०२ चरित्रम्

एषां ग्रन्थानां परिशीलनेनावगम्यमानम्
आचार्यवर्यस्य श्री-वेङ्कट-नाथस्यावतारादि-चरित्रम् इत्थम्॥

कूटस्थाः

श्री-भगवद्-रामानुजान्तेवासि-वृन्देषु
तन्-मत-स्थापन-धुरन-्धरतया परिगणिताश् चतुः-सप्ततिर् आचार्याः ।
तेषु चैते त्रयः श्रीमद्-वेकटनाथ-देशिकस्य जन्म-वंशे विद्या-वंशे च कूटस्थाः समभूवन् -

  • अनन्त-सोम-याजी जनक-कूट-स्थः ।
  • वेदान्तोदयनापर-नामा प्रणतार्तिहराचार्यो मातामह-कूट-स्थो रहस्य-मन्त्रार्थोपदेशम्-म्परम्परा-कूटस्थश् च ।
  • कुरुकाधीश-नामा शठ-कोप-सूरिर् विद्या-वंश-कूटस्थः ।

विश्रुत-विभवां काञ्ची-नगरीम् अधिवसतो
विश्वामित्र-स-गोत्रस्यानन्त-सोमयाजिन आत्म-जन्मा
पुण्डरीकाक्ष-यज्वा नाम ।
तस्यात्म-जो ऽनन्त-सूरिः,
यः किल श्रीमद्-वेकट-नाथस्य जनकता-भाग्यम् उदवहत् ।

प्रणतार्ति-हराचार्यस्यात्रि-स-गोत्रस्यात्म-जन्मा रामानुजाचार्यो नाम ।
तस्यात्मजो रङ्ग-राजापरनामा पद्म-नाभाचार्यो नाम ।
तस्य च पुत्रो रामानुजाचार्यः, पुत्री च तोताद्र्य्-अम्बा या किल श्रीमद्वेकट-नाथस्य प्रसूर् अभूत् ।

जन्म

आचार्यवर्यस्यास्यावतार-वैभवम् एवं वदन्ति महान्तः -

यामिन्याम् एकस्यां
परमात्मात्म-योग-रूपां योग-निद्राम् आस्थितवतो ऽनन्तसूरेः
स्वप्ने भगवान् श्री-वेङ्कटेश्वर आविर्भूय

[[६०]]

तं सह-धर्म-चारिण्या तोताद्र्य्-अम्बया सह
स्व-सेवनार्थं वृषाद्रिम् आगन्तुम् अन्वशिषत् ।
प्रभात एव प्रमुदितौ तौ दम्पती
काञ्च्याः प्रस्थाय
वेङ्कट-गिरिम् आसाद्य
भगवन्तं श्री-निवासम् आसेव्य
तत्रैवैकां वासतेयीं क्षेत्र-वासम् अकुरुताम् ।

तदा श्री-वेङ्कटेशस् तयोः स्वप्न आविर्भूय
स्वीयां मणिमयीं दिव्य-घण्टां
तोताद्र्य्-अम्बाया हस्ते वितीर्य
‘सैषा युवयोः पुत्रताम् आपत्स्यते ’
इत्य् अनुगृह्यान्तरधात् ।
अनन्त-सूरि-पत्नी च
सद्य एव तां मणिघण्टाम् अप्राकृत-तेजो-रूपेण
स्व-गर्भम् आविशन्तीम् अद्राक्षीत् ।
अथ प्रभाते प्रबुद्धाव्
एतौ दम्पती मुदित-मानसौ
काञ्चीम् आगत्य
कुमारावतार-क्षणं प्रतीक्षमाणाव् आस्ताम् ।
अथ द्वादश-वर्षावसाने
निखिल-भागवत-लक्षण-सम्पन्नम् अर्भकम् अनन्त-पत्नी सुषुवे ।

स चावतारपत्-त्कालः ४३६९ तमे कल्य्-अब्दे
११९० मिते शालि-वाहन-शकाब्दे ( 1268 A. D. )
विभवनामसंवत्सरे भाद्रपद-शुक्ल-दशम्यां श्रवण-नक्षत्र-युक्तं शुभ-दिनम्
इति प्राचा ग्रन्थेषु प्रतिपाद्यते’ ।

(“उदभूद् वेङ्कटेशः केळीयोग्ये तु विभवाब्दे " इति प्राचां वचनम् ।
यद्य् अप्य् अनेन वचनेन शकाब्दः ११९१ इति लभ्यते,
तथाप्य् अतीत-संवत्सराणां परिगणने
११९० तमे शकाब्द एव विभवाब्दः समभूदिति कृत्वा
तथैवात्र निर्देशः कृतः ।
Vide L. D. Swami. kannu Pillai’s Indian Ephermeris Vol. I-Part I, page 250. )

केचित् तु तत्-समनन्तरे शुक्ल-नामनि संवत्सरे ऽवतार इति वदन्ति ।

बालश् च यथाविधि जात-कर्मादिभिः संस्कृतः
श्री-वेङ्कटेश-प्रसादात् श्री-वेङ्कटेश दिव्य-घण्टावतारतया
श्री-वेङ्कटेश-तीर्थोत्सव-दिने ऽवतीर्ण इति कृत्वा
वेङ्कट-नाथ इत्य् एव नाम्ना ऽऽहूतो
दिने दिने ऽन्यादृशीं सुषमाभिवृद्धिम् आवहन्न् अवर्धत ।

बाल्यम्

एतस्मिन्न् एव काले
पूर्वोदितस्य भगवद्-रामानुजान्ते-वासिष्व् अन्यतमस्य
कुरुकाधीशापर-नामधेयस्य शठ-कोप-सूरेः प्रशिष्यः,
विष्णु-चित्त-गुरोः शिष्यश् च
वात्स्य-वरद-गुरुः (नडादुर्-अम्माळ् इति ख्यातः)
काञ्च्यां श्री-भाष्यादिकं शिष्येभ्यो व्यावृण्वन्न् अवर्तत ।
तेषु च शिष्येषु
श्रुत-प्रकाशिका-कारः सुदर्शन-सूरिः,
न्याय-कुलिश-कारो वेङ्कट-नाथ-मातुलश् चात्रेय-रामानुजाचार्यः,

अन्ये च बहवः सुप्रसिद्धा अवर्तन्त ।

[[६१]]

वात्स्य-वरद-मेलनम्

कदाचित् षड्-वर्ष-देशीयो ऽयं बालकः
स्व-मातुलेन रामानुजाचार्येण सह
वात्स्य-वरदाचार्यस्य श्री-भाष्य-प्रवचन-गोष्ठीं सेवितुम् आगतो,
ऽदसीयाऽऽजान-सिद्ध-दिव्य-ब्रह्म-वर्चस-दर्शन-व्यग्रेषु
तद्-अवतार-वैभवातिशय-श्रवण-परेषु च सर्वेषु
श्री-भाष्य-व्याख्यान-विच्छेद-प्रकरणं विस्मृत्याचार्येण सह तच्-चिन्ता-परेषु
तत्-प्रकरणं स्मारयाम् आस ।
तेन च विस्मयाविष्टो वरद-गुरुर्
अस्य मेधाविशेषं प्रशस्य

वत्स,

प्रतिष्ठापित-वेदान्तः
प्रतिक्षिप्त बहिर्मतः । भूयास् त्रै-विद्य-मान्यस् त्वं
भूरि-कल्याण-भाजनम् ॥

इत्य् अनुजग्राह ।
तम् एनं स्वकीयं वृत्तान्तं
ग्रन्थकारोऽयं नाटकेऽत्र शिष्यं प्रति
गुर्व्-अनुग्रहापदेशेन प्रकटी-करोति । (1 सङ्कल्पसू. २.१५.)

