०३६ हनुमता सीतायाः रामाङ्गुलीयकदर्शनम्

अथ दृढतरविश्वासाय रामाङ्गुलीयकं दातुमाह– भूय इति । प्रत्ययो विश्वासः ॥ ५।३६।१ ॥

वानरो ऽहं नान्यः । रामस्य नाम नामाक्षराणि तैरङ्कितं चिह्नितम् ॥ ५।३६।२ ॥

क्षीणं दुःखरूपं पापफलं यस्याः सा । असि शीघ्रमेव भविष्यसि ॥ ५।३६।३ ॥

विभूषितं विभूषणम् । भर्तारं प्राप्तेवेत्यन्वयः ॥ ५।३६।४ ॥

“बभूव हर्षोदग्रं च” इति पाठः ॥ ५।३६।५ ॥

हीमत्यङ्गुलीयसांनिध्ये भर्तृसांनिध्यादिव किञ्चिल्लज्जावती । प्रियं कृत्वा ऽ ऽदरं कृत्वा ॥ ५।३६।६ ॥

विक्रान्तः शूरः । समर्थो देशकालोचितकृत्यचतुरः । प्राज्ञो धर्मार्थविषयकसर्वशास्त्रार्थतत्त्वज्ञः । पदं स्थानम् ॥ ५।३६।७ ॥

क्रमता क्रामता ॥ ५।३६।८ ॥

सन्त्रासः समुद्रादिति शेषः । रावणादपि संभ्रमश्चित्तक्षोभः ॥ ५।३६।९ ॥

यदि यस्मात्तेन प्रेषितो ऽसि तस्मान्मया समभिभाषितुं संभाषणं कर्तुमर्हसे ऽर्हसि ॥ ५।३६।१०१२ ॥

ननु तद्दूतागमनेन तद्वचसा च कुशलावगतेः किं पुनर्दिष्टयेत्यादि तत्प्रश्नेनेति शङ्कायां प्रश्नाशयं दर्शयति– कुशली यदीति । यदि कुशली त्वया कथ्यते तदा मत्कृते सागरमेखलां महीं किं न दहतीत्यर्थः ॥ ५।३६।१३ ॥

ननु केवलं महीमेवेति किमुच्यत इत्याशयेन पक्षान्तरम्– अथवेति । तथा शक्तिमन्तौ यदि तर्हि किमिति तूष्णीं तिष्ठतस्तत्राह– ममैवेति । दुःखानां दुःखहेतुपापानां विपर्ययो नाशो नाद्यापि संवृत्त इत्यर्थः ॥ ५।३६।१४ ॥

मम दुःखक्षय ईषत्करः, अपि तु तस्य सुखावस्थानमेव मृग्यमित्याशयेनाह– कच्चिदिति । उत्तराणि कार्याणि मद्विमोचनफलानि ॥ ५।३६।१५ ॥

न दीनो न संभ्रान्त इत्यनुषङ्गः । पुरुषकार्याणि पुरुषकारान् ॥ ५।३६।१६ ॥

द्विविधं सौम्यासौम्यरूपप्रकारद्वयवत् । त्रिविधोपायं धर्मार्थकामलक्षणत्रिविधपुरुषार्थानां प्राप्त्युपायभूतमुपायं सामाद्युपायमपि सेवते कच्चित् तथा मित्रेषु च विजिगीषुसुहृत्कच्चित् विजिगीषुसुहृदिति बहुव्रीहिः । तत्पुरुषश्चेति कतकः । सुहृत्परन्तपो रामो विजिगीषुः संस्त्रिविधोपायं सामदानभेदरूपमुपायं दण्डोपायं च मित्रेषु च चादमित्रेषु च द्विविधं यथा भवति तथा सेवते कच्चित् । मित्रेषु सामदाने अमित्रेषु भेददण्डौ चेत्येवं विभज्य प्रयुङ्क्ते कच्चिदित्यर्थ इति तीर्थः ॥ ५।३६।१७ ॥

मित्राणि लभते स्वयत्नेनामित्रैश्च स्वयत्नतो ऽभिगम्यते । कल्याणमित्रः सौम्यमित्रः । मित्रैः पुरस्कृतो बहुमतः कच्चित् ॥ ५।३६।१८ ॥

