०३५ मारीचं प्रति पुनः रावणागमनम्

शूर्पणखावचनश्रवणानन्तरकालिकं रावणवृत्तान्तमाह–तत इत्यादिभिः । ततः शूर्पणखाकथनोत्तरकाले रोमहर्षणं शूर्पणखावाक्यं श्रुत्वा कार्यं स्वकर्तव्यं बुद्धा निश्चित्य सचिवान् अनुज्ञाय जगाम मारीचाश्रममिति शेषः ॥ ३।३५।१ ॥

तदेव भङ्ग्यन्तरेण वदन्नाह–तदिति । तत् शूर्पणखाबोधितापहरणं कार्यमन्तर्मनसि अनुगम्य संस्थाप्य यथावदुपलभ्य विचार्य च तत्र दोषाणाम् ऽअहो दुरन्ता बलवद्विरोधिताऽ इत्यादीनां गुणानां ऽमहात्मभिः सह विरोधो ऽपि वरम्ऽ इत्यादीनां बलाबलं प्रधार्य विचार्य महात्मभिर्विरोधमेवोत्कृष्टत्वेन स्वीकृत्येत्यर्थ्ः, ततो हेतोः इति इदमपहरणं कर्तव्यमित्येव आत्मनो

निश्चयं कृत्वा स्थिरबुद्धिः सन् रावणः रम्यां यानशालां यानस्थितिदेशं जगाम । श्लोकद्वयमेकान्वयि ॥ ३।३५।२३ ॥

यानेति । प्रच्छन्नं यथा भवति तथा राक्षसाधिपः यानशालां गत्वा रथः संयुज्यतां संयोज्यतामिति सूतं संचोदयामास ॥ ३।३५।४ ॥

एवमिति । एवमुक्तो लघुविक्रमः सारथिः तस्य रावणस्याभिमतमिच्छाविषयीभूतमुत्तमं रथं संयोजयामास ॥ ३।३५।५ ॥

कामगमिति । पिशाचवदनैः पिशाचा देवयोनयः तत्सदृशमुखैः कनकभूषणैः खरैयुक्तं रत्नभूषितं काञ्चनं कामगं रथमास्थाय राक्षसाधिपतिः धनदानुजो मेघप्रतिमवचनेनोपलक्षितो रावणः नदनदीपतिं समुद्रं ययौ । श्लोकद्वयमेकान्वयि ॥ ३।३५।६७ ॥

स इति । श्वेतं शुक्लं बालानां चमरीपुच्छकेश्चानां व्यजनं यस्य सः श्वेतछत्रः शुल्कच्छत्रविशिष्टः दशाननः दशमुखविशिष्टः दर्शनीयपरिच्छदः दर्शनीयसामग्रीविशिष्टः मुनीन्द्रघ्नः मुनीन्द्राणां घातकः दशशीर्षाद्रिराट्सदृशः राक्षसाधिपो रावणः कामगं रथमास्थाय अम्बरे आकाशे सबलाकः बकपङ्क्तिसहितः विद्युन्मण्डलवान्मेघ इव शुशुभे तत्र सुवर्णाभरणानां विद्युन्मण्डलोपमा छत्रस्य च बलाकोपमा रावणस्य च मेघोपमा । श्लोकत्रयमेकान्वयि ॥ ३।३५।८१० ॥

सेति । पुष्पादिभिरवकीर्णं व्याप्तम् ॥ ३।३५।११ ॥

शीतमङ्गलतोयाभिः पद्मिनीभिः सरसीभिः वेदिमद्भिः विशालैः आश्रमपदैश्च अलङ्कृतम् ॥ ३।३५।१२ ॥

कदल्यटविभिः कदलीवनैः संशोभा यस्य तम् सालादिभिः अत्यन्तनियताहारैः परमर्षिभिः नागादिभिश्चोपशोभितम् ॥ ३।३५।१३१४ ॥

जितकामैः सिद्धैः चारणैश्च आजैः अजस्य ब्रह्मण इमे तैः, किंच शरीरसंबन्धेनोत्पत्तिरहितैः मानसैरित्यर्थः, आङीषदर्थे । किंच स्वसिद्ध्या ऽनेकशरीरधारिभिः वैखानसैः ब्रह्मनखोत्पन्नैः श्रुतिश्च “ये नखास्ते वैखानसाः” इति माषैर्माषाभिधैः वालखिल्यैः ब्रह्मकेशजैः । तथा च श्रुतिः “ये वालास्ते वालखिल्याः” इति मरीचिपैः । किरणमात्रपानकर्तृभिश्च शोभितम् ॥ ३।३५।१५ ॥

दिव्याभरणमाल्याभिः दिव्याभरणमाल्यविशिष्टाभिः क्रीडारसविधिज्ञाभिः क्रीडारसोत्पादननिपुणाभिः सहस्रशो ऽप्सरोभिरावृतम् ॥ ३।३५।१६ ॥

श्रीमतीभिः देवपत्नीभिः सेवितमत एव उपासितं प्रकाशितं देवादिभिश्च वरितम् ॥ ३।३५।१७ ॥

हंसादिभिः आकीर्णं सारसैः संप्रसादितं संशोभितं वैदूर्यप्रस्तरं वैदूर्यसदृशश्यामप्रस्तरविशिष्टं सागरतेजसा स्निग्धम् अतिस्नेहोत्पादकं सान्द्रं चिक्कणं सशैलसागराधिपं? शैलसहितसागरदेशम् ॥ ३।३५।१८ ॥

