००१ हनुमता सागरोल्लङ्घनम्

सुन्दरकाण्डम् ।

तिलकटीका ।

सुन्दरे यस्य दासो ऽब्धिं तीर्त्वा दृष्ट्वा च मैथिलीम् ।

दृष्टा सीतेत्यभ्यवोचत्तं रामं नौमि चिद्धनम् ॥

अथ समुद्रकूर्दनमिच्छति स्म– तत इति । ततः शत्रुकर्षणो हनुमान्रावणनीताया रावणहृतायाः सीतायाः पदमवस्थितिस्थानमन्वेष्टुं चारणैर्देवजातिविशेषैराचरिते क्रियमाणसञ्चारे पथ्याकाशमार्गे गमनायेयेष ॥ ५।१।१ ॥

निष्प्रतिद्वन्द्वं सहायान्तररहितं प्रतिबन्धरहितं च अन्यैर्दुष्करं कर्म लङ्घनपूर्वं सीतान्वेषणकर्म । समुदग्रमुन्नतं शिरो ग्रीवा च यस्य सः, अत एव गवां पतिर्वृष इवाबभौ ॥ ५।१।२ ॥

वैदूर्यवर्णशाद्वलप्रदेशस्य समुद्रजलवच्छ्यामत्वमृदुत्वाभ्यामुरसा प्लवनसदृशक्रियाकालिकोरःपेषणेन प्रवृद्धः केसरीव विचचार ॥ ५।१।३,४ ॥

नीललोहितो रक्तश्यामः । माञ्जिष्ठः कृष्णपाण्डुर इति कतकः । माञ्जिष्ठः पाटल इत्यन्ये । पद्मवर्णः प्रसिद्धः । सितासितैः कल्माषैः कृष्णपाण्डुरैरिति यावत् । स्वभावसिद्धैः शैलस्वभावसिद्धैरुक्तरूपैर्धातुभिः समलङ्कृतम् । कामरूपित्वादिविशेषणवद्भिर्यक्षादिभिरभीक्ष्णमाविष्टं यत्तस्य गिरिवर्यस्य तलं तत्र नागवरैरासमन्ताद्युते तिष्ठन्स कपिर्ह्रदे नाग इवाबभौ । गिरौ ह्रदसाम्यं श्यामलत्वेन ॥ ५।१।५७ ॥

स्वयंभुवे पवनाय पूयते येन स्वज्ञानेन योगिवृन्दं स पवनो भगवान्प्रत्यक्तत्त्वभूतो रामः । एतेन सकलविघ्ननिवारणायेष्टदेवताप्रार्थनापूर्वं यात्रा कर्तव्येति सदाचारो बोधितः ॥ ५।१।८ ॥

आत्मयोनये पवनाय स्वजनकवायव इत्यर्थः । दक्षिणः कुशलः ॥ ५।१।९ ॥

रामवृद्ध्यर्थं रामाभ्युदयाय ॥ ५।१।१० ॥

निष्प्रमाणशरीरः परिच्छेदातिक्रान्तदेहः । पीडयामास लिलङ्घयिषासंनाहवशतः ॥ ५।१।११ ॥

एकेन पीडनव्यापारेण मुहूर्तपर्यन्तं चलनम् । अशातयत् । पर्वतः कर्ता, चलनं करणम् ॥ ५।१।१२ ॥

पुष्पमयो यथा पुष्पप्रचुरः स्वयमिवेत्यर्थः ॥ ५।१।१३ ॥

उत्तमवीर्येण तेन पीड्यमानः स पर्वतसलिलं प्रसुस्राव ॥ ५।१।१४ ॥

उक्तार्थस्यैव विवरणम्– पीड्यमान इति । काञ्चनाञ्जनराजतीस्तदाभा रीतीः स्रोतःप्रकारान्निर्वर्तयामास । तदाभत्वमुपाधिकृतम् ॥ ५।१।१५ ॥

किं च स शैलः समनःशिला विशालाः शिला मुमोच निपीडनात् अत एव मध्यमेन मध्यभागेनार्चिषा ज्वालया जुष्टो यो ऽतलस्तस्य धूमराजिरिव बभावित्यर्थः । यस्येत्यध्याहारः । “धूमराजिरिव” इति ह्रस्वपाठः । तीर्थस्तु– मध्यमेनार्चिषा मध्यमाख्ययाग्निजिह्वया जुष्टो विशिष्टो ऽग्निर्धूमराजिरिव धूमनिचयानिवेत्यर्थः । “धूमराजीरिव” इति च पाठ इत्याह ॥ ५।१।१६ ॥

हरिणा हनुमता पीड्यमानेन पर्वतेन पीड्यमानानि सत्त्वानि ॥ ५।१।१७ ॥

“स महासत्त्व–” इति पाठे महासत्त्वा महाजन्तवस्तेषां संनाद इति तीर्थः । “स महान्सत्त्वसंनादः” इति पाठान्तरम् ॥ ५।१।१८ ॥

