०१४ जटायुषः वृत्तान्तः

पञ्चवटीप्रस्थानानन्तरकालिकं वृत्तान्तमाह–अथेत्यादिभिः । पञ्चवटीं गच्छन् रघुनन्दनः अन्तरा मध्ये महाकायं गृध्रमथाससाद समङ्गलं प्राप ॥ ३।१४।१ ॥

तमिति । वनस्थं महाकायमत एव राक्षसं राक्षसत्वेन प्रतीयमानं तं जटायुषं दृष्ट्वा महाभागौ रामलक्ष्मणौ पक्षिं पक्षिणं मेनाते को भवानिति विशेषं ब्रुवाणौ अभवतां चेति शेषः ॥ ३।१४।२ ॥

स इति । सः ताभ्यां पृष्टः पक्षी हे वत्स आत्मनः स्वस्य पितुः वयस्यं सखायं मां विद्धि जानीहि इति मधुरया वाचा प्रीणयन् तर्पयन्नेव उवाच । इव एवार्थे ॥ ३।१४।३ ॥

स इति । तं पक्षिणं पितृसखं मत्वा राघवः पूजयामास । अथ अनन्तरमव्यग्रं यथा स्यात्तथा तस्य कुलं नाम च पप्रच्छ ॥ ३।१४।४ ॥

रामस्येति । रामस्य वचनं श्रुत्वा कुलमात्मानं च द्विजः पक्षी तस्मै रामाय आचचक्षे अत एव सर्वभूतसमुद्भवमुत्पत्तिप्रकारं चाचचक्षे ॥ ३।१४।५ ॥

उत्पत्तिवचनप्रकारमाह–पूर्वेत्यादिभि । हे महाबाहो पूर्वकाले ब्रह्मणः प्रातःसमये ये प्रजापतयः अभवन् तान् निगदतो मे आदितः श्रृणु ॥ ३।१४।६ ॥

कर्दम इति । तेषां प्रजापतीनां प्रथमः पौर्वकालिकः कर्दमः तदभिधः तदनन्तरो द्वतीय

इत्यर्थः विकृतः, तदभिधः तृतीयः शेषः, चतुर्थः संश्रयः, पञ्चमो बहुपुत्रः, षष्ठः स्थाणुः, सप्तमो मरीचिः, अष्टमो ऽत्रिः, नवमः क्रतुः, दशमः पुलस्त्यः, एकादशो ऽङ्गिराः, द्वादशः प्रचेताः, त्रयोदशः पुलहः, चतुर्दशो दक्षः, पञ्चदशो विवस्वान्, षोडशो ऽरिष्टनेमिः, सप्तदशः पश्चिमः, पश्चाज्जातः कश्यपः आसीत् । श्लोकत्रयमेकान्वयि ॥ ३।१४।७९ ॥

प्रजापतेरिति । हे राम हे महायशः दक्षस्य प्रजापतेस्तु षष्टिर्दुहितरः कन्याः बभूवुरिति अतः विख्याता बभूवुः ॥ ३।१४।१० ॥

कश्यप इति । तासां दुहितृ़णां मध्ये अदित्याद्याः अष्टौ दुहितृ़ः कश्यपः प्रतिजग्राह । यद्यपि कश्यपाय त्रयोदशेति भागवतेनेदं विरुध्यते तथापि वक्ष्यमाणवंशोपयोगिनीत्वेनाष्टावेवात्र विवक्षिता इति न तद्विरोधः । सार्धश्लोक एकान्वयी ॥ ३।१४।११ ॥

ता इति । मत्समान् त्रैलोक्यभर्तृ़न् त्रिलोकीभरणसमर्थान् पुत्रान् जनयिष्यथ इति ता अष्टौ कन्याः दक्षसुताः प्रीतः कश्यपः पुनरब्रवीत् ॥ ३।१४।१२ ॥

अदितिरिति । अदितिप्रभृतिः तन्मनाः कश्यपोक्तिविषयकप्रीतिमती अभवत् शेषास्तु अमनसः तदुक्तिविषयकप्रीत्यभाववत्यो ऽभवन् । एतेन तासां पुत्रेषु न प्रीतिरिति ध्वनितम् अत एवासां कन्यैव वंशो वक्ष्यते ॥ ३।१४।१३ ॥

अदित्यामिति । आदित्यादयस्त्रयस्त्रिंशद्देवा अदित्यां जज्ञिरे तत्रादित्या द्वादश वसवो ऽष्ठौ रुद्रा एकादश अश्विनौ द्वौ ॥ ३।१४।१४ ॥

दितिरिति । हे तात दितिस्तु यशस्विनः दैत्यान् पुत्रान् अजनयत् इयं सवनार्णवा मही पुरा तेषामेवासीत् ॥ ३।१४।१५ ॥

दनुरिति । दनुस्तु अश्वग्रीवं पुत्रमजनयत्, नरकं कालकं च कालकापि व्यजायत अजनयत् ॥ ३।१४।१६ ॥

क्रौञ्चीमिति । ताम्रा तु लोकविश्रुताः क्रौञ्च्याद्याः पञ्च कन्याः सुषुवे ॥ ३।१४।१७ ॥

ताम्रासुतावंशमाह–उलूकानिति । क्रोञ्ची उलूकान् अजनयत् पक्षिविशेषान् व्यजायत अजनयत् । श्येनी तु सुतेजसः श्येनान् गृध्रांश्च व्यजायत ॥ ३।१४।१८ ॥

