०३१ रावण-मारीचसंवादः

ससैन्यसामात्यखरविध्वंसानन्तरकालिकं वृत्तान्तमाह–त्वरमाण इत्यादिभिः । अकम्पनः खरवधेन पलायितो ऽकम्पनाभिधराक्षसस्त्वरमाणः सन् जनस्थानात् लङ्कां गत्वा वेगेन प्रविश्य च रावणमब्रवीत् ॥ ३।३१।१ ॥

तद्वचनाकारमाह–जनस्थानेति । हे राजन् जनस्थानस्थिताः त्वया संस्थापिता बहवो राक्षसाः संख्ये संग्रामे हताः खरश्च चकारेणोपलक्षणतया वा दूषणश्च निहतः ॥ ३।३१।२ ॥

एवमिति । एवमुक्तः अत एव क्रुद्धः अत एव संरक्तलोचनः दशग्रीवो रावणः तेजसा दहन्निव त्रिलोकीमिति शेषः, अकम्पनमुवाच ॥ ३।३१।३ ॥

तद्वचनाकारमाह–केनेति । केन परासुना परागतप्राणेन किंच परवशप्राणेन किंचोत्कृष्टप्राणवता अतिधृष्टेनेत्यर्थः, भीमं जनस्थानं हतम् अत एव सर्वेषु लोकेषु गतिं स्थितिं को नाधिगमिष्यति प्राप्स्यति जनस्थानध्वंसिनो मृतिरवश्यं भविष्यतीत्यर्थः ॥ ३।३१।४ ॥

तत्र हेतुमाह–न हीति । मे विप्रियं कृत्वा इन्द्रादिनापि सुखं प्राप्तुं न शक्यम् ॥ ३।३१।५ ॥

तत्रापि हेतुमाह–कालस्येति । कालस्यापि अहं कालो नियन्ता अत एव पावकमपि दहेयं मृत्युमपि मरणधर्मेण संयोजयितुमुत्सहे ॥ ३।३१।६ ॥

वातस्येति । तरसा स्ववेगेन वातस्य वेगं निहन्तुमुत्सहे संक्रुद्धो ऽहम् आदित्यपावकौ दहेयम् ॥ ३।३१।७ ॥

तथेति । तथा तेन प्रकारेण क्रुद्धं दशग्रीवं कृताञ्जलिरकम्पनः भयात् रावणहेतुकभीतेर्हेतोः

संदिग्धया शोभनमशोभनं वैतदितिसंदेहास्पदया वाचा अभयं दृढतरज्ञानाभावात् संशयास्पदीभूतमदुक्तिहेतुको दण्डो भवता न कार्य इति भयाभावं रावणं याचते द्विकर्मको ऽयम् ॥ ३।३१।८ ॥

दशग्रीव इति । रक्षसां वरो दशग्रीवः तस्मै अकम्पनाय अभयं प्रददौ । विस्रब्धः अभयविषयकप्राप्तविश्वासो ऽकम्पनः असंदिग्धं सन्देहरहितं वाक्यमब्रवीत् ॥ ३।३१।९ ॥

तद्वचनाकारमाह–पुत्र इत्यादिभिः । सिंहसंहननः सिंहसदृशः सुन्दरावयवः महास्कन्धः पूज्यमानस्कन्धविशिष्टः वृत्तायतमहाभुजः वृत्तौ वर्तुलौ आयतौ दीर्घौ महाभुजौ यस्य सः पृथुयशाः महायशस्कः अतुल्यौ तोलयितुमशक्यो बलविक्रमौ यस्य सः युवा रामो नाम दशरथस्य पुत्र आस्ते तेन सह दूषणः खरः जनस्थाने हतः । श्लोकद्वयमेकान्वयि ऽवराङ्गरूपोपेतो यः संहसंहननो हि सःऽ इत्यमरः ॥ ३।३१।१०११ ॥

अकम्पनेति । अकम्पनवचः श्रुत्वा रावणः नागेन्द्र इव निःश्वस्य इदं वचनमब्रवीत् ॥ ३।३१।१२ ॥

तद्वचनाकारमाह–स इति । सर्वामरैः सुरेन्द्रेण च सह स रामः जनस्थानमुपयातः कच्चित् हे अकम्पन ब्रूहि तत्त्वं वद, एतेन राममात्रकर्तृकखरादिवधस्यासंभवः सूचितः ॥ ३।३१।१३ ॥

