०४२ मारीचेन स्वर्णमृगरूपधारणम्

मारीचपरुषोक्त्यनन्तरकालिकं मारीचवृत्तान्तमाह–एवमित्यादिभिः । एवं परुषमुक्त्वा रात्रिंचरप्रभोः रावणस्य ततस्तस्मादुक्तात् भयात् भयवचनाद्धेतोः दीनः मारीचः आवां गच्छाव त्वया सह गमिष्यामीत्यर्थः, इति रावणमब्रवीत् ॥ ३।४२।१ ॥

मारीचस्यैव वचनान्तराण्याह–दृष्ट इत्यादिभिः । मद्वधोद्यतशस्त्रेण मद्वधाय उद्यतं शस्त्रं यस्य तेन शरचापासिधारिणा रामेण च यदि पुनरहं दृष्टस्तदैव मे जीवितं चकारान्तरेण तवापि जीवितं निहतम् । एकश्चस्त्वर्थे ॥ ३।४२।२ ॥

न हीति । यतः रामं पराक्रम्य जीवन् सन् कश्चिज्जनः न प्रतिवर्तते अतः असावहमित्यर्थः, यमदण्डहतस्य त्वद्दुराचरणानुमितरामबाणनिहतस्येत्यर्थः, ते प्रतिरूपः सदृशः वर्तते एतेन सर्वरक्षसां वधो ऽवश्यं भवितेति सूचितं यदि तु असावित्यनेन राक्षससमुदायो गृह्येत तदा नेदं सूचनम् ॥ ३।४२।३ ॥

किमिति । त्वयि एवं दुरात्मनि सति मया किं कर्तुं शक्यं न किमपीत्यर्थः, अतः एषः प्राप्तत्वदाज्ञो ऽहं गच्छामि ते स्वस्त्यस्तु ॥ ३।४२।४ ॥

प्रहृष्ट इति । राक्षसः स रावणः तेन मारीचोक्तेन वचनेन प्रहृष्टो ऽभवत् अत एव सुसंश्लिष्टं गाढं परिष्वज्य इदमब्रवीत् ॥ ३।४२।५ ॥

तद्वचनाकारमाह–एतदिति । मच्छन्दवशवर्तिनः मदभिप्रायानुकूलवर्तनशीलस्य ते एतत् वचः शौण्डीर्ययुक्तं त्वद्वीर्ययोग्यम् अत एव इदानीम् एतद्वचनकथनकाले त्वं मारीचो ऽसि पूर्वं तु अन्यः साधारणो निशाचरः एतेन पूर्वं त्वं प्रकृतेश्च्युतः इदानीं च तां प्राप्तो ऽसीति सूचितम् ॥ ३।४२।६ ॥

आरुह्यतामिति । पिशाचवदनैः खरैः युक्तः खगः आकाशगामी रत्नविभूषितो ऽयं रथः मया सह आरुह्यताम् ॥ ३।४२।७ ॥

तत्प्रयोजनमाह–प्रलोभयित्वेति । यथेष्टं वैदेहीं प्रलोभयित्वा प्रलोभ्य गन्तुमर्हसि एतेन त्वदाहरणार्थं सीतया प्रेषितौ रामलक्ष्मणौ त्वामनुगमिष्यत इति सूचितम् अत एव शून्ये रामलक्ष्मणरहितसमये सीताम् आनयिष्यामि आनेष्यामि ॥ ३।४२।८ ॥

तत इति । ततः रावणोक्तिश्रवणानन्तरं ताटकासुतो मारीचः तथेति रावणमुवाच । ततः तथेत्युक्त्यनन्तरं रावणमारीचौ विमानमिव रथमारुह्य तस्मादाश्रममण्डलात् शीघ्रं ययतुः । सार्धश्लोक एकान्वयी ॥ ३।४२।९ ॥

