००४ विराधवधः

रामलक्ष्मणहरणानन्तरकालिकं सीतावृत्तान्तमाह–ह्रियमाणाविति । रघूत्तमौ ह्रियमाणौ दृष्ट्वा सुमहाभुजौ सुमहान्तौ स्वबाहू प्रगृह्य समुत्थाप्य उच्चैः स्वरेण चुक्रोश, सुमहाभुजौ काकुत्स्थौ प्रगृह्य ह्रियमाणौ दृष्ट्वा चुक्रोशेत्यन्वयो वा ॥ ३।४।१ ॥

क्रोशनाकारमाह–एष इति । सहलक्ष्मण एष रामः रौद्ररूपेण रक्षसा ह्रियते ॥ ३।४।२ ॥

मामिति । मां वृकाः शार्दूलद्वीपिनो वा भक्षयिष्यन्ति । तत्र शार्दूलाः सबिन्दवो व्याघ्राः द्वीपिनस्तु बिन्दुरहिता इति भेदः । तत्र सहायान्तराण्यदृष्ट्वाह–हे राक्षसोत्तम मां काकुत्स्थौ च हर उत्सृज वा ते नमः । काकुत्स्थहरणस्य सिद्धत्वे ऽपि स्वहरणस्याभावादेकसत्त्वे ऽपि द्वयं नास्तीति प्रतीतेः न प्रार्थनानुपपत्तिः ॥ ३।४।३ ॥

तस्या इति । तस्या वैदेह्याः तद्वचनं श्रुत्वा वीरौ रामलक्ष्मणौ दुरात्मनस्तस्य विराधस्य वधे वेगं शीघ्रतां प्रचक्रतुः ॥ ३।४।४ ॥

वधप्रकारमाह–तस्येति । रौद्रस्य भयङ्करस्य रक्षसः सव्यं वामं बाहुं सौमित्रिः बभञ्ज, रामस्तु दक्षिणं बाहुं बभञ्ज ॥ ३।४।५ ॥

स इति । भग्नबाहुः मेघसंकाशः स विराधः मूर्छितः सन् वज्रभिन्नः अचलः पर्वत इव धरण्या पपात ॥ ३।४।६ ॥

मुष्टिभिरिति । मुष्ट्यादिभिः सूदयन्तौ ताडयन्तौ रामलक्ष्मणौ उद्यम्योद्यम्य उत्थाप्योत्थाप्य एनं राक्षसं स्थण्डिले निष्पिपेषतुः संचूर्णयामासतुः ॥ ३।४।७ ॥

स इति । बहुभिर्बाणैः विद्धः खड्गाभ्यां परिक्षतश्च बहुधा अनेकवारं भूमौ निष्पिष्टश्च स राक्षसः राक्षसत्वसहितः स विराधो न ममार ॥ ३।४।८ ॥

तमिति । अवध्यं तं विराधं सुभृशमत्यन्तं प्रेक्ष्य भयेषु अभयदः श्रीमान् रामः इदमब्रवीत् ॥ ३।४।९ ॥

तद्वचनाकारमाह–तपसेति । पुरुषव्याघ्र हे लक्ष्मण अयं राक्षसः तपसा हेतुभूतेन युधि शस्त्रेण निर्जेतुं न शक्यते अतः राक्षसं राक्षसपातनार्थं निखनावहे भूमिमिति शेषः ॥ ३।४।१० ॥

कुञ्जरस्येति । रौद्रस्य भयङ्करस्य कुञ्जरस्य इव रौद्रवर्चसः भयकारितेजोयुक्तस्य अस्य राक्षसस्य पातनार्थमस्मिन् वने सुमहत् अतिविशालं श्वभ्रं गर्तः खन्यताम् ॥ ३।४।११ ॥

इतीति । इति अनेन प्रकारेण प्रदरः खन्यतामिति लक्ष्मणं राम उक्त्वा पादेन कण्ठे विराधमाक्रम्य एकीकृत्य बद्धेत्यर्थः तस्थौ ॥ ३।४।१२ ॥

