०५० जटायुकृतरावणनिरोधः

सीताह्वानानन्तरकालिकं जटायुवृत्तान्तमाह–तमित्यादिभिः । अथ सीतोच्चारणानन्तरकाले अवसुप्तः केनचिन्निमित्तेन दिवैव गाढनिद्रो जटायुस्तं सीतोच्चारितशब्दं शुश्रुवे अत एव रावणं क्षिप्रं निरैक्षत् वैदेहीं च ददर्श ॥ ३।५०।१ ॥

तत इति । ततः सीतादिदर्शनानन्तरं पर्वतकूटाभः पर्वतखण्डवत्प्रतीयमानः वनस्पतिगतः वृक्षमारूढः खगोत्तमो जटायुः शुभां गिरं व्याजहार ॥ ३।५०।२ ॥

तद्व्याहरणमेवाह–दशग्रीवेति । हे दशग्रीव हे भ्रातः यतः पुराणे सनातने धर्मे स्थितः अत एव सत्यसंश्रवः सत्यप्रतिज्ञो महाबलो गृध्रराजः नाम्ना जटायुर्नाम प्रसिद्धो ऽहमस्मि अतः सांप्रतमिदानीं निन्दितं कर्म कर्तुं त्वं नार्हसि इदानीं नार्हसीत्यनेन सार्वकालिकीं तवाधर्मप्रवृत्तिमहं न निवारयामीति ध्वनितम् । सार्धश्लोक एकान्वयी ॥ ३।५०।३ ॥

राजेति । सर्वस्य लोकस्य भुवनस्य राजा अत एव महेन्द्रवरुणौ उपमे उपमेयौ यस्य सः अत एव लोकानां सर्वभुवनानां हिते युक्तो निरतः यो दशरथात्मजो रामः तस्य लोकनाथस्य रामस्य यां त्वं हर्तुमिच्छसि सा एषा सीता नाम धर्मपत्नी अतो राजा राक्षसराजो अत एव धर्मे स्थितो भवान् परदारान् कथं परामृशेत् स्पृशेत् । सार्धश्लोकद्वयमेकान्वयि भवानित्यध्याहृतम् ॥ ३।५०।४६ ॥

रक्षणीयेति । हे महाबल राजदारा विशेषेण रक्षणीयाः अतः नीचां मतिं स्वनिश्चयं परदाराभिमर्शनात् निवर्तय ॥ ३।५०।७ ॥

नेति । अस्य जनस्य यत्कर्म पर उत्कृष्टो जनो विगर्हयेत् निन्द्येत् तत् न समाचरेत् अत एव आत्मनो दारा इव अन्येषामपि दाराः विमर्शनात् परस्पर्शात् रक्ष्याः ॥ ३।५०।८ ॥

अर्थमिति । हे पौलस्त्यनन्दन शास्त्रेषु शास्त्रतः अनागतमनिश्चितमर्थं वा कामं वा धर्मं वा ऽनुराजानं राजानमनुश्रित्य व्यवस्यन्ति निश्चिन्वन्ति आचरन्ति इत्यर्थः ॥ ३।५०।९ ॥

राजेति । यतः धर्मो वा शुभं वा पापं वा राजमूलं सत् प्रवर्तते अतः धर्मादिः राजैव ॥ ३।५०।१० ॥

पापेति । हे रक्षसां वर पापस्वभावः पापाचरणशीलः अत एव चपलस्त्वं दुष्कृती निषिद्धकर्मा विमानमिव ऐश्वर्यं कथं संप्राप्तः ॥ ३।५०।११ ॥

कामेति । यः पुरुषः कामस्वभावः स्वेच्छाचरणशीलः सो ऽसौ पुरुषः तं स्वेच्छाचरणरूपस्वभावं प्रमार्जितुं दूरीकर्तुं न शक्यः । नन्वेतादृशस्वभावे का हानिरित्यत आह–दुष्टात्मनां दुष्टस्वभावानामालये गृहे आर्यं श्रेष्ठत्वं ऐश्वर्यमिति यावत् चिरं न आवसति, यद्वा आर्य हे राक्षसश्रेष्ठ दुष्टानामालये मा लक्ष्मीर्नैव वसति ॥ ३।५०।१२ ॥

विषय इति । पते तव विषये देशे पुरे वा महाबलो रामः यदा नापराध्यति तदा तस्य रामस्नय त्वं कथमपराध्यसि ॥ ३।५०।१३ ॥

ननु खरादयो अनेनैव निहता इति कथं नापराद्धमित्यत आह–यदीति । शूर्पणखाहेतोः दुर्वृत्तशूर्पणखासाहाय्यार्थं पूर्वं जनस्थानगतः अतिवृत्तः खरः यस्य लोकनाथस्य भार्यां हृत्वा त्वं गमिष्यसि तेन रामेण यदि हतः तर्हि रामस्य व्यतिक्रमः कः अत्र अस्मिन्विषये यथातत्त्वं त्वं ब्रूहि । श्लोकद्वयमेकान्वयि ॥ ३।५०।१४१५ ॥

