०६१ सीता-अन्वेषणम्

रामवृत्तान्तमेवाह–दृष्ट्वेत्यादिभिः । दशरथात्मजो रामः अश्रमपदं शून्यं सीतया रहितम् दृष्ट्वा पर्णशालामासनानि च विध्वस्तानि रावणेनेतस्ततः प्रक्षिप्तानि दृष्ट्वा अत्युद्विग्नो ऽभवदिति शेषः ॥ ३।६१।१ ॥

अदृष्ट्वेति । तत्र पर्णशालादौ सर्वशः संनिरीक्ष्य वैदेहीमदृष्ट्वा शुभौ भुजौ परिगृह्य प्राकुश्य आहूय राम उवाच ॥ ३।६१।२ ॥

तद्वचनप्रकारमाह–क्वेति । हे लक्ष्मण कं केचिद्देशमितो गता वैदेही क्व आस्तीति शेषः, केन आहृता वा भक्षिता वा ॥ ३।६१।३ ॥

पुनः सीतां प्रत्याह–वृक्षेणेति । हे सीते वृक्षेणावार्य स्वात्मानमाच्छाद्य यदि मां हसितुमिच्छसि तर्हि ते हसितेनालम् अद्य सुदुःखितं मां भजस्व ॥ ३।६१।४ ॥

यैरिति । विश्वस्तैः चिरकालसमीपस्थत्वेन प्राप्तविश्वासैः यैः सुमृगपोतैर्मृगबालैः परिक्रीडसे पर्यक्रीडयास्ते एते अस्राविलेक्षणा अश्रुव्याप्तनेत्राः ध्यायन्ति त्वामिति शेषः ॥ ३।६१।५ ॥

सीतयेति । हे लक्ष्मण सीतया रहितो ऽहं नैव जीवामि इहलोके प्रजाः पालयिष्यामि साकेतं गमिष्यामीत्यर्थ्ः, अत एव सीताहरणजेन शोकेन मृत लोकान्तरगमनकर्तृत्वेन मृतसदृशं परलोके साकेते विद्यमानं मां मे पिता द्रक्ष्यति नूनं निश्चितमेतत् । ऽवृतं शोकेनऽ इतिपाठे ऽर्थः स्पष्ट एव । सार्धश्लोक एकान्वयी ॥ ३।६१।६ ॥

ननु किं तद्दर्शनेनेत्यत आह–कथमिति । मया अभियोजितः प्रेरितस्त्वं प्रतिज्ञां संश्रुत्य चतुर्दशवर्षं वने निवत्स्यामीति संश्राव्य तं कालमपूरयित्वा इह अस्मिन्समये एव कथमागत इति कामवृत्तं स्वेच्छाचारिणम् अत एव अनार्यमार्यमार्गावर्तिनम् अत एव मृषावादिनं त्वां धिगिति च मे पिता मां वक्ष्यति । अर्धचतुष्टयमेकान्वयि एवमुत्तरत्रापि ॥ ३।६१।७८ ॥

विवशमिति । शोकसंतप्तं करुणं दयनीयं मां कीर्तिः अनृजुं कुटिलं नरमिव उत्सृज्य क्व गच्छसि मां म उत्सृज । तत्र हेतुः त्वया विरहितो ऽहम् आत्मनो जीवितं पालनत्यक्ष्ये ॥ ३।६१।९१० ॥

इतीवेति । इतीव अत्यन्तं विलपन् सुदुःखार्तो रामः जनकात्मजां न ददर्श ॥ ३।६१।११ ॥

अनासादयमानमिति सीतामनासादयमानम् अप्राप्नुवन्तम् अत एव शोकपरायणम् अत एव विपुलं पङ्कमासाद्य कुञ्जरमिव सीदन्तं रामम् अत्यर्थम् अत्यन्तं हितकाम्यया लक्ष्मण उवाच ॥ ३।६१।१२१३ ॥

तद्वचनाकारमाह–मेति । हे महाबुद्धे विषादं मा कुरु । मया सह यत्नं तदन्वेषणप्रयत्नं कुरु । प्रयत्नमेवाह–बहुकन्दरशोभितम् इदं गिरिवनमस्तीति शेषः । मैथिली च प्रेयकाननसंचारा प्रियः काननसंचारो वनसंचरणं यस्याः सा अत एव वनोन्मत्ता वनदर्शनहेतुकातिहर्षविशिष्टा सा सीता वनं सुपुष्पितां नलिनीं वा प्रविष्टा स्यात् । श्लोकद्वयमेकान्वयि ॥ ३।६१।१४१५ ॥