रावणस्येति । अकम्पनः तत् रावणस्य वाक्यं श्रुत्वा तस्य रामस्य बलं विक्रमं च आचचक्षे ॥ ३।३१।१४ ॥

तद्वचनाकारमाह–राम इत्यादिभिः । दिव्यास्त्रगुणसंपन्नो रामः युधि परममत्युत्कृष्टमन्यत्रादृष्टमित्यर्थः, धर्मं शौर्यं गतः प्राप्तः ॥ ३।३१।१५ ॥

तस्येति । तस्य रामस्यानुरूपः रक्ताक्षः दुन्दुभिस्वनः राकाशशिनिभाननः पूर्णिमाचन्द्रसदृशाननवान् कनीयान् लक्ष्मणो भ्राता ऽस्तीति शेषः ॥ ३।३१।१६ ॥

स इति । संयुक्तो ऽतिविचारवान् राजवरः स रामः तेन भ्रात्रा सह पावकेनानिल इवा ऽस्तीति शेषः, तेन रामेण जनस्थानं निपातितम् ॥ ३।३१।१७ ॥

नेति । महात्मानः देवाः तत्र नागता इति शेषः, अत्रास्मिन् विषये विचारणा विचारो न कार्या । अर्धं पृथक् । नन्वेकेन रामेण कथं ते राक्षसा हता इत्यत आह–शरा इति । रुक्मपुङ्खाः सुवर्णनिर्मितपुङ्खविशिष्टाः पतत्रिणः कङ्कपक्षविशिष्टाः रामेणोत्सृष्टाः शराः बाणाः पञ्चाननाः पञ्चमुखाः सर्पाः भूत्वा राक्षसान् भक्षयन्ति स्म ॥ ३।३१।१८ ॥

येनेति । भयकर्शिताः रामबाणभयपीडिताः राक्षसाः येन येन मार्गेण गच्छन्ति तेन तेन मार्गेणाग्रतः स्थितं राममेव पश्यन्ति स्म इत्थमनेन प्रकारेण तव जनस्थानं तेन रामेण विनाशितम् ॥ ३।३१।१९२० ॥

अकम्पनेति । रावणः अकम्पनवचः श्रुत्वा सलक्ष्मणं रामं हन्तुं जनस्थानमहं गमिष्यामीति वाक्यमब्रवीत् ॥ ३।३१।२१ ॥

अथेति । एवमनेन प्रकारेण वचने उक्ते सति अकम्पनः इदं प्रोवाच । तद्वचनाकारमाह–राजन् हे रावण रामस्य बलपौरुषं यथावृत्तं वृत्तमनतिक्रम्य शृणु ॥ ३।३१।२२ ॥

असाध्य इति । महायशाः विक्रमेण कस्यचित्पौरुषेणासाध्यः नियमितुमशक्यः कुपितो रामः पूर्णायाः आपगायाः नद्याः वेगं शरैः परिहरेत् यथेच्छं वाहयेदित्यर्थः ॥ ३।३१।२३ ॥

सेति । असौ रामः सताराग्रहनक्षत्रं नभः अवसादयेत् यथेच्छं पीडयेत् सीदन्तीं महीं तु उद्धरेत् दुःखनिवर्तनेनेत्यर्थः ॥ ३।३१।२४ ॥

भित्त्वेति । विभुः समर्थो रामः समुद्रस्य वेलां मर्यादां भित्त्वा लोकानाप्लावयेत् समुद्रस्य वेगं वायुं च शरैः विधमेत् दहेन्नाशयेदित्यर्थः ॥ ३।३१।२५ ॥

संहृत्येति । महायशाः रामः विक्रमेण स्वपराक्रमेण लोकान् संहृत्य विनाश्य प्रजापतिरिव पुनः स्रष्टुं शक्तः समर्थः ॥ ३।३१।२६ ॥

न हीति । हे दशग्रीव रक्षसां लोकेन समूहन विशिष्टेनापि त्वया रामो जेतुं स्वाधीनीकर्तुं न शक्यः । तत्र दृष्टान्तः पापजनैः पापिजन्तुभिः स्वर्ग इव ॥ ३।३१।२७ ॥

न केवलं तव एवाजेयः किंतु सर्वेषामित्याह–नेति । सर्वैर्देवासुरैरपि तं रामं वध्यमहं न मन्ये तत्तस्माद्धेतोः यो ऽयं तस्य वधोपायस्तं मम मत्तः एकमनाः सन् श्रृणु ॥ ३।३१।२८ ॥

