०६७ जटायुषा सीतावृत्तान्तकथनम्

लक्ष्मणवचनश्रवणानन्तरकालिकं रामवृत्तान्तमाह–पूर्वज इत्यादिभिः । लक्ष्मणेनोक्तं वाक्यं यस्मै सः सारग्राही पूर्वजो राघवो रामः महासारम् अतिसारांशयुक्तं लक्ष्मणेन सुभाषितं प्रतिजग्राह, लक्ष्मणेनेत्युभयान्वयि ॥ ३।६७।१ ॥

स इति । महाबाहू रामः प्रवृद्धमात्मनो रोषं निगृह्य धनुरवष्टभ्य च लक्ष्मणमब्रवीत् ॥ ४।६७।२ ॥

तद्वचनाकारमाह–किमित्यादिभिः । इह वने सीतां केनोपायेन पश्येयमिति विचिन्तय ॥ ३।६७।३ ॥

तमिति । तथा परितापार्तं रामं लक्ष्मणो ऽब्रवीत् । तद्वाक्याकारमाह–जनस्थानमेव त्वमन्वेषितुमर्हसि ॥ ३।६७।४ ॥

तदेव सहेतुकमाह–राक्षसैरित्यादिभिः । राक्षसैः कीर्णं युक्तं द्रुमलतायुतं जनस्थानमस्तीति शेषः । इह अस्मिन् जनस्थाने गिर्यादीनि सन्ति तानि अन्वेषितुमर्हसि । सार्धश्लोकद्वयमेकान्वयि । तत्र गिरिदुर्गाणीत्यस्य गिरिगतदुर्गमस्थानानीत्यर्थः । निर्दराः विदीर्णाः शिलाः कन्दराणि गिरिसंधयः, गुहाः पर्वतवर्तिवासयोग्यखातविशेषाः ॥ ३।६७।५६ ॥

त्वदिति । बुद्धिसंपन्नाः त्वद्विधाः त्वां विदधति ते त्वत्सेवका इत्यर्थः, अत एव महात्मानो नरर्षभाः वायुवेगैरचलाः पर्वता इव आपत्सु न प्रकम्पन्ते नाभिभवन्ति । अर्धद्वयमेकान्वयि ॥ ३।६७।७ ॥

इतीति । सलक्ष्मणः लक्ष्मणसहितः क्रुद्धः क्रुधं जहाति सः त्यक्तकोपो रामः क्षुरं क्षुरसदृशं तीक्ष्णं शरं धनुषि संधाय वनं विचचार ॥ ३।६७।८ ॥

तत इति । ततः विचरणोपक्रमणानन्तरं पर्वतकूटाभं पर्वतशृङ्गसदृशं द्विजोत्तमं पक्षिश्रेष्ठं क्षतजार्द्रं रुधिख्याप्तं जटायुषं ददर्श ॥ ३।६७।९ ॥

तमिति । तं जटायुषं दृष्ट्वा रामो ऽब्रवीत् । अर्धं पृथक् ॥ ३।६७।१० ॥

तद्वचनाकारमाह–अनेनेति । इदं गृध्ररूपं वस्तु यदि रक्षो राक्षसस्तर्हि अनेन रक्षसा भक्षिता सीता अत्र अस्योदरे भ्रमति भ्रमेत् संशयो न । यदीत्यध्याहृतम् भ्रमतीत्यनेन तस्याः नित्यात्वं सूचितं तेनैतदुदरान्निर्गच्छेदिति संभावना व्यञ्जिता ॥ ३।६७।११ ॥

भक्षयित्वेति । यथा यदि सीतां भक्षयित्वा आस्ते अयमिति शेषः, तदा अजिह्मगैः ऋजुप्रवेशकर्तृभिः शरैः एनं सुखं वधिष्ये ॥ ३।६७।१२ ॥

इतीति । धनुषि शरं संधायोपलक्षितो रामः इत्युक्त्वा मेदिनीं चालयन्निव द्रष्टुमभ्यपतत् अभिमुखमगच्छत् ॥ ३।६७।१३ ॥

तमिति । पक्षी जटायुः सफेनं रुधिरं वमन् सन् दीनं क्षीणत्वेन प्रतीयमानं रामं दीनया वाचा अभ्यभाषत ॥ ३।६७।१४ ॥

तद्भाषणप्रकारमाह–यामिति । हे आयुष्मन् याम् औषधीमिव महावने अन्वेषसि सा देवी सीता मम प्राणाश्च उभयमेतद्द्वयं रावणेन हृतम् ॥ ३।६७।१५ ॥

तत्प्रकारमाह–त्वयेति । त्वया लक्ष्मणेन च रहिता अत एव रावणेन ह्रियमाणा देवी सीता मया दृष्टा ॥ ३।६७।१६ ॥

