०४८ रावणेन सीतानिर्भर्त्सनम्

सीतावचनश्रवणानन्तरकालिकं रावणोक्तिमुपक्रमते–एवमिति । सीतायामेवं ब्रुवन्त्यां सत्यां संरब्धः संक्रुद्धः रावणः भ्रुकुटीं ललाटे कृत्वा प्रत्युवाच ऽसंरम्भः संभ्रमः कोपःऽ इति विश्वः ॥ ३।४८।१ ॥

तत्प्रतिवचनाकारमाह–भ्रातेति । वरवर्णिनि हे उत्तमवर्णविशिष्टे यस्य भयात् मृत्योर्भीताः प्रजा इव देवादयो विद्रवन्ति येन च कारणान्तरे कस्मिंश्चित्कारणे सति द्वन्द्वं द्वन्द्वयुद्धम् आसादितः प्रापितः वैमात्रः विमातृपुत्रः वैश्रवणो भ्राता रणे क्रोधाद्विक्रम्य विक्रमं प्रकटय्य निर्जितः स वैश्रवणस्य कुबेरस्य सापत्न्यः मातृसपत्नीपुत्रः प्रतापवान् दशग्रीवः रावणो नाम भ्राताहमस्मीति शेषः, सापत्न्यशब्द सपत्नीशब्दप्रकृतिकशिवाद्यणन्तप्रकृतिकस्वार्थष्यञन्तः ऽद्वैमात्रःऽ इति पाठे द्वितीयाया मातुरपत्यमित्यर्थः । मातुरुदित्युत्वाभाव आर्ष इति भट्टाः । श्लोकत्रयमेकान्वयि ॥ ३।४८।२४ ॥

मदिति । येन विहायसमाकाशं यामि तत् यस्य तत्संबन्धि पुष्पकं वीर्यात् स्वपराक्रमात् आवर्जितं गृहीतं सः मद्भयार्तो नरवाहनः कुबेरः ऋद्धिमत् सकलसंपत्तिविशिष्टं स्वं स्वकीयमधिष्ठानं लङ्कामित्यर्थः, परित्यज्य पर्वतश्रेष्ठं कैलासमध्यास्ते । श्लोकद्वयमेकान्वयि ॥ ३।४८।५६ ॥

ममेति । हे मैथिलि संजातरोषस्य मम मुखं दृष्ट्वैव परित्रस्ताः शक्रपुरोगमाः सुराः विद्रवन्ति ॥ ३।४८।७ ॥

यत्रेति । यत्राहं तिष्ठामि तत्र मारुतः शङ्कितः सन् वाति तीव्रांशुः भयात् भीतेः शिशिरांशुः शीतकिरणः सम्पद्यते भवति ॥ ३।४८।८ ॥

निष्क्रम्येति । यत्राहं तिष्ठामि चरामि वा तत्र तरवो वृक्षाः निष्कम्पपत्राः नद्यश्च स्तिमितोदका भवन्ति । एकश्चो वार्थे ॥ ३।४८।९ ॥

ममेति । घोरैः राक्षसैः सम्पूर्णा समुद्रस्य पारे इन्द्रस्यामरावतीव शुभा लङ्का नाम मम पुरी अस्तीति शेषः ॥ ३।४८।१० ॥

पुरीमेव वर्णयन्नाह–प्राकारेणेति । पाण्डुरेण राजतत्वात् पाण्डुरवर्णविशिष्टेन प्राकारेण परिक्षिप्ता अत एव विराजिता विशेषेण शोभिता हेमकक्ष्या स्वर्णमयहर्म्यादिप्रकोष्ठविशिष्टा वैदूर्यमयानि तोरणानि बहिर्द्वाराणि यस्यां सा ऽकक्ष्या बृहतिकायां स्यात्काञ्च्यां मध्येभबन्धने । हर्म्यादीनां प्रकोष्ठे च कार्यं हेतौ प्रयोजनेऽ इति मेदिनी ऽतोरणो ऽस्त्री बहिर्द्वारंऽ इत्यमरः । हस्त्यश्वरथसम्बाधा हस्त्यादिभिः पूर्णा सर्वकालफलैः सर्वेषु कालेषु फलन्ति तैः वृक्षैः संकुलानि व्याप्तान्येवोद्यानानि तैर्भूषितां मया सर्वलक्ष्म्या सह सहिता या पुरी लङ्का तत्र वसती वसन्ती त्वं मानुषीणां नारीणां न स्मरिष्यसि “अधीगर्थ–” इति षष्ठी । आगमशास्त्रस्यानित्यत्वात् नुमभावः । श्लोकत्रयमेकान्वयि ॥ ३।४८।१११३ ॥

