यदुगिरि-नारायण-लेखः

प्रसिद्धिः

विशिष्टाद्वैतसम्प्रदाये सर्वपूर्वोत्तराचार्येभ्यः अस्य निरतिशयवैभवम् ।
वेङ्कटनाथार्यः वेङ्कटेशः इति जन्मनाम्ना कीर्तितो ऽसौ
पर-पक्ष-निरास-पूर्वक-सिद्धान्त-स्थापक–
बहु-प्रबन्ध-निर्माणालङ्कर्मीणत्वात्
साक्षात् श्रीरङ्गनाथेनैव दत्त-वेदान्ताचार्य-बिरुदः
इति प्रसिद्धिः ।
तदा ऽरभ्य वेदान्त-देशिकः निगमान्त-गुरुः इत्यादि-नामभिर् एष व्यपादिश्यत ।
उक्तं चैतत् स्वयम् एव अधिकरण-सारावलेः आदौ

‘विश्वस्मिन् नामरूपाण्य् अनुविहिततया तेन देयेन दत्तां
वेदान्ताचार्यसञ्ज्ञाम् अवहित-बहुवित् सार्थम् अन्वर्थयामि’ इति ।

तथा सङ्कल्पसूर्योदयनाटके प्रस्तावनायां

‘विंशत्यब्दे बहुश्रुत-नाना-विध-विद्यः
त्रिंशद्वारं श्रावित-शारीरक-भाष्यः’

इति स्वयमेव कीर्तनात् विंशतिवर्षमिते वयस्य् एव
सर्वविद्यावैशारद्यं प्रापुषो ऽमुष्य आचार्य-तल्लजस्य
जीवित-काले त्रिंशद्-वारं श्रीभाष्य-प्रवचनं च शिष्येभ्यः कृतम् इति
महतीयं असाधारणी प्रतिष्ठा ।

कवितार्किकसिंह इति सर्वतन्त्रस्वतन्त्र इति च
समानकालिकैः विद्वद्वरैः सादरं बिरुद-प्रदानेन एष समभाव्यत ।

जन्म

काञ्च्याः समीपे तूप्पिल्-नाम्नि अग्रहारे लब्धजन्मनोऽस्य जीवनकालः (क्रिस्तः) १२६८ प्रभृति १३६९ पर्यन्त इति चारित्रकाः ।
वैश्वामित्रवंशे लब्धजनुषोऽस्य पितामहः पुण्डरीकाक्ष-यज्वा,
पितरौ च अनन्तार्य-तोतारम्ब-नामकौ ।

शिक्षा

श्रुतप्रकाशिका-कर्तुः श्रीसुदर्शन-भट्टारकस्य सब्रह्मचारितया व्यपदिष्टात्
वात्स्य-वरदाचार्य-शिष्येषु अग्रगण्यात्
श्रीमद्-आत्रेय-रामानुजार्यात्
स्वमातुलाद् एव
सर्वविद्याधिगमः ।

अस्य शिष्याः आद्य-ब्रह्मतन्त्रमुनीन्द्र-प्रभृतयः परश्शतम् । विद्यारण्य-मुनि अक्षोभ्य-मुनि-प्रभृतयोऽस्य सम-सामयिकाः
भिन्नमतस्थाः प्रसिद्ध-विद्धांसः ।

काञ्च्याम् एव स्व-प्रथम-वयसि सिद्धान्त-प्रवर्तकतया स्थितोऽयं
श्रीरङ्ग-क्षेत्र-श्रियो ऽभिवृद्धिम् अपेक्ष्य
तत्रत्यैः परम-भागवतैर् आहूतः
तत्र गत्वा लम्भितोद्दामभूमा
संस्कृत-द्राविड-वेदान्त-प्रवचनैक-परायणः
वादाहवेषु परान् प्रत्याचक्षाणश् च
आदेहपातम् उवासेति निश्चप्रचम् ।

