०२९ खरनिर्भर्त्सनम्

खररथादिच्छेदनानन्तरकालिकं वृत्तान्तमाह– खरमित्यादिभिः । गदापाणिमवस्थितं खरं महातेजाः रामः परुषं रूक्षत्वेन प्रतिभासमानं मृदुपूर्वं मृदु मृदुत्वं पूर्वमिव यस्मिन् तत् वाक्यमब्रवीत् ॥ ३।२९।१ ॥

तद्वचनाकारमाह–गजेति । गजाश्वरथसंबाधे गजादिभिः संकुले महति बले तिष्ठता त्वया सर्वलोकजुगुप्सितं सर्वलोकैर्निन्दितं दारुणं क्रूरं कर्म कृतम् ॥ ३।२९।२ ॥

ननु तेन कर्मणा किं भवितेत्यत आह–उदिति । भूतानां जन्तूनामुद्वेजनीयः भयप्रदः अत एव नृशंसः क्रूरकर्मा अत एव पापकर्मकृत् जन्तुः त्रयाणां लोकानामीश्वरो ऽपि न तिष्ठति । एतेन यदि लोकेश्वरस्य पापकृतो न स्थितिस्तर्हि तव नेति किं वक्तव्यमिति काव्यार्थापत्तिरलङ्कारो व्यक्तः ॥ ३।२९।३ ॥

कर्मेति । हे क्षणदाचर क्षणदासु रात्रिषु चरति तत्संबोधनम् लोकविरुद्धं तीक्ष्णं कर्म कुर्वाणं जनम् आगतं गृहे प्राप्तं दुष्टं सर्पमिव सर्वजनो हन्ति ॥ ३।२९।४ ॥

लोभादिति । लोभात् अविवेकात् कामात् शरीरपोषणाद्युत्कटेच्छातो वा पापानि पापकर्माणि हिंसादीनि कुर्वाणः अत एव हृष्टः यो न बुध्यते परपीडादि ज्ञात्वा न निवर्तते स जन्तुस्तस्य कर्मणः अन्तं फलं पश्यति प्राप्नोति । किंच तस्य कर्मणः कर्ता स जन्तुः अन्तं पश्यति प्राप्नोति । किंच तस्य कर्मणः कर्ता स जन्तुः अन्तं स्वविध्वंसं पश्यति । तत्र दृष्टान्तः–ब्राह्मणी रक्तपुच्छिका करकात् वर्षोपलात् तद्भक्षणादिवेत्यर्थः, वर्षोपलं रक्तपुच्छिकाया विषमिति प्रसिद्धम् ॥ ३।२९।५ ॥

ननु किं क्रूरं कर्म मया कृतमित्यत आह–वसत इति । दण्डकारण्ये वसतो धर्मचारिणस्तापसान् हत्वा किं नु फलं सुभोगं प्राप्स्यसि नेत्यर्थः ॥ ३।२९।६ ॥

नेति । पापकर्माणः पुरुषाः ऐश्वर्यं कस्यचित्सुकर्मणः फलभूतसंपदं प्राप्य चिरं न तिष्ठन्ति, तत्र दृष्टान्तः शीर्णमूलाः द्रुमा वृक्षा इव ॥ ३।२९।७ ॥

अवश्यमिति । पापस्य कर्मणः कर्ता काले पर्यागते प्राप्ते सति घोरं फलमवश्यं लभते, तत्र दृष्टान्तः आर्तवम् ऋतुप्राप्तं पुष्पं द्रुम इव ॥ ३।२९।८ ॥

नेति । पापानां पापजनकानां कर्मणाम् अत्युग्रक्रियाणां फलं विपत्तिः चिरान्न प्राप्यते झटित्येव प्राप्यत इत्यर्थः, तत्र दृष्टान्तः भुक्तानां सविषाणाम् अन्नानामिव ॥ ३।२९।९ ॥

ननु यो यत्कर्म करिष्यति स तत्फलं प्राप्नोत्येवेति त्वदुक्तिर्वृथैवेत्यत आह–पापमिति । लोकस्य अप्रियमिच्छतामत एव पापमाचरतां जनानां प्राणान्हन्तुं राज्ञा पित्रा अहमासादितः वनं प्रापितः । राजेति पाठे ऽपि क्विबन्तत्वेन स एवार्थः ॥ ३।२९।१० ॥

अद्येति । काञ्चनभूषणाः मया मुक्ता शराः भित्त्वा त्वद्देहं छित्त्वा भुवं विदार्य च वल्मीकं पन्नगा इव अतिपतिष्यन्ति प्रवेक्ष्यन्ति भुवमिति शेषः ॥ ३।२९।११ ॥

ये इति । दण्डकारण्ये ये धर्मचारिणस्त्वया भक्षितास्ताँस्तत्सदृशं मरणं मया निहतः सन्ननुगमिष्यसि प्राप्स्यसि ॥ ३।२९।१२ ॥

अद्येति । ये त्वया निहतास्ते विमानस्थाः परमर्षयः बाणैर्निहतं निरयस्थं निर्गतः अयः पुनरिहलोके पुत्रपौत्रादिदर्शनार्थं गमनं यस्मात् तल्लोकविशेषस्थं त्वां पश्यन्तु ॥ ३।२९।१३ ॥

प्रहरस्वेति । हे कुलाधम ते शिरस्तालफलमिव पातयिष्यामि अतः यथाकामं त्वं प्रहरस्व यत्नं स्ववधाभावप्रयत्नं कामं यथेच्छं कुरु, अनवधानतया हतो ऽस्मीति न वक्तव्यमिति तात्पर्यम् ॥ ३।२९।१४ ॥

