०६० राम-लक्ष्मणयोः पर्णशाला-आगमनम्

लक्ष्मणं प्रति रामोक्ति संवर्ण्य रामवृत्तान्तमाह–भृशमित्यादिभिः । भृशम् अत्यन्तम् आव्रजमानस्य आश्रममागच्छतः तस्य रामस्य अधोवामलोचनं वामलोचनाधोभागः प्रास्फुरत् रामो ऽस्खलच्च अत एव अस्य रामस्य वेपथुः कम्पः जायते अजायत ऽअधो वामदृशः स्फुर्तौ बह्वनिष्टं भजेत्पुमान्ऽ इति ऽप्रयाणकाले स्खलनं करोतीष्टस्य भञ्जनम्ऽ इति च प्रसिद्धम् । यद्यपि सीतावियोगस्य संभोगश्रृङ्गारपोषकत्वेनानिष्टस्याभावात् दुर्निमित्तानुभवो न संभवति तथा ऽपि तात्कालिकवियोगजनितदुःखाभासस्यावश्यंभावित्वात् दुर्निमित्तदर्शनं संभवत्येवेति दिक् ॥ ३।६०।१ ॥

उपेति । स रामः मुहुर्मुहुः अशुभानि निमित्तान्युपालक्ष्य सीताया अपि क्षेममस्तीति शेषः, इति वाचो व्याजहार ॥ ३।६०।२ ॥

त्वरमाण इति । सीतादर्शनलालसः अत एव त्वरमाणो रामः जगाम आश्रमं प्राप । अथ अनन्तरम् आवसथम् आश्रमं शून्यं दृष्ट्वा उद्विग्नमानसो बभूव ॥ ३।६०।३ ॥

उद्भ्रमन्निति । उद्भ्रमन् सीतान्वेषणर्थमितस्ततो गच्छन् वेगेन सीतादर्शनाभावजनितोद्वेगेन विक्षिपन् पाण्यादिप्रक्षेपं कुर्वन् सन् तत्र तत्र सीतास्थितिसंदिग्धे देश उटजस्थानं पर्णशालां समन्ततो ऽभिवीक्ष्य सीतया रहिताम् अत एव हेमन्ते ध्वस्तां पद्मिनीमिव श्रिया शोभया विरहितां पर्णशालां ददर्श बुबुधे, दृशिर्ज्ञानसामान्ये । श्लोकद्वयमेकान्वयि ॥ ३।६०।४५ ॥

रुदन्तमिति । वनदैवतैः संत्यक्तं सीतानुगमनकर्तृत्वेन वनदैवतरहितमित्यर्थः, अत एव म्लानाः पुष्पमृगद्विजा यस्मिँस्तम् अत एव रुदन्तमिव अत एव श्रिया शोभया विहीनम् अत एव विध्वस्तमिव विप्रकीर्णा इतस्ततः प्रक्षिप्ताः अजिनकुशा यस्मिन् तं विप्रवृद्धबृसीकटं विप्रवृद्धाः बहुसंख्याकाः बृसीकटाः मुन्यासनानि यस्मिन् तं, शून्योटजस्थानं शून्यं सीतारहितम् उटजस्थानं पर्णशाला यस्मिंस्तं, वृक्षैरुपलक्षितमाश्रमं पुनः पुनर्दृष्ट्वा विललाप विप्रकीर्णाजिनकुशमित्यनेन भूकम्पादिर्जात इति ध्वनितम् । श्लोकद्वयमेकान्वयि ॥ ३।६०।६७ ॥

तद्विलापाकारमाह–हृतेति । यतः अमृता मरणधर्मरहिता अतः अनष्टा ध्वंसाप्रतियोगिनी भविष्यति अत एव अभक्षिता भक्षितापि न भविष्यति अतः हृता वा भीरुरपि वनमाश्रिता सती निलीना मत्प्रीतिपरीक्षार्थं गुप्ता वा पुष्पादीनि विचेतुं गता वा जलार्थं पद्मिनीं सरसीं याता वा नदीं गता वा । श्लोकद्वयमेकान्वयि ॥ ३।६०।८९ ॥

यत्नादिति । शोकरक्तेक्षणः संभोगश्रृङ्गारपोषकसीतावियोगजनितशोकहेतुकारुणनयनविशिष्टः श्रीमान् स्वाभाविकसर्वसंपत्तिविशिष्टो रामः यत्नात् प्रियां सीतां मृगयमाण अन्वीक्षन्नपि नाससाद प्राप अत एव उन्मत इव लक्ष्यते ॥ ३।६०।१० ॥