अथ वरद-गुरुर् एनं ’ स्याद् असौ’ इत्य् आशास्य
स्वशिष्यस्यात्रेय-रामानुजस्य हस्ते
सकलाः कलाः शिक्षयितुं
विशिष्य भगवद्-रामानुज-सिद्धान्त-तत्त्वम् अवबोधयितुं
चार्पयाम् आस ।
स च तथेत्य् अङ्गीकृत्य
स्वयम् अपि ‘स्याद् असौ’ इत्य् अमुम् अनुजग्राह ।

शिक्षणम्

अथ जनकेनानन्तसूरिणा
यथाकालम् उपनीतो ऽयं वेङ्कट-नाथो
मातुलात रामानुजाचार्याद् एव
पञ्च-संस्कार-पूर्वकं भगवन्-मन्त्रान्
साङ्गान् वेदान्
काव्य-नाटकालङ्कारान्
पद-वाक्य-प्रमाणान्य्
उभय-वेदान्त-ग्रन्थांश् च
वयसो विंशतेरब्देभ्यः पूर्वम् एवाधिजगे ।

गृहस्थाश्रमः

ततः कृत-समावर्तन
उभय-कुल-विशुद्धां कन्याम् उपयम्य
सह-धर्म-चारिण्या तया सह
पाञ्च-कालिक-वर्त्मना भगवन्तं वासुदेवम् आराधयन्न्
आचार्योपासन-परो ऽवर्तत ।

अथाचार्ये रामानुजाचार्ये परिणते वयसि परम् उपयाते
तत्-सूनुना तच्-चरम-कैङ्कर्यं यथावत् कारयित्वा
ग्रन्थ-प्रवचन-तत्परः शब्द-तर्क-मीमांसादीनि सामान्य-शास्त्राणि
श्री-भाष्यादिकं शारीरकं शास्त्रं च
शिष्यान् अध्यापयन्
काञ्च्याम् एव काञ्चित् काल-कलाम् अयापयत् ।

[[६२]]

गारुडसिद्धिः

अथ सद्-आचार्योपदिष्टेन गारुत्मतेन मन्त्रेण
गरुत्मन्तम् आरिराधयिषुः
काञ्च्याः प्रस्थाय
तत्-सानिध्य-विदित-महिम–गरुड-नदी-लावित-परिसरम्
ओषधि-गिरि-राज-परिकर्मितम् +++(तिरु-)+++अहीन्द्र-पुर-नामकं क्षेत्रम् आगत्य
तत्र हेमाब्ज-नायिका-समेतं भगवन्तं देव-नाथम् आसेवमानो ऽयम् आचार्यवर्य
ओषधि-गिरौ गारुत्मतं मनुम्
अनवरतं जपन्न् आस्त ।

हयग्रीव-सिद्धिः

ततः प्रसन्नेन गरुत्मतोपदिष्टं
श्री-हय-ग्रीव-मन्त्रम् अनुसन्दधानस्
तेनैव समर्पिता हय-ग्रीवार्चा-मूर्तिम् अर्चयंस्
तत्रैव कञ्चित् कालम् अवात्सीत् ।
अथैक-दा प्रसन्नो हय-वदनो ऽस्मै वेङ्कट-नाथाय
प्रतिमत-निरसन-पटीयसीं सकल-तन्त्र-निष्णाततां वादाहव-शूरतां चान्वगृह्णात् ।

ततो भगवतो देव-नाथस्यादेशात्
देवनायक-पञ्चाशतं, गोपाल-विंशतिं, स्तेयाविरोधादिकं
तथा कतिचन द्राविड-प्रबन्धांश् च तत्रैवाग्रथ्नात् ।

काञ्चीप्राप्तिः

अथ स्व-जन्म-भूमिं काञ्चीं जिगमिषुर्
अहीन्द्र-पुरात् प्रस्थाय
मध्ये-मार्गं गोप-पुर्यां+++(=तिरु-कोइलूर्)+++ देहलीशम् आसेव्य
देहलीशर्-र्स्तुतिं, सद्-आचार-निर्णय-परां सच्-चरित्र-रक्षां च सङ्ग्रथ्य
काञ्चीम् आगतः।

श्री-वरद-राजं संसेव्य
वरद-राज-पञ्चाशतम्, अन्यांश् च बहून् संस्कृत-द्राविड-प्रबन्धान् रचयंस्
तत्रैवोभयवेदान्त-प्रवचन-परो
ऽनेकैर् विनेयवर्गैः सह
कतिचिद् वत्सरान् सुखम् अनैषीत् ।

उत्तरयात्राः

अथौत्तराहेषु दिव्यदेशेषु भगवत्-सेवाम् आरचयितु-कामो देशिक-वरः
काञ्चीतो वेङ्कटाद्रिं प्राप्य
तत्र श्री-निवासं भगवन्तं संसेवमानो
दया-शतकेन तं स्तुत्वा
ततः पुरुषोत्तमादि-बदरिकाश्रम-पर्यन्तेषु दिव्य-देशेषु
भगवन्-मूर्तीर् आसेव्य
पुनः काचीं प्रतिनिवृत्य
यथापुरं ग्रन्थ-प्रवचन-परो ऽध्यास्त ।

वरदनाथः

ततः कलेः ४४१७ तमे शालि-वाहन-शकस्य १२३८ तमे ( 1316 A. D.) नल-संवत्सरे श्रावणे मासि रोहिण्यां
देशिक-वर्यस्यास्य कुमारः समजनि ।
स च श्री-वरदराज-प्रसाद-लब्धो वरद-राजावतारश् चेति कृत्वा
वरद-नाथ इति नाम्ना ऽऽकारितो ऽभूत् ।

[[६३]]

पितुर् एव सकाशात् ब्रह्मोपदेश-पूर्वकं
साङ्गान् वेदान्
सर्वाणि तन्त्राणि सरहस्यम्
अध्यात्म-तत्त्वं चाधिगत्य
वरद-नाथस् तच्-चरणारविन्द-न्यस्तात्म-रक्षा-भरस्
तद्-एक-दैवतस् तत्रैवोवास ।

द्रामिडाम्नाय-प्रतिष्ठा

कदाचित् देवाधिराजस्य ब्रह्मोत्सवे महता वैभवेन प्रवर्तमाने
देवस्याग्र-भागे द्रमिडाम्नाय-पारायण-गोष्ठीं प्रयान्तीम् आक्षिपत्सु मतान्तर-स्थेषु विद्वत्सु,
भगवद्-एकान्त-द्रमिडाम्नाय-पारायणस्यानवद्यतां
भगवत्-कैङ्कर्य-रूपतां च प्रसाध्य
यथापुरम् उत्सव-वैखरीं स्थापयाम् आसाचार्यवर्यः ।

तेन च प्रसन्नेन श्री-देवाधिराजेन
स्वाराधनार्थम् उपयुज्यमानयोः श्री-चिह्नाख्ययोर् वाद्ययोर् एकम्
अस्मै प्रदाप्यानुजग्राह ।

अत एवाधुनापि तस्मिन् दिव्यदेशे
श्री-वरद-राज-स्वामि-सन्निधाव् एकम् एव तद्-वाद्यम् उपयुज्यत
इति द्रढयत्य् एतच् चरितं भूतार्थम् ।

श्री-रङ्गे

एवं गच्छति काले केचिन् मतान्तर-स्थाः पण्डिताः
श्री-रङ्गम् आगत्य
तत्र भगवद्-रामानुज-सिद्धान्त-प्रवर्तन-परान् सुदर्शन-सूरि–लोकाचार्यादीन् शास्त्र-विषये वादाहवायाहूय

‘अस्मान् अजित्वा श्री-रङ्ग-नाथस्य नित्याराधनादिकं पाञ्चरात्रप्रक्रियया न कर्तव्यम्’