स्वस्तिकः फणास्थनीलरेखा तच्चिह्नैः शिरोभिरुपलक्षिताः । ददंशुः पीडाजनितक्रोधवशात् ॥ ५।१।१९ ॥

सविषैस्तैः सर्पैर्दष्टाः सत्यः पावकोद्दीप्ता इव जज्वलुः बिभिदुर्भिन्ना बभूवुश्च ॥ ५।१।२० ॥

शमितुं शमयितुम् ॥ ५।१।२१ ॥

भूतैर्ब्रह्मरक्षःप्रभृतिमहाभूतैः ॥ ५।१।२२ ॥

हित्वेत्यत्र विद्याधराः कर्तारः ॥ ५।१।२३ ॥

आर्षभाणि ऋषभचर्मनिर्मितानि चर्माणि फलकानि । त्सरुः खड्गमुष्टिः ॥ ५।१।२४ ॥

कृताः कण्ठेषु गुणाः स्रजो यैस्ते । क्षीबा मत्ताः । पुष्करं पद्मम् ॥ ५।१।२५ ॥

पारिहार्यशब्दः श्रेष्ठवाचीति कतकः । पारिहार्यो वलय इति तीर्थः । एतदग्रे “दर्शयन्तो महाविद्यां विद्याधरमहर्षयः । सहितास्तस्थुराकाशे वीक्षाञ्चक्रुश्च पर्वतम् ॥ शुश्रुवुश्च तदा शब्दमृषीणां भावितात्मनाम् । चारणानां च सिद्धानां स्थितानां विमले ऽम्बरे ॥ " इति श्लोकद्वयं प्रक्षिप्तं क्वचिदिति कतकः ॥

५।१।२६२८ ॥

तेषां तपस्विनामाकाशचारितपास्विनां वाचः “एष पर्वतसङ्काशः” इत्यादिश्लोकद्वयरूपाः श्रुत्वा विद्याधरास्तमप्रमेयं ददृशुः । तद्वाक्यश्रवणात्पूर्वं तु भूतैरयं गिरिर्भिद्यत इति ज्ञातवन्तः ॥ ५।१।२९ ॥

दुधुवे च । स हनूमान् ॥ ५।१।३० ॥

आनुपूर्व्याद्वृत्तं त्रिवलयं लाङ्गूलं विचिक्षेपेत्यन्वयः ॥ ५।१।३१ ॥

आविद्धमास्फालितं भुग्नं च ॥ ५।१।३२ ॥

बाहू संस्तम्भयामासेत्युत्प्लवनसंनाहाभिनयः बाह्वोः संस्तम्भनं नाम पर्वतोपरि दृढप्रतिष्ठापनम् । कपिः कट्यां कटिप्रदेशे आससाद कायप्रसारणात्कृशो ऽभूत् । उरःशिरसोरूर्ध्वप्रसारणे सपृष्ठचरणभागस्याधःसङ्कोचने तथात्वं कटिदेशस्येति बोध्यम् ॥ ५।१।३३ ॥

भूजौ संहृत्यांसप्रदेशे सङ्कुच्य । शिरोधरां ग्रीवां कण्ठदेशे सङ्कुच्य । तेजः पराभिवसामर्थ्यम् सत्त्वं बलं शारीरम् वीर्यमान्तरं बलम् ॥ ५।१।३४ ॥

दूरान्मार्गमालोकयन्, अत एवोर्ध्वप्रणिहितेक्षणः । हृदये प्राणप्रतिष्ठास्थाने ॥ ५।१।३५ ॥

कर्णौ निकुच्य सङ्कुच्य । उत्पतनसंनाहवशाद्धि कर्णसङ्कोचो भवति ॥ ५।१।३६ ॥

श्वसनस्य वायोरिव विक्रमो वेगो यस्य सः ॥ ५।१।३७ ॥

तद्वद्गमिष्यामि अनेन तद्वदेव गत्वा कृतकार्य आगमिष्यामीति सूचितम् । तस्यैव प्रपञ्चः– नहीत्यादि ॥ ५।१।३८ ॥

अनेनैव एवंविधेनैव ॥ ५।१।३९ ॥

आनयिष्याम्यानेष्यामि । सीतया सह मिलित्वेति शेषः ॥ ५।१।४० ॥

समुत्पाट्येति ओषधिपर्वतोत्पाटनवदिति भावः ॥ ५।१।४१ ॥

अविचारयँल्लङ्घनक्लेशलेशमप्यगणयन् । तस्यैव प्रपञ्चनम्– सुपर्णमित्यादि ॥ ५।१।४२ ॥

वेगाद्धनूमति समुत्पतति सति ते नगरोहिणः पर्वतस्थवृक्षाः सर्वान्विटपान्सर्वाः शाखाः संहृत्य सङ्क्षिप्य वेगात्समुत्पेतुः ॥ ५।१।४३ ॥

