०६५ लक्ष्मणक्रोधोपशमनम्

रामं प्रति लक्ष्मणोक्तिं वर्णयितुमाहतप्यमानमित्यादिभिः । सीताहरणकर्शितं लोकानां भुवनानामभवे यथोचितं चिन्ताभावार्थं परमकल्याणार्थं वा युक्तमुद्युक्तं सांवर्तकं प्रलयकालिकमनलमिव प्रतीयमानमिति शेषः । सज्यं धनुः वीक्षमाणं पुनः पुनर्निःश्वसन्तं युगान्ते सर्वजगद्दग्धुकामम् अत एव तप्यमानं प्राप्तकोपसंपत्तिं हरमिव संक्रुद्धम् अत एव अदृष्टपूर्वं दृष्टपूर्वभिन्नं रामं सर्वाभिरामदातारं रामं तदभिधं दृष्ट्वा प्राञ्जलिर्लक्ष्मणः परिशुष्यता मुखेनाब्रवीत् । श्लोकत्रयमेकान्वयि ॥ ३।६५।१३ ॥

तद्वचनाकारमाह–पुरेत्यादिभिः । मृदुः सरलस्वभावः दान्तः नियमितोभयकरणः सर्वभूतहिते रतः अत एव पुरा पालनार्थं भूत्वा प्रकटीभूय विद्यमानस्त्वं क्रोधवशमापन्नः प्राप्तः सन् प्रकृतिं स्वस्वभावं हातुं नार्हसि ॥ ३।६५।४ ॥

चन्द्र इति । चन्द्रादौ लक्ष्म्यादिचतुष्टयं क्रमेणास्ति अनुत्तमं सर्वोत्तमं नियतं चाञ्चल्यरहितं नित्यम् एतत् लक्ष्म्यादिचतुष्टयं यशश्च त्वय्यस्ति ॥ ३।६५।५ ॥

ननु राक्षसानां वधस्यावश्यकत्वे किमर्थं निवार्यते इत्यत आह–एकस्येति । एकस्य राक्षसस्य अपराधेन लोकान् सर्वजनान् हन्तुं त्वं नार्हसि एतेन विभीषणकर्मकविघातजनितभीतिमत्त्वं लक्ष्मणस्य सूचितम् । अर्धं पृथक् । ननु अपकारिणमेव बोधयेत्यत आह–नेति । सांग्रामिकः सायुधः आयुधसहितः सपरिच्छदः सामग्रीसहितः अयं रथः कस्य हेतोः केन वा भग्नः इत्यहं नैव जानामि । अर्धद्वयमेकान्वयि ॥ ३।६५।६ ॥

ननु तर्हि बहूनामपराधो ऽस्ति इत्यत आह–खुरेति । खुरनेमिक्षतः खुरैः अश्वाङ्घ्रिभिः नेमिभिश्च क्षतः रुधिरबिन्दुभिः सिक्तः निर्वृत्तः संजातः संग्रामो यस्मिन् सो ऽयं देशः एकस्यैव विमर्दः विमर्दनविशिष्टः न द्वयोः एतेन इदानीमपराध एककर्तृक एव प्रतीयत इति सूचितम् ॥ ३।६५।७८ ॥

नहीति । महतो बलस्य सैन्यस्य वृत्तं प्रवृत्तं पदं चरणचिह्नं नैव पश्यामि अतः कस्यचित् एकस्यैव अपराध इति सूचितम् । अत एव एकस्यैव कृते तदपराधार्थं लोकान् सर्वजनान् विनाशयितुं नार्हसि ॥ ३।६५।९ ॥

युक्तेति । वसुधाधिपाः रघुकुलोद्भूतमहीपतयः युक्तदण्डादिविशिष्टा भवन्ति अत एव सर्वभूतानां शरण्यः परमा गतिश्च त्वमसि अतः हे राघव तव दारप्रणाशं कः साधु मन्येत न को ऽपीत्यर्थः । सार्धश्लोक एकान्वयी ॥ ३।६५।१० ॥

तदेव भङ्ग्यन्तरेणाह–सरित इति । दीक्षितस्य अप्रियं कर्तुं साधव इव ते ऽप्रियं कर्तुं सरिदादयः नालमतः येन राक्षसेन सीता हृता तमन्वेषयितुं मद्द्वितीयः अहं द्वितीयो यस्य सः परमर्षिभिः सहायैरुपलक्षितः धनुष्पाणिः त्वमर्हसि । अर्धचतुष्टयमेकान्वयि ॥ ३।६५।१११२ ॥

अन्वेषणप्रकारमाह–समुद्रमिति । तव भार्यापहारिणं यावन्न अधिगमिष्यामः प्राप्स्यामः तावत् समुद्रादीनि विचेष्यामः देवादिलोकांश्च विचेष्यामः । पद्मिन्यो विविधा इति समुदायस्य कर्मतया ऽन्वयात् न द्वितीया । अर्धचतुष्टयमेकान्वयि ॥ ३।६५।१३१४ ॥

नेति । हे कोशलेन्द्र त्रिदशेश्वराः तदुपलक्षितनिश्चितदारापहारिणः साम्ना सामरूपोपायेन ते पत्नीं चेद्यदि न प्रदास्यन्ति ततः पश्चात् प्राप्तकालं प्राप्तः कालो यस्मिन् तं चतुर्थोपायं दण्डं करिष्यसि ॥ ३।६५।१५ ॥

तदेव भङ्ग्यन्तरेणाह–शीलेनेति । हे नरेन्द्र शीलेन सुचरितेन साम्ना साधूक्त्या विनयेन प्रश्रयेण नयेन पर्यटनेन च सीतां यदि न प्राप्स्यसि तर्हि महेन्द्रवज्रप्रतिमैः इन्द्रवज्रः प्रतिमा उपमेयो येषां तैः शरौघैः समुत्सादय निश्चितापकारिणमिति शेषः ॥ ३।६५।१६ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावारण्यकाण्डे पञ्चषष्टितमः सर्गः ॥ ३।६५ ॥