एवमिति । रामेण एवमुक्तः क्रुद्धः अत एव क्रोधमूर्च्छितः खरः प्रहसन् सन् रामं प्रत्युवाच ॥ ३।२९।१५ ॥

तत्प्रतिवचनाकारमाह–प्राकृतानिति । हे दशरथात्मज प्राकृतान् राक्षसान् हत्वा आत्मना स्वेनैव अप्रशस्यमात्मानं कथं प्रशंससि ॥ ३।२९।१६ ॥

विक्रान्ता इति । विक्रान्ता कामचारगमनाः बलवन्तश्च तेजसा च अतिगर्विताः ये नरर्षभास्ते किंचित् स्वमहत्त्वसूचकं वाक्यं न कथयन्ति ॥ ३।२९।१७ ॥

प्राकृता इति । हे राम यथा त्वं निरर्थकं विकत्थसे तथा अकृतात्मानः अजितमनसः प्राकृताः क्षत्रियपांसनाः विकत्थन्ते, एतेन त्वयैवं न वक्तव्यमिति सूचितम् तेन रामस्य प्राकृतविलक्षणत्वं ध्वनितम् ॥ ३।२९।१८ ॥

कुलमिति । मृत्युकाले मृत्युसंशयप्रापके समरे प्राप्ते सति अप्रस्तवे प्रस्तावाभावे कुलं स्वकुलवैभवं व्यपदिशन् सन् स्तवं स्वस्तुतिवचनं को ऽभिधास्यति कथयिष्यति ॥ ३।२९।१९ ॥

सर्वथेति । कत्थनेन स्वश्लाघया ते लघुत्वं सर्वथा विदर्शितं बोधितम्, तत्र दृष्टान्तः कुशाग्निना स्वर्णशोधकाग्निना तप्तेन सुवर्णप्रतिरूपेण पित्तलेनेव तद्वह्नितापेन तस्य कृष्णरूपत्वं भवतीति प्रसिद्धम् । यथा तापात्पूर्वं सूक्ष्मविचारमन्तरा पित्तले स्वर्णबुद्धिरुत्पद्यते तापेन तु विनश्यति तथा स्वश्लाघावचनोच्चारणात्पूर्वं त्वच्छूदरत्वविषयिणी बुद्धिर्ममोत्पन्ना त्वत्कर्तृकस्वश्लाघाकत्थनेन तु सा विनष्टेत्यर्थः ॥ ३।२९।२० ॥

श्लाघाकरणे हेतुमाह–नेति । धातुभिः स्वर्णादिभिः चितं प्रवृद्धम् अकम्प्यं कम्पयितुमशक्यं धराधरं पृथ्वीधारकं पर्वतं कुलाचलमिव तिष्ठन्तं गदाधरं मां त्वं न पश्यसि तत्त्वतो न जानासि, एतेन तत्त्वतो मत्कर्मकज्ञाने त्वयि स्वश्लाघाबुद्धिर्नैवोत्पद्येत इति सूचितम् ॥ ३।२९।२१ ॥

ननु यज्ज्ञानेन मयि स्वश्लाघाबुद्धिर्नोत्पद्येत तत्किं त्वय्यस्तीत्यत आह–पर्याप्त इति । गदापाणिरहं तव प्राणान् त्रयाणां लोकानां च प्राणान् हन्तुं पाशहस्तो ऽन्तक इव पर्याप्तो ऽस्मीति शेषः ॥ ३।२९।२२ ॥

काममिति । यद्यपि त्वयि त्वद्विविषये कामं यथा स्यात्तथा बहु वक्तव्यमस्ति तथापि अहं न वक्ष्यामि । तत्र हेतुः–सविता सूर्यो ऽस्तं प्राप्नोति ततो ऽस्ते सति युद्धविघ्नो भवेत् एतेन रात्रौ राक्षसानां बलवर्धनस्य प्रसिद्धत्वान्निशि युद्धे अल्पबलेन रामेण साकं युद्धं प्रवृत्तमिति ममोपहासास्पदत्वं स्यादिति सूचितम् ॥ ३।२९।२३ ॥

चतुर्दशेति । यानि रक्षसां चतुर्दश सहस्राणि त्वया निहतानि तेषां रक्षसामश्रुप्रमार्जनं संतापनाशमित्यर्थः, त्वद्विनाशात्करोमि ॥ ३।२९।२४ ॥

इतीति । इत्युक्त्वा परमक्रुद्धः खरः परमाङ्गदां परमाः अङ्गदाः कनकवलयानि यस्यास्तां प्रसिद्धां गदामशनिमिव चिक्षेप ॥ ३।२९।२५ ॥

खरेति । खरबाहुप्रमुक्ता प्रदीप्ता सा महती गदा वृक्षान् गुल्मांश्च भस्म कृत्वा तत्समीपतः रामसंनिधौ अगात् ॥ ३।२९।२६ ॥

तामिति । मृत्युपाशोपममापतन्तीमाकाशगतां तां महतीं गदां रामः बहुधा बहुप्रकारं शरैः चिच्छेद ॥ ३।२९।२७ ॥

सेति । शरैः रामबाणैः विशीर्णा हता अत एव भिन्ना विदीर्णा सा गदा मन्त्रोषधिबलैर्निपातिता व्यालीव धरणीतले पपात ॥ ३।२९।२८ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावारण्यकाण्डे एकोनत्रिंशः सर्गः ॥ ३।२९ ॥