेण रक्षसा पातितं गृध्रं तं जटायुषं प्रेक्ष्य मित्रसंपन्नं मित्रत्वं प्राप्तं सौमित्रिं रामो ऽब्रवीत् । मित्रशब्दो भावप्रधानः ॥ ३।६८।१ ॥

तद्वचनाकारमाह–ममेति । ममार्थेषु यतमानः अत एव संख्ये संग्रामे राक्षसेन हतः अयं विहङ्गमः दुस्त्यजान् प्राणान् त्यजति ॥ ३।६८।२ ॥

अतीति । हे लक्ष्मण अस्मिन् जटायुसंबन्धिनि शरीरे प्राणः प्राणवायुः अतिखिन्नः क्षीणतां प्राप्तो विद्यते तथा अत एव स्वरविहीनः क्षीणस्वरो ऽयं विक्लवं यथा भवति तथा समुदीक्षते पश्यति ॥ ३।६८।३ ॥

लक्ष्मणं प्रत्युक्त्वा जटायुं प्रत्याह–जटायो इति । हे जटायो वाक्यं व्याहरितुं व्याहर्तुम् अभिधातुं यदि पुनः शक्नोषि तर्हि सीतां सीतावृत्तान्तम् आख्याहि आत्मनो वधं वधवृत्तान्तं चाख्याहि ॥ ३।६८।४ ॥

पृष्टवृत्तान्तस्वरूपमाह–किमिति । रावणः आर्यां सीतां किंनिमित्तः सन् जहार । तदेव भङ्ग्यन्तरेणाह–यमपराधं दृष्ट्वा ज्ञात्वा रावणेन प्रिया सीता हृता सो ऽपराधः मया किं कृत इति शेषः । किमिति प्रश्ने ॥ ३।६८।५ ॥

कथमिति । चन्द्रसंकाशं चन्द्रस्यापि प्रकाशकम् अत एव मनोहरं तत्प्रसिद्धं सीताया मुखं तस्मिन्नपहरणकाले कथं कीदृशमित्यर्थः, आसीत् कानि वचनानि सीतया चोक्तानि ॥ ३।६८।६ ॥

कथमिति । राक्षसो रावणः कथं वीर्यादिविशिष्टः अस्य रावणस्य भवनं क्व इति परिपृच्छतो मे ब्रूहि ॥ ३।६८।७ ॥

तमिति । धर्मात्मा स जटायुः अनन्तरमन्तररहितं निरन्तरमित्यर्थः, विलपन्तं विविधं पृच्छन्तं राममुद्वीक्ष्य प्रेमभरेणावलोक्य अतिसन्नया अतिक्षीणया वाचा इदमब्रवीत् ॥ ३।६८।८ ॥

तद्वचनाकारमाह–सेति । रावणेन वातदुर्दिनसंकुलां वातेन दुर्दिनेन च संयुक्तां विपुलां बहुमायामास्थाय सा सीता हृता ॥ ३।६८।९ ॥

परीति । परिश्रान्तस्य रावणयुद्धे प्राप्तपरिश्रमस्य मे पक्षौ छित्त्वा सीतामादाय च निशाचरो रावणः दक्षिणामुखः सन् प्रयातः ॥ ३।६८।१० ॥

उत्तरान्तरं वक्तुं सामर्थ्यं नास्तीति बोधयन्नाह–उपेति । हे राघव मे प्राणाः उपरुध्यन्ति कायव्यापारं निवारयन्ति निर्गच्छन्तीत्यर्थः । किं च मे प्राणाः इन्द्रियाणि उपरुध्यन्ति पिधीयन्ते स्वस्वव्यापारसामर्थ्यं जहतीत्यर्थः, अत एव दृष्टिर्भ्रमति अत एव सौवर्णान् सुवर्णमयान् उशीरकृतमूर्धजान् उशीरेण नलदेन कृताः संरचिताः मूर्धजाः अग्रभागा येषां तान् वृक्षान् पश्यामि मरणचिह्नत्वेन जानामीत्यर्थः ॥ ३।६८।११ ॥

स्वस्य शास्त्रविज्ञातृत्वं बोधयन्नाह–येनेति । रावणः येन मुहूर्तेन सीतामादाय याति तस्मिन् मुहूर्ते तत्स्वामी धनाधिपः विप्रनष्टम् अदृश्यत्वं प्राप्तं धनं क्षिप्रं प्रतिपद्यते ॥ ३।६८।१२ ॥