भुञ्जानेति । हे वरवर्णिनि मानुषान् दिव्यांश्च भोगान् भुञ्जाना त्वं गतायुषः त्वद्वियोगदुःखेन निवृत्तान्यत्रप्रीतेः मानुषस्य रामस्य त्वं न स्मरिष्यसि षष्ठी पूर्ववत् ॥ ३।४८।१४ ॥

रामप्रीतिमपाकुर्वन्नाह–स्थापयित्वेति । प्रियं पुत्रं भरतं राज्ये स्थापयित्वा ततः राज्यप्रयोजनाभावाद्धेतोः मन्दवीर्यः अल्पवीर्यत्वेन राज्यानर्ह इत्यर्थः, ज्येष्ठः सुतो यो रामः वनं प्रस्थापितः तेन भ्रष्टराज्येन अत एव गतचेतसा तापसेन तपोनिरतेन तपस्विना नित्यं विचारपरेण रामेण किं करिष्यसि । श्लोकद्वयमेकान्वयि ॥ ३।४८।१५१६ ॥

रक्षेति । राक्षसभर्तारं मां रक्ष पालय मन्मथशराविष्टं रिपुमदध्वंसकशरैः आविष्टं पूर्णं पराजेतुमशक्यमित्यर्थः, कामात् स्वेच्छपया स्वयमिहागतं मां प्रत्याख्यातुं त्वं नार्हसि ऽसर्वराक्षसऽ इति तीर्थपाठः ॥ ३।४८।१७ ॥

प्रतीति । हे भीरु मां प्रत्याख्याय मत्प्रार्थितमनादृत्येत्यर्थः, त्वं पश्चात्तापं गमिष्यसि ॥ ३।४८।१८ ॥

ननु मदपहरणे रामस्त्वां हनिष्यतीत्यत आह–अङ्गुल्येति । सः प्रसिद्धो मानुषो रामः युद्धे ममाङ्गुल्या न समः अतः तव भाग्येन त्वत्सेवार्थं सम्प्राप्तं मां भज स्वसेवकोचितप्रीतिं कुरु भाग्यशब्दस्तु सेवार्थकभजधातुप्रकृतिकघञन्तप्रकृतिकस्वार्थष्यञन्त ॥ ३।४८।१९ ॥

एवमिति । एवमुक्ता रावणेन कथिता अत एव क्रुद्धा अत एव संरक्तलोचना रहिते सज्जनशून्यदेशे विद्यमाना वैदेही राक्षसाधिपं परुषं वाक्यमब्रवीत् ॥ ३।४८।२० ॥

तद्वचनाकारमाह–कथमित्यादिभिः । सर्वदेवनमस्कृतं देवं वैश्रवणं कुबेरं भ्रातरं स्वनिरूपितभ्रातृत्वविशिष्टं व्यपदिश्य उक्त्वा अशुभमपहरणरूपामङ्गलकारकं कर्म कथं कर्तुमिच्छसि ॥ ३।४८।२१ ॥

अमङ्गलमेवाह–अवश्यमिति । हे रावण कर्कशः परुषवाक् दुर्बुद्धिः दुष्टचित्तः अजितेन्द्रियस्त्वं येषां राक्षसानां राजा ते सर्वे राक्षसाः अवश्यं विनशिष्यन्ति विनङ्क्ष्यन्ति ॥ ३।४८।२२ ॥

दुर्बुद्धिज्ञपकं लिङ्गमाह–अपहृत्येति । इन्द्रस्य शचीं भार्यामपहृत्य जीवितुं शक्यं मामानीय तु स्वस्तिमान्न भवेत् ॥ ३।४८।२३ ॥

तदेव भङ्ग्यन्तरेणाह–जीवेदिति । अप्रतिरूपरूपाम् अनुपमरूपविशिष्टां शचीं पश्चात् इन्द्रशून्यकाले प्रधृष्य अपहृत्येत्यर्थः, चिरं जीवेत् मादृशीं धर्षयित्वा पीतामृतस्यापि तव मोक्षः कल्याणं नास्ति ॥ ३।४८।२४ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावारण्यकाण्डे ऽष्टचत्वारिंशः सर्गः ॥ ३।४८ ॥