०१ संस्कृत-प्राकृते

०१. शतदूषणी

निर्विशेष-ब्रह्माद्वैत-मत-निरासः शत-सङ्ख्याकैर् वादैर् अत्र क्रियते ।
परन्तु षट्-षष्टिर् वादा एवाधुना समुपलभ्यन्ते ।
परिशिष्टास् तु वादाः प्रनष्टाः ।+++(5)+++

“शातितः शत-दुषण्यां
शङ्करादि-मुधाग्रहः "

इति तत्त्व-टीकायाम् अनुवादात्
शतं वादाः सम्पूर्णाः कृता इति ज्ञायते ।

अत्रादि-पदेन भास्कर-यादव-प्रकशयोर्गहणं स्यात् ।
उपलभ्यमाना वादाश् चेत्थम् -

१. ब्रह्म-शब्द-वृत्त्य्-अनुपपत्तिः,
२ . जिज्ञासानुपपत्तिः,
३. ऐकशास्त्र्यसमर्थनम्
४. अविधेय-ज्ञान-भङ्गः,
५. बाधितानुवृत्ति-भङ्गः,
६. विविदिषा-साधनत्व-भङ्गः,
७. शब्द-जन्य-प्रत्यक्ष-भङ्गः,
८. साधन-चतुष्टय-पूर्ववृत्तत्व-भङ्गः,
९ परेषां कथानधिकारः,
१०. निर्विशेष-स्वयम्-प्रकाश-भङ्गः,
११. निर्विशेष-विषय-निर्विकल्पक-भङ्गः,
१२. सन्मात्र-ग्राहि-प्रत्यक्ष-भङ्गः,
१३. भेद-दूषण-निस्तारः, [[२५]]
१४. वेद-प्रामाण्य-परिग्रहानु-पपत्तिः,
१५. दृश्यत्वानुमान-निरासः,
१६. व्यावर्तमानत्वानुमान-भङ्गः,
१७. दृग्-दृश्य-सम्बन्धानुपपत्ति-परिहारः,
१८. बाह्य-प्रकाशानुपपत्तिः,
१९. ब्रह्माज्ञान-निरासः,
२०. अ-वेद्यत्व-भङ्गः,
२१. संविद्-अनुत्पत्ति-दूषणम्
२२. संविन्-निर्विकारत्वानुमान-भङ्गः,
२३. संविन्-नानात्व-निषेधकानुमान-भङ्गः,
२४. निर्विशेषत्वानुमान-भङ्गः,
२५. संविद्-आत्मत्व-भङ्गः,
२६. अहम्-अर्थात्मत्व-समर्थनम्,
२७. ज्ञातृत्वाध्यास-भङ्गः,
२८. साक्षित्व-भङ्गः,
२९. प्रत्यक्ष-शास्त्रयोर् विरोध-परिहारः,
३०. अ-सत्यात्सत्य-सिद्धि-भङ्गः,
३१. जीवन्-मुक्ति-भङ्गः,
३२. बाधार्थ-सामानाधिकरण्य-भङ्गः,
३३. संविद्-अद्वैत-भङ्गः,
३४. उपदेशानुपपत्तिः,
३५. तिरोधानानुपपत्तिः,
३६. आत्माद्वैत-भङ्गः,
३७. जीवेश्वरैक्य-भङ्गः,
३८. अ-खण्ड-वाक्यार्थ-भङ्गः,
३९. भाव-रूपाज्ञान-भङ्गः,
४०. जीवाज्ञान-भङ्गः,
४१. अ-विद्या-स्वरूपानुपपत्तिः,
४२. माया-विद्या-विभाग-भङ्गः,
४३. अ-विद्या-निवर्तकानुपपत्तिः,
४४. अ-विद्या-निवृत्त्यनुपपत्तिः,
४५. ब्रह्मणः शब्दावेद्यत्व-निरासः,
४६. निष्प्रपञ्ची-करण-नियोग-भङ्गः,
४७. विकल्पाप्रामाण्य-भङ्गः,
४८. उपबृंहण-वैघट्यम्,
४९. ऐक्योपदेशान्यथानुपपत्ति-भङ्गः,
५०. शास्त्राधिकार-भङ्गः,
५१. मुक्त-संविन्-निर्विषयत्व-भङ्गः,
५२. स-गुण-निर्गुण-श्रुति-व्यवस्थाः,
५३. ब्रह्मोपादानत्वान्यथानुपपत्ति-भङ्गः,
५४. मायोपादानत्वान्यथानुपपत्ति-भङ्गः,
५५. कार्यान्यथानुपपत्ति-भङ्गः,
५६. आनन्त्य-निरूपणम्,
५७. निर्विशेष-ब्रह्मानन्दत्व-भङ्गः,
५८. निर्विशेष-ब्रह्म-नित्यत्व-भङ्गः,
५९. अद्वितीय-श्रुति-विसंवादः,
६०. सत्त्वासत्त्व-विवेकः,
६१. जीवैक्य-भङ्गः,
६२. अपशूद्राधिकरण-विरोधः,
६३. अधिकारि-विवेकः,
६४. यति-लिङ्ग-भेद-भङ्गः,
६५. अलेपक-मत-भङ्गः,
६६. सूत्र-स्वारस्य-भङ्ग