ननु को ऽसौ मुहूर्त इत्यत आह–विन्द इति । के काकुत्स्थ असौ सीतापहरणसंबन्धी विन्दो नाम मुहूर्तः अपहृतवस्तु तत्स्वामिसमीपं प्रापयतीत्यर्थः । नन्वस्मिन् मुहूर्ते रावणेन सीता कथमपहृतेत्यत आह–स रावणो न अबुधत् स्वप्रतापाभिमानात् मुमूर्षुत्वाद्वा नागणयदित्यर्थः, अत एव बडिशं संगृह्य गृहीत्वा झषवत् मीनवत् विनश्यति विनेष्टा । अबुधत् इति इरितो बुधो लुङ् । विकरणव्यत्ययश्छान्दस इति भूषणोक्तिस्तु चिन्त्या ॥ ३।६८।१३ ॥

नेति । यतस्तं रावणं रणमूर्धनि हत्वा वैदेह्या सह क्षिप्रं रंस्यसे अतः जनकस्य सुतां प्रति त्वया व्यथा न कार्या ॥ ३।६८।१४ ॥

असंमूढस्येति । असंमूढस्य संमूढतारहितस्य सावधानचित्तस्येत्यर्थः, गृध्रस्य आस्यात् मुखात् सामिषं मांससहितं रुधिरं सुस्राव ॥ ३।६८।१५ ॥

पुत्र इति । विश्रवसः साक्षात् पुत्रः औरसः सूनुः वैश्रवणस्य कुबेरस्य भ्राता इत्युक्त्वा तदैश्वर्यादिकमनुक्त्वेत्यर्थः, पतगेश्वरो दुर्लभान् प्राणान्मुमोच ॥ ३।६८।१६ ॥

ब्रूहीति । ब्रूहि ब्रूहि रावणवृत्तान्तं कथय कथय इति ब्रुवाणस्य रामस्याग्रे कृताञ्जलेर्गृध्रस्य प्राणाः शरीरं त्यक्त्वा विहायसं जग्मुः ॥ ३।६८।१७ ॥

स इति । स जटायुः शिरो भूमौ निक्षिप्य चरणौ प्रसार्य स्वं शरीरं विक्षिप्य इतस्ततः संचाल्य धरणीतले पपात ॥ ३।६८।१८ ॥

तमिति । ताम्राक्षं रक्तनयनं गतासुं निर्गतप्राणम् अचलोपमं तं जटायुं सुबहुभिः अनेकविधैर्दुःखैः शृङ्गारपोषकसीतावियोगजनितदुःखाभासैः दीनः क्षीणत्वेन प्रतीयमानः रामः सौमित्रिमब्रवीत् ॥ ३।६८।१९ ॥

तद्वचनाकारमाह–बहूनीति । रक्षसां वासे निवासस्थाने दण्डकारण्ये बहूनि वर्षाणि सुखं वसता अनेन पक्षिणा इह विशीर्णं प्राणा त्यक्ता इत्यर्थः । ऽविचीर्णंऽ इति तीर्थपाठः ॥ ३।६८।२० ॥

अनेकेति । अनेकवार्षिकः बहुवर्षपरिच्छिन्नावस्थाकः यश्चिरकालसमुत्थितः बहुकालं प्रवृद्धः सो ऽयमद्य हतः सन् शेते हि यतः कालो दुरतिक्रमः अनिवारणीयः ॥ ३।६८।२१ ॥

पश्येति । मे उपकारी अयं गृध्रः सीतामभ्यवपन्नः अपहरणनिवारणाय सीतासंमुखं प्राप्तः अत एव बलीयसा रावणेन हतः ॥ ३।६८।२२ ॥

गृध्रेति । पितृपैतामहं पित्रादिपरंपराप्राप्तं गृध्रराज्यं परित्यज्य अयं पतगेश्वरः पक्ष्यधीशः मम हेतोः प्राणान्मुमोच ॥ ३।६८।२३ ॥

सर्वत्रेति । सर्वत्र हे सर्वसज्जनरक्षणकर्तः सौमित्रे तिर्यग्योनिगतेष्वपि धर्माचरणादिमन्तो दृश्यन्ते ॥ ३।६८।२४ ॥

सीतेति । मत्कृते मदर्थं यथा गृध्रस्य विनाशो विनाशजनितदुःखं मे आगतं प्राप्तं तथा सीताहरणजं दुःखं नागतम् । विनाशशब्दो भाक्तः ॥ ३।६८।२५ ॥

तत्र हेतुमाह–राजेति । यथा राजा दशरथः पूजनीयो मान्यश्च तथा ऽयं पतगेश्वरश्च तन्मित्रत्वादिति तात्पर्यम् ॥ ३।६८।२६ ॥