आशास्त्याशास्ते प्रार्थयत इत्यर्थः ॥ ५।३६।१९ ॥

विवासाद्विदूरवासात् ॥ ५।३६।२० ॥

अनूचित इति छान्दसो दीर्घः । उत्तरं दुःखम् दुःखाद्दुखमित्यर्थः ॥ ५।३६।२१,२२ ॥

मन्निमित्तेन मद्वियोगनिमित्तेन शोकेन । कच्चित्परितप्यत इति शेषः ॥ ५।३६।२३२६ ॥

रौद्रेणामोघक्रूरेण ॥ ५।३६।२७ ॥

हेमसमानवर्णं हेमवर्णवत्स्पृहणीयशोभम् ॥ ५।३६।२८ ॥

धर्मापदेशाद्धर्मोद्देशात् । धर्ममुद्दिश्येति यावत् । न भीर्न शोकः । मम नयनान्नभीः, राज्यत्यागान्न शोकः । भयं च मद्रक्षानिमित्तम् । यस्य व्यथा वनवासखेदश्च नासीत्स इदानीं धैर्यं करोति कच्चित् ॥ ५।३६।२९ ॥

धैर्यत्यागे मद्वियोग एव हेतुरित्याह– न चास्येति । मातापित्रादौ नास्य मत्समो ऽपि स्नेहः, अधिकस्तु कुतः । मम तच्छक्तिरूपत्वात् वस्तुतस्तयोस्तस्याभावाच्च । हनूमन्नहमपि तावज्जिजीविषेयम् । प्रवृत्तिं वार्ता प्रवृत्तिमार्गे रतिं च । निवृत्तिमार्गरतौ ममापि कार्याक्षमत्वेनादर्शनरूपो नाश एवेति भावः ॥ ५।३६।३० ॥

रामार्थयुक्तं रामप्रयोजनयुक्तम् । रामरूपाभिधेयेन युक्तं तद्बोधकमिति वा ॥ ५।३६।३१,३२ ॥

न जानीते न जानीत इव । अनुह्राददैत्यनीतां शचीं पुरन्दर इव ॥ ५।३६।३३ ॥

मह्यं मत्तः ॥ ५।३६।३४ ॥

विष्टम्भयित्वा संस्तभ्य । सेतुं बद्धेति यावत् ॥ ५।३६।३५ ॥

तत्र तत्कर्मप्रवृत्तावन्तरा विघ्नत्वेन यदि मृत्युप्रभृतयो ऽपि स्थास्यन्ति तदा तानपि वधिष्यति ॥ ५।३६।३६,३७ ॥

स्वोक्ते ऽर्थे देव्या विश्वासार्थं स्ववासस्थानमन्दरादिभिः स्वजीवनसादनैर्मूलफलैश्च शपथं करोति– मन्दरेण चेति । दर्दुरः पर्वतविशेषः ॥ ५।३६।३८ ॥

यथा रामस्य मुखं द्रक्ष्यसि तथा मन्दरादिभिः शपे इत्यन्वयः ॥ ५।३६।३९ ॥

प्रस्रवणे गिरौ विद्यमानमपीह द्रक्ष्यसीत्यर्थः । नागपृष्टस्य मूर्धन्यैरावतोपरि स्थितमिन्द्रमिव मत्पृष्ठगं रामं द्रक्ष्यसीत्यर्थः । “नाकपृष्ठस्य” इति पाठः । स्वर्गस्योपरीत्यर्थ इति तीर्थः ॥ ५।३६।४० ॥

सुविहितमारण्यकशास्त्रबोधितम् । भक्तमोदनम् । पञ्चमम् कालं प्राप्येति शेषः । प्रातःसङ्गवमध्याह्नापराह्णात्पञ्चमं सायाह्नं प्राप्येत्यर्थः । यद्वा प्रातःसायं प्रातःसायमिति कालचतुष्टयं त्यकत्वा पञ्चमे प्रातःकाल इत्यर्थः, दिनद्वयमतीत्य भुङ्क्ते इत्यर्थः ॥ ५।३६।४१४३ ॥

प्रायो ऽनिद्र एव । कथञ्चित्सुप्तो ऽपि सीतेति वदन्नेव प्रतिबुध्यते ॥ ५।३६।४४ ॥

स्त्रीमनोहरं स्त्रीसंनिधाने मनोहरं स्त्रीणां मनोहरं वा । श्वसन्दीर्घोच्छ्वासं त्यजन् ॥ ५।३६।४५,४६ ॥

रामसङ्कीर्तनेनानिद्रः सततं राम इत्यादिना वीतशोका । न मांसं राघवो भुङ्क्ते इत्युक्तेन रामशोकेन समानशोका । अम्बुदशेषश्चन्द्रो यस्यां सा शरत् । लुप्तषष्ठीकम् । शरदो निशेव प्रकाशाप्रकाशयुक्तशरन्निशेव हर्षशोकवती बभूव ॥ ५।३६।४७ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये सुन्दरकाण्डे षट्त्रिंशः सर्गः ॥ ५।३६ ॥