उन्मत्तसादृश्यमेवाविष्कुर्वन्नाह–वृक्षादित्यादिभिः । शोकपङ्कार्णवप्लुतः शोकः पङ्कार्णव इव तत्र प्लुतो मग्नो रामः विलपन् वृक्षादीन् प्रधावंश्च सन् बभ्राम । नदीनदमिति समाहारद्वन्द्वः ऽनदान्नदींऽ इति भूषणपाठः ॥ ३।६०।११ ॥

अस्तीति । हे कदम्ब कदम्बप्रिया प्रिया सीता कच्चित्त्वया दृष्टा ऽस्ति, यदि जानीषे तर्हि शुभाननां सीतां शंस कथय । कच्चिदिति प्रश्ने ॥ ३।६०।१२ ॥

स्निग्धेति । हे बिल्व यदि सा सीता दृष्टा तर्हि स्निग्धपल्लवसंकाशां कोमलपल्ल्वसदृशकोमलाङ्गीं सीतां त्वं शंस ॥ ३।६०।१३ ॥

अथवेति । हे अर्जुन अथवा गर्वादिना विल्बादिकर्तृकप्रत्युत्तराभावे जनकस्य सुता सीता यदि जीवति प्राणान् पोषयति तर्हि प्रियां शंस न वा उपवासादिना क्वचित्तिष्ठतीत्यर्थः, तर्हि शंस । किंच जीवति मया सह लोकान् पालयिष्यति पुनर्मां मेलिष्यतीत्यर्थः । तर्हि शंस न वा तन्मेलनमेव पालनहेतुरिति तात्पर्यम् । तर्हि अर्जुनप्रियां सीतां त्वं शंस ॥ ३।६०।१४ ॥

ककुभ इति । एषः ककुभः अर्जुनविशेषः वनस्पतिः वृक्षः यतः लताद्याढ्यो भाति अतः ककुभोरूम् अर्जुनविशेषवृक्षशाखासदृशश्लक्ष्णोरुविशिष्टां मैथिलीं व्यक्तं स्फुटं जानाति ॥ ३।६०।१५ ॥

भ्रमरैरिति । यतो भ्रमरैरुपगीतः अत एव द्रुमवरो ऽपि अत एव एष तिलको भवान् तिलकप्रियां सीतां व्यक्तं स्फुटं विजानाति ॥ ३।६०।१६ ॥

अशोकेति । शोकापनुद शोकनिवर्तक हे अशोक प्रियासंदर्शनेन त्वन्नामानमशोकं मां क्षिप्रं कुरु ॥ ३।६०।१७ ॥

यदीति । हे ताल तालोपमस्तनी सीता यदि त्वया दृष्टा यदि च मयि कारुण्यं तर्हि वरारोहां सीतां कथयस्व तद्वृत्तान्तं वद ॥ ३।६०।१८ ॥

यदीति । हे जम्बो जाम्बूनदसमप्रभा प्रिया यदि त्वया दृष्टा यदि च प्रियां विजानासि तर्हि निःशङ्कं सीताशङ्काराहित्यं यथा भवति तथा कथयस्व ॥ ३।६०।१९ ॥

अहो इति । हे कर्णिकार त्वं सुपुष्पैर्भृशमहो आश्चर्यमद्य शोभसे अतः प्रिया सीता यदि दृष्टा तर्हि कर्णिकार प्रियां साध्वीं सीतां शंस ॥ ३।६०।२० ॥

चूतेति । महायशाः आरामः सर्वाभिरामदाता रामः चूतादीन् गत्वा दृष्ट्वा च पृच्छन् सन् उन्मत्त इव लक्ष्यते । इवेन विप्रलम्भदशायाः उन्मादात् वैलक्ष्ण्यं सूचितम् । श्लोकद्वयमेकान्वयि ॥ ३।६०।२१२२ ॥

वृक्षान् पृष्ट्वा तत उत्तरमलब्ध्वा च मृगादीन् पृच्छति–अथवेत्यादिभिः । अथवा वृक्षकर्तृकोत्तराभावे ऽपि हे मृग कान्ता सीता यतो मृगविप्रेक्षणी मृगनेत्रा अतः मृगीभिः सहिता

भवेत् अतः मृगशावाक्षीं मृगबालनयनीं सीतां त्वं जानासि, जानासि चेद्वदेत्यर्थः ॥ ३।६०।२३ ॥

गजेति । हे वरवारण गजनासोरू गजस्य वारणस्य नासावदुरू यस्याः सा सीता यदि त्वया दृष्टा भवेत् तर्हि तां सीतां तुभ्यं तव विदितां त्वत्कर्तृकाकारविशेषज्ञानविषयीभूतामहं मन्ये अत आख्याहि कथय ॥ ३।६०।२४ ॥