उपायमेवाह–भार्येति । सुमध्यमा शोभनकटिविशिष्टा श्यामा षोडशवार्षिकी समविभक्ताङ्गी समानि न्यूनाधिकरहितानि विभक्तानि असंश्लिष्टानि अङ्गानि करचरणादीनि यस्याः सा रत्नभूषिता लोके सर्वभुवने उत्तमा उद्गतः तमः आकाङ्क्षा यस्या रामातिरिक्तसर्वाकाङ्क्षारहिता स्त्रीरत्नं सर्वस्त्रीश्रेष्ठा सीता नाम भार्या अस्तीति शेषः, अत एव देव्यादिसीमन्तिनी स्त्री तस्या तुल्या न इति मानुषी मनुष्यस्त्री तुल्या कथं भवेत् । श्लोकद्वयमेकान्वयि ॥ ३।३१।२९३० ॥

तस्येति । तं रामं प्रमथ्य कथंचिदनवधानीकृत्य तस्य रामस्य भार्या त्वमपहर । ननु तदपहरणेन किमित्यत आह–सीतया रहितो रामो नैव भविष्यति न जीवितेत्यर्थः ॥ ३।३१।३१ ॥

अरोचयतेति । महाबाहुः रावणः चिन्तयित्वा तद्वधोपायं विचार्य तद्वाक्यम् अरोचयत स्वीचकार अत एव अकम्पनमुवाच । ह हेतौ ॥ ३।३१।३२ ॥

तद्वचनाकारमाह–बाढमिति । बाढं तवोक्तमङ्गीकृतमित्यर्थः अत एव काल्यं प्रातः सारथिना सह एकः सजातीयान्तररहितो हृष्टो ऽहं गमिष्यामि वैदेहीमिमां सीतां महापुरीं लङ्कामानेष्यामि च ॥ ३।३१।३३ ॥

तदिति । तत् सीताहरणबोधकं वाक्यमेवमुक्त्वा रावणः सर्वाः दिशः प्रकाशयन् सन् खरयुक्तेन रथेन प्रययौ रामं संजगाम ॥ ३।३१।३४ ॥

स इति । नक्षत्रपथे स्वर्गे गीयते प्रशस्यते सः राक्षसेन्द्रस्य रावणस्य महान् रथः जलदे मेघे चञ्चूर्यमाणः कुटिलं चरन् सन् चन्द्रमा इव शुशुभे ॥ ३।३१।३५ ॥

स इति । स रावणः मारीचाश्रमं गत्वा प्राप्य ताटकेयं ताटकासुतं मारीचमुपागमत् । अमानुषैः मानुषालभ्यै भक्ष्यभोज्यैः करणैः मारीचेन कर्त्रा राजा रावणः अर्चित पूजितो ऽभवदिति शेषः ॥ ३।३१।३६ ॥

तमिति । आसनेन उदकेन च तं रावणं मारीचः स्वयं पूजयित्वा अर्थोपहितया सप्रयोजनया वाचा ऽब्रवीत् ॥ ३।३१।३७ ॥

तद्वचनाकारमाह–कच्चिदिति । हे राजन् हे राक्षसाधिप सुकुशलं कच्चिदस्तीति शेषः । ननु मत्कुशलविध्वंसकाभावात्कथमेवं प्रश्न इत्यत आह–यतस्त्वं तूर्णमुपागतः अतः लोकानां भवज्जनानां सुकुशलं नाधिजाने निश्चिनोमि अत एव आशङ्के संशयं प्राप्नोमि, एतेनागमनप्रयोजनं वदेति सूचितम् ॥ ३।३१।३८ ॥

एवमिति । मारीचेन एवमुक्ताः वाक्यकोविदः स रावणः ततः पश्चादिदमब्रवीत् ॥ ३।३१।३९ ॥

तद्वचनाकारमाह–आरक्ष इति । मे आरक्षः सर्वतो रक्षणकर्ता खरादिरित्यर्थः, अक्लिष्टकर्मणा रामेण युधि हतः अत एव अवध्यं तत्सर्वं जनस्थानं निपातितम् ॥ ३।३१।४० ॥

तस्येति । तस्य रामस्य भार्यापहारणे भार्याया अपहरणे उद्युक्तस्येति शेषः, तस्य निपातितस्वसैन्यरक्षकस्य मे साचिव्यं सचिवकर्म साहाय्यमित्यर्थः, कुरु । अर्धं पृथक्–राक्षसेन्द्रस्य रावणस्य वचः वचनं श्रुत्वा मारीचो वाक्यमब्रवीत् ॥ ३।३१।४१ ॥

