०३५ सीता-हनुमत्संवादः

तां त्विति । आदित्य इवेत्यादिकाम् ॥ ५।३५।१,२ ॥

तानि रामलक्ष्मणचिह्नानि । भूयो ऽधिकं विशिष्य समाचक्ष्व, येन मां शोको न समाविशेत् ॥ ५।३५।३ ॥

संस्थानमवयवसंनिवेशः । रूपमाकारो नीलपीतादिवर्णश्च ॥ ५।३५।४,५ ॥

जानन्ती दिष्ट्या दैवेन रामदूतं मां जानन्ती यदि पृच्छसि रावणशङ्कां त्यक्त्या तदा त्वया यानि संस्थानादीनि पृष्टानि यथा च मया लक्षितानि दृष्टानि तानि सर्वाणि वदतो मत्तः शृणु ॥ ५।३५।६,७ ॥

रूपदाक्षिण्यसंपन्नः प्रसूत इति । जन्मना सहैवोक्ता वक्ष्यमाणाश्च गुणा जाता इत्यर्थः ॥ ५।३५।८१० ॥

रामो भामिनि लोकस्येति । सर्वस्य कर्ता हर्ता भर्ता चेति शेषः । अनेन सृष्टिस्थितिसंहारकर्तृत्वरूपं ब्रह्मलक्षणं रामस्योक्तं गूढम् । एवं ज्ञानं तत्क्षणं भगवतैव स्वमायातिरस्करिणीनिरासादिति बोध्यम् । लोकस्य मर्यादानां वर्णाश्रममर्यादानां कर्ता, भगवदवतारत्वात् । कारयिता कालात्मना, अवतीर्णरूपेण चातुर्वर्ण्यरक्षिता च ॥ ५।३५।११ ॥

अत एवार्चिष्मानादित्यरूपः सन्नर्चितः त्रैवर्णिकैरिति शेषः । ब्रह्मचर्यव्रते गृहस्थोचितपर्वादिवर्जनपूर्वकमृतुगमनलक्षणे स्थितः । वस्तुतस्तु गार्हस्थ्ये ऽप्यस्खलितरेताः । मनःसङ्कल्पेनैव देव्या रतिप्रीतेः सन्तानस्य च संपादनमिति भावः । साधूनामुपकारज्ञ उपकर्तव्यकालज्ञः कर्मणां स्वरूपस्यानुष्ठानस्य च तत्त्वज्ञाता ॥ ५।३५।१२ ॥

ब्राह्मणानां वसिष्ठादीनाम् ॥ ५।३५।१३ ॥

यजुर्वेदविनीतश्च । चादन्येषामपि संग्रहः । विनीतो निरतः ॥ ५।३५।१४ ॥

एवमात्मगुणानुक्त्वा देहगुणानाह– विपुलांस इति ॥ ५।३५।१५ ॥

समो विस्तारायामसमः ॥ ५।३५।१६ ॥

त्रिस्थिरस्त्रिषु स्थानेषु स्थिरः । “ऊरुश्च मणिबन्धश्च मुष्टिश्च नृपतेः स्थिराः” इत्युक्तेः । त्रिषु प्रलम्बः “प्रलम्बा यस्य स धनी त्रयो भूमुष्कबाहवः” इति सामुद्रिकोक्तेः । मुष्को वृषणः । त्रिषु समः समत्र्यवयव इत्यर्थः । “केशाग्रं वृषणं जानु समं यस्य स भूपतिः” इत्युक्तेः । त्रिषु चोन्नतः । “नाभ्यन्तःकुक्षिवक्षोभिरुन्नतैः क्षितिपो भवेत्” । त्रिः ताम्रस्त्रिषु ताम्रः । “नेत्रान्तनखपाण्यङ्घ्रितलैस्ताम्रस्त्रिभिः सुखी” । त्रिषु स्निग्धः । “स्निग्धा भवन्ति वै येषां पादरेखाः शिरोरुहाः । तथा लिङ्गमणिस्तेषां महाभाग्यं विनिर्दिशेत् ॥ " त्रिषु गम्भिरः “स्वरे गतौ च नाभौ च गम्भीरस्त्रिषु शस्यते” ॥