इति ।
एतद्-ग्रन्थ-करण-पूर्वकं विशिष्टाद्वैत-मत-स्थापन-परितुष्टेन भगवता
श्री-रङ्ग-नाथेनाचार्याय “वेदान्ताचार्य” इति सञ्ज्ञा दत्तेति प्रथा ।

०२. तत्त्वमुक्ताकलापः

विशिष्टाद्वैत-सिद्धान्त-रीत्या वेदान्त-रहस्यार्थ-प्रकाशकः पद्य-रूपोऽयं ग्रन्थः ।
अत्र च पञ्चभिः सराभिख्यैर् भागैर्
यथाक्रमं [[२६]] जड-द्रव्य-जीव-नायक-बुद्धि-अद्रव्याणां
स्वरूपादिकं निर्णीतम् ।
आहत्यात्र पद्य-सङ्ख्या ५००,
अयं च ग्रन्थः सायणात्मजेन माधवेन
सर्वदर्शन-सङ्ग्रहे व्यपदिष्टः ।

०३. सर्वार्थसिद्धिः

पूर्व-निर्दिष्टस्य तत्त्व-मुक्ता-कलापस्य व्याख्या-रूपोऽयं ग्रन्थः ।
अत्र च प्रकाशात्म-वाचस्पति-चित्सुखादिभिर् अभिहिता
निर्विशेषाद्वैत-सम्बद्धा बहवो वादा अनूद्य निरस्ताः ।

०४. अधिकरण-सारावलिः

भगवद्-रामानुजीय-श्री-भाष्य-रीत्या
ब्रह्म-सूत्राधिकरण-विषय-सङ्ग्र-हरूपः
पद्यात्मकोऽयं ग्रन्थश्
चतुर्भिर् अध्यायैः प्रविभक्तः ।
आहत्यात्र श्लोक-सङ्ख्या ५६२।

“तेन देवेन दत्तां वेदान्ताचार्य-सञ्ज्ञाम्
अवहित-बहु-वित् सार्थम् अन्वर्थयामि "

इति स्वकीय-वेदान्ताचार्य-सञ्ज्ञाया अनुवाद-दर्शनात्
शतदूषण्या अनन्तरम् अयं ग्रन्थो निर्मित इत्य् अवगम्यते ।
तथात्र तत्त्व-मुक्ता-कलापस्य नाम्ना निर्देशात्
तद्-अनन्तरं कृत
इत्य् अपि ज्ञायते ।

०५. अधिकरणदर्पणम्

अयं ग्रन्थोऽधुना लुप्तः,
कुत्रापि न लभ्यते ।
परं तु निक्षेप-रक्षायां समुद्धृतः ।
विशिष्टाद्वैत-सिद्धान्त-रीत्या
ब्रह्म-सूत्राणां सङ्ग्रहेणाधिकरण-विभाग-विषयादि-प्रदर्शकः स्याद्
इत्य् ऊह्यते ।

०६. सच्चरित्ररक्षा

अस्मिन् ग्रन्थे
श्री-वैष्णव-समय-सिद्धस्य सुदर्शन-पाञ्चजन्य-धारणस्य,
द्वादशोर्ध्व-पुण्ड्र-धरणस्य,
भगवन्-निवेदितोपयोगस्य च
वैधता निरवद्यता भगवत्-प्रीणनता चेति
यथा-क्रमं त्रिभिर् अधिकारैर् उपपादितम् ।
तत्र च प्रमाणतया श्रुति-स्मृति-पुराण-वचनानि प्रदर्शितानि ।
अन्ते चात्राधिकार-त्रयोपपादितान् विषयान् एवं सङ्गृह्णाति ग्रन्थ-कारः -

शमित-भव-भयानां शङ्ख-चक्रादि-चिह्नैर्,
दिविषद्-अधिक-भूम्नां दीव्यताम् ऊर्ध्वपुण्ड्रैः । प्रथित-गुण-गणानां प्रापण-प्राशनाद्यैर्
अयम् अहम् अनघानाम् अस्मि पात्रं दयायाः ॥