तद्वचनाकारमाह–आख्यातेत्यादिभिः । हे राक्षसशार्दूल मित्ररूपेण मित्ररूपसदृशरूपविशिष्टेन शत्रुणा केन सा सीता आख्याता हरणीयात्वेन कथिता त्वया नन्दितः संवर्धितः कः पुमान् न नन्दति स्ववर्धकं वर्धयितुमिच्छति ॥ ३।३१।४२ ॥

सीतामिति । सीताम् इह स्वगृहे आनयस्व इति को ऽब्रवीति अब्रूत “वर्तमानसामीप्ये” इति भूते लट् ब्रवीहि ईट्गुणावार्षौ सर्वस्य रक्षोलोकस्य राक्षसजनस्य शृङ्गं मुख्यं त्वां छेत्तुं क इच्छति ॥ ३।३१।४३ ॥

प्रोत्साहयतीति । यस्त्वां प्रोत्साहयति सीतानयनविषयकोत्साहमुत्पादयति सः शत्रुस्तव रिपुरेव न संशयः अत्र संशयो न अत एव त्वया करणेन आशीविषमुखात् दंष्ट्राम् उद्धर्तुमिच्छति ॥ ३।३१।४४ ॥

कर्मणेति । अनेन अपहरणरूपेण कर्मणा कापथं कुत्सितमार्गं केन त्वं प्रतिपादितः उपदिष्टः प्रापित इत्यर्थः, हे राजन् सुखसुप्तस्य ते मूर्धनि केन प्रहृतं ताडितं दुःखमुत्पादितमित्यर्थः ॥ ३।३१।४५ ॥

विशुद्धेति । हे रावण विशुद्धवंशाभिजनः विशुद्धवंशोत्पन्नः त्वम् अग्रः श्रेष्ठः हस्तः शुण्डादण्डो यस्य सः तेज एव मदो यस्य सः संस्थितौ विन्यस्तौ दोषौ बाहू एव विषाणौ दन्तौ यस्य सः राघवगन्धहस्ती राघवरूपोत्कटमदविशिष्टो हस्ती उदीक्षितुमपराद्धुमित्यर्थः, न युक्तः ॥ ३।३१।४६ ॥

असाविति । रणान्तः रणमध्ये स्थितये संधिः संधानमुत्सुकत्वम् एव वालो यस्य विदग्धानि रणचतुराणि रक्षांस्येव मृगास्तान् हन्ति सः शराङ्गपूर्णः शररूपाङ्गैर्व्याप्तः निशितस्तीक्ष्णो ऽसिरेव दंष्ट्रा यस्य सः सुप्तः त्वदपकारविषयकोद्योगरहितः नृसंहः मनुष्यरूपः सिंहः असौ रामः बोधयितुं स्वापकारं कारयितुमित्यर्थः, न शक्यः ॥ ३।३१।४७ ॥

चापेति । चाप एव अपहारः हिंसकजन्तुर्यस्मिन् भुजवेगपङ्के भुजवेग एव पङ्कः कर्दमो यस्मिन् शरा एव ऊर्मिमालास्तरङ्गसमूहा यस्मिन् तस्मिन् सुमहाहवः संग्राम एव ओघो गङ्गाजलवेगो यस्मिन् तस्मिन् अतिघोरे अतिभयङ्करे रामपातालमुखे प्रस्कन्दितुं संस्खलितुं न युक्तम् ॥ ३।३१।४८ ॥

प्रसीदेति । हे लङ्केश्वर त्वं प्रसीद अत एव लङ्कां प्रसन्नः प्रासादको भव अत एव साधु सुमार्गं गच्छ प्राप्नुहि । सुमार्गमेवाह–त्वं स्वेषु दारेषु नित्यं रमस्व सभार्यो रामः वनेषु रमताम् । प्रसन्न इत्यत्र अन्तर्भावितणिजर्थः पूर्वं कर्मणो ऽविवक्षया “गत्यर्थ–” इति कर्तरि निष्ठा ॥ ३।३१।४९ ॥

एवमिति । मारीचेन एवमुक्तः स रावणः पुरीं लङ्कां न्यवर्तत प्रावर्तत गृहोत्तमं मुख्यं स्वगृहं विवेश च ॥ ३।३१।५० ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावारण्यकाण्डे एकत्रिंशः सर्गः ॥ ३।३१ ॥