०३४ सीतापहरणे रावणोत्तेजनम्

शूर्पणखावचनश्रवणानन्तरकालिकं वृत्तान्तमाह–तत इत्यादिभिः । ततः शूर्पणखावचनश्रवणानन्तरकाले अमात्यमध्ये परुषं वचो ब्रुवतीं शूर्पणखां दृष्ट्वा संक्रुद्धो रावणः परिपप्रच्छ ॥ ३।३४।१ ॥

तत्प्रश्नाकारमाह–क इत्यादिभिः । रामः कः कस्य पुत्र इत्यर्थः, कथंवीर्यः कीदृक्तेजोविशिष्ट इत्यर्थः, किंरूपः कीदृक्रूपविशिष्टः, दण्डकारण्यं किमर्थं प्रविष्टः ॥ ३।३४।२ ॥

आयुधमिति । येनायुधेन ते राक्षसाः हताः तत् रामस्यायुधं किम् ॥ ३।३४।३ ॥

तत्त्वमिति । हे मनोज्ञाङ्गि त्वं केन हेतुना विरूपिता तत्त्वं ब्रूहि । अर्धं पृथक्–इतीति । इत्युक्ता राक्षसी यथान्यायमाख्यातुं कथयितुमुपचक्रमे ॥ ३।३४।४ ॥

तदाख्यानमेवाह–दीर्घबाहुरित्यादिभिः । दीर्घबाहुः रामः कन्दर्पसमरूपो दशरथात्मजः दशरथपुत्रश्च । अनेन कः किंरूपश्चेत्यनयोरुत्तरम् ॥ ३।३४।५ ॥

शक्रेति । कनकाङ्गदं स्वर्णवलयविशिष्टं चापं विकृष्य दीप्तान् महाविषान् सर्पानिव नाराचान् बाणविशेषान् क्षिपति ॥ ३।३४।६ ॥

नेति । शरानाददानं विमुञ्जन्तं कार्मुकं विकर्षन्तं रामं न पश्यामि अत एव अश्मवृष्टिभिः आहतम् उत्तमं सस्यमिव शरवृष्टिभिर्हन्यमानं तत्सैन्यं तु पश्यामि । अर्धचतुष्टयमेकान्वयि ॥ ३।३४।७९ ॥

रक्षसामिति । एकेन रामेण रक्षसां चतुर्दशसहस्राणि सहदूषणः खरश्च निहतानि अत एव ऋषीणामभयं दत्तं दण्डकाश्च कृतक्षेमा अभवन्निति शेषः । श्लोकद्वयमेकान्वयि ॥ ३।३४।१०११ ॥

एकेति । स्त्रीवधं शङ्कमानेन महात्मना रामेण एकाहं परिभूय कथंचिन्मुक्ता ॥ ३।३४।१२ ॥

भ्रातेति । तुल्यविक्रमो महातेजा लक्ष्मणो नाम अस्य भ्राता गुणतः रामनिष्ठातिसौशील्यादेर्हेतोः अनुरक्तः रामविषयकात्यनुरागवान् भक्तः तत्सेवानिरतश्च ॥ ३।३४।१३ ॥

अमर्षीति । अमर्षी रामापराधासहनशीलः विक्रान्तः कामचारगमनवान् लक्ष्मण इति शेषः । रामस्य दक्षिणो बाहुरिव सर्वकार्यसाधक इत्यर्थः, बहिश्चरः प्राण इव अतिप्रिय इत्यर्थः ॥ ३।३४।१४ ॥

रामस्येति । विशालाक्षी विशालनेत्रविशिष्टा भर्तुः प्रियहिते नित्यं रता अत एव भर्तुः नित्यं प्रिया सुकेशी शोभनकेशवती तप्तकाञ्चनवर्णाभा रक्तानि तुङ्गनखानि यस्याः सा तनुमध्यमा अस्य वनस्य अपरा श्रीरिव देवतेव च या राजते सा वरारोहा सीता नाम रामस्य धर्मपत्नी । श्लोकत्रयमेकान्वयि ॥ ३।३४।१५१७ ॥

नेति । यथारूपा नारी सीता मया महीतले दृष्टपूर्वा दृष्टं दर्शनं पूर्वं यस्याः सा तथारूपा नारी देव्यादिर्न ॥ ३।३४।१८ ॥

यस्येति । सीता यस्य भार्या भवेत् अत एव हृष्टा सती यं परिष्वजेत् स पुरुषः सर्वेषु लोकेषु पुरन्दरादप्यधिकमभिजीवेत् ॥ ३।३४।१९ ॥

सेति । सुशीला शोभनशीलवती वपुःश्लाघ्या वपुः श्लाघ्यं स्तुत्यं यस्याः सा रूपेण अप्रतिमा असदृशी सा सीता तव भार्या सा त्वद्भार्या प्रकाशिका अतः तस्याः वरः श्रेष्ठः पतिः पालको भव ॥ ३।३४।२० ॥

केन त्वं च विरूपिता इत्यस्योत्तरं संकोचात्स्वविषयकप्रीत्युत्पत्तेश्च मृषावचनेनाह–तामिति । वराननां तां सीतां तव भार्यार्थे आनेतुमहमुद्यता अतः क्रूरेण लक्ष्मणेनाहं विरूपितास्मि । सार्धश्लोक एकान्वयी ॥ ३।३४।२१ ॥

ननु किमर्थमेवं प्रयत्नस्त्वया कृत इत्यत आह–तामिति । तां वैदेहीं दृष्ट्वैव मन्मथस्य शराणां विधेयः लक्ष्यस्त्वं भविष्यसि नितरां चिन्तयिष्यसि एतेन तव प्रियार्थमेवायं यत्नः कृत इति सूचितम् ॥ ३।३४।२२ ॥

यदीति । तस्यां सीतायां भार्यात्वे भरणीयात्वेन स्वीकारे यदि ते ऽभिप्राय इच्छाविशेषो जायते तर्हि इहास्मिन् क्षणे जयार्थं दक्षिणः पादः शीध्रमुद्ध्रियताम् ॥ ३।३४।२३ ॥

रोचत इति । हे राक्षसेश्वर मम एतद्वाक्यं यदि ते रोचते तर्हि निर्विशङ्केन त्वया मम वचनं क्रियताम् ॥ ३।३४।२४ ॥

विज्ञायेति । हे महाबल हे राक्षसेश्वर एषां राक्षसानामशक्तिं रामजयकारकशक्त्यभावं विज्ञाय अनवद्याङ्गी सीता तव भार्यात्वे भरणीयात्वे क्रियतां सीता ह्रियतामित्यर्थः, एतेन सीतापहरणे रामः प्राणान्न धारयितेति सूचितम् ॥ ३।३४।२५ ॥

निशम्येति । रामेण अजिह्मगैः शरैः हतान् जनस्थानगतान् निशाचरान् हतं खरं दूषणं च निशम्य श्रुत्वा अद्य कृत्यं प्रतिपत्तुं निश्चेतुमर्हसि ॥ ३।३४।२६ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावारण्यकाण्डे चतुस्त्रिंशः सर्गः ॥ ३।३४ ॥