०३३ हनुमति सीताविश्वासः

स इति । अत्यूर्ध्वशाखातः सीतासंमुखशाखायामवतीर्य द्रुमशब्दस्तदवयवपरः । अत एवाग्रे “द्रुमाश्रितम्” इति वक्ष्यति । कृपणो मातुः सीताया दुःखदर्शनाद्दीनः । दूरात्प्रणिपत्य तत उपसृत्य समीपमागत्य ॥ ५।३३।१ ॥

राक्षसीनां निशाजागरतो निद्राजाड्यात्त्रिजटास्वप्नश्रवणजन्यभयोनात्मत्राणाय सीतैकशरणत्वेनोपेक्षणाच्च दैवानुग्रहाच्चाप्रत्यूहः सीताहनूमतोः संलाप इति बोध्यम् ॥ ५।३३।२ ॥

अथ लिङ्गैः सीतेति निश्चये ऽपि तयैव साक्षद्वाचयितुमजानान इव पृच्छति– का न्विति ॥ ५।३३।३ ॥

विप्रकीर्णं भिन्नघटादिव प्रसृतम् ॥ ५।३३।४ ॥

का न्वित्यादिश्लोकद्वयोक्तार्थस्यैव प्रपञ्चः सुराणामिति । सुरादिजातिमध्ये त्वं का किंजातीया ॥ ५।३३।५ ॥

देवता प्रतिभासि दिव्यरूपलक्षणवत्त्वादिति भावः ॥ ५।३३।६ ॥

कान्त्या रोहिणीत्वाशङ्का । श्रेष्ठैः सर्वैर्गुणैरधिका । एतदग्रे “का त्वं भवसि कल्याणि त्वमनिन्दितलोचने” इत्यर्धं प्रक्षिप्तम् ॥ ५।३३।७ ॥

कोपाद्वेति । अत्रापि किं न्विति संबध्यते । कोपादिना वसिष्ठं कोपयित्वेहागता कल्याण्यरुन्धती किं नु वासि । पातिव्रत्यादरुन्धतीत्वशङ्का ॥ ५।३३।८ ॥

अथ शोककारणं पुत्रादिवियोगो ऽन्यद्वेति पृच्छति को नु पुत्र इति । अस्माल्लोकादमुं लोकं परलोकं गतं यं त्वमनुशोचसि स पुत्रादिः को न्विति योजना ॥ ५।३३।९ ॥

इदानीं देवयोनित्वाशङ्कां स्वयमेव निवर्तयति रोदनादिति । अश्रुसंबन्धो भूस्पर्शश्च देवानां नास्तीति श्रुतम्, तद्वत्वात्त्वां देवीं न मन्ये । किं च राज्ञो रामस्य सञ्ज्ञावधारणान्नामग्रहणात् ॥ ५।३३।१० ॥

भूमिपालस्य रामस्य महिषीति मे मतिः, यतो व्यञ्जनानि राममहिषीत्वप्रकाशकानि ते सामुद्रिकालक्षणानि च लक्षये, अतो रावणेन जनस्थानाद्बलात्प्रमथिता प्रमथ्य हृता यदि सीता त्वं तदा पृच्छतो ममाचक्ष्व तत्त्वं ब्रूहि । ते भद्रमस्तु ॥ ५।३३।११,१२ ॥

अनुक्ते ऽपि त्वत्स्वरूपनिश्चयो ममास्तीति प्रौढ्याह यथा हीति । अपरोक्षानुभवविषयामित्यर्थः ॥ ५।३३।१३१५ ॥

अहं नाम्ना सीता इति ॥ ५।३३।१६१८ ॥

नाम प्रसिद्धमित्यर्थः ॥ ५।३३।१९ ॥

प्रत्यहं यन्मम भोजनं भोज्यं वस्तु तन्न पिबेयं न खादेयमित्यन्वयः ॥ ५।३३।२० ॥

तद्देवासुरे युद्धे वरदानरूपम् ॥ ५।३३।२१,२२ ॥

राज्यमयाचत । भरताय दातुमिति शेषः ॥ ५।३३।२३ ॥

अभिषेकादपि परमधिकं प्रियं यथा भवति तथा मनसा पूर्वमङ्गीकृत्य वाचाप्यङ्गीकृतवान् ॥ ५।३३।२४ ॥

सीता रामं स्तौति दद्यादिति ॥ ५।३३।२५ ॥

समादिशद्बहुप्रकारं रक्षणाय निवेदितवान् ॥ ५।३३।२६ ॥

तस्याग्रतः प्रस्थिता वनचारिणी । अभूवमिति शेषः ॥ ५।३३।२७,२८ ॥

भर्तुर्दशरथस्य पुरा अदृष्टमिति छेदः ॥ ५।३३।२९,३० ॥

जीवितानुग्रहो जीवितानुग्रहकरः कालः कृतः परिच्छिन्नः ॥ ५।३३।३१ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये सुन्दरकाण्डे त्रयस्त्रिंशः सर्गः ॥ ५।३३ ॥