०२० चतुर्दश खरामात्यवधः

खरप्रेषितचतुर्दशराक्षसागमनानन्तरकालिकं वृत्तान्तमाह–तत इत्यादिभिः । ततः चतुर्दशराक्षसागमनानन्तरं राघवाश्रममागता प्राप्ता शूर्पणखा सीतया सह भ्रातरौ रामलक्ष्मणौ राक्षसान् राक्षसेभ्यः आचचक्षे कथयामास ॥ ३।२०।१ ॥

ते इति । ते शूर्पणखया बोधिताः राक्षसाः पर्णशालायामुपविष्टं रामं ददृशुः ॥ ३।२०।२ ॥

तामिति । श्रीमान् राघवो रामः आगतां तां शूर्पणखां तानागतान् राक्षसांश्च दृष्ट्वा लक्ष्मणमब्रवीत् ॥ ३।२०।३ ॥

तद्वचनाकारमाह–मुहूर्तमिति । हे सौमित्रे सीतायाः प्रत्यनन्तरः रक्षणार्थं समीपवर्ती मुहूर्तं भव । तत्प्रयोजनमाह–अस्या राक्षस्याः पदवीं मार्गमागतान् तत्सहायत्वेन प्राप्तान् इमान् राक्षसान् इह अस्मिन्काले वधिष्यामि ॥ ३।२०।४ ॥

वाक्यमिति । विदितात्मनो रामस्य एतत् कथितं वाक्यं श्रुत्वा लक्ष्मणः रामस्य वाक्यं तथेति प्रत्यपूजयत् ॥ ३।२०।५ ॥

राघव इति । राघवो रामः चामीकरविभूषितं महच्चापं सज्यं ज्यासहितं चकार रक्षांसि अब्रवीच्च ॥ ३।२०।६ ॥

तद्वचनाकारमाह–पुत्राविति । दुश्चरं दण्डकावनं प्रविष्टौ अत एव दण्डकारण्ये वसन्तौ दशरथस्य पुत्रौ आवां किमर्थमुपहिंसथ, एतेन अनपराधिकर्मकहिंसनं न युक्तमिति सूचितम् । श्लोकद्वयमेकान्वयि ॥ ३।२०।७८ ॥

नन्वस्मदपराधादर्शने ऽपि त्वया किमर्धं धनुः सज्यीकृतमित्यत आह–युष्मानिति । विप्रकारात् युष्मत्कृतानेकविधब्राह्मणापराधात् हेतोः ऋषीणां नियोगेन ऋषिकर्तृकभवद्वधनियोजनेन पापात्मकान् युष्मान् हन्तु सशरासनः शरासनसहितो ऽहं संप्राप्तः ॥ ३।२०।९ ॥

नन्विममेव भवदपराधं ज्ञात्वा वयं युद्धे प्रवृत्ता इत्यत आहतिष्ठतेति । अत्र संग्रामे यदि संतुष्टाः यूयं तर्हि तिष्ठत उपसर्पितुं पलायितुं नार्हथ यदि च इह लोके वो युष्माकं प्राणैरर्थः प्रयोजनं तर्हि निवर्तध्वम् । यदीत्युभयान्वयि ॥ ३।२०।१० ॥

तस्येति । तस्य रामस्य तद्वचनं श्रुत्वा संक्रुद्धाः ब्रह्मघ्नाः संरक्तनयनाः रामवचनश्रवणजनितकोपहेतुकारुण्यविशिष्टनेत्रवन्तः घोराः क्रूराः परुषाः रूक्षस्वभावाः ते खरप्रेषिताः चतुर्दश राक्षसाः संरक्तनयनं स्वाभाविकारुण्यविशिष्टनयनविशिष्टं, मधुराभाषं मधुरमाभाषणं यस्य तं, दृष्टपराक्रमं दृष्टः स्वबुद्ध्या इयत्तीकृतः पराक्रमः राक्षसबलं येन तं राममूचुः । एतेन अदृष्टपराक्रममिति छेदः सन्धिरार्ष इति भट्टोक्तिश्चिन्त्या । श्लोकद्वयमेकान्वयि ॥ ३।२०।१११२ ॥

