पलवेरि-राजगोपालः

paLHaveri-chakravarti-rAjagopAlAchAryaH
paLHaveri-chakravarti-rAjagopAlAchAryaH

विद्वद्-ग्रामे विद्वत्-कुले विद्वत्-पुत्रः।
बाल्य एव तत्-पिता दिवं गतः, येन घनपाठिकुले जातस्यास्य वेदध्ययनं न सम्पन्नम्।
अग्रजो वेदाध्ययन-सम्पन्नोऽपि
परिवारभरणार्थं पाचको जातः।

शिक्षा

इञ्जिमेडूद्भवो अहोबिल-मठाधिपतिस् तच्-छिक्षकः श्रीवैष्णव-रहस्य-ग्रन्थादि–कृति-चतुष्टये।
१० वर्षाणि, नित्यम् असकृत् पाठ्यते स्म।
तिरुपताव् अप्य् अध्यापितः।
तदीय-पाठ-लेखाभिर् अनेन लिखिताभिर् एव
सारबोधिनी नाम ग्रन्थो ऽजायत ।
(तॆलुगु-लिपि-ग्रन्थान् एव विश्वसीति स्म, ग्रन्थलिपिम् अपि जानाति स्म! शालाध्यापनवृत्तौ नियुक्तेः परम् एव द्राविड-लिप्य्-अभ्यासं चकार।)

गृहस्थाश्रम-प्रवेशः

भूर् हृता ब्राह्मण-विरोधि-शासक-वञ्चनेन।
द्वे भगिन्यौ विधवे।
तयोर् भरणाय विवाहं निराकरोत्।
अन्ततः ३५-तमे वयस्य् अग्रजस्य वाङ्-नियमन-भिया ऽऽग्रहेण विवाहः कारितः।
५०-तमे वर्षे पुत्रो (लक्ष्मीनरसिंहाख्यो बालाज्य्-अपर-नामधेयो) ऽजायत, ततः पूर्वं पुत्र्यः।
दिष्ट्या पत्न्या बहु सम्मानितो,
येन तद्-अपत्यानि तस्मिन् विनाश्रमं विनीतानि जातानि।

बाल-पाठः

स्वपुत्रं शालाम् प्रैषयत्,
किन्तु गृहे ऽपाठयच् छास्त्राणि काव्यानि च - संस्कृतानि द्राविडान्य् अपि।
गृहे प्राप्ते शाला-पठनं बालस्य निषिद्धम्।
शाल-शिक्षक-विहित-गृह-कार्यम् अपि
शालायाम् भोजनावधाव् एक-घण्टात्मके पूरणीयम् बभूव।
एवं देशिक-प्रबन्धाः, दिव्य-प्रबन्धाश्चापि, ५ महाकाव्यानि, न्यायशास्त्रस्य प्रकरणग्रन्थाः, चम्पू-रामायणम्… इत्यादि पाठिताः।
बालस् तेनत्यन्तम् प्रभावितो ऽसकृत् प्रपत्त्य्-अनुमतिम् अयाचत।

ग्रामे प्रभावः

शूद्रेभ्यो ऽपीतिहास-पुराणादि शिक्षितुं श्राम्यति स्म -
“वर्णानाम् ब्राह्मणो गुरुर्” इति धिया।
सदाचार-शीलो ऽप्य् अदाम्भिकः -
“स्वसौकर्याय कर्म-करान् विद्युत्-समीकर्त्रदीन् अ-ज्ञात-जातीन् गृहे सम्प्रदायोल्लङ्घनेन प्रवेश्य,
स्वयम्-आगतान् शूद्रान् कुतो न प्रवेशयानि गृहम्?”
इति तान् अपि (पञ्चमान् अपि!) प्रवेश्य भोजयति स्म (शास्त्रोचित-भिन्न-पात्रैः, भिन्ने च स्थले)।
शूद्रा अपि तस्मिन् भक्त्या ऽवर्तन्त।
मृत्योर् अनन्तरम् अपि तत्रत्यैः शूद्रैः सादरं स्मर्यते स्म - “अस्मद्-गृहे कलहम् पर्यहरत्”, “दुर्व्यवहारे श्रुते गृहम् एवागत्य तर्जयति स्मे"ति।
“मद्-वचनं न शृण्वन्ति चेन् मत्-तपसि दोष” इति मन्यमानो वीरायते स्म।

ग्रामे पाठनम्

अहोबिल-मठेन बहु सम्मानितः।
अन्यैस् तूपेक्षितः क्रुद्धैः -
“शूद्र-संसर्गोऽस्य, न च शास्त्रप्रचारे ऽलं रतः कुग्राम-वास–पामर-बोधन-रुचिर्” इति।

शालाध्यापकः - संस्कृतम् अपाठयत्।
ब्रह्म-द्विट्-शासकैस् तन्-निषेधात् परं
हिन्दीम् अभ्यस्य ताम् अपाठयत्।

बॆङ्गळूरु-वासः

निवृत्तेः परम् बॆङ्गळूरु-नगरम् आगतः।
कुगृहे ऽज्ञातो ऽवसत्।
दारिद्र्ये ऽपि न धन-चिन्ता - तया ब्राह्मण्य-नाश इति।
“अहं नारायणस्य, न ममे"ति दास-भाव-पूर्णः सुखेनाजीवत्।

रहस्यग्रन्थाः, श्रीभाष्यम्, रामायणम् (२१ वारम्) स्वपुत्राय पाठितवान् ।
प्रातः पुत्रः कार्यालयगमनात् पूर्वं रामायण-सर्ग-द्वयम् पठति स्म।
सायम् प्रत्यागते, प्रातःपाठगतान् सूक्ष्मांशान् पिता बोधयति स्म।

पश्चाद् “अत्र महान् विद्वान् वसती"त्य् अहोबिल-पीठाधिपतिना सूचिते सति
च्छात्रास् सम्पन्नाः।
तान् अपाठयत् - किञ्च स-नियमम् - साम्मुख्येन, रहस्यादेर् ध्वनि-रक्षणं निषिद्ध्य।
पुत्रेणान्ततो गृहं निर्मितम् भूभागं क्रीत्वा।

पत्न्याः श्राद्धे पुत्रेण कृते
पुत्रं तत्-कर्मणि नैपुण्यम् अवाप्तुम् प्रेरयित्वा मृतः।