इति ।

[[२७]]

०७. निक्षेपरक्षा

निक्षेपः, प्रपत्तिः, शरणागतिः, न्यासः
इत्य्-आदीन्य् एकार्थ-वाचकानि पर्यायपदानि ।+++(5)+++
निक्षेपोऽपि दहर-शाण्डिल्यादि-विद्याभिर्
अ-विशिष्ट-फलतया वेदान्तेषु विकल्प्यमाना ब्रह्म-विद्येति,
परम-सिद्धान्ते विमन्यमानानां वादिनां प्रत्यवस्थानान्य् उपक्षिप्य,
श्रुत्य्-आदि-प्रमाणोपन्यास-पूर्वकं तानि निरस्य
निक्षेपस्य ब्रह्म-विद्यात्वम् अत्र व्यवस्थाप्यते ।

भाग-द्वयात्मके ऽस्मिन्न् अन्ये पूर्वभागे,

स्वरूप-लक्ष्मानुष्ठान-
विध्य्-अदृष्टेर् निषेधतः
ऐक्याद् अशक्तेर् अख्यातेः
सम्प्रदाय-विरोधतः ॥

इति नवधा ऽऽशङ्क्य,
उत्तरभागे तेषाम् आक्षेपाणां प्रत्येकं समाधानं कृतम् ।
अत्र च शत-दूषण्य्–अधिकरण-दर्पण–सच्चरित्र-रक्षाणां निर्देशात्
तद्-अनन्तर-कालिको ऽयं ग्रन्थ
इत्य् अवगम्यते ।

०८. श्री-पाञ्चरात्ररक्षा

अत्र श्री-पाञ्चरात्रस्य भगवच्-छास्त्रतया प्रख्यातस्य
प्रामाण्य-व्यवस्थापन-पूर्वकं
तस्य वेदाविरुद्धत्वं,
पाञ्च-कालिकानाम् अभिगमनोपादानेज्या-स्वाध्याय-योगानां
भगवद्-आराधनत्वं, नित्यानुष्ठेयत्वम् इत्यादीन्य् उपपादितानि ।
अत्र च त्रयोऽधिकाराः ——

  • सिद्धान्त-व्यवस्थापनम्
  • नित्यानुष्ठान-स्थापनम्
  • नित्य-ग्रन्थ-व्याख्यानं

चेति ।
अस्मिन् ग्रन्थे निक्षेपरक्षा निर्दिष्टेति ततः परोऽयम् ।

०९. न्यायपरिशुद्धिः

अत्र गौतमीय-न्याय-सूत्राणां वेदान्त-समय-बहिष्कार-पक्षे स्थितेऽपि
तेषां कथञ्चिद् अबहिष्कारो ऽपि वर्णयितुं शक्यत
इति प्रतिज्ञाय
तत्रत्यानां प्रत्यक्षानुमानादि-विचार-पराणां सूत्राणां
वेदान्त-समयानुकूल्येनार्थवर्णनं क्रियते ।
प्रत्यक्ष-अनुमान-शब्द-स्मृति-प्रमेयाख्यैः पञ्चभिर् अध्यायैर्
विभक्तोऽयं ग्रन्थः ।
श्री-पाञ्चरात्ररक्षा नामतोऽत्र निदिष्टेति
तद्-अनन्तरप्रवृत्तोऽयं ग्रन्थः ।

[[૨૮]]

१०. सेश्वर-मीमांसा

जैमिन्य्-उपज्ञं पूर्व-मीमांसा-दर्शनम्
अर्वाचीन-व्याख्याकारोक्त-रीत्या न निरीश्वर-परम्,
किन्तु सेश्वर-परम् एवेति
जैमिनीय-सूत्राणां दिङ्-मात्रेण व्याख्या-प्रदर्शन-परोऽयं ग्रन्थः ।
प्रथमाध्याय-प्रथम-द्वितीय-पादयोर् एव ग्रन्थ उपलभ्यते ।
अत्र च तत्त्व-मुक्ता-कलापस्य न्याय-परिशुद्धेश् च परामर्श-दर्शनात्
तद्-अनन्तरोत्पन्नोऽयं ग्रन्थः ।

११. मीमांसापादुका

अयं च ग्रन्थः पूर्वोदित-सेश्वर-मीमांसा-प्रतिपादित-विषयाणां
पद्यात्मकः सङ्ग्रहः ।
अत्राहत्य पद्यानि १७३.

