०३ आत्म-गुण-पूर्तिः

अथास्य श्री-वेङ्कट-नाथ-देशिकस्यात्म-गुण-पूर्तिः-

आत्म-गुणाश् चाष्टौ गौतमेन परिगणिताः ।
यथा-

अथाष्टाव् आत्म-गुणाः ।
दया सर्व-भूतेषु क्षान्तिर् अनसूया शौचम् अनायासो मङ्गलम् अकार्पण्यम् अस्पृहेति ।
यस्यैते चत्वारिंशत्-संस्कारा न चाष्टाव् आत्मगुणा
न स ब्रह्मणः सायुज्यं सालोक्यं च गच्छति
गौतमधर्मसूत्रम् ८.२० - ८.२२

इति ।

दया

तत्र दया नाम सर्व-भूत-हित-चिन्तनम् ।
वेदानधिकारिणा सदाचाराणां स्त्री-शूद्रादीनां चण्डाल-पर्यन्तानाम् अपि
मोक्षोपायाधिकार-सिद्धये ब्रह्म-ज्ञान-सम्पादनाय च
द्रमिड-भाषा-रूपाणाम् अध्यात्म-विषयक-ग्रन्थानां करणेन
श्री-रङ्ग-नाथ-प्रतिष्ठादि-करणेन चानेनाचार्येण
सुमहदुपकृतं लोकस्येति सुव्यक्तम् एतत् ।

क्षान्तिः

क्षान्तिः सुख-दुःखादि-द्वन्द्व-सहिष्णुता ।
यथाह व्यासः -

आकुष्टोऽभिहतो वापि
नाक्रोशेन् नापि ताडयेत् । अदुष्टो वाङ्-मनः-कायैः
सा तितिक्षा क्षमा स्मृता ॥
(Quoted by Maskarin.)

इति ।

[[७९]]

कदाचिद् आचार्यस्यावज्ञा-करणार्थे
विमतस्थैः कैश्चित् स्वपादरक्षा
देशिक-वर्यस्य मन्दिर-देहल्यां रात्रौ निबध्यावलम्बिता ।
प्रातर् अभिगमन-काले यदा देशिक-वर्यो मन्दिरान् निश्चक्राम,
तदोपरि निबद्धां पाद-रक्षाम् अवलोक्य
कृत्यम् इदं नूनं स-यूथ्यैः कैश्चिद् भागवतैर् आचरितम् इति मत्वा
स्वस्य धन्य-वादम् एवम् अवादीत्-

कर्मावलम्बकाः केचित्
केचिज् ज्ञानावलम्बकाः । वयं तु हरि-दासानां
पाद-रक्षावलम्बकाः ।।

इति ।

अन्यदैकस्मिन् दिवसे
लक्ष्मणाचार्यस्य वीथीयात्रायाम् आसीनम् एनम् आचार्यं
कश्चित् पदयोर् आचकर्ष ।
तदा ऽपि देशिक-वर्यस्य मनो नाक्षुभ्यत् ।
केवलम् " अहन्ते! नाहं ते विहरण-पदम्" इत्यादि-श्लोक-पठन एव प्रवृत्तम् । (Vide page 70 of this Introduction.)
इत्य्-आदिकं तत्-क्षमायाः पर्याप्तं निदर्शनम् ।

अनसूया

अनसूया नाम गुणवत्सु प्रद्वेषाभावः ।
स्वयम् अनितर-साधारण-वैदुष्य-भूषितोऽपि
स्व-सम-काल-भवेषु श्री-लोकाचार्य–सुदर्शन-सूर्य्-आदिषु विद्वद्-अग्रणीषु
न मात्सर्यम् उवाह देशिक-वर्यः,
प्रत्युताभियुक्त-कोटिषु तान् परिगणय्य
तदीय-ग्रन्थानां प्रकटनम् अप्य् आरचयत् ।
न केवलम् अयम् एवानसूयालुः ।
किन्तु परेषाम् अप्य् अनसूयाम् उपदिशति ।
यथा-

आपाद-चूडम् अनपायिनि दर्शनेऽस्मिन्न्
आशासनीयम् अपरं विपक्ष-हेतोः ।
आपात-शान्ति-मधुरान् पुनर् अस्मदीयान्
अन्योन्य-वैर-जननी विजहात्व् असूया

इति । (Vide page 264 of the text)

शौचम्

शौचं नाम द्रव्यादि-शुद्धिः ।

[[८०]]
भगवद्-आराधनोपयुक्तानां द्रव्याणाम् उपादाने
परमैकान्तिभिः क्षेत्रियैर् उपहृतम् अयाचितोपनतं द्रव्यम् एव स्कीकुर्वन् “न राज्ञः प्रतिगृह्णीयात् " (मनु, ४-८४.) इति निषिद्धं प्रभूतम् अपि राज-द्रव्यं न स्वीचकारेति
विजय-नगर-नर-पत्य्-आह्वान-निराकरणादिना ज्ञायते ।

अनायासः

अनायासो नामात्मपीडाऽनारम्भः ।

दुरीश्वर-द्वार-बहिर्-वितर्दिका-दुरासिकायै रचितोऽयम् अञ्चलिः
वै. रा. ४.

इति वदता स्पष्टीकृतोऽयं गुणः ।

मङ्गलम्

मङ्गलं नाम प्रशस्त-कर्माचरणम् ।
नित्य-नैमित्तिकानि कर्माणि
“मङ्गलानां च मङ्गलम्” (महा. आनु. २५४.१०.) इत्य् उक्त-परम-मङ्ङ्गल-भूत–भगवद्-आराधनैक-वेषेणानुतिष्ठन्
क्षयिष्णु-फलानि काम्यानि कर्माणि सर्वात्मना परिहरंश्
चात्मनो मङ्गलैकतानताम् अभिव्यनक्ति देशिक-वर्यः ।

अकार्पण्यम्

अकार्पण्यं नामापद्य् अप्य् अदीनता ।
श्री-रङ्गक्षेत्रे तुरुष्कैर् उपद्रुते
कृत्याकृत्य विभाग निपुणो ऽयम् आचार्यो
दैन्यम् अवधूय
सद्यः श्री-रङ्गात् प्रस्थाय
यदु-शैलं प्राप्य
तत्रत्य एव
श्री-रङ्ग-नाथस्य पुनरालये प्रतिष्ठापन-संविधानानि कुर्वन्न् आस्तेति
पर्याप्तम् इदं निदर्शनम् ।
किञ्च धन-रहितोऽपि कदाचिद् अपि कार्पण्यं नावलम्बत ।

अस्पृहा

अस्पृहा नाम यद्-ऋच्छा-लाभ-सन्तोषः ।

" नास्ति पित्रार्जितं किञ्चिन्
न मया किञ्चिद् आर्जितम् ।
अस्ति मे हस्ति-शैलाग्रे
वस्तु पैतामहं धनम् ॥ "
वैरा. प. ६.

इति वदता सम्यग् आविष्कृतोऽसौ गुणः ।