इति निरबध्नन् ।
सुदर्शन-सूर्यादयश् च परिणत-वयस्कतया चिरं वादाहवं सोढुम् अशक्नुवन्तः
श्री-वेङ्कट-नाथ-देशिकं तस्यां धुरि साभ्यर्थनं नियोजयितुकामाः
‘श्री-मच्छ्-रीरङ्ग-नाथस्य विष्वक्मेनस्य शासनम्’ इति मुद्रयाङ्कयित्वा
किञ्चिद् अभ्यर्थना-पत्रं देशिक-वर्याय स-परिबर्हं प्रजिघ्युः+++(←हि गतौ)+++ ।
वेङ्कटनाथोऽपि श्री-मुखं तत्
प्रणति-नम्रेण शिरसा प्रतिगृह्य
तद्-वचनावसान-क्षणम् एव
स्व-यात्रारम्भ-क्षणं विधाय
श्री-रङ्गम् आगम्य
वादे प्रतिकथकान् निर्जित्य
भगवद्-आराधनं यथापूर्वं निरवर्तयत् ।
तेन चातिप्रीतो भगवान् रङ्गधुरीणो
ऽस्मै +++(शिरो-वेष्ठन-)+++शेषापट–श्री-शठ-कोपादिकम् अनुगृह्याचार्यं
वेदान्ताचार्य-सञ्ज्ञया भागवत-विद्वद्-गोष्ठ्यां मृख्यापयाम् आस ।
तन्-महिषी च सर्व-तन्त्र-स्व-तन्त्र-नाम्ना तं प्राख्यापयत् ।
ततस् तद्-वाद-क्रम-साक्षिणो विद्वांसो मिलित्वा
तं वाद-क्रमं ग्रन्थ-रूपेण विलिख्य
तस्य ग्रन्थस्य शत-दूषणीति नामाकार्षुः ।+++(5)+++
यतस्तत्र शतं दूषणान्य् अविचाल्यान्य् अघट्यन्त,
ततोऽसौ शत-दूषणीति नाम्ना प्रसिद्धिम् अगमत् ।

[[६४]]

अद्यापि श्री-रङ्गनायकीदेव्या आलयस्याग्रभागे
श्री-वेङ्कट-नाथ-देशिकस्यालय-सन्निवेशो ऽनितर-साधारणो
वृत्तान्तम् एनं प्रत्याययति ।

अहीन्द्रपुरम्

एवं कस्मिंश्चित् काले गते
अहीन्द्र-नगराधिपस्य भगवतः श्री-देव-नाथस्य लावण्य-निधेर्
दिव्य-मङ्गल-विग्रहस्य सेवनेच्छया
तं देशम् आगत्य
प्रणत-सत्यं तं भगवन्तम् आसेवमानो
ग्रन्थ-प्रवचन-परोऽवर्तत ।

तदा पूर्वं श्री-रङ्गे पराभूता वावदूका
बाह्यान् अबाह्यांश् च कथकान् आकार्य
तैर् मिलिता वादायाचार्यवर्यस्यास्य निकटम् आजग्मुः ।
आचार्यास् तु वाद-निःस्पृहा अपि
भगवतः श्री-देवनायकस्य निदेशात्
भगवद्-रामानुज-सिद्धान्त-प्रतिष्ठापनं परमं भगवत्-कैङ्कर्यं मन्वानास्
तै सह वादाहवम् अवतीर्य
सर्वान् अपि तान् प्रत्येकं जिगाय ।

कैङ्कर्येणानेनातितरां प्रसन्नः श्री-देव-नाथः
कवि-तार्किक-सिंह-नाम्ना ऽऽचार्य-वर्यम् एनम् आहूय
+++(शिरो-वेष्ठन-)+++शेषापटादिकम् अनुगृह्य
स्व-कटाक्ष-पात्रम् अकार्षीत् ।+++(4)+++

तम् एतं वाद-क्रमं तत्र मिलिता विद्वांस आनुपूर्वीक्रमेण विलिख्य
पर-मत-भङ्ग-नाम्ना ग्रन्थम् एनं प्रख्यापयाम् आसुः ।
तत्रापि श्री-वेङ्कट-नाथ-देशिकस्यालय-सन्निवेश-विशेषो
वृत्तान्तम् एनं संस्मारयति ।
तत्रैव क्षेत्रे भगवन्तं देव-नाथं सेवमानो
बहून् वत्सरान् उवास देशिक-वरः ।

तदैव स्व-मन्दिरे श्री-हयवदनाराधनाय
तीर्थ-सङ्ग्रहार्थं यथा-वास्तु-शास्त्र-विधि स्वकरेण कञ्चन कूपं निर्ममे
यः किलाधुनापि श्री-देशिक-दिव्य-मन्दिरे परिपाल्यते
सर्वैर् अपि यात्रिकैः संसेव्यते च ।

काञ्ची

अथ ततः प्रस्थाय
पुनः काञ्चीम् अवाप्य
श्री-देवाधि-राज सेवा-परो ऽवर्तत ।

एवं देशिक-वर्यस्यानितर-साधारणं वैदुष्यं ज्ञानानुष्ठानादिकं चोपश्रुत्य
तदा विजय-नगर राज्य-धुरन्-धरो विद्यारण्यः
स्वामिनम् एनं तद्-राज-सभाम् आगत्य
तेन राज्ञा वितीर्यमाणं सम्मानादिकं स्वीकर्तुं राज-पत्रिकाम् उखेन प्रार्थयत ।
गुरु-वर्यस् तु सम्मानादि-निःस्पृहतया तद्-आह्वानं निराकुर्वाणः
पञ्चभिः श्लोकैः प्रत्युत्तरयाम् आस ।
त एव श्लोका वैराग्य-पञ्चक-नाम्ना ऽधुना प्रथाम् उपगताः ।
तांश् च श्लोकान् अवेक्ष्य
विद्यारण्यो गुरुवर्यस्य वैराग्यं प्रशस्य
तस्मिन्न् अधिकतरां बहुमतिम् उदवहत् ।

[[६५]]

एवं ज्ञान-वैराग्यानुष्ठान-शेवधाव्+++(=निधौ)+++ आचार्य-वर्ये काञ्चीम् अधिवसति
कैश्विद् असूयालुभिः सयूथ्यैः प्रेषितः कश्चिद् वर्णी+++(=ब्रह्मचारी)+++
देशिक-वरम् उपगम्यात्मनो विवाहार्थं धनम् अयाचत ।
ततो दिशिकोऽयं श्री-स्तुत्या कमलां प्रसाद्य
तस्मै वर्णिने यथेप्सितं धनम् अदापयद् इति
वैभव-प्रकाशिकायाम् उक्तम् ।

कुरुकापुरी

अथ दाक्षिणात्य-दिव्य-देशेषु भगवन्मूर्तीः सेवितु-कामः
काञ्चीतः प्रस्थाय
कुरुकापुरीम्+++(=आळ्वार्-तिरुनगरीम्)+++ आसाद्य
श्री-शठ-कोप-मुनेर् वकुल-भूषणस्य सेवां कुर्वंस्
तदा देशात् द्रमिडोपनिषद्-भाष्यस्य व्याख्यां निगम-परिमलाख्याम् आरचयत्,
या किलाद्य कलि-महिम्ना केवलं नाम-शेषा वर्तते ।

यदुगिरौ

ततो भगवद्-रामानुज-विजय-साक्षिभूतं यादवाचलं प्राप्य
तत्र सम्पत्-कुमार-मङ्गलाशसनेन
कृत-कृत्यम् आत्मानं मन्यमानो
यति-राज-सप्तत्या यतिवरं संसेवमानस्
तत्रैव कञ्चित् कालम् उवास ।

श्रीरङ्गे

अत्रान्तरे पुनरपि श्रीमतो रङ्ग-नाथ-देवस्याराधनोत्सवादिकं
प्रतिमतस्थैः प्रतिहतम् आकर्ण्य
श्री-रङ्गं त्वरितं प्रतिनिवर्तमाने वेङ्कट-नाथे
मध्ये-मार्गम् एकां यामिनीं
कस्मिंश्चिद् अग्रहारे वसति सति,
भगवान् हय-वदनस् तस्यां रात्रौ
स्वावास-भूत-गृह-स्वामिनं स्वं दिव्य-रूपं प्रदर्श्यानुजग्राहेति वदन्ति ।

अथ श्री-रङ्गम् आगत्य
वादिनो विजित्य
स्व-मत-स्थापन-पूर्वकं भगवद्-आराधनादिकं यथा-पुरं प्रावर्तयत् ।
तस्मिन्न् एवावसरे सङ्कल्प-सूर्योदयम् इमं निरमिमीतेति प्रथा ।

डिण्डिम-कविः

एवं श्री-रङ्ग-नाथस्य सेवा-परे देशिक-वरे
श्री-रङ्गम् अधिवसति डिण्डिम-सार्वभौमाख्यः कश्चित् कविर्
आचार्यम् इमं कवि-तार्किक-सिंहम् उपश्रुत्य
तद्-असहनो ऽमूनि स्व-प्रशंसा-पद्यान्य्
अनुचरैर् आचार्य-वर्यस्य समीपे ऽचकथत्-