५।३५।१७ ॥

त्रिवलीमानुदरे कण्ठे उभयत्र वा वलीत्रयवान् । त्रिष्ववनतो निम्नः । निम्नत्वं निम्नगत्वम् । तच्च निमग्नपादतलमध्यत्वम्, निमग्नपादरेखात्वम्, निमग्नस्तनचूचुकत्वं च । चतुर्व्यङ्गश्चतुर्ह्रस्वः । “ग्रीवा प्रजननं पृष्ठं ह्रस्वे जङ्घे च पूजिते” । त्रिशीर्षवानावर्तत्रययुक्तशीर्षः । “आवर्तत्रययुक्तं यस्य शिरः क्षितिभूतामयं नाथः “चतुष्कलः चतस्रः कलाश्चतुर्वेदप्राप्तिसूचकाङ्गुष्ठमूलरेखा यस्य सः । “मूले ऽङ्गुष्ठस्य रेखानां चतस्रस्तिस्र एव वा । एका द्वे वा यथायोगं वेदरेखा द्विजन्मनाम् ॥ " चतुर्लेखो ललाटे चतूरेखायुक्तः । “ललादे यस्य दृश्यन्ते चतुस्त्रिद्व्येकरेखिकाः । शतद्वयं शतं षष्टिस्तस्यायुर्विंशतिः क्रमात् ॥

" चतुष्किष्कुः किष्कुश्चतुर्विंशत्यङ्गुलात्मको हस्तश्चतुर्हस्तप्रमाणः । षण्णवत्यङ्गुलोत्सेध इति यावत् । चतुःसमः । “बाहुजानूरुगण्डानि चत्वार्यथ समानि च” इति । बाहूरूजानुगण्डौ समावित्यर्थः ॥ ५।३५।१८ ॥

चतुर्दशसमद्वन्द्व इति समपरिमाणचतुर्दशाङ्गद्वन्द्वः । तदुक्तम् “भ्रुवौ नासापुटे नेत्रे कर्णावोष्ठौ च चूचुकौ । कूर्परे मणिबन्धौ च जानुनी वृषणौ कटी ॥ करौ पादौ स्फिजौ यस्य समौ ज्ञेयः स भूपतिः । स्कन्धौ गण्डौ तथा दन्ता ऊरू ज्ञेयौ च जत्रुणी ॥ " इत्यन्यत्र पाठः । चतुर्दंष्ट्र इति । चतुस्रो दंष्ट्रा दन्तपङ्क्तिद्वये प्रतिपार्श्वं शास्त्रोक्तलक्षणा यस्य सः । तच्च “स्निग्धा घनाश्च दशनाः सुतीक्ष्णदंष्ट्राः शुभाश्चतस्रः” इति । दंष्ट्राणां तीक्ष्णत्वं क्रमुकादिखण्डनसमर्थत्वम् । चतुर्गतिरिति । सिंहशार्दूलगजवृषभैश्चतुर्भिस्तुल्या गतिर्यस्य सः । महोष्ठहनुनासश्चेति । महत्प्रशस्तमोष्ठहनुनासं यस्य सः । तत्रौष्ठस्य प्राशस्त्यं बिम्बफलादिवदरुणत्वे सति मांसलत्वम् । हनोस्तु परिपूर्णमांसलोन्नतत्वम् । नासिकायास्तु दीर्घोन्नतरुचिपुटत्वम् । पञ्चस्निग्ध इति । पञ्चवाग्वक्रनखलोमत्वचं स्निग्धं यस्य सः । अष्टवंशवान्प्रशस्ताष्टवंशाख्यावयववान् । वंशशब्देन दैर्घ्यं विवक्षितम् । “बाहू च नलकावूरू जङ्घे चेत्यष्टवंशकाः” । नलकावङ्गुल्याविति तीर्थः ॥

५।३५।१९ ॥

दशपद्मः । “मुखनेत्रास्यजिह्वोष्ठतालुस्तननखं करौ । पादौ च दश पद्मानि पद्माकाराणि यस्य च ॥ " इति । आस्यमोष्ठमध्यम् । दशबृहत् । तानि तु– “उरः शिरो ललाटं च ग्रीवा बाह्वंसनाभयः । पादौ पृष्ठं श्रुती चैव विशालास्ते सुखप्रदाः ॥