१२. तात्पर्यचन्द्रिका

श्री-भगवद्-गीता-भाष्यस्य भगवद्-रामानुजीयस्य
व्याख्या-रूपो ऽयं ग्रन्थः ।
प्रायेण प्रतिश्लोकं प्रतिवाक्यं प्रतिपदं चावतरणवितरण-पूर्वकं
भाष्यकृद्-आशयाविष्करण-रीतिस्
तथा स्व-सिद्धान्त-स्थापन-धोरणी चान्यादृशी दरीदृश्यते ऽत्राचार्याणाम् ।
अत्र शत-दूषण्याः सेश्वर-मीमांसाया श्री-लेखात्
ततः परोऽयं ग्रन्थः ।

१३. गीतार्थ-सङ्ग्रह-रक्षा

श्री-भगवद्-गीता बहुभिर् बहुधा व्याख्यान-व्याजेनापन्थानं नीत्वा विप्लावितेति
मन्वानो भगवान् यामुनाचार्यस्
तस्याः समञ्जसं साम्प्रदायिकं चार्थम् अवबोधयितुं
गीतार्थ-सङ्ग्रहं नामातिसङ्क्षिप्तं ग्रन्थं
३२ श्लोकैर् जमन्थ ।

तस्यातिगाढत्वाद् अतिसङ्क्षिप्तत्वाच् च
मित-मतीनां दुर्-अवबोधताम् आकलय्य
तद्-आशयं यथावद् विशदयितुं
ग्रन्थम् एनम् अरचयन्न् आचार्याः ।

अत्र च कर्म-ज्ञान-भक्ति-योगानां निष्कृष्टं स्वरूपं
परस्परं सम्बन्धः, सार्थक्यं च
विशदम् उपपादितम् ।

अत्र निक्षेप-रक्षा तात्पर्य-चन्द्रिका च निर्दिष्टेति
ततः पश्चात्तनो ऽयं ग्रन्थः ।

१४. न्यायसिद्धाञ्जनम्

न्याय-परिशुद्धाव् अन्तिमे परिच्छेदे
सङ्ग्रहेण निर्दिष्टस्य प्रमेय-तत्त्वस्य
विस्तरेण विचारोऽत्र क्रियते ।

अत्र च षट् परिच्छेदाः -
जड-द्रव्य–जीव-ईश्वर-नित्यविभूति-बुद्धि-अद्रव्य-सञ्ज्ञकाः ।

षष्ठे परिच्छेदे मध्य एव विच्छिन्नोऽयं ग्रन्थः ।

उपरि भागो नोपलभ्यते ।
तात्पर्यचन्द्रिकाया अत्र निर्देशः क्रियते ।

[[२९]]

१५. तत्त्वटीका

श्री-भगवद्-रामानुजीय-श्री-भाष्यस्य विवरण-रूपो ऽयं ग्रन्थः ।
विस्तृत-व्याख्यायां श्रुत-प्रकाशिकायाम् अविचारिता बहवो विषया भाष्य-कृद्-आशय-स्थिता अत्राविष्कृताः ।
जीज्ञासाधिकरणम् अपरिसमाप्यैव विच्छिन्नोऽयं ग्रन्थ इति
क्रिं ब्रूमः कालस्य दौर्गत्यम् ।

अयं च ग्रन्थ आचार्येणाष्टाविंशे श्री-भाष्य-प्रवचने कृत इत्य् अभिहितम् ।

१३. ईशावास्योपनिषद्-भाष्यम्

भगवद्-रामानुजमुनयो
वेदार्थ-सङ्ग्रह-श्री-भाष्याभ्याम् एवोपनिषदो व्याख्यात-प्राया
इति मन्वानाः पृथग् उपनिषद्-भाष्यं नाम ग्रन्थं नारचयन्न्
इति विदितम् एतत् ।

अथापीशावास्य-वाक्यानाम् अर्थः सुस्पष्टं नावगत इति
तदीयम् आशयम् अनुसृत्यैवास्या उपनिषदो भाष्यम् अभाषिष्टासाव् आचार्यः ।
अदसीयं भाष्यम् अनुरुध्यैव नारायण-मुनिभिर् व्याख्यान्तरम् अप्य् आरचितम् इत्य् अवगम्यते ।

१७. रहस्यरक्षा

श्री-वैष्णव-समयाचार-सिद्धस्य प्रपदनस्य
स्वरूपं, महिमा, अङ्गानि, अनुष्ठानावश्यकता
+इत्यादीन्य् अवश्य-ज्ञातव्यान्य् अत्राविष्कृतानि ।