छित्त्वा सर्वाण्य् अरण्यान्य् अतिविषम-लता-गुल्म-दुर्गाणि सद्यः
प्राप्तं मां पक्कणान्तं+++(=व्याधग्रामान्तं)+++ बत भषक-ततिर् बुक्कणैर् धिक् करोति
लज्जन्ते हन्तुम् एनां मद-करटि+++(=कपोलि)+++-घटा-कुम्भ-पीठी-विपाट- क्रीडा-धौरेय-धारा मम खलु नखराः, किं करोमि क्व यामि ।।

[[६६]]

प्राज्ञानाम् एव राज्ञां सदसि न सहते जल्पम् अल्पेतरेषां
क्षुद्रेष्व् आक्षेप-मुद्रां खलु गणयते डिण्डिमः सार्वभौमः ।
भाङ्-कुर्वद्-भेक-कुक्षिं-भरिषु भय-भर-भ्रान्त-भोगीन्द्र-सुभ्रू- भ्रूण-भ्रंशी किम् अम्भः-फणिषु पतग-राट् सम्भ्रमी बम्भ्रमीति

इति । विकत्थनम् एतद् उपश्रुत्य देशिक-वरः
किञ्चित् स्मयमान-वदन इत्थं प्रत्यवोचत्–

स्पर्धन्तां सहजं नु कुञ्जरतया दिक्-कुञ्जरैः कुञ्जरा
ग्राम्या वा वन-वासिनो मद-जल-प्रस्विन्न-गण्ड-स्थलाः ।
हा कालस्य विपर्ययं शृणु सखे प्राचीन-पाली-मलाऽऽ- स्वाद-स्निग्ध-कपोल-भित्तिर् अधमः कोलोऽपि संस्पर्धते

बाह्यैर् वर्णाडम्बरैर् मा भ्रमन्तु
च्छित्वा गर्भाभ्यन्तरं शोधयन्तु ।
निर्णेतारो नीरसत्वेन - को वा
डिण्डीराणां+++(=फेनानां)+++ डिण्डिमानां च भेदः ॥

इति । ततो डिण्डिमः स्वामिनोऽनेन प्रतिवचनेनैव भग्न-दर्पः
पुनर् यादवाभ्युदय-श्रवण-जनित-रसास्वाद-पर-वश-हृदयः
स्वामिनश् चरणारविन्दयोः
प्रणन्नम्येस्थम् उपश्लोकयाम् आस -

" घोटी-धाटी-कठोर–स्फुट-विकट-कथाटोप–वाचाट-कोटी-
कोटीराघाट-पेटी+++(=पेटिका)+++-पुट–घटित-मणी-सङ्घ-सङ्घट्टिताङ्घ्रिः ।
खर्वी-कुर्वन् स गर्वं जयति कविततेः सर्व-तन्त्र- स्वतन्त्रो
वेदान्ताचार्य-वर्यो विघटित-जड-धी-सङ्कटो वेङ्कटेशः ॥

वेदे सञ्जात-खेदे, मुनि-जन-वचने प्राप्त-नित्यावमाने,
सङ्कीर्णे सर्व-वर्णे, सति तद्-अनुगुणे निष्प्रमाणे पुराणे ।
मायावादे स-मोदे कलि-कलुष-वशाच् छुन्य-वादे विवादे,
धर्म-त्राणाय यो ऽभूत्जयति भगवान् विष्णु-घण्टावतारः ।। "

इति ।

[[६७]]

अनेन डिण्डिम-कवि-सार्वभौमेन
प्रौढ-देव-रायपुराख्य-मूलाण्ड+++(=??)+++-ग्रामम् अधितस्थुषां डिण्डिम-कवीनां मध्ये ऽन्यतमेन भाव्यम् इत्य् उन्नीयते ।
अत्र केचित् -

अत्र निर्दिष्टो डिण्डिम-कविर्
विजय-नगर-साम्राज्याधिपं प्रौढ-देव-रायम् आश्रितः
सालुवाभ्युदयस्य भागवत-चम्प्वाश् च रचयिता
राज-नाथ-डिण्डिम एव

+इति वदन्ति ।

(See page 137 of the work ‘Desika and his works by G. Srinivasan, Triplicane Madras.)

तत्रेदं विम्रष्टव्यम् -
विजय-नगर साम्राज्यस्य प्रथम-राज-परम्परायां प्रथितास्
त्रयः प्रौढदेवराया अवर्तन्त -
देवरायः प्रथमः, देवरायो द्वितीयः, देवरायस्तृतीय इति ।
तत्र प्रथमस्य राज्य-भरण-समयः A. D. 1402 आरभ्य 1422 पर्यन्तः ।
द्वितीयस्य A D 1422 आरभ्य 1446 पर्यन्तः ।
तथा तृतीयस्य A D 1446 आरभ्य 1465 पर्यन्त इति
तच्-चरित्र-विमर्शकैर् निर्णीतः ।
सालुवाभ्युदयस्य रचयिता राज-नाथ-डिण्डिमः
सालुव-नरसिंह-नर-पतिम् आश्रितः ।
स नरपतिर् विजय-नगर साम्राज्यस्य द्वितीय-राज-परम्परायां प्रसिद्धः ।
तस्य राज्य-भरण-समयः A D 1485 आरभ्य 1492 पर्यन्तः ।
भागवत-चम्प्वा रचयिता राज-नाथस् तु
सालुवाभ्युदय-कर्तुः पौत्रः अच्युतरायम् आश्रितः ।
अच्युत-रायस्य साम्राज्य-समयो विजय-नगर साम्राज्यस्य तृतीय-राज-परम्परायां A D 1529 आरभ्य 1542 पर्यन्त
इति प्रसिद्धः ।

See the following references for more particulars on the family of Dindima poets and their patrons:

  • (a) Vijayanagar Administration by Dr. T. V. Mahalingam, 1940, pp. 415 to 417.
  • (b) History of classical Sanskrit Literature by Dr. M. Krishnamachariar, 1937, pp. 220 to 224.
  • (c) Papers Contributed by Mr. A. N. Krishna Ayyangar and published in the —
    • Annals of the Bhandarkar Oriental Research Institute Silver Jubilee, Poona 1942, pp. 23, to 29:
    • Adyar Library Bulletin Vol V. 1941, pp. 59–68;
  • The Volume of Studies in Indology, published by the Oriental Book Agency, Poona 1941, pp. 16.

[[६८]]

एवं स्थिते सालुवाभ्युदय-कर्ता भागवत-चम्पू-कर्ता च राजनाथौ भिन्नाव् एव ।
तयोश् च भागवत-चम्पू-कर्तुः प्रौढदेवरायाश्रितत्वं कथम् अपि न सम्भवेत् ।
सालवाभ्युदय कर्तुस् तद्-बाल्ये सम्भवद् अपि
श्री-वेङ्कट-नाथेन सह समागम-वृत्तान्तं न सर्वथा समञ्जसयेत् ।
श्री-वेङ्कट-नाथस्य डिण्डिम-कवि-समागम-वृत्तान्तो हि
श्री-रङ्ग-नाथस्य दिव्य-प्रतिष्ठायाः पूर्व-काले वृत्तः ।
दिव्यप्रतिष्ठा च A. D. 1347 वत्सरे कारितेति वक्ष्यते ।

ततस्,
ततः पूर्वं
प्रायशः A. D. 1330 वत्सर एतेनोदन्तेन वृत्तेन भवितव्यम् इति निर्णयः ।

पादुकासहस्रम्

श्री-रङ्गम् अधिवसन् श्री-वेङ्कट-नाथ-देशिकः
कदाचित् भगवत्-सेवार्थं रङ्गास्थान-मण्डपम् आगत्य
सम्मिलितैर् भागवतोत्तमैर् विद्वद्-वरैर् अभ्यर्थितो
ऽविलम्बेनैकस्मिन् यामिनी-भागे
श्री-रङ्ग-नाथ-पादुका-विषयं पादुका-सहस्रं नाम ग्रन्थरत्नम् अग्रथ्नात् ।
तच् च भगवत्-सन्निधौ परिपठ्यमानं
द्रमिडोपनिषत्-सार-गर्भितम् इति
औपनिषद-रहस्यार्थ-बन्धुरम् इति च
सर्वे सभ्या विबुधवरा अन्वमोदन्त ।
तद् एनां श्लाघाम् असहमानो वर-वर-नामा श्री-लोकाचार्यावरजः
स्वयं श्री-रङ्ग-नाथ-पद-कमल-सहस्र-करणं प्रतिज्ञाय
कतिपय-पद्य-रचनेनैव विश्रान्त-प्रतिभा-बलो विलज्जितो बभूव ।