मत्ताः कोयष्टिभा येषु तान् । कोयष्टिकोयष्टिभौ पर्यायौ ॥ ५।१।४४,४५ ॥

सालाः सर्जवृक्षाः । सैन्यशब्दो ऽर्धर्चादिः ॥ ५।१।४६ ॥

पर्वताकारः तत्त्वं बृहत्त्वेन पुष्पितवृक्षवत्त्वेन च ॥ ५।१।४७ ॥

सारवन्तो गुरुत्वातिशययुक्ताः खदिरादयस्ते गुरुत्वाल्लवणाम्भसि न्यमज्जन् । अर्थादन्ये लघवः सहैव गता इति बोध्यम् । महेन्द्रस्य भयात्पक्षच्छेदभयात्पर्वता इव न्यमज्जन् ॥ ५।१।४८ ॥

नानाकुसुमैः स्वानुयायिद्रुमीयैः । साङ्कुरकोरकैः कानिचित्कुसुमान्यङ्कुरितानि, कानिचित्कोरकरूपाणि, कानिचिद्विकसितानीत्यर्थः ॥ ५।१।४९ ॥

तस्य हनूमतो वेगेन विमुक्तास्ततो विभक्तास्ते वृक्षाः सलिले व्यवशीर्यन्त । आर्षो ऽडभावः । सुहृदो यथा, बन्धुप्रस्थापनार्थं गताः सुहृदो यथा तान्प्रस्थाप्य निवर्तन्ते तद्वत् ॥ ५।१।५० ॥

अपतदिति छेदः । यदपतत्तल्लगुत्वेनोपपन्नमुपपत्तिमत् ॥ ५।१।५१ ॥

सर्ववर्णानां विद्युत्सु सत्त्वान्नानावर्णपुष्पोद्यानबद्धस्य सविद्युद्गणमेघोपमा ॥ ५।१।५२ ॥

रामाभी रमणीयाभिः ॥ ५।१।५३,५४ ॥

विवृतवक्रत्वात्पिबन्निवेति । अधोवक्रत्वे इयमुत्प्रेक्षा । ऊर्ध्ववक्रत्वे आकाशं पिपासुरिवेति ॥ ५।१।५५ ॥

विप्रकाशेते विशेषेण प्रकाशेते स्म । अनलौ दावानलौ ॥ ५।१।५६ ॥

पिङ्गे पिङ्गलवर्णे परिमण्डले परितो बद्धप्रभामण्डले स्थितौ चन्द्रसूर्याविव एकगिरावुदये पिङ्गलमण्डलतया ऽवस्थितौ चन्द्रसूर्याविवेत्यर्थः ॥ ५।१।५७ ॥

नासिकया युक्तमिति शेषः ॥ ५।१।५८,५९ ॥

शुक्लदंष्ट्रत्वं स्वरूपकथनमात्रम्, न तु परिवेषिभास्करोपमोपयोगि ॥ ५।१।६० ॥

स्फिग्देशेन कटिप्रदेशेन । तन्मात्रस्यातिताम्रत्ववर्णनादन्यत्राल्पवद्वर्णत्वम्, अत एव दारितगैरिकधातुयुक्तगिर्युपमा ॥ ५।१।६१ ॥

जीमूत इति सप्तम्यन्तमिति कतकः । गर्जति जगर्ज ॥ ५।१।६२ ॥

उत्तरान्तादुत्तरोर्ध्वदिग्भागात् । सानुबन्धा सूक्ष्मोल्कान्तरानुबद्धा इदं विशेषणं पुच्छसाहित्यात् ॥ ५।१।६३ ॥

पतत्पतङ्गसङ्काशो गच्छत्सूर्यसङ्काशो व्यायतो दीर्घः कपिर्वस्त्रेण बध्यमानया कक्ष्यया गजमध्यबन्धनरज्ज्वा युक्तः प्रवृद्धो मातङ्ग इव बभौ । “कक्ष्या प्रकोष्ठे हर्म्यादेः काञ्चयां मध्येभबन्धने” इति ॥ ५।१।६४ ॥

उपरिष्टात्खे गच्छता स्वशरीरेणाघः सागरे ऽवगाढया स्वस्य छायया प्रतिबिम्बेन लक्षितः स सागरे मारुताविष्टा नौरिवासीत् । नौश्चोपरि विद्यमानपदार्थेन सह सागरे वायुवशाद्वेगेन चञ्चला गच्छतीति तदुपमा ॥ ५।१।६५ ॥

सोन्माद इव सापस्मार इव घूर्णनफेनवमनविक्रोशनादिविकारसाम्यात् ॥ ५।१।६६ ॥

ऊर्मिजालानामभिघ्नन्, कर्मणः शेषत्वविवक्षया षष्ठी । तान्यभिघ्नन्निति यावत् । शैलसदृशेन अनेन सागरोर्मीणामत्युन्नतत्वं सूचितम् ॥ ५।१।६७ ॥