क्षिप्रमिति । वैदेहीं क्षिप्रं विसृज त्यज यतो दहनभूतेन वह्नित्वं प्राप्तेन घोरेण चक्षुषा इन्द्राशनिर्वृत्रमिव मा दहेत् राम इति शेषः ॥ ३।५०।१६ ॥

विसर्गाभावे ऽवश्यं ते ऽनिष्टं भवितेति बोधयन्नाह–सर्पमिति । आशीविषं सर्पं वस्त्रान्ते बद्धा त्वं नावबुध्यसे ग्रीवायां प्रतिमुक्तं प्रतिबन्धितं कालपाशं न पश्यसि ॥ ३।५०।१७ ॥

स इति । यः भारः नरं वहन्तं नावसादयेत् स भर्तव्यः यत् अनामयं रोगासंपादकं सत् जीर्यते तदेव भोक्तव्यम् ॥ ३।५०।१८ ॥

यदिति । यत्कर्म कृत्वा धर्मादिर्न भवेत् शरीरस्य खेदो दुःखं च भवेत् तत्कर्म कः समाचरेत् न को ऽपीत्यर्थः ॥ ३।५०।१९ ॥

एवमपहरणनिवृत्तिबोधकानेकवाक्योक्तावपि तन्निवृत्तिमनुपलभ्याह–षष्टिरिति । हे रावण पितृपैतामहं पितृपितामहेभ्य आगतं राज्यं पक्षिराजत्वं यथावदनुतिष्ठतः पालयतो मम जातस्य जन्मनः षष्टिर्वर्षसहस्राणि यतो व्यतीतानीति शेषः अतो वृद्धो ऽहं तथापि युवत्वादिविशिष्टस्त्वं मे मम समक्षतः वैदेहीमादाय कुशली न गमिष्यसि । श्लोकद्वयमेकान्वयि ॥ ३।५०।२०२१ ॥

नेति । मम पश्यतः बलाद्वैदेहीं हर्तुं त्वं न शक्तः न समर्थः । तत्र दृष्टान्तः न्यायसंयुक्तैः न्याय्यत्वेन प्रतीयमानैः हेतुभिः नास्तिकाद्युक्तिभिरीश्वरो नास्त्यदृश्यत्वादित्याद्यनुमानघटकहेत्वाभासैः ध्रुवां क्षित्यङ्कुरादिकं सकर्तृकं कार्यत्वात् इत्याद्यनुमानेन “यतो वा इमानि भूतानि जायन्ते” इत्यादिशाब्देन च ऽदृश्यते त्वग्र्यया बुद्ध्याऽ इत्याद्युक्त्या प्रत्यक्षेण च ऽकप्यासं पुण्डरीकमिवऽ इत्याद्युक्त्योपमानेन च सिद्धां वेदश्रुतीं वेदानां सामादीनां श्रुतयस्तात्पर्यवृत्त्या यस्यां पदरेवतायां तामिव दीर्घ आर्षः ॥ ३।५०।२२ ॥

युध्यस्वेति । हे रावण यदि शरो ऽसि तर्हि तिष्ठ युध्यस्व यथापूर्वं खरः हतः सन् भूमौ अशयिष्ट तथा त्वं शयिष्यसे ॥ ३।५०।२३ ॥

ननु मत्तस्त्वं न प्रबल इत्यत आह–असकृदिति । येन त्वया असकृत् बहुवारं देवदानवाः निहताः तं त्वां रामो वधिष्यति ॥ ३।५०।२४ ॥

ननु तमाहूयस्वेत्यत आह–किमिति । तौ नृपात्मजौ दूरं गतौ अतः किं कर्तुं मया शक्यः परंतु तयोः रामलक्ष्मणयोर्भीतस्त्वं क्षिप्रं नश्यसे संशयः अत्र सन्देहो न ॥ ३।५०।२५ ॥

नन्विदानीं तु सीतां नेष्यामीत्यत आह–नहीति । जीवमानस्य जीवतो मम पश्यतः रामस्य महिषीं न नयिष्यसि नेष्यसि ॥ ३।५०।२६ ॥

अवश्यमिति । महात्मनो रामस्य दशरथस्य च जीवितेनापि मया प्रियमवश्यं कार्यम् ॥ ३।५०।२७ ॥

तिष्ठेति । हे दशग्रीव मुहूर्तं तिष्ठ पश्य मम बलमिति शेषः, वृन्तात् प्रसवबन्धनात् फलमिव त्वां पातयेयमत एव यथाप्राणं बलमनतिक्रम्य युद्धातिथ्यं प्रदास्यामि । सार्धश्लोक एकान्वयी ॥ ३।५०।२८ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावारण्यकाण्डे पञ्चाशः सर्गः ॥ ३।५० ॥