देशिक-वर्यास्तु वृत्तान्तम् इमम् आकर्ण्यात्मानं यथाकथञ्चिद् अपि भागवतापचार-हेतु-कौटौ पतितम् आशङ्कमान
इत्थं स्वनैच्यानुसन्धानेन तं प्रसादयामास -

सूते सूकर-युवतिः सुत-शतम् अत्यन्त-दुर्-भगं झट् इति ।
करिणी चिराय सूते स-कुल-मही-पाल-लालितं कलभम् ॥

इति ।

शिष्यानुशासनम्

एवम् अत्र श्री-रङ्गे देशिकवरे
शिष्यवर्गैः साकं श्री-भगवद्-रामानुज-सिद्धान्त-प्रवचन-परे निवसति,
कलेः ४४३० तमे ( 1329 AD. ) संवत्सरे शुक्ल-नामनि चैत्र-मासे पुनर्वसु नक्षत्र-युते शुभ-दिने
तत्-तनयो वरद-नाथः स्वामिनां चरणारविन्दयोः
शिष्य-भावम् अवाप्याध्यात्म-शास्त्राधिगमम् आरेभे ।
तदा च तद्-ध्यान-पद्यम् इदं स्वयम् एव सम्ग्रन्थ्यानुसन्दधे -

श्री-मान् वेङ्कट-नाथार्यः कवितार्किक केसरी ।
वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ।।

इति ।

[[६९]]

अथ सदस्याः सुदर्शन-भट्टादयो महान्तः
श्लोकम् इमं भाव-पुष्टम् अभिनन्द्य

’ इतः प्रभृति श्री-भाष्यादि-शारीरक-शास्त्र-ग्रन्थ-पठन-समये
शिष्यैर् अयं श्लोक आदाव् अनुसन्धेयः’

इति नियमं चक्रुः ।
अथैकदा शिष्येषु विरक्ततमः कश्चित्
देशिक-वर्यस्याभ्यनुज्ञया तुरीयाश्रमं स्वी-चक्रे,
यः किलाधुना ब्रह्म-तन्त्र–स्व-तन्त्र–मुनिर् इति नाम्ना व्यवह्रियते ।

श्रीरङ्गात् प्रस्थापनम्

एवं दिक्षु विदिक्षु च विसृत्वरीम्
आचार्य-वर्य-प्रथाम् असहमानाः केचित्
स-यूथ्याः स्वामिनश् चरणारविन्दयोर् अपराद्धुम् आरभन्त ।
देशिक-वर्येणानुष्ठेये पितृ-श्राद्धे निमन्त्रितान् विप्रान् सम्भेद्य
तेषाम् आगमनं विजघ्नुः ।
अपराह्ण-पर्यन्तं प्रतीक्ष्यापि विप्राणाम् अनागमनेन चेखिद्यमान-मानसो ऽयं वेङ्कट-नाथ-गुरुः
स्वाराध्यं हय-वदनं भगवन्तम् एव शरणम् उपगम्य
निमन्त्रयाञ् चक्रे ।
हयवदनोऽपि विप्र-रूपेणागत्य
श्राद्धान्नम् उपभुज्यानुजग्राह ।

तेन च भग्न-मनो-रथास् ते स-यूथ्या असूयालवो
देशिक-वरम् एनं श्री-रङ्गात् प्रस्थापयितुम् उचितम् उपायम् अन्विष्यन्तो बभूवुः ।
एकदा देशिक-वर्य एकान्त उपविश्य
पूर्वाचार्य-ग्रन्थेषु कञ्चन विषयम् आलोचयन्
तद्-औचित्य-सामञ्जस्यादिष्व् अवगाढ-मानसो ऽभूत् ।
तदा वीथ्यां कश्चित् वाधूलो लक्ष्मणाचार्य-नामाचार्य-पुरुषः
शिष्यैः परिवृतो गच्छन्न् आस्त ।
विषयान्तर-व्यग्र-चित्ततया वेङ्कट-नाथस्
तस्य गमनं नाजानात्, नोदतिष्ठन् च ।
एतद् एव रन्ध्रम् अवलम्ब्य
लक्ष्मणाचार्य-शिष्येष्व् अन्यतमः
सरभसम् आगत्य देशिक-वर्ये चरणयोर् आचकर्ष ।
सद्य एवावगतार्थो वेङ्कट-नाथ
आत्मानं भागवत-विषये कृतापराधम् अवगत्य, विषीदन्,
स्वस्याहंयुतां परैर् उद्भावितां न्यषेधत् । यथा

अहन्ते! नाहं ते विहरण-पदं, देशिक-गिरः
स्वदन्ते नः स्वान्ते, सपदि गत-सन्देह-विषयाः ।
अनायासा यासाम् अहि-पति-शया सा भगवती
धराधारा+++(/सदाधारा)+++ धारा-धर+++(=मेघ)+++-निकर-साधारण-रुचिः॥

इति । एवम् अपराध-सहने प्रार्थितेऽपि
यदा परे नाक्षाम्यन्
तदा श्री-रङ्गं विहाय
नातिदूरस्थं सत्याकाल-नामानं ग्रामम् अधितष्ठौ ।
+++(सत्यागलग्रामस् तु कर्णाटसीम्नि वर्तते! अनतिदूर इति कथम्??)+++

अथ जातानुशयैः+++(=जातपश्चात्तापैः)+++ परैः स-पाद-पतनम् अभ्यर्थितः
पुनः श्री-रङ्गम् आगत्यावसत् ।

तुरुष्क-विप्लवः

एवं केषुचिद् वत्सरेषु गतेषु
कलियुगस्य ४४३७ ( 1336 A.D.) तमे धातृ-संवत्सरे
मालिक-काबूर् इति-नाम्नस् तुरुष्क-सेना-पतेर् नियोगेन
सहसा तुरुष्काः केचिद् अश्वारूढा आयुध-हस्ताः
श्री-रङ्गम् अभिपत्य
भगवन्-मन्दिराद् आभरणादिकं हर्तुं प्रायतन्त ।
अत्रान्तरे सुदर्शन-सूर्य्-आदयो भगवन्-मन्दिर-पालका
यथा-कथञ्चित् श्री-रङ्ग-नाथार्चां मन्दिराद् बहिर् आनीय
क्वचित् गूढं परिरक्ष्य
तद्-आभरणादिकं चानर्घं मन्दिराभ्यन्तर एव क्वचिद् अन्तर्भूमि गूढं निक्षिप्य
मन्दिरात् बहिर् विग्रहान्तरं नूनम् एकम् अवस्थाप्य
परिमितैर् आभरणैस् तद् अलङ्कृत्य
सेवमाना इव सङ्घशो ऽवतस्थिरे ।

तुरुष्कास् तु तं देशम् आगत्य
तं विग्रहम् आभरणानि चापहृत्य जग्मुः ।
तदा मन्दिराधिकारिषु प्रधानतमः सुदर्शन-सूरिस्
तुरुष्क-सैन्यैर् हिंसितो ऽस्वस्थ-देहः
श्री-वेदान्त-देशिकम् आहूय
तस्य हस्ते स्वस्य द्वौ कुमारौ,
श्री-भाष्य-व्याख्यां, श्रुत-प्रकाशिकां च समर्प्य,
स्व-कुमाराव् अध्यात्म-तत्त्वम् अवबोधयितुं
श्रुत-प्रकाशिकां सच्-छिष्येषु प्रवर्तयितुं च प्रार्थयत ।
वेङ्कट-नाथोऽपि स्वाचार्यस्य वादि-हंसाम्बुवाहस्य सतीर्थ्य इति बहुमत्या
तन्-निदेशं शिरसा जग्राह ।