अभिसंपतन् गच्छन् अवलोकयंश्च सन् धनदानुजो रावणः पाण्डुराणि पाण्डुरवर्णविशिष्टानि विशालानि विस्तीर्णानि दिव्यमाल्ययुतानि तूर्यगीतैः अभिजुष्टानि सेवितानि तपसा जितलोकानां कामगानि समन्ततो विमानानि गन्धर्वाप्सरसश्च ददर्श । श्लोकदशकमेकान्वयि ॥ ३।३५।१९२० ॥

निर्यासेति । निर्यासरूपरसविशिष्टानि मूलानि येषां चन्दनानां सौम्यानि घ्राणतृप्तिकराणि सह्रस्रशो वनानि पश्यन् मुख्यानामगरूणां जात्यानामुत्तमानां फलिनां फलविशिष्टानां सुगन्धिनाम् अङ्कोलानां वृक्षविशेषाणां च वनान्युपवनानि ॥ ३।३५।२१२२ ॥

तमालस्य पुष्पाणि मरिचस्य गुल्मानि च तीरत तीरे समूहानि समूहवन्ति शुष्यमाणानि मुक्तानि च ॥ ३।३५।२३ ॥

शैलानि शिलाखण्डानि प्रवरान् श्रेष्ठान् प्रवालनिचयांश्च शृङ्गाणि च ॥ ३।३५।२४ ॥

मनोज्ञानि रमणीयानि प्रस्रवणानि निर्झरान् हदानि च धनधान्योपपन्नानि स्त्रीरत्नैरावृतानि हस्त्यश्वरथगाढानि हस्त्यादिभिः संकुलानि नगराणि च विलोकयन् सर्वतः समं स्निग्धं मृदुसंस्पर्शो मारुतो यस्मिन् तं त्रिदिवोपमं स्वर्गतुल्यं सिन्धुराजस्य अनूपं देशं ददर्श । तत्र कूले मेघाभं मुनिभिर्वृतम् न्यग्रोधं स रावणो ऽपश्यत् । श्लोकसप्तकमेकान्वयि ॥ ३।३५।२५२७ ॥

समन्तादिति । यस्य शाखाः समन्तात् शतयोजनमायताः सन्ति महाकायं हस्तिनं कच्छपं चादाय भक्षार्थं यस्य शाखां महाबलो गरुडः आजगाम पर्णबहुलां तस्य तां शाखां पतगोत्तमः सुपर्णः सहसा बभञ्ज । सार्धश्लोकद्वयमेकान्वयि ॥ ३।३५।२८२९ ॥

तत्रेति । तत्र न्यग्रोधे वैखानसादयः परमर्षयः संगताः बभूवुः ॥ ३।३५।३० ॥

तेषामिति । तेषां परमर्षीणां दयार्थं दयाहेतोः वेगेन भग्नां शतयोजनां तां शाखामुभौ गजकच्छपौ च धर्मात्मा गरुडः एकपादेनादाय तदामिषं भक्षयित्वा शाखया तत्प्रक्षेपेण निषादविषयं निषाददेशं हत्वा महामुनीन् तच्छाखाधोवर्तिपरमर्षीन् मोक्षयित्वा अतुलं प्रहर्षं लेभे अर्धपञ्चकमेकान्वयि ॥ ३।३५।३१३३ ॥

स इति । तेन स्वपुरुषार्थजन्येन प्रहर्षेण द्विगुणीकृतविक्रमः स गरुडः अमृतानयनार्थं मतिं चकार ॥ ३।३५।३४ ॥

अमृतानयनप्रकारमाहअय इत्यादिभिः । अयोजालानि पक्षिप्रवेशाभावाय गृहोपरिक्षिप्तलोहरचितजालानि निर्मथ्य छित्त्वा वरं रत्नगृहम् अमृताधिकरणीभूतवेश्म भित्त्वा गुप्तं तत्र गोपितममृतं ततो महेन्द्रभवनात् आजहार ॥ ३।३५।३५ ॥

तमिति । महर्षिगणैर्जुष्टं सेवितं सुपर्णकुतलक्षणं गरुडकृतशाखाभङ्गरूपलक्षणविशिष्टं नाम्ना सुभद्रं सुभद्रनामानं तं न्यग्रोधं धनदानुजो रावणः ददर्श ॥ ३।३५।३६ ॥

तमिति । नदीपतेः समुद्रस्य परं पारं गत्वा रम्ये पुण्ये एकान्ते वनान्तरे वनमध्ये आश्रमं ददर्श ॥ ३।३५।३७ ॥

तत्रति । तत्र आश्रमे नियताहारं मारीचं नाम राक्षसं ददर्श ॥ ३।३६।३८ ॥

स इति । रक्षसा मारीचेन स रावणः विधिवत्समागम्य अमानुषैः मानुषालभ्यैः सर्वकामैः अर्चित आसीदिति शेषः ॥ ३।३५।३९ ॥

तमिति । भोजनेनोदकेन च स रावणं मारीचः स्वयं पूजयित्वा अर्थोपहितया प्रयोजनयुक्तया वाचा अब्रवीत् ॥ ३।३५।४० ॥

तद्वचनाकारमाह–कच्चिदिति । हे राक्षसेश्वर लङ्कायां ते कुशलं कच्चित् केनार्थेन प्रयोजनेन पुनस्त्वं तूर्णमिहागतः ॥ ३।३५।४१ ॥

एवमिति । मारीचेन एवमुक्तो महातेजाः सरावणः ततः पश्चात् तदुक्तेरनन्तरम् इदं वाक्यमब्रवीत् ॥ ३।३५।४२ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावारण्यकाण्डे पञ्चत्रिंशः सर्गः ॥ ३।३५ ॥