सरितमिति । मीनवञ्जुसेवितां सरितं स्नातुकामा सीता संप्राप्ता असकामा अन्यत्र वासविषयकेच्छाभाववत्यपि वैदेही मां त्वां च जिज्ञासमाना आवयोरन्वेषणसामर्थ्यज्ञानेच्छावती सती वने क्वचिदवलीना निलीना स्याद्वा । तत्र वञ्जुलो वेतसः । सार्धश्लोक एकान्वयी ॥ ३।६१।१६ ॥

तस्य इति । हे श्रीमन् तत्याः सीताया अन्वेषणे यतावहे । अतः हे काकुत्स्थ यदि मन्यसे तर्हि यत्र जनकात्मजा संभाव्यते इति शेषः, तत्सर्वं वनं विचिनुवः अत शोके मनो मा स्म कृथाः ॥ ३।६१।१७१८ ॥

एवमिति । लक्ष्मणेनैवमुक्तः अत एव समाहितो रामः विचेतुम् अन्वेषितुम् उपचक्रमे ॥ ३।६१।१९ ॥

ताविति । वनादीनि निखिलेन कृत्स्नशः सीता विचिन्वन्तौ दशरथात्मजौ आस्तामिति शेषः ॥ ३।६१।२० ॥

तस्येति । तस्य तत्रत्यस्य शैलस्य सानूनि शिलाप्रदेशान् गुहाश्च शिखराणि च निखिलेन कृत्स्नशः विचिन्वन्तौ तौ रामलक्ष्मणौ तां सीतां नैव अभिजग्मतुः ॥ ३।६१।२१ ॥

विचित्येति । शैलं सर्वतो विचित्य अन्वेष्य इह पर्वते वैदेहीं न पश्यामीति रामो लक्ष्मणमब्रवीत् ॥ ३।६१।२२ ॥

तत इति । ततः रामवचनश्रवणानन्तरं दुःखाभिसंतप्तो दण्डकारण्यं विचरन् लक्ष्मणः दीप्ततेजसं भ्रातरमब्रवीत् ॥ ३।६१।२३ ॥

तद्वचनाकारमाह–प्राप्स्यसे इति । हे महाप्राज्ञ बलिं बदध्वा विष्णुर्महीमिव मैथिलीं त्वं प्राप्स्यसे ॥ ३।६१।२४ ॥

एवमिति । लक्ष्मणेन एवमुक्तो दुःखाभिहतचेतनो राघवः दीनया वाचा उवाच ॥ ३।६१।२५ ॥

तद्वचनाकारमाह–वनमिति । वनादि सुविचितं प्राणेभ्यो ऽपि गरीयसीं वैदेहीं तु न पश्यामि । सार्धश्लोक एकान्वयी ॥ ३।६१।२६ ॥

एवमिति । सीताहरणकर्शितो रामः एवं विलपन् सन् मुहूर्तं विह्वलो ऽभवत् । अर्धद्वयमेकान्वयि ॥ ३।६१।२७ ॥

स इति । विह्वलितसर्वाङ्गः सीतात्यन्वेषणफलाप्राप्त्या विह्वलितानि सर्वाङ्गानि यस्य सः अत एव गतबुद्धिः कर्तव्यविषयकनिश्चयरहितः आतुरो दुःखासहिष्णुः रामः आयतं दीर्घम् अशीतमुष्णं निःश्वस्य विषसाद ॥ ३।६१।२८ ॥

बहुश इति । बाष्पगद्गदः स रामः बहुशो निःश्वस्य हा प्रिये इति बहुशो विचुक्रोश ॥ ३।६१।२९ ॥

तमिति । प्रियबान्धवः शोकार्तः प्रश्रितो नम्रः प्रश्रिताञ्जलिः प्रणयसूचकबद्धयुगलकरो लक्ष्मणः तं रामं बहुप्रकारं सान्त्वयामास ॥ ३।६१।३० ॥

अनादृत्येति । लक्ष्मणोष्ठपुटच्युतं तदोष्ठद्वारान्निःसृतं तत् हितं लक्ष्मणवाक्यम् अनादृत्य प्रियामपश्यन् रामः पुनः पुनः प्राक्रोशत् ॥ ३।६१।३१ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावारण्यकाण्डे एकषष्टित्तमः सर्गः ॥ ३।६१ ॥