तद्वचनाकारमाह–क्रोधमिति । सुमहात्मनो नो ऽस्माकं भर्तुः स्वामिनः खरस्य क्रोधमुत्पाद्य अस्माभिर्युधि हतस्त्वं प्राणान् सद्यः हास्यसे एव ॥ ३।२०।१३ ॥

ननु युद्धे जयपराजययोरीश्वराधीनत्वात्कथं ममैव हतिरुच्यते इत्यत आह–केति । रणमूर्धनि महासङ्ग्रामे बहूनामस्माकमग्रतः स्थातुमेकस्य तव का शक्तिः नैवेत्यर्थः । आहवे योद्धुं नैवेति किमु वक्तव्यम्, एतेन काव्यार्थापत्त्यलङ्कारेण द्रुतं त्वया पलायितव्यमिति सूचितम् ॥ ३।२०।१४ ॥

विपक्षे दोषमाह–एभिरिति । बाहुप्रयुक्तैः अस्मद्बाहुभ्यः प्रक्षिप्तैः परिघादिभिः करपीडितं करेण दृढं गृहीतं धनुः वीर्यं च प्राणांश्च त्यक्ष्यसि ॥ ३।२०।१५ ॥

इतीति । संरब्धाः प्राप्तयुद्धविषयकावेशाः अत एव उद्यतायुधनिस्त्रिंशाः उद्यतानि आयुधानि निस्त्रिंशाः खड्गाश्च येषां ते राक्षसाः राममेवमुक्त्वा अभिदुद्रुवुः । खड्गस्य आयुधत्वे ऽपि पृथगुपादानं गोबलीवर्दन्यायेन वैशिष्ट्यबोधनाय ॥ ३।२०।१६ ॥

चिक्षिपुरिति । दुर्जयं जेतुमशक्यं राघवं प्रति तानि उद्यतानि शूलानि चिक्षिपुः । काकुत्स्थो रामस्तु समस्तानि युगपदागतानि चतुर्दश शूलानि तावद्भिः चतुर्दशसंख्यापरिच्छिन्नैः काञ्चनभूषितैः शरैः चिच्छेद । सार्धश्लोक एकान्वयी ॥ ३।२०।१७ ॥

तत इति । ततः पश्चात् शूलच्छेदानन्तरं परमक्रुद्धः महातेजाः रामः शिलाशितान् शाणोपलसंस्कृतान् सूर्यसंनिभान् चतुर्दश नाराचान् बाणान् जग्राह । अर्धद्वयमेकान्वयि ॥ ३।२०।१८ ॥

गृहीत्वेति । धनुः गृहीत्वा आयम्य शरैः संयोज्य राक्षसान् लक्ष्यानुद्दिश्य राघवो रामः वज्रान् शतक्रतुरिव मुमोच ॥ ३।२०।१९ ॥

ते इति । ते राममुक्ताः शराः वेगात् रक्षसां वक्षांसि भित्त्वा रुधिरप्लुताः सन्तः वल्मीकात्पन्नगाः कृष्णसर्पा इव विनिष्पेतुः ॥ ३।२०।२० ॥

तैरिति । तैः रामबाणैः भग्नहृदयाः अत एव शोणितस्नाताः रुधिरालिप्ताः अत एव विगतासवः गतप्राणास्ते राक्षसाः छिन्नमूला द्रुमा इव भूमौ विनिष्पेतुः ॥ ३।२०।२१ ॥

तानिति । भूमौ पतितांस्तान् राक्षसान् दृष्ट्वा क्रोधमूर्छिता किंचित् संशुष्कशोणिता सा राक्षसी खरमुपागम्य प्राप्य सनिर्यासा निर्याससहिता वल्लरी लता इव पुनः पपात ॥ ३।२०।२२२३ ॥

भ्रातुरिति । तदा पतनसमये विवर्णवदना विकृतमुखा शोकार्ता राक्षसी सस्वरं बाष्पमश्रु मुमोच महत् निनदं शब्दं च ससर्ज चकार ॥ ३।२०।२४ ॥

निपातितानिति । रणे निपातितान् रामबाणहतान् राक्षसान् प्रेक्ष्य प्रधाविता प्रद्रुता खरस्य भगिनी शूर्पणखा तेषां रक्षसां निखिलेन साकल्येन वधं सर्वं तत्रत्यवृत्तं च शशंस ॥ ३।२०।२५ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावारण्यकाण्डे विंशतितमः सर्गः ॥ ३।२० ॥