यदुगिरौ

ततः श्री-रङ्ग-नाथस्यान्यत्र गमनात्
तत्र तत्-सेवाम् अकुर्वन् क्षणम् अपि वर्तितुम् अशक्नुवानस्
ततः प्रस्थाय
शिष्यैः साकं पुनः सत्याकालं,
ततो यादवाचलं च प्राप्य,
तत्र श्रुत-प्रकाशिकादि-प्रवचन-परो ऽवसत् ।

एतस्मिन्न् अन्तरे
भक्तैः श्री-रङ्ग-नाथार्चापि वेङ्कटाद्रिं प्रापय्य
तत्र समाराधिता ऽवर्तत ।

[[७१]]

यादवाचलम् अधिवसति वेङ्कट-नाथ-देशिके
द्रमिडोपनिषद्-भाष्य-व्याख्यां निगम-परिमलं
कुमार-वेदान्ताचार्यात् ब्रह्म-तन्त्र-स्व-तन्त्र-यतिर् यथावद् अधिजगे ।
तदैव यतिना ऽनेन
श्री-वेङ्कट-नाथ-गुरु-विषयः

रामानुज-दया-पात्रं
ज्ञान-वैराग्य-भूषणम् । श्रीमद्-वेकटनाथार्यं
वन्दे वेदान्त-देशिकम् ॥

इति ध्यान श्लोकः,
कुमार-वेदान्ताचार्य-विषयः

श्रीमल्-लक्ष्मण-योगीन्द्र-
सिद्धान्त-विजय-ध्वजम् ।
विश्वामित्र-कुलोद्भूतं
वरदार्यम् अहं भजे ॥

इति ध्यानश्लोकश् च
स्वयम् एव कृत्वा ऽनुसंहितौ ।

अनयोः श्लोकयोर् अवतार-कालः
कलि 4439 शक 1260 (A. D. 1338) तमो बहुधान्य-संवत्सर इति निर्णीतः ।

गोप्पणः

एवं स्थिते चेञ्जि-भूमि-पतिः गोप्पणो
देशिक-वर्यस्य महिमातिशयम् उपश्रुत्य
यादवाचलम् आगत्य गुरुवर्यं सिषेवे ।

तदा वेङ्कट-नाथो गोप्पणं
वेङ्कटाद्रेः श्री-रङ्ग-नाथमानीय
श्री-रङ्गे तं पूर्ववत् प्रतिष्ठापयितुम्
आदिदेश ।
गोप्पणोऽपि तन्-निदेशं शिरसा धारयन्
परिजनैः सह वेङ्कटाद्रिं प्राप्य
श्री-रङ्ग-नाथं स्व-नगरं चेञ्जि-नामकं प्रापय्य
तत्रैव कञ्चित् कालम् आराध्य
पुनः श्री-रङ्गं प्रापय्य
श्री-वेङ्कट-नाथाय वृत्तान्तम् एनं व्यजिज्ञपत् ।

श्री-वेङ्कट-नाथ-देशिको ऽपि
महता सन्तोषेण श्री-रङ्गम् आगत्य
श्री-रङ्ग-नाथस्य यथाविधि महता वैभवेन प्रतिष्ठां निर्वर्तयाम् आस ।

प्रतिष्ठा चैषा कलिसंवत्सरे ४४४८ ( 1347 A. D. ) तमे सर्वजित्य् अब्दे निर्वृतेति श्रूयते ।

वृत्तान्तश् चैष श्री-रङ्ग-नाथ-दिव्यालय-प्राकारे
शिला-शासन-रूपेण श्लोकाभ्याम् आभ्याम् उत्कीर्णो
ऽद्यापि परिदृश्यते-

[[७२]]

आनीयानीलशृङ्ग-द्युति-रचित-जगद्-रञ्जनाद् अञ्जनाद्रेश्
चेञ्ज्याम् आराध्य कञ्चित् समयम् अथ निहत्योद्धनुष्कांस् तुरुष्कान् ।
लक्ष्मी-क्ष्माभ्याम् उभाभ्यां सह निज-नगरे स्थापयन् रङ्ग-नाथं
सम्यग् वर्यां सपर्यां पुनर् अकृत यशो-दर्पणो गोप्पणार्यः ॥

विश्वेशं रङ्ग-राजं वृषभ-गिरि-तटाद् गोप्पण-क्षोणि-देवो
नीत्वा स्वां राज-धानीं निज-बल निहतोत्सिक्त-तौरुष्क-सैन्यः ।
कृत्वा श्री-रङ्ग-भूमिं कृत-युग-सहितां, तं च लक्ष्मी-महीभ्यां
संस्थाप्यास्यां सरोजोद्भव इव कुरुते साधुचर्यां सपर्याम् ॥

इति ।

रविलोचन-टिप्पनी

If we go purely by inscriptional evidence, thirukalakudi inscription in Sivaganga district (which mentions kumara kampana) is dated to 1359 and srirangam inscription of gopanarya is dated to 1371. Given that thirukalakudi is to the south of srirangam, srirangam should have also been reconquered by this period.

The 12 year gap between this and gopanaryas inscription can be explained by the need for major restoration works which must have been done/undertaken in srirangam after which formal samprokshanam might have been done.

So Swami Desikan could have entered Rangadhama only after 1359.

Gopanarya himself does mention Desika as his guru and this could have happened only in Srirangam (since Gopanarya was in Jinjee and Desika in Satyagalam period to Srirangam being reconquered).

वादाः

अथानन्तरे कल्य्-अब्दे ४४४९ ( 1348 A. D. ) तमे सर्व-धारि-वर्षे
श्री-रङ्ग-नाथस्याध्ययनोत्सवे मतान्तरैर् आक्षिप्य प्रतिषिद्धे
श्री-मान् वेङ्कट-नाथ-देशिकः प्रमाणोपन्यास-पूर्वकं
तान् समाधायोत्सवं यथापूर्वं निरवर्तयत् ।

एवं स्थिते विजय-नगर-नृपति-सदसि लब्ध-प्रतिष्ठयोः
विद्यारण्याक्षोभ्य-तीर्थयोः स्व-स्व-मत-विषये वादे प्रवर्तमाने
श्री-वेङ्कट-नाथ-देशिको माध्यस्थ्यम् अवलम्ब्य
श्री-रङ्गात् निर्णयम् एवं विलिख्य प्राहिणोत् -

" असिना तत्-त्वम्-असिना
पर-जीव-प्रभेदिना ।
विद्यारण्य-महारण्यम्
अ-क्षोभ्य-मुनिर् अच्छिनत् ॥ "

इति । स चायम् अक्षोभ्यतीर्थः श्री-जयतीर्थस्य गुरुः
कलौ ४४५७ ( 1356 A D) तमे संवत्सर आसीद् इति निर्णीयते ।
एष च वृत्तान्तः सङ्कर्षणाख्येन कविना कृते
श्री-जयतीर्थ-विजयेऽपि निबद्धो लक्ष्यते ।

यथा-

अक्षोभ्य-तीर्थ-मुनि-राड् अखिलैर् अभेद्यो
दुर्वादि-वारण-विदारण-केसरीन्द्रः ।
सत्-“तत्-त्वम्-अस्य्”-अभिध-वाग्-असिना स्म विद्या-
रण्यं छिनत्ति पर-जीव-विभेदिना तम् ॥
जय-वि. २-२३. Adyar Library MS. No. 8- D. 22.