शार्दूलेति हे शार्दूल चन्द्रनिभाननाह सा सीता यदि त्वया दृष्टा तर्हि मम विस्रब्धः विश्वस्तस्त्वं कथयस्व भयं सीताभीतिस्ते न ॥ ३।६०।२५ ॥

शार्दूलादप्युत्तरमलब्ध्वा अनुरागातिशयात् दृश्यमानामिव सीतां प्रत्याहकिमिति । हे प्रिये त्वं दृष्टा मया ऽवलोकिता ऽसि अतः वृक्षैरात्मानमाच्छाद्य किं किमर्थं धावसि मां किं न प्रतिभाषसे ॥ ३।६०।२६ ॥

तिष्ठेति । त्वं तिष्ठ तिष्ठ मयि ते करुणा नास्ति काक्वा ऽस्त्येवेत्यर्थः । ननु हास्यार्थमेव क्रियत इत्यत आह–अत्यर्थम् अत्यन्तं हास्यशीला हास्यस्वभावा त्वं नासि अतो मां किं किमर्थमुपेक्षसे ॥ ३।६०।२७ ॥

पीतेति । पीतकौशेयकेन सूचिता उपलक्षिता धावन्त्यपि त्वं मया दृष्टा अतः यदि सौहृदमस्ति तर्हि तिष्ठ ॥ ३।६०।२८ ॥

नेति । सा मरणधर्मरहिता त्वं नैव हिंसिता ऽसि अतः कृछ्रं त्वद्वियोगजनितदुःखं प्राप्तं मां यथा यथावत् उपेक्षितुमनादर्तुमर्हसि काक्वा नेत्यर्थः । नञो ऽत्राप्यन्वयो वा ॥ ३।६०।२९ ॥

व्यक्तमिति । आविरहिता आविभिः स्वजनरूपरक्षकैः रहिता शून्या सा त्वं राक्षसैर्यदि भक्षिता तर्हि अङ्गानि राक्षसावयवान् विभज्य भङ्क्त्वा मय मां प्राप्नुहि ॥ ३।६०।३० ॥

भक्षणमेव प्रकल्प्याह–नूनमिति । शुभदन्तादिविशिष्टं पूर्णचन्द्रनिभं मुखं सीतावदनं यदि ग्रस्तं राक्षसैर्भक्षितं तर्हि निष्प्रभतां गतं भविष्यतीति शेषः । नूनमिति यदीत्यर्थे ॥ ३।६०।३१ ॥

सेति । चम्पकवर्णाभा चम्पकवर्णसदृशवर्णविशिष्टा ग्रैवेयकोचिता अलङ्कारयोग्या विलपन्त्याः कान्ताया ग्रीवा भक्षिता एतेन तस्या अपि निष्प्रभात्वं भविष्यतीति सूचितम् ॥ ३।६०।३२ ॥

नूनमिति । सहस्ताभरणाङ्गदौ हस्ताभरणैरङ्गदेन च विशिष्टौ बाहू भक्षितौ पूर्ववदेव सूचनम् ॥ ३।६०।३३ ॥

मयेति । बहुबान्धवा ऽपि सा सीता रक्षसां भक्षणाय इव मया विरहिता कृता अत एव सार्थेन पान्थसमूहेन परित्यक्ता स्त्री इव भक्षिता ॥ ३।६०।३४ ॥

हेति । हा लक्ष्मण त्वं प्रियां क्वचित्पश्यसे पश्यसि इति पुनः पुनरुवाचेति शेषः ॥ ३।६०।३५ ॥

इतीति । इत्येवंप्रकारेण विलपन् वनाद्वनं परिधावँश्च रामः क्वचिदुद्भ्रमते उत्पतति क्वचिद्बलाद्विभ्रमते वात्येव भ्रमणं प्राप्नोतीत्यर्थः ॥ ३।६०।३६ ॥

क्वचिदिति । कान्तान्वेषणतत्परः अत एव अपरिसंस्थितः क्वचिदपि स्थितिमप्राप्तो रामः वनादीनि भ्रमति अत एव मत्त इवाभाति । सार्धश्लोक एकान्वयी ॥ ३।६०।३७ ॥

तदेति । विपुलं वनं गत्वा मैथिलीं प्रति मैथिल्यर्थं परीत्य अन्विष्य अनिष्ठिताशः न निष्ठिता निवृता आशा यस्य स रामः प्रियायाः मार्गणे अन्वेषणे परिश्रमं पुनश्चकार ॥ ३।६०।३८ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावारण्यकाण्डे षष्टितमः सर्गः ॥ ३।६० ॥