अयं च ग्रन्थस् त्रिभिर् अधिकारैः
क्रमेण भगवद्-रामानुज-विरचितस्य गद्य-त्रयस्य,
भगवद्-यामुनाचार्य-विरचितस्य स्तोत्र-रत्नस्य,
तैर् एव विरचितायाश् चतुः-श्लोक्याश् च भाष्य-रूपः ।
प्रपदनस्य मोक्ष-साधनत्वे
श्रियो विभुत्वे च
विप्रतिपन्नानां स-यूथ्यानां केषाञ्चिद् आक्षेपस्य
स-प्रमाणं समाधिम् अभिधाय
सिद्धान्तः समर्थितः ।

१८. वादि-त्रय-खण्डनम्

श्री-शङ्कर-भास्कर–यादव-प्रकाश-मतानां खण्डन-रूपो ऽयं ग्रन्थः ।
अतीव सङ्क्षिप्तः सुललितश् चायं ग्रन्थः ।[[३०]]
अयं शत-दूषणी–सर्वार्थ-सिद्ध्य्-आदि-प्रौढतम-ग्रन्थानां निर्मातृभिः श्री-वेदान्त-देशिकैर् विरचित
इति वक्तुं नानन्यथा-सिद्धं दृढतरं च प्रमाणम् उपलभ्यते
विना प्रारम्भे क्वचित् पुस्तकेषु विलिखितात्
“श्री-मान् वेङ्कट-नाथार्यः " इत्यादिध्यानश्लोकात्,
तथान्ते विलिखितात् “कवितार्किकसिंहस्य कृतिषु वादित्रयखण्डनं समाप्तम्” इति वाक्याच् च ।
एतद् ग्रन्थ-वाक्य-शैल्यादि-परिशीलने
ग्रन्थोऽयं सुप्रसिद्ध-वेदान्त-देशिक-विरचितो भवितुम् अर्हति वा न वा +इति सन्देहो जायते ।

१९. चकार-समर्थनम्

अयं ग्रन्थो लुप्तः ।
अदसीयां शत-दूषणीम्
आमूलाग्रं विमृष्टवता विद्यारण्येनैकत्र पङ्क्तौ च-कारस्याधिक्ये उद्घाटिते
तद्-आवश्यकता-समर्थन-परम् इदं पत्रम्
इति द्राविड-वैभव-प्रकाशिकादाव् उक्तम् ।

२०. न्यास-विंशतिः सव्याख्या

अस्मिन् ग्रन्थे प्रपत्त्य्-अपरपर्यायस्य न्यासस्यानुष्ठान-प्रकारः,
तदौपयिक-शिष्याचार्यादि-लक्षणम्,
भक्ति-प्रपत्त्योर् अधिकारि-विभाग
इत्य्-आदिकं विंशत्या श्लोकैर् निरूप्यते ।
अन्ते चोपसंहार-स्वानुष्ठान-मुखेन
द्वौ श्लोकाव् उपनिबद्धौ ।
आहत्यात्र २२ श्लोकाः ।
श्लोकानाम् अभिप्राय-विवरण-मुखेनाचार्येणैवास्या व्याख्यापि विरचिता ।

२१. द्रमिडोपनिषत्-तात्पर्य-रत्नावली

अयं ग्रन्थः पद्य-रूपः
श्री-शठ-कोपाख्य दिव्य सूरेः गाथात्मक-दिव्य-प्रबन्धस्यार्थ-सङ्ग्रहरूपः ।
अत्र १३० पद्यानि वर्तन्ते ।
तत्रादौ उपोद्घाततया १० पद्यानि,
ततः प्रतिदशकम् एकैकम् इति
दशक-शतस्य १०० पद्यानि,
प्रतिशतकम् एकैकम् इति शतक-दशानां १० पद्यानि,
अन्ते चोपसंहार-पराणि षट् पद्यानि,
मध्ये १-४-१ गाथायाः एकम्,
४.७.१ गाथायाः एकम्,
४.९-१ गाथायाः द्वे,
इत्य् आहत्य चत्वार्य्-अधिकानि पद्यानीति प्र-विभागः।

२२. द्रमिडोपनिषत्-सारः

अयम् अपि पद्य-निबद्धः ।
अत्र २६ पद्यानि श्री-शठ-कोप-गाथार्थ-सङ्ग्रह-रूपाणि वर्तन्ते ।

२३. यादवाभ्युदयः

श्री-कृष्णस्यावतारम् आरभ्य
भारत-युद्ध-समाप्ति-पर्यन्तां कथां
चतुर्-विंशत्या सर्गैर् वर्णयति
कवि-सिंहो ऽसाव् आचार्यवर्यः ।
वर्णना-रामणीयकेन पद-विन्यास-सौकुर्मार्यादिना च
कालिदासीयस्य रघुवंशस्य भूयसा ऽनुकरोतीदं काव्यरत्नम्,
क्वचित् क्वचित् तम् अतिशेते च ।

[[३१]]