कपिवातः कपिनोत्थापितो वातः । मेघवातो मेघमण्डलगो वातः ॥ ५।१।६८ ॥

रोदसी द्यावापृथिव्यौ विकिरन्निव पृथक्क्षिपन्निव ॥ ५।१।६९ ॥

अतीत्यातीत्य गमनाद्विगणयन्निवेत्युत्प्रेक्षा ॥ ५।१।७० ॥

तस्य वेगेन समुद्घुष्टमूर्ध्वक्षिप्तम्, अत एव सजलदं जलदसहचरं मेघमण्डलपर्यन्तमूर्ध्वं गतमम्बरस्थं जलमाततं विततं शरदभ्रमिव शरन्मेघ इव बभौ । शुक्लत्वादिति भावः ॥ ५।१।७१ ॥

विवृता वेगाज्जलोत्सारणेन व्यक्तदेहाः । वस्त्रापकर्षणेन वस्त्रापहारेण शरीराण्यवयवाः ॥ ५।१।७२,७३ ॥

छायाप्रमाणवर्णनेन तच्छरीरप्रमाणमपि वर्णितप्रायम् । इयं माध्याह्निकी छाया ॥ ५।१।७४ ॥

श्वेताभ्रघना राजीवश्वेताभ्रयुक्तं मेघपङ्क्तिवत्तस्य च्छाया शुशुभे । शुक्लदंष्टादिना नानावर्णत्वादुक्तोपमानिर्वाहः ॥ ५।१।७५,७६ ॥

द्रोणी हर्म्यादौ जलनिर्गमकाष्ठयन्त्रं तज्जलधारायुक्त इव कृतो द्रोणीकृतः । मेघेषु तदाघातेन तेभ्यो जलस्रवणादिति भावः ॥ ५।१।७७ ॥

आपतन्त्यस्मिन्नित्यापातो मार्गः । पाण्डुरत्वादिगुणकानि मेघजालानि प्रकर्षन्मारुतो यथा तथा बभूवेति शेषः ॥ ५।१।७८ ॥

कपिना ऽ ऽकृष्यमाणानि महाभ्राणि चकाशिरे । मारुतेनाकृष्यमाणानीवेति शेषः ॥ ५।१।७९,८० ॥

तत्र प्लवगे ॥ ५।१।८१ ॥

तं नहि ततापेत्यन्वयः । वायुः सिषेवे श्रमापनयनायेति भावः ॥ ५।१।८२,८३ ॥

कपिवरं विगतक्लमं वीक्ष्य नागादयस्तुष्टुवुः ॥ ५।१।८४ ॥

इक्ष्वाकुकुलस्य स्वोत्पादकस्य मानं सत्कारमर्थयते तथाभूतः ॥ ५।१।८५ ॥

विवक्षतां वागिन्द्रियवत्प्राणिनाम् । सर्ववाच्यः सर्वं वाच्यं निन्दा यस्मिंस्तादृशो भविष्यामि सर्वनिन्दास्पदं भविष्यामीत्यर्थः ॥ ५।१।८६ ॥

उक्तमेव विवृणोति अहमिति । तत्तस्मादेषो ऽवसादितुमवसत्तुं श्रमं गन्तुं नार्हति । सागरेण विवर्धित इत्युक्त्या कश्चिद्देशः सगरखातस्याप्येतत्संबद्ध इति ज्ञायते ॥ ५।१।८७ ॥

शेषं मार्गशेषम् ॥ ५।१।८८ ॥

अम्भसि स्वाम्भसि छन्नं हिरण्यनाभं हिरण्यप्रधानम् तन्मयमिति यावत् । “नाभिः प्रधाने कस्तूर्याम्” इति ॥ ५।१।८९ ॥

परिघ इति पक्षच्छेदभयात्समुद्रप्रवेशानन्तरं पातालस्थराक्षसनिरोधार्थं द्वारनिरोधकपरिघवन्मैनाकः स्थापित इत्यर्थः ॥ ५।१।९० ॥

ज्ञातवीर्याणां देवराजेनेति शेषः । एषामसुराणाम् ॥ ५।१।९१ ॥

शक्तिस्ते अस्तीति शेषः । तस्मात्पिहितपातालमुख एव सन्वृद्धिशक्त्या वर्धमानः सन्नूर्ध्वमुत्तिष्ठ ॥ ५।१।९२ ॥

