०५१ जटायु-रावणयुद्धम्

जटायुवचनश्रवणानन्तरकालिकं रावणवृत्तान्तमाह–इतीत्यादिभिः । इति अनेन प्रकोरण उक्तो जटायुना कथितः अत एव क्रोधताम्राक्षः राक्षसेन्द्रो रावणः पतगेन्द्रं जटायुषमभिदुद्राव ॥ ३।५१।१ ॥

स इति । तयोः जटायुरावणयोः तस्मिन् महामृधे तुमुलः संप्रहारो बभूव । तत्र

दृष्टान्तः–गगने वातोद्धतयोः वातप्रचलितयोः मेघयोर्यथा ॥ ३।५१।२ ॥

तदिति । सपक्षयोः पक्षसहितयोः माल्यवतोः पुष्पसहितयोः महापर्वतयोरिव गृध्रराक्षसयोः अद्भुतं तत् युद्धं बभूव ॥ ३।५१।३ ॥

तत इति । ततः द्वन्द्वयुद्धप्रवृत्त्यनन्तरं नालीकादिभिः बाणविशेषैः महाबलं गृध्रराजमभ्यवर्षत् रावण इति शेषः ॥ ३।५१।४ ॥

स इति । पत्ररथेश्वरः पक्ष्यधीशः गृध्रः स जटायुः तानि रावणास्त्राणि रावणप्रक्षिप्तानि शरजालानि प्रतिजग्राह ॥ ३।५१।५ ॥

तस्येति । तस्य रावणस्य गात्रे तीक्ष्णनखाभ्यां तीक्ष्णनखैर्विशिष्टाभ्यां चरणाभ्यां महाबलो जटायुः बहुधा अनेकप्रकारं व्रणान् चकार ॥ ३।५१।६ ॥

अथेति । अथ व्रणकरणानन्तरं दशग्रीवो रावणः शत्रोर्निधनकाङ्क्षया शत्रुविध्वंसविषयकेच्छया मृत्युदण्डनिभान् यमदण्डसदृशान् दश मार्गणान् बाणान् जग्राह ॥ ३।५१।७ ॥

स इति । महावीर्यः स रावणः पूर्णमुक्तैः पूर्णेन आकर्णमाकृष्टेन मुक्तैः त्यक्तैः अजिह्मगैः ऋजुगमनशीलैर्निशितैः शाणसंस्कृतैः अत एव तीक्ष्णैः घोरैः असह्यैः शिलीमुखैर्बाणैः गृध्रं बिभेद ॥ ३।५१।८ ॥

स इति । स जटायुः बाष्पलोचनां जानकीं पश्यन्सन् बाणानचिन्तयित्वा अविगणय्य राक्षसं रावणं समभिद्रवत् ॥ ३।५१।९ ॥

तत इति । मुक्तामणिविभूषितं सशरं शरसहितं चापं पतगोत्तमो जटायुः चरणाभ्यां बभञ्ज ॥ ३।५१।१० ॥

तत इति । क्रोधमूर्छितरावणः अन्यद्धनुः आदाय शतशः सहस्रशश्च शरवर्षाणि ववर्ष ॥ ३।५१।११ ॥

शरैरिति । तस्य रावणस्य शरैरावारितः प्रावृतः पतगेश्वरो जटायुः कुलायं स्ववासस्थानमभिसंप्राप्तो यः पक्षिवद्बभौ ॥ ३।५१।१२ ॥

स इति । जटायुः तानि रावणप्रक्षिप्तानि शरजालानि पक्षाभ्यां विधूय बहिष्कृत्य चरणाभ्याम् अस्य रावणस्य महद्धनुर्बभञ्ज ॥ ३।५१।१३ ॥

तदिति । पतगेश्वरः जटायुः शरावरं कवचं पक्षाभ्यां व्यधुनोत् बभञ्जेत्यर्थः ॥ ३।५१।१४ ॥

काञ्चनेति । काञ्चनोरच्छदान् स्वर्णमयकवचविशिष्टान् दिव्यान् आकाशगामिनः जवसंपन्नान् अतिवेगवतः अस्य रावणस्य तान् रथसंनद्धान् खरान् बली जटायुः जघान ऽउरच्छदः कङ्कटको जगरः कवचो ऽस्त्रियाम्ऽ इत्यमरः ॥ ३।५१।१५ ॥