२४. हंससन्देशः

मारुति-मुखान् मैथिलीं लङ्कायाम् अशोक-वनिकागताम् अवगत्य
राघवो राज-हंसम् एकं मैथिली-सकाशं प्रति
दूतं प्रेषयतीति
प्रतिपादनीयो ऽत्र वस्तुविशेषः ।
ग्रन्थो ऽयम् आश्वास-द्वयोपनिबद्धः ।
प्रथमाश्वासे ६० पद्यानि
द्वितीये च ५० पद्यानि सन्ति ।

भूयसा कालिदासीयस्य मेघ-सन्देशस्यानुकरोति लघु-काव्य-रत्नम् इदम् ।
मेघ-सन्देशे प्राकृत-भोग-प्रवणो यक्षः
स्वभर्तुः कोपात् कान्तया विरहितो
दक्षिणस्या दिश उत्तरां दिशं प्रति
काम-रसालम्बन-भूतां कान्ताम् उद्दिश्य
काम-रसोद्दीपकं तामसं कृष्ण-वर्णं मेघं दूततया प्रहिणोतीति
कविकल्पितं वस्तूपनिबद्धम् ।

हंस-सन्देशे तु
अपवर्ग-श्रेयः-प्रदो रघु-पतिः
स्व-सङ्कल्पेनैव दयिता-विरहम् अनुभवन्
स्वस्य सह-धर्मचारिणं जगन्-मातरं मैथिलीम् उद्दिश्य
उत्तरस्या दिशो दक्षिणां दिशं प्रति
सात्त्विकं शुक्ल-वर्णं राज-हंसं
दूततया प्रेषयतीति
महत् विषय-वैलक्षण्यम् ।

विस्तारः (द्रष्टुं नोद्यम्)

सर्वम् इदं स्व-मत-मुग्धानां क्षुद्रावलेप-दिग्धं स्वगोष्ठी-मात्र-मोहकं व्याख्या-वैशारद्यम्।
नेदृशं काव्य-कौशल-मीमांसनं जगतो विविध-साहित्य-मार्ग-विदां विद्वद्-रसिकानां काव्य-निर्माण-चणानाञ् च निकषार्पितं सुवर्ण-योगं भजते।
यतो हि कवि-कुल-गुरोः काव्य-तल्लजस्य,
सन्देश-काव्य-परम्परा-प्रवर्तकस्य मेघ-दूतस्य पूर्ण-प्रमाणानुकरणेनैव
तत्र भवतो वेङ्कट-नाथस्य हंस-सन्देशस्य नितराम् अवरत्वं बहुधा प्रतीयते।
अतः खलु सहृदयैः केवलं काव्य-मीमांसायाः सार्वत्रिकाणि तत्त्वानि प्राधान्येन प्रयुज्य
काव्यानां तर-तम-विवेकः प्राप्यः।
साहित्येतराणां मानाभासानां प्रस्तावस् तु वक्तुर् एव लाघवं दर्शयति।
इति गणेशः।

अत्र चान्यापदेशेन
कश्चिद् औपनिषदो ऽर्थ-विशेषः परिस्फुरति ।
तथा हि-
अनादि-कर्मवासनया
भगवतो विश्लिष्यन् जीवः संसार-सागर-वेष्टितः
क्वचित् दुःख्यन् परितप्यते ।
एवं गच्छति काले
यदा जीवस्य प्रारब्ध-सुकृत-वशान् मुमुक्षा जायते,
तदैवापवर्ग-सुख-प्रदो भगवांस्
ताम् एव मुमुक्षां व्याजी-कृत्य
तद्-बोधनार्थे कञ्चित् सात्त्विकम् आचार्यं परम-हंस-रूपिणं प्रेषयति ।
तेन चाचार्येण स्व-निकटं प्राप्य
दत्त-मन्त्र-रत्नाद्य्-उपदेशो
ऽधिगत-तत्त्व-ज्ञानो जीवो
भगवन्तं प्रपद्य
संसारान् मुक्तो भवतीति वेदान्त-रहस्य-भूतो ऽर्थोऽत्र वस्तुत्वेन निवेशित इति
युक्तं काव्यस्यास्य हितोपदेश-परत्वम् आचार्यस्य चास्य
वेदान्ताचार्यत्वम् अध्यवस्यन्ति सन्तः ।

२५. सुभाषित-नीवी

सुभाषितानां मूल-धन-रूपोऽयं ग्रन्थः ।
अत्र द्वादश प्रद्धतय उपनिबद्धाः ।
ता यथा -

[[३२]]