धृतराष्ट्रीति । धृतराष्ट्री सा भामिनी तु सर्वशः हंसान् राजहंसान् कलहंसांश्च चक्रवाकांश्च विजज्ञे । श्रवणे रुच्युत्पादनायाह ते भद्रं कल्याणम् । हे राम इति श्रृण्विति च शेषः ॥ ३।१४।१९ ॥

शुकीति । शुकी तु नतां विजज्ञे । नतायास्तु विनता सुता अभवदिति शेषः ॥ ३।१४।२० ॥

कश्यपस्त्रियाः ताम्रायाः सुतावंशमुक्त्वा ताम्रासपत्नीवंशमाह–दशेति । क्रोधवशा तु मृग्याद्याः दशात्मसंभवाः सुताः विजज्ञे । श्लोकद्वयमेकान्वयि ॥ ३।१४।२१२२ ॥

क्रोधवशासुतावंशमाह–अपत्यमिति । हे नरवरोत्तम सर्वे मृगाः मृग्याः क्रोधवशासुताया अपत्यम् । मृगमन्दायास्तु ऋक्षाः सृमराश्चमराश्च अपत्यम् ॥ ३।१४।२३ ॥

तत इति । भद्रमदा तु इरावतीं नाम सुतां जज्ञे । तस्या इरावत्यास्तु लोकनाथः सर्वैरीप्सितः महागज ऐरावतः पुत्रो जज्ञे ॥ ३।१४।२४ ॥

हर्या इति । हर्या अपत्यं तु हरयः सिंहाः तपस्विनो विचारशीला वानराश्च । शार्दूली तु गोलाङ्गूलान् व्याघ्रांश्च सुतानजनयत् ॥ ३।१४।२५ ॥

मातङ्ग्या इति । मातङ्ग्यास्तु मातङ्गाः गजा अपत्यम् । हे काकुत्स्थ दिशागजं सुतं तु श्वेता अजनयत् ॥ ३।१४।२६ ॥

तत इति । सुरभिः रोहिणीं गन्धर्वां च द्वे दुहितरौ व्यजायत ॥ ३।१४।२७ ॥

रोहिणीति । रोहिणी गावः गाः अजनयत् । गन्धर्वी तु वाजिनो ऽश्वान् सुतानजनयत् । सुरसा तु नागान् अजनयत् । कद्रूस्तु पन्नगान् अजनयत् ॥ ३।१४।२८ ॥

क्रोधवशावंशमुक्त्वा तत्सपत्नीवंशमाहमनुरिति । कश्यपस्य स्त्री मनुस्तु ब्राह्मणादीन् चतुरो मनुष्यानजनयत् ॥ ३।१४।२९ ॥

मुखत इति । मुखादिभ्यः क्रमशो ब्राह्मणादयो जाताः इति एवंप्रतिपादिका श्रुतिः ॥ ३।१४।३० ॥

सर्वानिति । अनला तु पुण्यफलान् वृक्षान् व्यजायत । विनता तु शुकीपौत्री शुकी ताम्रायाः कश्यपस्त्रियाः पुत्री तत्पुत्री नता तत्पुत्री विनतेत्यर्थः । कद्रूश्च सुरसासुता वर्णितेति शेषः ॥ ३।१४।३१ ॥

कद्रूरिति । कद्रूस्तु धरणीधरान्नागसहस्रं विजज्ञे ऽसुरसा ऽजनयन्नागान् रामकद्रूश्च पन्नगान्ऽ इति पूर्वोक्तेः तु न विरोधः सुरसाया धरणीधरनामातिरिक्तनागोत्पादिकत्वेन विरोधाभावात् । विनतायास्तु गरुडो ऽरुणश्च द्वौ पुत्रौ ॥ ३।१४।३२ ॥

तस्मादिति । तस्मादरुणादहं जातः, संपातिस्तु मम अग्रजो ज्येष्ठभ्राता, श्येनीपुत्रं मां तु जटायुरिति विद्धि ॥ ३।१४।३३ ॥

स इति । सः तव पितुः सखा अहं यदि त्वमिच्छसि तर्हि ते सहायो भविष्यामि । तत्संभवमाह–सलक्ष्मणे त्वयि याते कन्दमूलाद्यर्थं क्वचिद्गते सति सीतां रक्षिष्ये एतेन जटायुषः त्रिकालज्ञत्वं सूचितम् ॥ ३।१४।३४ ॥

जटायुषमिति । जटायुषं प्रतिपूज्य परिष्वज्य च राघवः संनतः प्रसृतो ऽभवत्, जटायुषा संकथितं पितुः सखित्वं तु पुनः पुनः शुश्राव च ॥ ३।१४।३५ ॥

स इति । स राघवः मैथिलीं सीतां परिधाय जटायुषः परिपाल्यत्वेन स्वीकृत्य अतिबलेन पक्षिणा तेन जटायुषनापव सह रिपून् अनलः वह्निः शलभान् सपतङ्गानिव दिधक्षन् तां प्रसिद्धां पञ्चवटीं जगाम । ऽदिधक्षन् शलभानिवानलःऽ इति पाठः ॥ ३।१४।३६ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावारण्यकाण्डे चतुर्दशः सर्गः ॥ ३।१४ ॥