सौमित्रे इति । हे सौमित्रे गृध्रराजं दिधक्षामि दग्धुमिच्छामि अतः काष्ठानि एतच्छरीरभस्मीकरणयोग्यदारूणि हर प्रापय । अहं पावकं निर्मथिष्यामि मथनेन निष्पादयिष्यामि ॥ ३।६८।२७ ॥

तदेव भङ्ग्यन्तरेणाह–नाथमिति । पतगलोकस्य पक्षिजनस्य नाथं यतो ऽहं धक्ष्यामि अतः चितिं चितामारोपयामि आरोपयिष्यामि प्रापयिष्यामि एतेन रामस्य कृपालुत्वं कृतज्ञत्वं च व्यक्तम् ॥ ३।६८।२८ ॥

व्यञ्जितस्वरूपं दर्शयन्नाह–येति । हे गृध्रराज मया समनुज्ञातः संस्कृतश्च त्वं यज्ञशीलादीनां या गतिस्तां गतिं प्राप्येति शेषः, अनुत्तमान् सर्वोत्तमान् लोकान् गच्छ । संस्कृतो गच्छेत्युक्त्या रामस्य मर्यादापालकत्वं व्यञ्जितम् । श्लोकद्वयमेकान्वयि ॥ ३।६८।२९३० ॥

एवमिति । स्वबन्धुं स्वविषयकात्यनुरागवन्तं पतागेश्वरं चितामारोप्य दुःखित एव रामो ददाह ॥ ३।६८।३१ ॥

राम इति । रामो वनं यात्वा गत्वा स्थूलान्महारोहीन् मूलविशेषान् हत्वा छेदनेनानीय द्विजं पक्षिणं तं जटायुमुद्दिश्य अनुतस्तार पिण्डदानार्थं कुशैर्भूमिमाच्छादयामास ॥ ३।६८।३२ ॥

रोहीति । रोहिमांसानि स्थूलमूलसंबन्धिभोग्यांशान् उद्धृत्य निस्सार्य पेशीकृत्वा पिण्डाकारतां संपाद्य रम्ये हरितशाद्वले आस्तृतकोमलकुशमयभूमौ शकुनाय पक्षिणे ददौ ॥ ३।६८।३३ ॥

यदिति । प्रेतस्य इमं लोकं त्यक्त्वा गतस्य मर्त्यस्य जन्तोः यत् स्वर्गगमनं साकेतप्रापकं मन्त्रस्वरूपं द्विजातयः कथयन्ति पठन्ति तत् तस्य जटायुषो ऽर्थं तद्विस्तृतं यथा भवति तथा रामो जजाप । एतेन दशरथसमीपं प्रेषयामासेति सूचितम् ॥ ३।६८।३४ ॥

तत इति । ततः दाहाद्यनन्तरं गोदावरी गत्वा गृध्रराजाय उदकं सलिलक्रियां चक्रतुः । तत इत्यनेन दाहाद्युत्तरकाललाभस्तु पाठक्रमादर्थक्रमो बलीयानिति न्यायेन ॥ ३।६८।३५ ॥

तदेव भङ्ग्यन्तरेणाह–शास्त्रेति । राघवौ गृध्राय गृध्रोद्देश्यककर्मनिवृत्त्यर्थं जलं जलाशयं प्राप्येति शेषः, स्नात्वा च शास्त्रदृष्टेन विधिना गृध्रराजाय गृध्रराजार्थम् उदकं उदकक्रियां चक्रतुः ॥ ३।६८।३६ ॥

स इति । यः गृध्रराजः सुदुष्करम् अन्यैः कर्तुमशक्यम् यशस्करं यशस्संपादकं कर्म सीतारक्षणोद्देश्यकक्रियां कृतवान् रणे निपातितश्च स गृध्रराजः महर्षिकल्पेन महर्षित्वादिसंपादकेन रामेण संस्कृतः सन् पुण्यां पापसंसर्गशून्यां शुभाम् आत्मनो गतिं स्वप्राप्यसाकेतं जगाम ॥ ३।६८।३७ ॥

कृतेति । कृतोदकौ कृता निष्पादिता उदका उदकक्रियाविशिष्टा प्रमीतक्रिया याभ्यां तौ सुरेन्द्रौ ब्रह्मविष्ण्वादिसकलदेवस्वामिनौ रामलक्ष्मणौ पक्षिसत्तमे स्थिरां परमपुरुषार्थप्राप्तत्वेन चाञ्चल्यरहितां बुद्धिं प्रणिधाय संस्थाप्य सीताधिगमे सीताप्राप्तौ मनः प्रवेश्य ततस्तस्मात्स्थानात् विष्णुवासवाविव जग्मतुः ॥ ३।६८।३८ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावारण्यकाण्डे ऽष्टषष्टितमः सर्गः ॥ ३।६८ ॥