१. अनिपुणपद्धतिः,
२. दृप्तपद्धतिः,
३. खलपद्धतिः,
४. दुर्वृत्त-पद्धतिः,
५. असेव्यपद्धतिः,
६. महापुरुषपद्धतिः,
७. समचित्तपद्धतिः
८. सदाश्रितपद्धतिः,
९. नीतिपद्धतिः,
१०. वदान्यपद्धतिः,
११. सुकविपद्धतिः,
१२. परीक्षित-पद्धतिश्

चेति । आहत्य पद्यसङ्ख्या १४५।
अत्र च प्रायेण राज्ञाम् आवश्यक-नीतयो बोध्यन्ते ।
इदं च स्व-पदाश्रिताय माधवात्मजाय सर्व-ज्ञ-शिङ्गप्पनाम्ने भूपतये
सद्-उपदेश-बोधनार्थं विरचय्य
प्रहितम् इति वैभव-प्रकाशिकायाम् उक्तम् ।

२६. वैराग्यपञ्चकम्

आचार्यवर्यस्यास्य वैराग्य-काष्ठाम् आविष्करोतीदं श्लोक-पञ्चकम् ।
एतत्-समकालिकेनैतस्मिन् सुमहतीं मान्यता-प्रतिपत्तिम् आबिभ्राणेन च विजय-नगर–साम्राज्य-धुरन-्धरेण विद्यारण्येन
स्वामिनो राज-सदस्स्य् अनितरव्-असाधारणीं सम्माननां कारयितुं
राज-सकाशाद् आह्वानपत्रिकां काञ्चन-शिबिकां च सम्प्रेष्याभ्यर्थितो ऽयं वेदान्त-देशिकः
स्वस्य ख्याति-लाभ-पूजासु वैमुख्यं
चातक-वृत्त्या भगवच्-चरणारविन्द-कैङ्कर्यानुभव-प्रतीक्षतां परेषां विदुषाम्
अतिक्षुद्र-भू-पति-प्रसाद-लभ्य-ख्याति-लाभ–पूजौन्मुख्येन शोचनीयतां
चाविष्कर्तुं
श्लोक-पञ्चकम् एतत् विलिख्य
प्रतिसन्दिदेशेति प्रसिद्धिः ।

अन्ते चैवम् उपसंहृतम् आचार्येण –

" नास्ति पित्रार्जितं किञ्चिन्
न मया किञ्चिद् आर्जितम् ।
अस्ति मे हस्तिशैलाग्रे
वस्तु पैतामहं धनम् ॥ "

इति । सर्वैर् अप्य् अवश्य-पठनीयम् आस्वादनीयं चेदं श्लोकपञ्चकम् ।

२७. समस्या-सहस्रम्

अयं ग्रन्थो लुप्तः । स्तोत्र-रत्न-भाष्यस्यान्ते

“ अगणि सदसि सद्भिर् यः समस्या-सहस्री "

इत्यभिधानात् एतत्-कर्तृकम् आसीद् इति विज्ञायते ।
इदं च सुभाषित-नीवीव सुनीति-बोधकं सुभाषित-रूपं स्याद् इत्य् उन्नीयते ।

२८. पादुका-सहस्त्रम्

श्री-रङ्ग-नाथस्य पादुकाम् अधिकृत्य स्तोत्र-रूपोऽयं ग्रन्थः ।
अत्र च ३२ पद्धतयः सन्ति । ता यथा -

[[३३]]

१. प्रस्तावपद्धतिः,
२· समाख्यापद्धतिः,
३. प्रभावपद्धतिः,
४. समर्पणपद्धतिः,
५. प्रतिप्रस्थान-पद्धतिः,
६. अधिकारपरिग्रहपद्धतिः,
७. अभिषेकपद्धतिः,
८. निर्यातनापद्धतिः,
९. वैतालिकपद्धतिः,
१०. शृङ्गारपद्धतिः,
११. सञ्चारपद्धतिः,
१२. पुष्पपद्धतिः,
१३. परागपद्धतिः,
१४. नादपद्धतिः,
१५. रत्नसामान्यपद्धतिः,
१६. बहुरत्नपद्धतिः,
१७. पद्मरागपद्धतिः,
१८. मुक्तापद्धतिः,
१९. मरकत-पद्धतिः,
२० इन्द्रनीलपद्धतिः,
२१. बिम्बप्रतिबिम्बपद्धतिः,
२२. काञ्चनपद्धतिः,
२३. शेषपद्धतिः,
२४. द्वन्द्वपद्धतिः,
२५. सन्निवेशपद्धतिः,
२६. यन्त्रिक-पद्धतिः,
२७. रेखापद्धतिः,
२८. सुभाषितपद्धतिः,
२९. प्रकीर्णपद्धतिः,
३०. चित्रपद्धतिः,
३१. निर्वेद-पद्धतिः,
३२. फलपद्धतिर्