स्वप्राणापहरणे निमित्तं बोधयन्नाह–सीतामिति । हे प्रभो अहं सीतामभ्यवपन्नः तदा ऽ ऽक्रोशश्रवणमात्रेण तत्संमुखं प्राप्तः अत एव विध्वंसितरथच्छत्रो रावणः धरणीतले पतितः पातितः मयेति शेषः ॥ ३।६७।१७ ॥

एतदिति । भग्नं भिन्नम् ॥ ३।६७।१८ ॥

अयमिति । तस्य रावणस्य भुवि पतितो ऽयं सारथिस्तु मत्पक्षनिहतः । अर्धं पृथक्–परीति । परिश्रान्तस्य मे पक्षौ रावणः छित्त्वा सीतामादाय च विहायसमाकाशमुत्पपात । अतो रक्षसा पूर्वं निहितं मां हन्तुं त्वं नार्हसि । सार्धश्लोक एकान्वयी ॥ ३।६७।१९२० ॥

राम इति । रामः सर्वाभिरामदाता सहलक्ष्मणः लक्ष्मणसहितो द्विगुणीकृततापार्तः द्वौ संभोगपोषकत्वभक्ततापापहारकत्वरूपौ गुणौ यस्मिन्स द्विगुणः अद्विगुणो द्विगुणः कृतः यस्तापस्तेनार्तो युक्तः धीरतरो ऽपि रामः गृध्रराजं विज्ञाय तस्योच्चारितां सीतासक्तां सीतासंबन्धिनीमत एव प्रियां कथां च विज्ञाय गृध्रराजं परिष्वज्य महद्धनुः परित्यज्य च अवशः सन् भूमौ निपपात रुरोद च । श्लोकद्वयमेकान्वयि ॥ ३।६७।२१२२ ॥

एकमिति । एकायने एक एव अयने यस्मिन् एकमात्रजनगम्ये अत एव कृछ्रे देशे पतितमिति शेषः, मुहुर्मुहुर्निःश्वसन्तम् एकमसहायं जटायुषं समीक्ष्य दुःखितो रामः सौमित्रिमब्रवीत् । ऽएकायने दुर्गेऽ इति तीर्थपाठः ॥ ३।६७।२३ ॥

तद्वचनाकारमाह–राज्यमिति । राज्यं राज्याभिषेको भ्रष्टं वने वासो जात इति शेषः, या पावकमपि दहेत् ईदृशी ममालक्ष्मीः मस्य मधुसूदनस्य मा लक्ष्मीः तस्या अपि लक्ष्मीः इयं बुद्धिस्था सीता नष्टा अपहरणेन अदृश्यत्वं प्राप्ता, द्विजः सहायकपक्षी मृतो मृतप्रायः ऽमो यमे समये ऽपि स्याद्विषे च मधुसूदनेऽ इति मेदिनी ॥ ३।६७।२४ ॥

संपूर्णमिति । पतिः सर्वेषां नियन्ता ऽहं संपूर्णां सरितां नदीं संपूर्णं महोदधिं महासमुद्रं च ममालक्ष्म्या मधुसूदनलक्ष्मीलक्ष्म्या सहितो ऽत् निरन्तरं वनपर्यटनशीलो ऽहं चेत् यदि इच्छामि तदा प्रतरेयं विशुष्ये शोषयामि च अतः येन रक्षसा हेतुभूतेन महती इयं व्यसनवागुरा दुःखरूपमृगादिवबन्धनजालं मया कर्त्रा प्राप्ता प्रापिता तस्मान्मत्त उन्मत्तः अभाग्यतरश्च लोके नास्ति, एतेन स शीघ्रं ध्रुवं नङ्क्ष्यतीति सूचितम् । श्लोकद्वयमेकान्वयि ॥ ३।६७।२५२६ ॥

तदेव द्रढयन्नाह–अयमिति । मे पितुर्वयस्यः सखा निहतो निहतप्रायो ऽयं गृध्रराजः भाग्यविपर्ययात् हननकर्तुर्भाग्यवैपरीत्यात् एव ममाग्रे शेते ॥ ३।६७।२७ ॥

इतीति । राघवो जटायुषं पस्पर्श ॥ ३।६७।२८ ॥

निकृत्तेति । निकृत्तौ छिन्नौ पक्षौ यस्य तं गृध्रराजं परिगृह्य क्व मैथिलीति वाचं विमुच्योच्चार्येत्यर्थः भूमौ निपपात ॥ ३।६७।२९ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावारण्यकाण्डे सप्तषष्टितमः सर्गः ॥ ३।६७ ॥