उपर्येति तवोपरिप्रदेशं प्राप्नोति । तस्माद्विश्रामाय त्वमुत्तिष्ठेति पूर्वेणान्वयः । एतदुत्तरम् “हनूमान्रामकार्यार्थी भीमकर्मा खमाप्लुतः । श्रमं च प्लवगेन्द्रस्य समीक्ष्योत्थातुमर्हसि ॥ " इति प्राचीनः पाङ्क्तः पाठः । अत्र खमाप्लुतः इत्यनन्तरं केचिच्श्लोकाः प्रक्षिप्ताः। परैरिति कतकः । यतो रामकार्यार्थी यतश्च श्राम्यति ततस्तस्य श्रमं समीक्ष्योत्थातुमर्हसि ॥

५।१।९३ ॥

लवणाम्भसः वचो निशम्येत्यर्थः ॥ ५।१।९४९६ ॥

एतदुत्तरम् “शातकुम्भमयैः” इत्यादि । अत्रापि द्वित्रश्लोकप्रक्षेपः परेषाम् । हिरण्यनाभत्वविवरणम् शातकुम्भमयैरिति । आदित्योदयसङ्काशैरिति उपलक्षित इति शेषः ॥ ५।१।९७ ॥

शस्त्रसङ्काशं शस्त्रवच्छ्याममाकाशं काञ्चनप्रभमभवत् ॥ ५।१।९८,९९ ॥

असङ्गेनाविलम्बेन ॥ ५।१।१०० ॥

पातयामास तमत्यर्थमुच्छ्रितं दृष्ट्वा तच्छृङ्गं पातयामासेत्यर्थः ॥ ५।१।१०१ ॥

सादितो ऽवसादितः अधःकृत इति यावत् । “जहर्ष च ननाद च” इति प्राचीनः पाठः । बलवैभवं दृष्ट्वा जहर्ष स्वोत्थानप्रयोजनावेदनाय ननाद शब्दं कृतवान् । “ननन्द” इति त्वाधुनिककल्पितः पाठः ॥ ५।१।१०२ ॥

तदेव विवृणोति तमिति ॥ ५।१।१०३,१०४ ॥

राघवस्य कुले जातैः सगरपुत्रैः ॥ ५।१।१०५ ॥

कृतमुपकारः ॥ ५।१।१०६ ॥

सो ऽयं राघवकुलजः सागरस्तत्प्रतिकारार्थी तत्कुलप्रत्युपकारार्थी । त्वत्तः सत्क्रियमाणाद्द्वारभूतात्संमानं राघवकुलपूजामर्हति । त्वन्निमित्तं त्वत्सत्कारार्थं प्रचोदितः प्रेरितः ॥ ५।१।१०७ ॥

प्रेरणाप्रकारः– योजनानामिति । योजनानां शतमपि प्रक्रमितुं खमाप्लुत एष कपिः शेषं प्रकान्तावशेषं तव सानुषु विश्रान्तः सन्प्रक्रमतामिति यतः प्रेरितो ऽस्मि, अतो मयि तिष्ठ । स्थित्वा विश्रम्य पश्चाद्गम्यतामिति योजना । अत्र “तिष्ठ त्वम्” इत्यर्धं प्रक्षिप्तमिति केचित् ॥ ५।१।१०८ ॥

तत्तस्माद्यदिदं कन्दादि मयि बहु दृश्यते तदास्वाद्येत्यन्वयः ॥ ५।१।१०९ ॥

अस्माकमपि संबन्धस्त्वत्साहाय्यकरणप्रयोजकः इति शेषः । तं संबन्धं वक्तुमाह– प्रख्यात इति । भवान्महागुणपरिग्रहः बहुव्रीहिरयम्, अतस्त्रिषु लोकेषु प्रख्यातः ॥ ५।१।११० ॥

तादृशं त्वां ये वेगवन्तः प्लवगाः सन्ति तेषां मुख्यतमं मन्ये ॥ ५।१।१११ ॥

भवान्यादृशस्तादृशः पूज्य इति किं पुनरिति योजना ॥ ५।१।११२ ॥

विवक्षितप्राशस्त्यमेवाह त्वं हीति ॥ ५।१।११३ ॥

हनुमद्द्वारकमारुतपूजायां कारणान्तरमप्याह– शृणु चापीति ॥ ५।१।११४११७ ॥

क्षिप्त आकाशमुत्क्षिप्तः ॥ ५।१।११८,११९ ॥

तत उक्तकारणादेष संबन्धः पूजाप्रयोजकः स्वरक्षकपुत्रत्वरूपः ॥ ५।१।१२० ॥

अस्मिन्कार्ये प्रत्युपकाररूपे । एवंगते सति चिरात्प्राप्ते सति । मया समुद्रेण चेति शेषः । त्वं पूजास्वीकारेण तयोः प्रीतिं कर्तुमर्हसि ॥ ५।१।१२१ ॥

