+नौध्रुव-माडभूषि-कुलम्

इमे श्रीवैष्णवाः प्रायेण।

द्रामिडाचार्यः

नैध्रुव-माडभूषि-आळ्वान् इत्य् अपरनाम-धेयः श्रीमद्-द्रमिडाचार्यः। विशिष्टाद्वैत-सिद्धान्त-भाष्यकारः।

श्रीमद्-वेङ्कट-नाथैः
“विरचित-निज-मत-तिरस्कार-विगमा निरातङ्का” इति स्तुतः।

श्रीमद्-भगवद्-रामानुज-भाष्ये “पूर्वाचार्याः संचिक्षिपुर्” इति पूर्वाचार्यत्वेन प्रसिद्धः।

अर्वाचीनाः

  • वीरराघवः इति प्रयोग-चन्द्रिका-लेखकः।
  • माडभूषि-चक्रवर्तीति महान् विद्वान्।