०३४ हनुमता स्वरामदौत्यनिवेदनम्

दुःखाद्दुःखाभिभूताया इत्यलुगार्षः । दुःखपरंपराखिन्नाया इत्यर्थः ॥ ५।३४।१ ॥

तव समीपमिति शेषः ॥ ५।३४।२ ॥

ब्राह्ममस्त्रं यो वेद । अनेन सर्वास्त्रपारगत्वमुक्तम् । तदस्त्रदेवताया ब्रह्मणः सर्वजगत्समष्टित्ववत्तदस्त्रस्यापि सर्वास्त्रसमष्टित्वात् । वेदांश्चेत्यनेन सर्वकर्ममार्गपारगत्वम् वेदविदां वर इत्यनेन ज्ञानमार्गपारगत्वमुक्तम् ॥ ५।३४।३,४ ॥

संहृष्टसर्वाङ्गी पुलकितसर्वाङ्गी ॥ ५।३४।५ ॥

असंभावितमपि रामप्रसङ्गं जीवितधारणेन प्राप्तत्वात्तत्संवादिनीं लौकिकीं गाथां स्तौति– कल्याणीति । गाथायाः संवादित्वदर्शनजो हर्षो बतेत्यनेन सूच्यते । कल्याणी सत्यार्थेति मा मां प्रतिभाति । मज्ज्ञानविषया भवतीत्यर्थः । गाथां पठति एतीति । जीवन्तमेवेत्येव, अतो बहुदुःखं सोढ्वा ऽपि जीवितव्यमिति भावः ॥ ५।३४।६ ॥

तस्मिंस्तस्मिन्काले रामलक्ष्मणकुशलवचःश्रवणकाले तयो रामलक्ष्मणयोः समागमकाल इव सीतायास्तेन वचसा ऽद्भुताचिन्त्यस्वरूपा प्रीतिरुत्पादिता । किं च तयोः सीताहनूमतोस्तस्मिन्समागमे परस्परस्याद्भुता प्रीतिरुत्पादिता देवी दृष्टेति हनूमतः प्रीतिः रामदूतो दृष्ट इति देव्याः प्रीतिः अतस्तौ विश्वस्तौ भूत्वा परस्परेणालापं चक्रतुं ॥ ५।३४।७ ॥

तद्वचनं कल्याणीत्यादिसीतावचनम् । समीपमुपचक्रमे तच्छाखातो ऽप्यर्वाचीनां शाखामवरुह्य समीपं गन्तुं यत्नवानभूदित्यर्थः ॥ ५।३४।८ ॥

परिशङ्कते परिशङ्कते स्म । रामकुशलकथनेन विश्वस्तापि रावणमायाबाहुल्यस्मरणेनाविश्वासादिति भावः ॥ ५।३४।९ ॥

यदस्य यदनेन कथितं कथनं कृतं वार्ता कृता इदं धिग्धिक् कथितमिति भावे निष्ठा । तत्र हेतुमाह– रूपान्तरमिति । यः पूर्वं मायया मामपाहरत्स एव रावणो रूपान्तरं प्राप्य वर्तत इत्यर्थः ॥ ५।३४।१० ॥

अशोकस्य अशोकवनस्थशिंशपावृक्षस्येत्यर्थः ॥ ५।३४।११ ॥

तां धरण्युपविष्टामवन्दत नमस्कृतवान् । एनं दृष्ट्वा भयसन्त्रस्तां भूयः पुनरेनं नापश्यत् ॥ ५।३४।१२,१३ ॥

भूयः सन्तापं यदुत्पादयसि तन्न शोभनम् ॥ ५।३४।१४ ॥

तवैवंरूपकरणमपि सुकरमेवेत्याह स्वं परित्यज्येति ॥ ५।३४।१५,१६ ॥

एवं रावणदौरात्म्याद्धनूमन्तं रावणमाशङ्क्य तद्दर्शनजनितमात्मनो मनःप्रसादमालोच्य तां शङ्कां निराचष्टे अथवेति । यन्मया परिशङ्कितं रावणत्वमेतदेवं नयतस्तव दर्शनान्मम मनसः प्रीतिरुत्पन्ना । रावणत्वे हि सा नोत्पद्येतेति भावः ॥ ५।३४।१७ ॥