मान्यस्य वायुसंबन्धात्तव पूज्यस्य मम प्रीतिं कुर्विति शेषः ॥ ५।१।१२२ ॥

मन्युः पूजानङ्गीकारजं दैन्यम् ॥ ५।१।१२३,१२४ ॥

शैलमालभ्य स्पृष्ट्वा । प्रहसन्निवेति एतावत्प्लवने ऽपि श्रममारोप्य वृथा ऽयं प्रयास एतयोरिति प्रहासः ॥ ५।१।१२५ ॥

उपपन्नाभिस्तत्काले युक्ताभिः ॥ ५।१।१२६ ॥

अथोर्ध्वं यत्र देशे स्थितस्ततो ऽपि बहूर्ध्वम् । पितुः पन्थानं वायुमार्गम् ॥ ५।१।१२७ ॥

भूय ऊर्ध्वं ततो ऽपि बहूर्ध्वं तं गिरिमधःप्रदेशवर्तिनमवलोकयन् ॥ ५।१।१२८ ॥

तद्द्वितीयं कर्माविश्रम्यैव पुनरत्यूर्ध्वं पतनरूपं कर्म ॥ ५।१।१२९ ॥

तत्रस्था मैनाकस्था गणनस्था वा । तस्य काञ्चनस्य काञ्चनमयस्य सुनाभस्य शोभनमध्यस्य मैनाकस्य कर्मणा जलादुत्थानरूपेण देवता इन्द्रश्च तुष्टः ॥ ५।१।१३०,१३१ ॥

अभयं स्वकृतपक्षच्छेदशङ्काजनितभयाभावम् ॥ ५।१।१३२ ॥

निर्भयस्यापि भये सतीवोपचारार्थं साह्यं कृतं यतः, अतः परितुष्टः इत्यन्वयः ॥ ५।१।१३३१३५ ॥

अवस्थितः जलान्तरमग्र इत्यर्थः । सागरं मैनाकाधिष्ठितसागरप्रदेशम् ॥ ५।१।१३६ ॥

अथ देवैर्लङ्कां प्रविष्टस्य हनुमतः कार्यक्षमबलपरीक्षणार्थं सरसाप्रवर्तनम्– त इत्यादि ॥ ५।१।१३७,१३८ ॥

नभःस्पृशमिति पुंस्त्वमार्षम् । वक्रशब्दो ऽर्धर्चादिर्वा ॥ ५।१।१३९ ॥

बलं ज्ञानबलमुपायबलं च पराक्रमं च ज्ञातुमिच्छामहे । तदेव विवृणोति– त्वामिति ॥ ५।१।१४०,१४१ ॥

“भयस्य च भयावहम्” इति पाठे सर्वलोकभयस्यापीत्यर्थः ॥ ५।१।१४२ ॥

ईश्वरैर्देवैः ॥ ५।१।१४३ ॥

एष वरः पुर आगतस्य वदनप्रवेशरूपः इत्युक्त्वेति शेषः । सत्वरा त्वरासहिता सा सुरसा ॥ ५।१।१४४ ॥

प्रहृष्टवदनः । दत्तभक्षणवराया अपि सकाशान्निस्तारोपायज्ञानजो हर्षः ॥ ५।१।१४५ ॥

कार्यविषक्तस्य मायामृगवधे प्रसक्तस्य । बद्धवैरस्य शूर्पणखाविरूपकरणादिकर्मणेति शेषः ॥ ५।१।१४६ ॥

रामसाह्यकरणे हेतुः रामस्य विषयवासिनीति । तस्य सर्वाधिपतित्वात् ॥ ५।१।१४७ ॥

रामं चेति । दृष्ट्वा वृत्तान्तं च विज्ञाप्येति शेषः ॥ ५।१।१४८ ॥

कश्चिदपि मां नातिवर्तेत् अभक्षितो न गच्छेदित्यर्थः परस्मैपदमार्षम् ॥ ५।१।१४९ ॥

तं प्रयान्तं पुनरागच्छामीत्युक्त्या वरदानं श्रुत्वा ऽपि प्रयाणोन्मुखम् । हनुमतस्तस्य बलं जिज्ञासमाना सुरसा वाक्यमब्रवीत् ॥ ५।१।१५० ॥

निविश्येति । प्रविश्यैव गन्तव्यम् यदि शक्तिरस्तीत्यर्थः, इत्यब्रवीदित्यन्वयः ॥ ५।१।१५१,१५२ ॥

दशयोजनमायताम् आयतवक्त्रामित्यर्थः ॥ ५।१।१५३ ॥

“चकार सुरसा ऽप्यास्यं विंशद्योजनमायतम्” इत्यनन्तरम् “तद्ष्ट्वा व्यादितं त्वास्यम्” इति पाचिनः पाठः । अत्र “तद्दृष्ट्वा मेघसङ्काशं विंशद्योजनमायतम् । हनुमांस्तु ततः क्रुद्धस्त्रिंशद्योजनमायतः ॥ चकार सुरसा वक्त्रं चत्वारिंशत्तथोच्छ्रितम् । बभूव हनुमान्वीरः पञ्चाशद्योजनोच्छ्रितः ॥ चकार सुरसा वक्त्रं षष्टियोजनमुच्छ्रितम् । तदैव हनुमान्वीरः सप्ततिं योजनोच्छ्रितः ॥ चकार सुरसा वक्त्रमशीतियोजनोच्छ्रितम् । हनुमाननलप्रख्यो नवातिं योजनोच्छ्रितः ॥ चकार सुरसा वक्त्रं शतयोजनमायतम् ॥ " इति श्लोकास्तु प्रक्षिप्ता इति कतकः ॥