तथेति । तत्र तस्मिन् समये तथा रथारूढावेव पत्तनादीनि पश्यन्तौ मारीचरावणौ दण्डकारण्यं समेत्य तस्थतुरिति शेषः, ततो ऽनन्तरं सहमारीचो रावणः राघवस्याश्रमं ददर्श । अर्धचतुष्टयमेकान्वयि ॥ ३।४२।१०११ ॥

अवतीर्येति । काञ्चनभूषणात् ततस्तस्मात् रथादवतीर्य मारीचं हस्ते गृहीत्वा रावणो ऽब्रवीत् ॥ ३।४२।१२ ॥

तद्वचनाकारमाह–एतदिति । कदलीवृतं कदलीभिः शोभितं यत् दृश्यते तदेतद्रामाश्रमपदम् अतः यदर्थं वयमागताः तत् शीघ्रं क्रियताम् ॥ ३।४२।१३ ॥

रावणस्येति । स मारीचः रावणस्य वचः श्रुत्वा मृगो भूत्वा महत् प्रशंसनीयम् अद्भुतदर्शनं रूपं समास्थाय रामस्य आश्रमद्वारि विचचार । अर्धत्रयमेकान्ययि । क्वचित् ऽसरावणऽ इति पाठस्तत्र स इत्यनेन पौनरुक्त्यवारणाय सरावणस्य रावणत्वसहितस्य वच इत्यर्धो वाच्यः ॥ ३।४२।१४१५ ॥

तद्रूपमेव वर्णयन्नाह–मणीत्यादिभिः । मणिप्रवरश्रृङ्गाग्रः मणिप्रवरेण इन्द्रनीलमणिना युक्तं शृङ्गाग्रं यस्य सः मणिप्रवरशब्दः केवलेन्द्रनीले इति कविसमय इति कतकः । क्वचित् सिता शुक्ला क्वचित् असिता कृष्णा मुखाकृतिर्यस्य सः रक्तपद्ममरुणकमलमुत्पलं नीलकमलं च तद्वत् मुखे मुखोभयभागौ यस्य सः इन्द्रं शोभायमानं यत् नीलोत्पलं तत्सदृशं श्रवः श्रवणं यस्य सः किं च इन्द्रनीलोत्पले इव श्रवसी यस्य सः तत्रेन्द्रनीलो मणिविशेषः ॥ ३।४२।१६ ॥

किंचित् अभ्युन्नता ग्रीवा यस्य सः इन्द्रनीलनिभः अधरो यस्य सः मधूकनिभौ मधूकपुष्पसदृशौ पार्श्वौ यस्य सः कञ्जकिञ्जल्कसन्निभः कमलकिञ्जल्कसदृशवर्णः ॥ ३।४२।१७ ॥

वैदूर्यसंकाशौ खुरौ यस्य सः तनू सूक्ष्मे जङ्घे यस्य सः सुसंहतः श्लिष्टसंधिबन्धविशिष्टः इन्द्रायुधसवर्णेन इन्द्रायुधसदृशवर्णविशिष्टेन पुच्छेन ऊर्ध्वं विराजितः शोभितः ॥ ३।४२।१८ ॥

मनोहरः हृदयापहारकः स्निग्धः स्नेहोत्पादकः वर्णो यस्य सः परमशोभनो मृगः क्षणेन राक्षसो मारीचो जातः । श्लोकचतुष्टयमेकान्वयि ॥ ३।४२।१९ ॥

वनमिति । वैदेह्याः प्रलोभनार्थं नानाधातुविचित्रितं मनोहरं दर्शनीयं रूपं कृत्वा रामस्य अश्रमपदं यस्मिन् तत् रम्यं वनं प्रज्वलयन् शष्पं हरिततृणं विचरन् भक्षयन् सन् शाद्वलानि घासयुक्तस्थलानि समन्ततो गच्छते गच्छति । श्लोकद्वयमेकान्वयि ॥ ३।४२।२०२१ ॥