" इति । त्रिभिः श्रीयशस्तेजोभिर्व्याप्तो युक्तः । द्विशुक्लवान् । “द्वौ शुद्धौ तु शुभौ शुक्लौ वंशौ मातुः पितुस्तथा” इत्युक्तेः । षडुन्नतः । तानि च– “कक्षः कुक्षिश्च वक्षश्च घ्राणस्कन्धललाटिकाः । सर्वभूतेषु निर्दिष्टा उन्नतास्तु सुखप्रदाः ॥ " इति । पूर्वं त्र्युन्नतस्निग्धत्वमुक्तम्, अत्र पञ्चस्निग्धत्वं पडुन्नतत्वं चोभयमपि मतभेदादविरुद्धम् । एवं नानामतप्रदर्शनं रामस्य नानामतसंमतसर्वलक्षणयुक्तत्वसूचनाय । नवतनुर्नवसु सूक्ष्मः । तानि च– “सूक्ष्माण्यङ्गुलिपर्वाणि केशरोमनखत्वचः । शेफश्च येषां सूक्ष्माणि ते नरा दीर्घजीविनः ॥

" इति प्रोक्तं षट्कम् । मृदुश्मश्रुत्वं सूक्ष्मदृष्टित्वं सूक्ष्मबुद्धित्वं चेति नव सूक्ष्मत्वम् । दृष्टेः सौक्ष्म्यं रत्नपरीक्षान्तसूक्ष्मदर्शनचातुर्यम् । बुद्धेः सूक्ष्मत्वं तत्त्वसाक्षात्कारसमर्थत्वम् । त्रिभिर्व्याप्नोति धर्मार्थकामैः कालं यथोचितं व्याप्नोति । त्रिवर्गसेवीत्यर्थः ॥ ५।३५।२० ॥

सङ्ग्रहानुग्रहे सङ्ग्रहो धनबलादीनाम्, अनुग्रहस्ताभ्यां प्रजारक्षणम्, तदुभयनिष्ठः ॥ ५।३५।२१ ॥

द्वैमात्रः राममात्रापेक्षया द्वितीया माता द्विमाता । तस्या अपत्यमित्यर्थः । भिन्नोदरभ्रातेत्यर्थः । “वैमात्रः” इति पाठान्तरम् ॥ ५।३५।२२,२३ ॥

अस्माभिः सुग्रीवमन्त्रिभिरित्यर्थः । उक्तमेव विस्तरेणाह– त्वामेवेति ॥ ५।३५।२४ ॥

मृगपतिं शाखामृगपतिं सुग्रीवम्, पूर्वजेन वालिना ऽवरोपितं राज्याद्भ्रंशितम् ॥ ५।३५।२५,२६ ॥

परिचर्यामहे तङ्श्यनावार्षौ । परिचराम इत्यर्थः । अवरोपितं राज्येन हीनं कृतम्, पाणिनौ । पाणी इति यावत् ॥ ५।३५।२७ ॥

अभिप्लुत उत्प्लुत्यारूढः ॥ ५।३५।२८,२९ ॥

मया परिज्ञाततत्त्वार्थौ मया विज्ञाताशेषवृत्तान्तौ विज्ञापिताशेषवृत्तान्तौ च ॥ ५।३५।३०३२ ॥

पूर्ववृत्तया स्वीयस्वीयवृत्तान्तगोचरया ॥ ५।३५।३३ ॥

स्त्रीहेतोः सुग्रीवस्त्रीपरिग्रहार्थम् । पुरु महत्तेजो यस्य तेन । त्वन्नाशजं त्वदपहारजम् ॥ ५।३५।३४,३५ ॥

निष्प्रभः खिन्नचित्ताः । त्वद्गात्रं शोभयितुं शीलं येषां तानि ॥ ५।३५।३६,३७ ॥

दर्शयामासुः सुग्रीवाज्ञयेति शेषः ॥ ५।३५।३८ ॥

मयैवोपहृतानि च प्रथममिति शेषः । अवकीर्णानि भूमौ पातनात्किञ्चिद्विशीर्णानि । तानि दत्तानि गृहीत्वा शोकात्तस्मिन्विहतचेतसि प्रथमार्थे सप्तमी । विहतचेताः मूर्च्छितचेता अभूदित्यर्थः ॥ ५।३५।३९ ॥

देवप्रकाशेन देवावतारेण, अत एव देवेन परिदेवितं प्रादीपयत् । आभरणदशनमिति शेषः ॥ ५।३५।४० ॥