तदिति । राघवेण रामेण उक्तं तद्वचः श्रुत्वा राक्षसो विराधः प्रसृतं नम्रीभूतमिदं वचः काकुत्स्थं प्रोवाच ॥ ३।४।१३ ॥

तद्वचनाकारमाह–हत इति । हे पुरुषव्याघ्र शक्रः तुल्यबलो यस्य तेन भवताहं हतः । अर्धं पृथक् । तत्र हेतुं वक्तुमाह–मोहादविवेकात्पूर्वं मया त्वं न ज्ञातः इदानीं तु कौशल्यासुप्रजाः कौशल्यायाः प्रादुर्भूतरामस्त्वं मया विदितः ज्ञातः वैदेही लक्ष्मणश्च विदितौ । सार्धश्लोक एकान्वयी ॥ ३।४।१४१५ ॥

ननु किं ज्ञानेनेत्यतः स्ववृत्तमाह–अभीति । वैश्रवणेन शप्तः प्राप्तशापः तुम्बुरुः तदभिधो गन्धर्वो ऽहमभिशापाद्धेतोः घोरां राक्षसीं तनुं प्रविष्टो ऽस्मीति शेषः ॥ ३।४।१६ ॥

प्रसाद्येति । मया प्रसाद्यमानः महायशाः स वेश्रवणः माम् अब्रवीत् ।

तद्वचनाकारमाह–यदेति । संयुगे संग्रामे दाशरथिः दशरथपुत्रो रामः यदा त्वां वधिष्यति तदा प्रकृतिं स्वभावमापन्नः प्राप्तो भवान् स्वर्गं स्वर्गलोकं गमिष्यति इति अनुपस्थीयमानः समये असेव्यमानः अत एव क्रुद्धः सः पश्चान्मया प्रसाद्यमानः सन् व्याजहार । श्लोकद्वयमेकान्वयि ॥ ३।४।१७१८ ॥

उपसंहरन्नाह–इतीति । रम्भासक्तं मां वैश्रवणो राजा इत्यनेन प्रकारेण उवाच । सुदारुणादतिघोरात् शापात् इह अस्मिन्समये तव प्रसादान्मुक्तोहं स्वं भवनं गमिष्यामि वः स्वस्त्यस्तु । सार्धश्लोक एकान्वयि ॥ ३।४।१९ ॥

इत इति । धर्मात्मा सूर्यसन्निभः महर्षिः शरभङ्गः इत अस्मात्स्थानात् अध्यर्धयोजने सार्धयोजने वसति तं शरभङ्गं त्वं शीघ्रमभिगच्छ स शरभङ्गस्ते श्रेयः त्वदीप्सितकल्याणं विधास्यति ॥ ३।४।२०२१ ॥

अवटे इति । हे राम गतसत्त्वानां रक्षसां सनातनो धर्मः एषः अवटे निक्षेपः अतः अवटे गर्ते मां निक्षिप्य कुशली त्वं व्रज ॥ ३।४।२२ ॥

तद्धर्मस्य सफलत्वं बोधयन्नाह–अवट इति । अवटे गर्ते ये राक्षसाः निधीयन्ते तेषां राक्षसानां सनातनाः नित्या लोकाः भवन्तीति शेषः । अर्धं पृथक्–एवमिति । शरपीडितो विराधः एवं काकुत्स्थमुक्त्वा न्यस्तदेहः त्यक्तराक्षसशरीरः सन् स्वर्गसंप्राप्तो बभूव । अर्धद्वयमेकान्वयि ॥ ३।४।२३ ॥

तदिति । तद्विराधोच्चारितं वाक्यं श्रुत्वा लक्ष्मणं व्यादिदेश आज्ञापयामास । तत्प्रकारमाह–हे लक्ष्मण रौद्रस्य कुञ्जरस्य इव रौद्रकर्मणः अस्य राक्षसस्य निपातायेति शेषः, अस्मिन् वने सुमहत् श्वभ्रं गर्तः खन्यताम् ॥ ३।४।२४२५ ॥