रौप्यैरिति । रौप्यैः राजतैः बिन्दुशतैश्चित्रं यथा भवति तथा प्रियनन्दनो भूत्वा विटपीनां विटपिनां वृक्षाणां किसलयान् नवीनपत्राणि भक्षयन् विचचार मारीच इति शेषः ॥ ३।४२।२२ ॥

कदलीति । ततो भक्षणपूर्वकविचरणानन्तरं कदलीगृहकं कदलीनां वनम् कर्णिकारान् वृक्षविशेषांश्च गत्वा सीतायाः संदर्शनं यस्मिन् तत् स्थलम् इतस्ततः समाश्रयन्सन् मन्दगतिः राजीवचित्रपृष्ठः महामृगो मारीचः रामाश्रमपदाभ्यासे रामाश्रमसमीपे यथासुखं विचचार विरराज च । श्लोकद्वयमेकान्वयि ॥ ३।४२।२३२४ ॥

पुनरिति । पुनर्गत्वा स्थलान्तरमिति शेषः, निवृत्तः सन् विचचार मुहूर्तं पुनस्त्वरया गत्वा इतस्ततो द्रुतं भ्रान्त्वा पुनः प्रतिनिवर्तते ॥ ३।४२।२५ ॥

विक्रीडन्निति । विक्रीडन् सन् पुनर्निषीदति पुनराश्रमद्वारमागम्य मृगयूथानि गच्छति ॥ ३।४२।२६ ॥

मृगेति । मृगतां मृगत्वं गतः प्राप्तो ऽत एव मृगयूथैरनुगतो राक्षसः सीतादर्शनमाकाङ्क्षन् सन् पुनरपि निवर्तते । एवो ऽप्यर्थे ॥ ३।४२।२७ ॥

परीति । विनिष्पतन् सीतासमीपमागच्छन् सन् चित्राणि मण्डलानि परिभ्रमति तं मृगमन्ये वनेचरा मृगाः समुद्वीक्ष्य उपगम्य तत्समीपं प्राप्य समाघ्राय दश दिशो विद्रवन्ति । सार्धश्लोक एकान्वयी ॥ ३।४२।२८ ॥

राक्षस इति । मृगवधे रतो ऽपि स राक्षसः भावस्य राक्षसस्वभावस्य प्रच्छादनार्थं

तानाघ्राणकर्तृ़न् वन्यान् मृगान् संस्पृशन्नपि न भक्षयति ॥ ३।४२।२९ ॥

तस्मिन्निति । कुसुमापचये पुष्पग्रहणे व्यग्राशुभलोचना वैदेही तस्मिन् काले एव पादपान् अत्यवर्तत ॥ ३।४२।३० ॥

पुष्पग्रहणप्रकारमाह–कर्णिकारानिति । रुचिरानना सीता कुसुमानि अपचिन्वती सती कर्णिकारादीन् चचार ॥ ३।४२।३१ ॥

अनर्हेति । वनवासस्य अनर्हा परमाङ्गना सा सीता मुक्तामणिविचित्राङ्गं रत्नमयं मृगं ददर्श ॥ ३।४२।३२ ॥

तमिति । रुचिरदन्तोष्ठी सीता रूप्यधातुतनूरुहं रूप्यैः रजतैर्धातुभिर्गैरिकादिभिश्च तुल्यास्तनूरुहा यस्य तं मृगं विस्मयोत्फुल्लनयता सती सस्नेहं समुदैक्षत सम्यगपश्यत् ॥ ३।४२।३३ ॥

स इति । मायामयः स मृगः तां रामदयितां पश्यन् ततो दर्शनादेव हेतोः तद्वनं दीपयन्निव तत्र विचचार ॥ ३।४२।३४ ॥

अदृष्टेति । अदृष्टपूर्वं दृष्टपूर्वभिन्नं तं मृगं दृष्ट्वा सीता परमं विस्मयं जगाम् ॥ ३।४२।३५ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावारण्यकाण्डे द्विचत्वारिंशः सर्गः ॥ ३।४२ ॥