शायितं शोकाद्भूमौ पतितम् ॥ ५।३५।४१,४२ ॥

अग्निपर्वतः संवर्ताख्यकालाग्निनिवासभूतः पर्वतो ऽग्निपर्वतः । “तत्र माल्यवतः शृङ्गे दृश्यते हव्यवाट् सदा । नाम्ना संवर्तको नाम कालाग्निर्भरतर्षभ ॥ " इति भीष्मपर्वणि भारतोक्तेः ॥

५।३५।४३४७ ॥

सहितौ सख्यं प्राप्तौ । समयं प्रतिज्ञाम् ॥ ५।३५।४८५३ ॥

सुग्रीववचनातुराः सुग्रीवाज्ञाभीताः ॥ ५।३५।५४ ॥

त्रिभागबलसंवृत्तः सेनायास्त्रिष्वंशेष्वेकांशसेनापरिवृत इत्यर्थः ॥ ५।३५।५५ ॥

विन्ध्ये विप्रणष्टानां बिलमध्ये ऽदर्शनं प्राप्तानाम् । गता इति । समयात्परे ऽपीति शेषः ॥ ५।३५।५६६० ॥

निराशानां त्वत्प्राप्त्याशारहितानाम् । स्वामिसन्देशात्तत्सन्दिष्टकालात्ययाद्धेतोर्मुमूर्षताम् ॥ ५।३५।६१ ॥

कार्यहेतोः कार्यसिद्ध्यर्थमिवायातः । दैवादिति शेषः ॥ ५।३५।६२ ॥

क्व देशे इति शेषः ॥ ५।३५।६३ ॥

आख्यातुमित्यसमानकर्तृके ऽपि तुमुन्नार्षः ॥ ५।३५।६४६६ ॥

अन्तं तटम् ॥ ५।३५।६७६९ ॥

प्लुतः प्लुतवान् ॥ ५।३५।७०७२ ॥

पवनात्मजत्वेन लङ्घनसामर्थ्यम् ॥ ५।३५।७३,७४ ॥

एकः संप्राप्तः । अर्थाच्छेषाः समुद्रतीर एवासते । कामरूपिणा । अनेन रावणान्तःपुराद्यन्वेषणसामर्थ्यं सूचितम् ॥ ५।३५।७५ ॥

त्वन्नाशं त्वददर्शनम् ॥ ५।३५।७६ ॥

अधिगमो दर्शनम् ॥ ५।३५।७७,७८ ॥

तिर्यग्देहस्य तव कथं पवनात्मजत्वमिति शङ्कामपनयन्नाह– माल्यवान्नमिति ॥ ५।३५।७९ ॥

गोकर्णं तदाख्यम् । दिष्टः शम्बसादनाख्यासुरवधायाज्ञप्तः । उद्धरन्नुद्धृतवान् अवधीदित्यर्थः । भूते ऽपि लटः शतार्षः ॥ ५।३५।८० ॥

स्वेनैवोत्पत्तिकालप्रवृत्तेन कर्मणा पराक्रमेण ॥ ५।३५।८१ ॥

भर्तुस्त्वद्भर्तू रामस्य नयिता नेता ॥ ५।३५।८२ ॥

उपपन्नैर्वास्तवैः । अभिज्ञानै रामलक्ष्मणचिह्नैः । अधिगच्छत्यध्यगच्छत् ॥ ५।३५।८३८५ ॥

अन्यथा नेति मायाकपिर्नेत्यर्थः ॥ ५।३५।८६ ॥

सर्वमुत्तरं सर्वं प्रत्युत्तरमाख्यातमित्यन्वयः । अथ सीतायै चिकीर्षितं पृच्छति– किं करोमीति । वर्तमानसामीप्ये लटौ । प्रतियामि प्रतियास्ये रामसमीपम्, किं करोमि किं करिष्ये, कथं वा रोचते चिकीर्षितमिति शेषः ॥ ५।३५।८७ ॥

नहि रावण आत्मानं कथमपि कपिपुत्र इति ब्रूयादिति ज्ञापनपूर्वकं कपित्वनिश्चयाय पुनः स्वजन्मानुवादः– हते ऽसुर इति । ततः शम्बसादनासुरवधप्रीतमहर्षेः प्रसादत इत्यर्थः । तत्प्रतिमः वायुसदृश इत्यर्थः ॥ ५।३५।८८ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये सुन्दरकाण्डे पञ्चत्रिंशः सर्गः ॥ ५।३५ ॥