अथेति । त्रिवेणुसंपन्नं युगन्धरसंयुक्तं पावकार्चिषं पावकतेजःसदृशतेजोविशिष्टं मणिभिः हेमभिश्च विचित्राण्यङ्गानि यस्य तं महारथं बभञ्ज ॥ ३।५१।१६ ॥

पूर्णेति । पूर्णचन्द्रप्रतीकाशं पूर्णचन्द्रसदृशं व्यजनैः सह ग्राहिभी राक्षसैश्च सह छत्रं पातयामास ॥ ३।५१।१७ ॥

सारथेरिति । पक्षिराजो जटायुः अस्य रावणस्य सारथेर्महच्छिरः तुण्डेन व्यपाहरत् अच्छिनत् ॥ ३।५१।१८ ॥

स इति । भग्नं धनुर्यस्य स विरथो रथरहितः स रावणः वैदेहीमादाय भुवि पपात ॥ ३।५१।१९ ॥

दृष्ट्वेति । भग्नवाहनं रावणं भूमौ निपतितं दृष्ट्वा भूतानि जन्तवः साधु साधु इति गृध्रराजं जटायुषम् अपूजयन् मनसा प्राशंसन् ॥ ३।५१।२० ॥

परीति । जरया हेतुभूतया परिश्रान्तं पक्षियूथपं दृष्ट्वा हृष्टो रावणः मैथिलीं गृह्य गृहीत्वा उत्पपात ॥ ३।५१।२१ ॥

तमिति । जनकात्मजामङ्के गमनस्थले निधाय गच्छन्तम् अत एव प्रहृष्टं तं रावणं गृध्रराजः समुत्पत्य उड्डीय समभिद्रुत्य तत्संमुखं प्राप्य समावार्य परिवृत्य जटायुरिदमब्रवीत् । श्लोकद्वयमेकान्वयि ॥ ३।५१।२२२३ ॥

तद्वचनाकारमाह–वज्रेति । वज्रसंस्पर्शतुल्यस्पर्शविशिष्टो बाणो यस्य तस्य रामस्य एनां भार्यां रक्षसां वधाय हरसि ॥ ३।५१।२४ ॥

सेति । मित्रादिसहितस्त्वं पिपासित उदकमिव एतदपहरणं विषपानं यथा भवति तथा पिबसि ॥ ३।५१।२५ ॥

तदेव भङ्ग्यन्तरेणाह–अनुबन्धमिति । कर्मणां स्वकृतविषपानादीनामनुबन्धं फलमजानन्तो ऽपि जना यथा शीघ्रमेव विनश्यन्ति तथा त्वं विनशिष्यसि विनङ्क्ष्यसि ॥ ३।५१।२६ ॥

बद्ध इति । कालपाशेन बद्धस्त्वं क्व गतः सन् तस्य तस्मात्कालपाशात् मोक्ष्यसे न क्वापीत्यर्थः । तत्र दृष्टान्तः सामिषं मांससहितं बडिशं मस्त्यभेदनं जलजो मस्त्यो यथा ॥ ३।५१।२७ ॥

नहीति । हे रावण दुराधर्षौ धर्षयितुमशक्यौ काकुत्स्थौ रामलक्ष्मणौ अस्याश्रमस्य तव धर्षणं त्वत्कर्तृकपराभवं न क्षमिष्येते ॥ ३।५१।२८ ॥

यथेति । भीरुणा त्वया लोकगर्हितं कर्म यथा येन प्रकारेण कृतं तथा तेन प्रकारेण मार्गः कर्म तस्कराचरितः चौरैः सेवितः अत एव एष मार्गः वीरनिषेवितो नैव भवति ॥ ३।५१।२९ ॥

युध्यस्वेति । यदि शूरो ऽसि तर्हि युध्यस्व मया हतो भ्राता खर इव भूमौ शयिष्यसे ॥ ३।५१।३० ॥

परेतेति । परेतकाले स्वविनाशसमये पुरुषो जनः यदधर्म्यं कर्म आत्मनो विनाशाय प्रतिपद्यते तत्कर्म त्वं प्रतिपन्नः प्राप्तो ऽसि ॥ ३।५१।३१ ॥