५।१।१५४ ॥

व्यादितं व्यात्तम् । दीर्घजिह्वत्वादिगुणविशिष्टं व्यात्तं तत्तस्या आस्यं दृष्ट्वेत्यन्वयः ॥ ५।१।१५५१५७ ॥

इदं वचनमितीदंशब्दार्थः । प्रविष्ट इति । दाक्षायणि दक्षप्रजापतिसन्ताने, अत एव नतिः । सत्य आसीत् सत्यो जात इत्यर्थः । वदनप्रवेशरूपत्वात्तस्य ॥ ५।१।१५८,१५९ ॥

अथ सा ऽनुगृह्णाति– अर्थसिद्ध्यै इति । राघवेण त्वद्विज्ञापितवृत्तान्तेन समानय सङ्गमय ॥ ५।१।१६० ॥

तत्तृतीयं सुरसावक्त्रान्निष्क्रमणरूपम् ॥ ५।१।१६१,१६२ ॥

वारिधारासेवितत्वादिविशेषणके चन्द्रसूर्यपथे जगामेत्यन्वयः । एकोनसप्ततितमेन । पतगैः पक्षिभिः कैशिकं गाननृत्यविद्या तदाचार्यैस्तुम्बुरुप्रभृतिगन्धर्वैश्चरिते सेविते । ऐरावतम् ऋजुदीर्घमिन्द्रधनुरिति तीर्थः, गजविशेष इत्यन्ये ॥ ५।१।१६३ ॥

पतगोरगाः पक्षिसर्पाः ॥ ५।१।१६४ ॥

वज्राशनिसमस्पर्शैस्तद्वत्प्राणहरैः पावकैः पञ्चाग्निभिरिव स्वर्गजिद्भिरधिष्ठिते । “समाघातैः” इति पाठे ताभ्यां तुल्य आघातो ऽभिघातो येषां तैरित्यर्थः ॥ ५।१।१६५ ॥

चित्रभानुना पञ्चाग्निभिन्नो ऽयमग्निश्चित्रभानुः ॥ ५।१।१६६ ॥

विश्वे विश्वाश्रये । विश्वावसुर्गन्धर्वराजः ॥ ५।१।१६७ ॥

देवराजानां गताः पुण्डरीकादयः । विताने ऽवकाशावरणवस्त्रे “चान्दवा” इति प्रसिद्धे ॥ ५।१।१६८१७३ ॥

आशिता कृतभोजना ॥ ५।१।१७४ ॥

समाक्षिपज्जग्राह । छायाग्रहणेन तद्वस्तुनिरोधशक्तिस्तस्या ब्रह्मदत्ता ॥ ५।१।१७५ ॥

पङ्गूकृतः स्तब्धगतिः पराक्रमो यस्य ॥ ५।१।१७६ ॥

महानौर्यथा पङ्गूकृतपराक्रमा स्तब्धगतिः प्रतिलोमेन वातेन क्रियते । गम्यदेशगतिनिरोध एवात्र स्तब्धगतित्वम् । यद्वा तेन यथा विपरीतगतिवारणाय यन्त्रैः स्तब्धगतिः कार्यते, तथा ऽहं केनचित्स्तब्धगतिः कृतः ॥ ५।१।१७७ ॥

महासत्त्वं स्त्रीरूपं प्राणिनम् ॥ ५।१।१७८,१७९ ॥

अर्थतत्त्वेन छायाग्रहणरूपार्थक्रियया ॥ ५।१।१८० ॥

पातालाम्बरसंनिभं पातालाकाशमध्यभागसदृशम् ॥ ५।१।१८१,१८२ ॥

कायमात्रं स्वशरीरकवलनपर्याप्तं शरीरप्रमाणमित्यर्थ इति तीर्थः । मात्रशब्दो ऽल्पवाचीति कतकः । मर्माणि च भेदानार्थं ददर्शेत्यन्वयः । तस्या वक्त्र आत्मानं मुहुः सङ्क्षिप्याधिकं सङ्कुच्य निपपातेत्यन्वयः ॥ ५।१।१८३१८५ ॥