इति ।

अत्र च द्रमिडोपनिषत्-प्रबन्ध-निर्माता श्री-शठ-कोप-मुनिः
श्री-रङ्ग-नाथ-पादुकाया अवतार-विशेष इति,
अत एवोभयोर् अपि श्री-शठ-कोप-समाख्येति च प्रतिपाद्य
द्रमिडोपनिषद्-गाथा-सम-सङ्ख्याकैः सहस्त्रेण श्लोकैस्
तत्रत्या विषयाः स-चमत्कारं प्रतिपादिताः ।
उपरि चाष्टौ श्लोका उपसंहार-परा इत्य्
आहत्याष्टाधिक-सहस्र-श्लोका वर्तन्ते ।

२९. अच्चुअसअअं

भगवद्-भक्ति-निमग्नोऽसौ देशिक-वर्यः

" भक्तिः शृङ्गार-वृत्त्या परिणमति”+++(5)+++
द्रमिडोपनिषत्तात्पर्यरत्नावली - ३.

इत्य्-उक्त-रीत्या भक्ति-शृङ्गारम् अनुभवन्
श्री-शठ-कोप इवात्मानं
भगवद्-अत्यन्त–पर-तन्त्रां तद्-अनुभवैक-परां नायिकां,
भगवन्तं च स्वानुभव-विषय-भूतं कान्तं वल्लभं सम्भाव्य
स्त्रीणां, तत्रापि मुग्धानां, समुचितया प्राकृत-भाषया
भगवन्तं स्वाभिलषितं प्रार्थयते ।
अत्र १०१ श्लोका वर्तन्ते ।

३०. दया-शतकम्

श्री-वेङ्कटाद्रि-नाथस्य भगवतः श्री-निवासस्य दयाम् अधिकृत्य
श्लोकशतेन स्तोत्र-रूपोऽयं ग्रन्थः ।
आहत्यात्र लोकसङ्ख्या १०५.

३१-५४. अन्ये स्तोत्रग्रन्था

यथा -

१. हयग्रीवस्तोत्रम् - ३३ श्लोकाः ।
२. दशावतार-स्तोत्रम् - १३ श्लोकाः ।
३. भगवद्ध्यान-सोपानम् - १२ श्लोकाः ।
४. गोपाल-विंशतिः - २१ श्लोकाः ।

[[३४]]

५. श्री-स्तुतिः - २५ श्लोकाः ।
६. न्यासदशकम् - १० श्लोकाः ।
७. अभीतिस्तवः - २९ श्लोकाः ।
८. वरदराजपञ्चाशत् - ५१ श्लोकाः ।
९. वेगासेतुस्तोत्रम् (यथोक्तकारिस्तोत्रम् ) - १० श्लोकाः ।
१०. अष्टभुजाष्टकम् - १० श्लोकाः ।
११. कामासिकाष्टकम् – ९ श्लोकाः ।
१२. परमार्थस्तुतिः - १० श्लोकाः ।
१३. शरणागतिदीपिका ( दीपप्रकाशस्तोत्रम् ) - ५९ श्लोकाः ।
१४. देवनायकपञ्चाशत् - ५३ श्लोकाः ।
१५. देहलीशस्तुतिः - २८ श्लोकाः ।
१६. न्यास-तिलकम् – ३२ श्लोकाः ।
१७. रघुवीर-गद्यम् ।
१८. भूस्तुतिः- ३३ श्लोकाः ।
१९. गोदास्तुतिः - २९ श्लोकाः ।
२० षोडशायुधस्तोत्रम् १९ श्लोकाः ।
२१. सुदर्शनाष्टकम - ९ ।
२२. गरुडदण्डकः ।
२३ः गरुडपञ्चाशत् - ५२ श्लोकाः ।
२४. यतिराजसप्ततिः ७४ श्लोकाः ।

आहत्य स्तोत्रग्रन्थाः २४॥

५५-५९.

१. वेदार्थ-सङ्ग्रह-व्याख्यानम् ।
२. हरिदिनतिलकम् ।
३. आराधनकारिका ।
४. यज्ञोपवीत-प्रतिष्ठा ।
५. भूगोल-निर्णयः सव्याख्यः

  • इत्येते पञ्च ग्रन्था अप्याचार्यैर्विरचिता इति वदन्ति ।
    अत्र प्रथमो लुप्तः । अन्ये चत्वार उपलभ्यन्ते ।

इति सङ्कल्पसूर्योदयेनानेन सह षष्टिः (६०) ग्रन्थाः संस्कृत-भाषामयाः ।