इति ।

[[७३]]

अर्चा

एवं श्री-रङ्गे वसन् देशिक-वर्यः
श्री-भगवद्-रामानुज-सिद्धान्त-निर्धारण-परः
पाञ्च-कालिक-वर्त्मना भगवन्तम् आराधयन्न् अवर्तत ।

अथ देशिक-वर्येण शिष्याणाम् अभ्यर्थनाम् अनुसृत्य
स्वयम् एव रचितां स्वस्य लोहमयीम् अर्चां,
समुचितं पीठं कृत्वा तेन योजयितुं नियुक्तस्
तथा कर्तुम् अपारयन् कश्चिद् दृप्तः शिल्पिवरस्
तथा स्वयं करणेन विगत-दर्पोऽकारि ।

एष च वृत्तान्तः शालिवाहन शकस्य १२९० ( 1368 A.D.) तमे कीलकाब्दे धनुर्-मासे समवर्ततेत्य् उक्तम् ।

एषैवार्चा ऽहीन्द्र-नगरे तत्-कुमारेण वरद-नाथेन
प्रतिष्ठापिता ऽधुना ऽपि समभ्यर्च्यत
इति महतां निर्णयः ।

अथात्यन्त-परिणते वयसि वर्तमानो ऽयम् आचार्यवर्यः
श्रीमद्-रहस्य-त्रय-सारं नाम ग्रन्थ-रत्नम् आरचय्य
सर्वोपकारकेणानेन ग्रन्थेन
सुमहद्-उपचकार मुमुक्षु-लोकस्येति
तस्य ग्रन्थस्य समाप्तौ ग्रथितेन पद्येनावगम्यते । यथा

निर्विष्टं यति-सार्व-भौम-वचसाम् आवृत्तिभिर् यौवनं
निर्धूतेतर-पारतन्त्र्य-विभवा नीताः सुखं वासराः ।
अङ्गीकृत्य सतां प्रसत्तिम्, असतां गर्वोऽपि निर्वापितः
शेषायुष्य् अपि शेषि-दम्पति-दया-दीक्षाम् उदीक्षामहे ॥ "

इति ।

एवं महता वैभवेन
स्वावतार-प्रयोजनं निर्वर्त्य
चातक-वृत्त्या भगवतः कृपाम् एव मोक्ष-साम्राज्य-सम्पादन-क्षमां प्रतीक्षमाणः
कल्य्-अब्दे ४४७० शालि-वाहन-शकस्य १२९१ (1369 AD. ) तमे सौ म्य-वत्सरे वृश्चिक-मासे कृत्तिका-युक्त-राकायां
भगवतो लीला-विभूति-भूताम् इमां धरित्रीं विहाय
नित्य-विभूतिं प्रापत् ।
पुनश् चांशेन श्री-शैल-नाथस्य भगवतः श्री-निवासस्याराधनार्थ-घण्टात्मना भक्त-जनानुग्रहायार्चात्मना चावतीर्य
लोकान् अनुगृह्णन् वर्तत
इति सन्तो विभावयन्ति’ ।

[[७४]]

" अब्दे सौम्ये च वारे, गतवति तरणौ वृश्चिकं, कृत्तिकर्क्षे
राकायां वेङ्कटेशो यति-नृ-पति-मतं सर्वतः स्थापयित्वा ।
वेदान्ताचार्य-वर्यो विरचित-विविधानेक-दिव्य-प्रबन्धः श्री-शैलाधीश-घण्टाकृति-वपुर् अभवद् देशिकेन्द्रो दयालुः " ॥

Vide page 197 of the Guruparamparāprabhāva by Trtiya - Brahmatantrasvatantrasvāmin, Printed at the Sri-Vani-Bhushanam Press, Triplicane, Madras, 1913.

काल-निर्णयः

अस्याचार्यस्यापदान+++(=सदाचार)+++-विशेषाणां कालनिर्णयश् चेत्थम्-

  • कलि. शालि. A.D. अब्दः
  • वेङ्कट-नाथ-देशिकस्यावतारः ४३६९ ११९० 1268 विभवः
  • तत्-कुमारस्य वरद-नाथस्यावतारः ४४१७ १२३८ 1316 नलः
  • श्री-मान्-वेङ्कट-नाथार्य-ध्यान-श्लोकावतारः ४४३० १२५१ 1329 शुकः
  • डिण्डिम-सार्वभौम-समागमः ४४३१ १२५२ 1330 प्रमोदः
  • श्री-रङ्गे तुरुष्कोपद्रवः ४४३७ १२५८ 1336 धातृनामकः
  • रामानुजदयापात्र-ध्यानश्लोकावतारः ४४३९ १२६० 1338 बहुधान्यः
  • श्री-रङ्ग-नाथप्रतिष्ठा ४४४८ १२६९ 1347 सर्वजित्
  • श्री-रङ्गे अध्ययनोत्सवस्थापनम् ४४४९ १२७० 1348 सर्वधारी
  • विद्यारण्याक्षोभ्यतीर्थवादे माध्यस्थ्य-वहनम् ४४५७ १२७८ 1356 दुर्मुखी
  • वेङ्कट-नाथस्यार्चा निर्माणम् ४४६९ १२९० 1368 कीलकः
  • अवतारसमापनम् ४४७० १२९१ 1369 सौम्यः

समकालीनाः

श्री-वेङ्कट-नाथ-देशिक-सम-कालिकास् तच्-चरित-सम्बद्धाश् चाचार्या इतरे महान्तश् च–

[[७५]]

०१. वात्स्य-वरदाचार्यः

अयं काञ्च्यां भगवद्-रामानुज-प्रिय-भागिनेयस्य पुत्रात् देवराजगुरोर् लब्धजन्मा ।
अस्य चावतार-कालः कलि ४२६६ ( 1165 A. D. ) तमः पार्थिवाब्द इति वदन्ति ।
भगवद्-रामानुज-प्रशिष्यस्य श्री-विष्णु-चित्त-गुरोर् अयम् अन्तेवासी ।
अस्य च नडादूर्-अम्माल् इति साम्प्रदायिको व्यवहारः ।
आत्रेय-रामानुजः सुदर्शन-सुरिश् चास्यान्तेवासिषु विश्रुत-नामानौ ।
परिणते वयसि वर्तमानस्यास्य श्री-भाष्य-प्रवचन-गोष्ठ्यां
श्री-वेङ्कट-नाथः षड्-वर्ष-देशीयस् तद्-अनुग्रह-पात्रम् अभूत् ।
तत्त्व-सार–प्रमेय-मालादिकम् अनेन कृतम् ।

०२. आत्रेय-रामानुजाचार्यः

अयं भगवद्-रामानुजान्तेवासिनो वेदान्तोदयननाम्नः प्रणतार्तिहराचार्यस्य पौत्रात् रङ्ङ्गराज-गुरोर् लब्ध-जन्मा ।
अस्य चावतार-कालः कलि ४३२१ ( 1220 A. D.) तमो विक्रमाब्द इति वदन्ति ।
श्री-वेङ्कट-नाथ-गुरोर् जनन्यास् तोताद्र्यम्बायाः सोदरः ।
वात्स्य-वरद-गुरोर् अवाप्त-समस्त-कला-कलापः ।
अस्माद् एव श्री-वेङ्कट-नाथेनाखिल-कला-कलापो ऽधीतः ।
अनुपदं निर्देक्ष्यमाणस्य सुदर्शन-सूरेः सतीर्थ्यः ।
न्याय-कुलिश-ग्रन्थो ऽनेनाकारि ।

०३. सुदर्शनसूरिः

अयं हारीत-कुल-तिलकस्य वाग्-विजयि-सूरेर् आत्मजः ।
वात्स्य-वरद-गुरोर् अवाप्त-सकल-विद्या-कलापः ।
पूर्वं निर्दिष्टस्यात्रेयरामानुजाचार्यस्य सतीर्थ्यः ।
श्री-भाष्यस्य श्रुत-प्रकाशिकां नाम विस्तृतां,
श्रुत-प्रदीपिकां नाम सङ्क्षिप्तां च टीकां चकार ।
श्री-रङ्गक्षेत्रे तुरुष्कैः कलि ४४३७ (1336 A, D.) तमे धात्रब्द उपद्रुते
स्वकीयां श्रुत-प्रकाशिकां श्री-वेङ्कट-नाथ-हस्ते परिपालनार्थं प्रदाय परमपदमगात् ।

०४. श्री-लोकाचार्यः

अयं कृष्णपादगुरोस् तनयः ।
भगवद्-रामानुजान्तेवासिनो गोविन्द-भट्टस्य शिष्य-परम्परायाम् अतीव प्रसिद्धिम् उपगतः ।
तत्त्व-त्रयादीनां ग्रन्थानां निर्माता ।
श्री-वेङ्कट-नाथम् अपेक्ष्य वयसा ज्येष्ठः
प्रथमं क्वचित् क्वचित् सिद्धान्त-विषये तद्-वैमत्यम् आस्थितो ऽप्य्
अन्ते तद्-ऐक-मत्यम् आपद्य
सिद्धान्त-प्रवचन-परो ऽभूद् इति कथ्यते ।
पश्चात् श्री-वेङ्कट-नाथस्यान्तेवासिताम् अप्य् अभ्युपागमद् इति केचिद् वदन्ति ।