ननु समर्थानामस्माकं पापकर्मफलं नैव भविष्यतीत्यत आह–पापेति । पाप हे पापिन् यस्य कर्मणः यो ऽनुबन्धः शास्त्रदृष्टफलं तत् तमनुबन्धं लोकाधिपतिः सर्वलोकपालकः विष्णुर्वा स्वयंभूर्ब्रह्मा वा भगवान् महेशो वा कः पुमान् अन्यथा कुर्वीत न को ऽपीत्यर्थः । एतेनेदं पापकर्म त्वया नैव कार्यमिति सूचितम् ॥ ३।५१।३२ ॥

एवमिति । एवं वाक्यमुक्त्वा तस्य प्रसिद्धस्य दशग्रीवस्य पृष्ठे वीर्यवान् जटायुः भृशं निपपात ॥ ३।५१।३३ ॥

तमिति । दुष्टवारणमधिरूढः गजारोहो हस्तिपको यथा येन प्रकारेण स्यात् विदृणीयात् तथा तं रावणं गृहीत्वा समन्ततो नखैर्विददार ॥ ३।५१।३४ ॥

विददारेति । नखपक्षमुखायुधो जटायुः अस्य रावणस्य पृष्ठे पश्चाद्भागे तुण्डं समर्पयन् संस्थापयन् दशन् सन्नित्यर्थः केशान् उत्पाटयामास ॥ ३।५१।३५ ॥

स इति । गृध्रराजेन मुहुर्मुहुः क्लिश्यमानः अत एव अमर्षस्फुरितोष्ठः अमर्षेण अक्षमया स्फुरितौ प्रकम्पौ ओष्ठौ यस्य स सन् राक्षसो रावणः प्राकम्पत ॥ ३।५१।३६ ॥

समिति । आर्तः पीडितः अत एव क्रोधकूर्च्छितो वामेन कौटिल्यविशिष्टेन अङ्केन गत्योपलक्षितो रावणः वैदेहीं परिष्वज्य पलायनभिया गृहीत्वा तलेन जटायुमभिजघान ॥ ३।५१।३७ ॥

जटायुरिति । खगाधिपो जटायुः तमभिवातमतिक्रम्य अस्य रावणस्य दश वामबाहुन् व्यपाहरत् ॥ ३।५१।३८ ॥

संछिन्नेति । सद्यः संछिन्नबाहोः बाहवः सहसा अभवन् तत्र दृष्टान्तः विषज्वालावलीयुक्ताः पन्नगाः वल्मीकादिव ॥ ३।५१।३९ ॥

तत इति । दशग्रीवः क्रोधात् सीतां समुत्सृज्य मुष्टिभ्यां चरणाभ्यां च गृध्रराजमपोथयत् ॥ ३।५१।४० ॥

तत इति । अतुलवीर्ययोः राक्षसानां मुख्यस्य पक्षिणां प्रवरस्य च मुहूर्तं संग्रामो बभूव ॥ ३।५१।४१ ॥

तस्येति । रामस्यार्थे व्यायच्छमानस्य पराक्रमं कुर्वतः तस्य जटायोः पक्षादीन् स रावणः खड्गमुद्धृत्य अच्छिनत् ॥ ३।५१।४२ ॥

स इति । रौद्रकर्मणा रक्षसा रावणेन छिन्नपक्षः अत एव अल्पजीवितः महागृध्रः धरण्यां निपपात ॥ ३।५१।४३ ॥

तमिति । क्षतजार्द्रं रुधिरक्लिन्नं जटायुषं भूमौ पातितं दृष्टवा दुःखिता वैदेही स्वबन्धुमिव अभ्यधावत् ॥ ३।५१।४४ ॥

तमिति । नीलजीमूतनिकाशकल्पं नीलमेघसदृशत्वेन कल्पनावन्तं पाण्डुरोरस्कं जटायुषं शान्तम् अग्निदावं दावाग्निमिव लङ्काधिपतिः पृथिव्यां ददर्श ॥ ३।५१।४५ ॥

तत इति । रावणवेगमर्दितं महीतले निपातितं पत्ररथं पत्रं पक्ष एव रथो यस्य तं जटायुषं सीता संगृह्य संस्पृश्य रुरोद ॥ ३।५१।४६ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावारण्यकाण्डे एकपञ्चाशः सर्गः ॥ ३।५१ ॥