ग्रन्थाः

श्रीभाष्यकारैः भगवद्-रामानुजार्यैः
निर्विशेषाद्वैत-मतोपरि प्रतिपादितानां दूषणानां विस्तरणार्थं
वाद-ग्रन्थ-रूपेण प्रवर्तिता शतदूषणी कृतिः
आचार्य-प्रतिभायाः पताका भवति ।

विशिष्टाद्वैत-सिद्धान्त-सर्वस्वम् इति सम्भावनीयो ग्रन्थः
तत्त्व-मुक्ता-कलापाख्यः स्रग्धरा-वृत्तमय-श्लोक-पञ्चशती-समुद्भासितः
स्वेनैव सर्वार्थसिद्धि-नामक-व्याख्यया परिष्कृतः
श्रीवैष्णवैः विद्वद्भिः कण्ठे धार्यम् अमूल्यम् आभरणम् ।

एकस्याम् एव रात्रौ श्रीरङ्गनाथ-पादुकाम् उद्दिश्य
निर्मितं विविधालङ्कार-वैचित्री-बन्धुरं
पादुका-सहस्राभिध-स्तोत्रं
भावुकानां सुधास्वादवत् अमन्दानन्द-सन्धायकम् ।

एवम् अस्य द्रविडभाषामया गाथा-प्रबन्धा अपि बहवः
उभयभाषयोः समं प्रौढिमानम् आविष्कुर्वन्ति ।

‘कर्मावलम्बकाः केचित्
केचित् ज्ञानावलम्बकाः ।
वयं तु हरिदासानां
पादरक्षावलम्बकाः’ ।

इति श्लोकेन तान् सद्यः प्रत्युत्तरयतः
स्वविनय-प्रदर्शन-काष्ठा हि परम-विस्मयनीया ।

एतदीयं यादवाभ्युदय-महाकाव्यं श्रीमद्-अप्पयदीक्षितेन आलङ्कारिक-मूर्धन्येन व्याख्यातम्
इत्यत एव तत्-काव्यवैभवं सुगमम् ।

एवं काव्य-नाटकविभागे, स्तोत्र-विभागे, व्याख्या-विभागे, द्रविड-सम्म्प्रदाय-विभागे च
शताधिकान् प्रबन्धान् प्रणीतवतोऽस्य महागुरोः प्रसिद्धाः कतिपयग्रन्था इह नामतो निर्दिश्यन्ते ।

काव्यविभागेः- यादवाभ्युदयः, हंससन्देशः, सुभाषितनीवी, सङ्कल्प-सूर्योदय-नाटकम् इत्याद्याः ।

शास्त्रविभागेः- शतदूषणी, तत्त्वमुक्ताकलापः सर्वार्थसिद्धिसहितः, न्यायपरिशुद्धिः, न्यायसिद्धाञ्जनम्, सेश्वरमीमांसा, अधिकरणसारावलिः, मीमांसापादुका इत्याद्याः ।

व्याख्यानविभागेः- गीताभाष्य-तात्पर्यचन्द्रिका, तत्त्वटीका, ईशावास्यभाष्यम्, स्तोत्र-रत्न-भाष्यम्, गद्य-त्रय-भाष्यम् इत्याद्याः ।

स्तोत्रविभागेः- पादुका-सहस्रम्, दया-शतकम्, अच्युत-शतकम्,यतिराज-सप्ततिः, अभीति-स्तवः, हयग्रीव-स्तोत्रम्, गरुड-पञ्चाशत् सव्याख्य-न्यास-विंशतिः इत्याद्याः ।

द्रविड-सम्प्रदाय-विभागेः- सम्प्रदाय-परिशुद्धिः, अभय-प्रदान-सारः, परमतभङ्गः, मुनि-वाहन-भोगम्, अधिकार-सङ्ग्रहः, परम-पद-सोपानम्, अमृतास्वादिनी, विरोध-परिहारः इत्याद्याः ।