तव मयि रामदूतत्वनिश्चयः कथं स्यादिति चेत्तत्राह यदीति । पृच्छामीति । रामकथामिति शेषः । तदेवाह– प्रिया रामकथा हीति ॥ ५।३४।१८ ॥

चित्तं हरसि चित्तं शिथिलयसि । विश्वासहेत्वसंपादनादिति भावः । रयो नदीवेगः ॥ ५।३४।१९ ॥

रामदूतदर्शनं नेदं तदागमनस्यात्रासं भावितत्वात्प्रायेणायं स्वप्नो ऽथापि मे ऽसौ सुखावह इत्याह अहो इति । या चिराहृताहमेव राघवेण प्रेषितं वनौकसं पश्यामि नाम । अस्वप्नत्वे त्वन्यासामपि दर्शनं स्यादित्याशयः ॥ ५।३४।२० ॥

अथ रामादिदर्शनत्वरूपस्वप्नो ऽपि मे न जायत इति खिद्यति स्वप्ने ऽपीति । मत्सरी मत्सरेण मत्समीपं सो ऽपि नायातीति भावः ॥ ५।३४।२१ ॥

स्वप्नत्वमस्य नेत्याह नाहं स्वप्नमिति । प्राप्तश्चाभ्युदय इति । तथा मनःसन्तोषोदयात्प्राप्तप्राय इत्यर्थः । तस्मान्न स्वप्नः ॥ ५।३४।२२ ॥

पुनरुत्प्रेक्षते– किं न्विति । चित्तमोहो निरन्तररामध्यानजनितस्तत्प्रेषितदूतदर्शनसंभाषणादिविषयो भ्रमः । वातगतिर्भूतावेशादिजनितो भ्रमः । उन्मादो विरहिणां पित्तोद्रेकरूपावस्थाविशेषजो भ्रमः । मृगतृष्णिका तद्वत्प्रत्यक्षो भ्रमः ॥ ५।३४।२३ ॥

बाधराहित्याद्भ्रमचतुष्टयमपि निरस्यति– अथवेति । मोहो ऽप्युन्मादस्य लक्षणमिव लक्षणं यस्य सः । एवं चोन्मादनिराकरणात्सो ऽपि निरस्तः । अर्थतो भूतावेशो ऽपि निरस्तः । यतो ऽहमात्मानमिमं समीपस्थं वनौकसं च संबुध्ये सम्यग्जानामि । निर्बाधं जानामीत्यर्थः । उक्तानां सर्वेषामविवेकलक्षणत्वान्मम विवेकसत्त्वात्ते ऽसंभाविताः । मृगतृष्णाभ्रमो ऽपि दूरत्वदोषाज्जायते, वानरश्च समीप एवेति स पक्षो ऽप्ययुक्त इति भावः ॥ ५।३४।२४ ॥

बलाबलम् बलं रक्षसां कामरूपबलम्, अबलं रामदूतस्य वानरस्यात्रागमनसामर्थ्याभावः ॥ ५।३४।२५,२६ ॥

निश्चितं रावणत्वनिश्चयम् । श्रोत्रानुकूलैर्वचनै रामगुणकथनरूपैः । विश्वासार्थं गुणान्रामस्य कथयति । सीतोक्तेरिति भावः । संप्रहर्षयन्वक्ष्यमाणं वचः । कथयामासेति शेषः ॥ ५।३४।२७ ॥

राजा धनधान्यादिप्रदानेन सर्वलोकस्य रञ्जकः ॥ ५।३४।२८,२९ ॥

स्थानक्रोध उचितक्रोधविषये । क्रोधौचित्ये प्रहर्तेति यावत् ॥ ५।३४।३० ॥

तं राघवमाश्रमादपकृष्य शून्य आश्रमे येनापनीता तस्य रक्षसस्तत्फलं त्वदपहारपापफलं तेनानुभूयमानं द्रक्ष्यसि । तदेवाह अचिरादिति । “नचिरात्” इति पाठान्तरम् । यो वधिष्यति तेनेत्यर्थः ॥ ५।३४।३१३९ ॥

यथा मामवगच्छसि मायावी रावण इति, न तथा ऽहमस्मि ॥ ५।३४।४० ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये सुन्दरकाण्डे चतुस्त्रिंशः सर्गः ॥ ५।३४ ॥