इतीति । इति अनेन प्रकारेण प्रदरो गर्तः खन्यताम् इति वचनं लक्ष्मणमुक्त्वा पादेन चरणेन विराधं कण्ठे आक्रम्य रामस्तथौ ॥ ३।४।२६ ॥

तत इति । ततः रामाज्ञाश्रवणानन्तरं खनित्रमादाय विराधस्य पार्श्वतः पार्श्वे उत्तमं तत्क्षेपणयोग्यं श्वभ्रं गर्तं लक्ष्मणो ऽखनत् ॥ ३।४।२७ ॥

तमिति । मुक्तकण्ठं मुक्तः प्रक्षेपणार्थं रामचरणाक्रमणात्त्यक्तः कण्ठो यस्य तं शङ्कुवदचलायमानौ कर्णौ यस्य तं महास्वनं महासुभिः ऊर्ध्वोच्छ्वासैः अनिति जीवति तमासन्नमरणमित्यर्थः, अत एव भैरवस्वनं भयङ्करशब्दं नदन्तं कुर्वन्तं विराधं श्वभ्रे स्वकृतखाते प्राक्षिपत् ॥ ३।४।२८ ॥

तदेव सर्वं संक्षिप्य भङ्ग्यन्तरेणाह–तमित्यादिभिः । संयति संग्रामे स्थिरौ अचलितचित्तौ आशुविक्रमौ मुदान्वितौ उभौ रामलक्ष्मणौ दारुणं नदन्तमत एव भयावहं राक्षसं तं विराधमाहवे सङ्ग्रामे उत्क्षिप्य ऊर्ध्वं क्षिप्त्वा चिक्षिपतुः पृथिव्यामिति शेषः ॥ ३।४।२९ ॥

अवध्यतामिति । शितेन तीक्ष्णेन शस्त्रेण महासुरस्य विराधस्य अवध्यतां प्रेक्ष्य दृष्ट्वा नरर्षभौ अत्यर्थविशारदौ अत्यर्थमत्यन्तं विशारदौ निपुणावुभौ रामलक्ष्मणौ समर्थ्य अतिखननेन बिलं संपाद्य बिले पातयित्वा बन्धं प्रचक्रतुः ॥ ३।४।३० ॥

ननु मरणयत्नान्तराणि हित्वा गर्ते निपातः किमर्थं कृत इत्यत आह–स्वयमिति । काननचारिणा वनविहरणशीलेन रामेण स्वयमीप्सितः वधः विराधकल्याणकारकविराधहननमात्मनः मृत्युं प्रसह्य सहित्वा संवाञ्छयेत्यर्थः शस्त्रकृतः शस्त्रव्यापारान्मे वधो न इत्ययमर्थो विराधेन स्वयं यथार्थं निवेदितः कथितः ॥ ३।४।३१ ॥

तदिति । तद्भाषितं निशम्य श्रुत्वा बिलप्रवेशने मतिः रामेण कृता बिलं प्रवेश्यमानेन रक्षसा वनं सर्वं काननं निनादितं शब्दितम् ॥ ३।४।३२ ॥

प्रहृष्टेति । प्रहृष्टं द्रष्टृ़णां प्रमोदप्रापकं रूपं ययोस्तौ वीतभयौ रामलक्ष्मणौ तं विराधं राक्षस महावने उर्व्यां प्रदरे गर्ते एव निपात्य शिलाभिरन्तर्दधतुः ननन्दतुश्च । इवशब्द एवार्थें ॥ ३।४।३३ ॥

तत इति । काञ्चनचित्रकार्मुकौ काञ्चनेन द्रवीभूतसुवर्णेन चित्रे कार्मुके धनुषी ययोस्तौ रामलक्ष्मणौ रक्षो विराधं निहत्य मैथिलीं परिगृह्य ततः तस्यां दिवि स्थितौ तौ अमृतौ चन्द्रदिवाकराविव विजह्रतुः ॥ ३।४।३४ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावारण्यकाण्डे चतुर्थः सर्गः ॥ ३।४ ॥