मनःसंपातविक्रमो मनोवेगतुल्यवेगः । दिष्ट्या दैवानुग्रहेण । “दृष्ट्वा” इति पाठे सूक्ष्मदर्शनेनेत्यर्थः । धृत्या सहजधैर्येण । दाक्षिण्येन कालोचितकृत्यचातुर्येण च तां निपात्य निहत्य वेगेनोत्पपात ॥ ५।१।१८६ ॥

ननु प्रथमप्रवृत्तवेगस्य सुरसादिभिः कुण्ठीभावे सति कथं पुनराकाशगमनं तत्राह– आत्मवान्वायोरिव स्वाधीन एव तद्गमनविषयो यत्नः । प्रथमं त्वाकाशमार्गप्राप्तिमात्राय महेन्द्रपर्वतालम्बनमितरजनप्रतारणाय वेत्याहुः । हृतहृद्धस्तहृदयलक्षणप्राणस्थाना, अत एव विधुरा प्राणशून्याम्भसि पपात । अत्र कविरुत्प्रेक्षते– तस्याश्छायाग्रहणमात्रेण भक्षणादिशक्तिमत्याः सिंहिकाया, निपातने निपातनिमित्तं रावणनाशाय स्वात्मरूपरामवत्स्वस्वरूपो हनुमान्सृष्टः ॥ ५।१।१८७,१८८ ॥

महत्सत्त्वं महाबला राक्षसी रावणवदशक्यसंहारा त्वया संहृतेत्यर्थः । अरिष्टं बाधारहितम् “रिष हिंसायाम्” ॥ ५।१।१८९ ॥

निर्बाधं कर्मसाधनहेतुमाह– यस्य त्विति ॥ ५।१।१९० ॥

स तैः संपूजितस्तैः पूर्वोक्तभूतैः । प्रतिपन्नप्रयोजनैरभिमतं साधयेत्यनुमत्यानु ऽगृहीतकार्यैः ॥ ५।१।१९१ ॥

प्राप्तभूयिष्ठः प्राप्तकल्पः पारो येन सः ॥ ५।१।१९२ ॥

पतन्नेव गच्छन्नेव मलयोपवनानि । अनेनोत्तरतीर इव दक्षिणतीरे ऽपि मलयाख्यः पर्वतो ऽस्तीति गम्यते ॥ ५।१।१९३ ॥

सागरं दक्षिणतीरसमीपवर्तिसागरम् । अनूपः कच्छदेशः । सागरस्य पत्नीनां लङ्काद्वीपादागत्य सागरं प्रविशन्तीनां नदीनां मुखानि सङ्गमस्थानानि विलोकयद्व्यलोकयत् ॥ ५।१।१९४ ॥

आत्मानं स्वशरीरं मद्दत्त्वादाकाशं निरुन्धन्तमिव । मतिं कर्तव्यनिश्चयम् ॥ ५।१।१९५ ॥

कौतूहलम् आश्चर्यधिया दिदृक्षामित्यर्थः ॥ ५।१।१९६ ॥

प्रकृतिं निजमाकारम् । वीतमोहो वीतो नष्टो वासनावशादागतः कामादिमोहो यस्य सः । आत्मवाञ्जीवन्मुक्तयोगी । प्रकृतिम् भगवदनन्यतत्त्वतालक्षणस्वभावमित्यर्थः ॥ ५।१।१९७ ॥

अतिसङ्क्षिप्यातिसङ्कोच्य । त्रीन्क्रमान्पदानि विक्रम्य प्रक्षिप्य बलेर्वीर्यस्य हरो हरिरिव प्रकृतौ स्थितः ॥ ५।१।१९८ ॥

चारुनानाविधरूपधारी नानावर्णाकृतिरूपधारी । तच्च तद्ध्यानेषु स्पष्टम् । परैरशक्यं समुद्रतीरमासाद्येत्यन्वयः । समीक्षितात्मा समालोकितातिप्रमाणस्वशरीरः, समवेक्षितार्थं आलोचितानन्तरकार्यः, प्रतिपन्नरूपो ऽङ्गीकृतस्वल्पदेहः अभूदिति शेषः ॥ ५।१।१९९ ॥

लम्बस्य लम्बाख्यस्य विचित्राणि कूटान्यवान्तराशिखराणि यस्य तादृशे कूटे प्रधानशिखरे । उद्दालकः श्लेष्मातकः ॥ ५।१।२०० ॥

गिरिवर्यमूर्ध्नि स्थितामिति शेषः । उपसंहरति– कपिस्त्विति । स कपिरुच्यमानविशेषणं सागरमतिक्रम्य तस्मिंल्लम्बाख्यपर्वते मृगादीन्व्यथयन्पीडयन्निपपात । निपत्य च ततः प्राचीनं रूपं विधूय महोदधेस्तीरे ऽमरावतीमिव स्थितां लङ्कां ददर्श ॥ ५।१।२०१,२०२ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये सुन्दरकाण्डे प्रथमः सर्गः ॥ ५।१ ॥