[[७६]]

०५. वरद-नाथः

अयम् अस्याचार्यवर्यस्य तनुजः ।
कुमार-वेदान्ताचार्य इति नयिनाराचार्य इति च व्यवह्नियते ।
कल्य्-अब्दे ४४१७ ( 1316 A. D.) तमे नलसंवत्सरे काञ्च्यामस्यावतारः । अनेन स्व-पितृ-पादात् श्री-वेङ्कट-नाथ-देशिकाद् एवाखिलाः कला अशिक्ष्यन्त ।
कलि ४४३० ( 1329 A. D.) तमे शुक्ल-संवत्सरे शारीरकं शास्त्रम् अध्येतुम् आरभमाणेनानेन
‘श्री-मान् वेङ्कट-नाथार्यः’ इत्यादि-ध्यान-श्लोकः स्वयं निर्मायानुसंहितः ।
ब्रह्म-तन्त्र-स्वतन्त्रस्य सतीर्थ्यस्य द्रमिडोपनिषद्-भाष्य-सम्प्रदायम् उपदिदेश ।
अधिकरण-सारावली-व्याख्याया, अधिकरण-चिन्ता-मणेः, मीमांसा-पादुका-व्याख्यायाः परित्राणस्यान्येषां च कतिपय-ग्रन्थानां रचयिता ।
अनेन शाकल्य-मल्लो नाम मतान्तर-स्थः कश्चन मात्रिको ऽस्यापकुर्वन्
मन्त्र-बलेनैव पराजित इत्य् ऐतिहासिकाः ।
एष च वृत्तान्तः 1380 A. D. संवत्सरे रेचकोण्डाधिपस्य सर्वज्ञ-शिङ्गस्य राज्याधिपत्य-समये निर्वृत्त इति च वदन्ति।

Vide page 210 of the History of classical Sanskrit Literture by M. Krishnamacharıar. 1937 and pp. 3 and 4 of Seshagiri Sastris Report No. 1, 1898.

०६. ब्रह्म-तन्त्र-स्वतन्त्रः

अयं श्री-वेङ्कट-नाथस्य शिष्य-कोटिष्व् अन्यतमः ।
संसृतौ परमां विरक्तिम् अधिगम्य
तुरीयम् आश्रमम् आरूढः ।
श्रीमद्-रहस्य-त्रय-सार–श्री-भाष्य-गुरुपरम्परासु
श्रीमतो वेदान्त-देशिकस्य शिष्यत्वेन तत्-सम्प्रदाय-प्रवर्तकतया ऽनुसन्धीयते ।
अनेन च श्री-देशिकानुमत्या
विमताः केचिद् वादे पराजीयन्तेति कथ्यते ।
द्रमिडोपनिषत्-सम्प्रदाये श्री-वरद-नाथस्य शिष्य-भावम् उपगत्य
तत्-सम्प्रदाय-प्रवर्तको ऽनुसन्धीयते ।
अयम् एव चाधुना महीशूर-पुरे विराजमानस्य श्री-परकालमठस्य स्थापक इति प्रथा ।

०७. विद्यारण्यः

मायणस्यात्मजेषु माधव-सायण-भोगनाथेषु त्रिष्व्
अयं ज्येष्ठो माधवाचार्य-नामा ।
विद्यारण्य इति तस्यैव नामान्तरम् ।
अयं विजय-नगर-स्थ-सङ्गम-वंश्य-भूपानाम् अमात्यो गुरुश् चासीत् ।
हरि-हर-रायस्य प्रथमस्य ( 1336 A. D. ) विजय-नगर-राज्य-स्थापने
महत् साहाय्यम् अकरोद् इति वदन्ति ।
पराशर-माधवीयं नाम धर्म-शास्त्र-निबन्धनं
पञ्च-दशी-नामकम् अद्वैत-वेदान्त-प्रकारणम्
अन्ये च बहवो धातु-वृत्त्य्-आदयो ग्रन्था अनेनारच्यन्त ।
किञ्चिन् न्यूनाधिके ( 1356 A D.) तमे संवत्सरे
अक्षोभ्य-तीर्थ-मुनेर् अस्य च वेदान्त-विषय-विचारे प्रवृत्ते
श्री-वेङ्कट-नाथेन ताटस्थ्यम् अवलम्ब्याक्षोभ्यतीर्थ-पक्षानुकूलो निर्णयः कृतः । +++(सोऽन्यो विद्यारण्य इति पश्चात्तनाः। )+++
तेन च किञ्चिद् इव विमनायमानेन विद्यारण्येनादसीय-शत-दूषण्याम् एकत्र चकारस्य वैयर्थ्ये समुद्भाविते
देशिक-वर्येण च-कार-समर्थनाख्यं पत्रम् एकं विरचय्य
तत् समाहितम् इति वदन्ति ।

०८. अक्षोभ्य-तीर्थः

श्रीमद्-आनन्द-तीर्थीय-द्वैत-मत-प्रवर्तकाचार्येष्व् अन्यतमः
श्रीमज्-जय-तीर्थस्य टीका-कारस्याचार्यश् च ।
अयं च श्रीमद्-आनन्द-तीर्थीय-मत-गुरु-परम्परासु पञ्चमं स्थानम् अलञ्चकार ।
तथाहि - १ आनन्दतीर्थः, २ तस्य शिष्यः पद्म-नाभ-तीर्थः, ३ तस्य शिष्यो नृसिंह-तीर्थः, ४ तस्य शिष्यो माधव-तीर्थः, ५ तस्य शिष्यः अक्षोभ्य-तीर्थ इति ।

Vide Jayatirthavijaya, I – 46 to 49. Adyar Library MS. No. 8- D-22.

विद्यारण्यस्यास्य च वेदान्त-विषय-विचारे प्रवृत्ते
श्री-वेङ्कट-नाथेन ताटस्थ्यम् अवलम्ब्यास्य पक्षे स्वस्य सम्मतिर् आविष्कृतेति वदन्ति।

०९. हरि-हर-रायः प्रथमः

विजय-नगर साम्राज्य-प्रतिष्ठापकेषु भूपालेषु प्रधानतमः ।
अस्य साम्राज्ये विद्यारण्यः सचिव-पदम् उदवहत् ।
एतद्-धस्तेनैव विद्यारण्यो ऽभ्यर्थना-पत्रं विलेख्य
श्री-वेङ्कट-नाथं सभागमनायाजुहावेत्य् ऊह्यते ।
अस्य च राज्य-भरण-समयः 1336 - 1356 A.D. इति निर्णीतः ।

Vide Vijayanagar Administration, by Dr. T. V. Mahalingam, page 415; Madras 1940.

[[७८]]

१०. सर्वज्ञ-शिङ्ग-भूपालः

अयं मद्र-राजधान्य्-अन्तर्गतस्य वेङ्कट-गिरि-नामकस्य खण्ड-देशस्य पालकेषु
चतुर्थ-वर्ण-ज-भूमि-पालेष्व् अन्यतमः ।
तस्य च कूटस्थ-वंशः रेचर्लेति प्रसिद्धः ।
अस्य च राज्य-भरण-समयः 1330 to 1380 A. D. इति निर्णीतः ।
श्री-वेङ्कट-नाथ-वेदान्त-देशिकस्य शिष्योऽयं
कदाचिद् आचार्यम् उपसद्य
स्वेन यथा धर्म-पथाद् अप्रच्युतेन वर्तितव्यं
तथोपदेशम् अभ्यर्थयामास ।
श्री-वेदान्त-देशिकः तत्त्व-सन्देशं नामाध्यात्म-तत्त्व-बोधकं द्रमिड-भाषा-रूपं ग्रन्थं
सुभाषित-नीवी-नामकं लौकिक-धर्मोपदेशकं संस्कृत-सुभाषितं च विरचय्य
तस्मै प्राहिणोद् इति कथयन्ति ।
अयं रसार्णव-सुधा-करं नामालङ्कार-ग्रन्थम् अरचयत् ।

Vide M. Seshagırı Sastris Report No. I, page 7, Madras 1898. ’ Gautamadharmasūtra VIII-20 to 22.