पलवेरि-लक्ष्मी-नरसिंहः

पितृ-प्रभावः

प्रसिद्ध-विदुषः पलवेरि-राजगोपालस्य पुत्रः, अहोबिलमठे बहुमतः।
उपविंशतिवर्षाणि पलवेरि ग्रामय् उवास।

प्रथम-स्तोत्रं तत्पित्रा पाठितम् - कामासिकाष्टकम् इति नृसिंहस्य।
वृद्धावस्थायाम् अपि गमनागमने तद् एव जपति।

तत्-पिता तं शालाम् प्रैषयत्,
किन्तु गृहे ऽपाठयच् छास्त्राणि काव्यानि च - संस्कृतानि द्राविडान्य् अपि।
गृहे प्राप्ते शाला-पठनं बालस्य निषिद्धम्।
शाल-शिक्षक-विहित-गृह-कार्यम् अपि
शालायाम् भोजनवधाव् एक-घण्टात्मके पूरणीयम् बभूव।
एवं देशिक-प्रबन्धाः, दिव्य-प्रबन्धाश् चापि कण्ठस्थीकृताः।
ततः ५ महाकाव्यानि, न्यायशास्त्रस्य प्रकरणग्रन्थाः, चम्पू-रामायणम् … इत्यादि पाठिताः।
पाठ-प्रक्रिया राजगोपाल-चरित्रे द्रष्टव्या।

बालस् तेनात्यन्तम् प्रभावितो ऽसकृत् प्रपत्त्य्-अनुमतिम् अयाचत,
अन्तत उक्ति-निष्ठया प्रपेदे नारायणे ऽहोबिल-मठेश-सहायः।

ग्रामवासः

तडाकात् साक्षाज् जलम् पिबति स्म।

ग्रामे शारिरिक-क्रिया नैकाः कृताः -
काष्ठानां च्छेदनम्, आनयनम्, तण्डुलशोषणम् इत्यादि।
polytechnic-शाला-गमनाय तत्-पिता सार्धैकरूप्यकम् अपि दातुम् अशक्यः -
तेन स नित्यं ८ योजनानि द्विचक्रिकया गत्वागच्छति स्म।

उत्सवादि

समीप-स्थे पेट्टै-नगरे १८ दिनानां महाभारतनटनम् आरात्रि पश्यति स्म सानन्दं पितुर् निर्देशात्।
काञ्चीपुरे तिर्व्-अहीन्द्र-पुरे च विद्वत्-सदस्सु व्याख्यानानि शृणोति स्म -
प्रायेण द्राविड्या, भगवद्-विषय–गीता-भाष्य-सम्बन्धीनि,
यद्य् अपि बालस्यावगतिर् अल्पैव।
एवम् महोत्सवे कदाचित् प्रतिवादि-भयङ्कराण्णङ्गराचार्य-भाषणम् अशृणोत् स्तब्धैर् अन्यैस् साकम्
अपराह्णाद् आरभ्य सन्ध्यां यावन् निरन्तरम्!

लौकिक-शिक्षा, वृत्तिश् च

कल्याणपुरम् (बॆङ्गळूरु-नगरम्) आगतः।
Diploma-पदवी लब्धा ।
तत्र सूक्ष्म-वैद्युताभियान्त्रिको (electronic engineer) जातः।
भारतसेनाप्रयोगाय शस्त्रगत-तन्त्रांशादि निर्ममे (यथा HUD, aircraft power supply)।
असकृत् गमनागमनं मेलयित्वा महान् कालो दत्तः -
प्रातः ८-घण्टा-समये गत्वा रात्रौ ९-घण्टा-समयय् आयाति स्म।
अल्प-धनेन वर्धितश् चेद् अपि
स्व-परिश्रमेण सहकार-नगरे भुवं क्रीत्वा गृहं निर्ममे, तत्र च पितरौ ररक्ष।
५०-तम-वयसः परं सप्ताहे द्वित्राण्य् एव दिनानि गन्तुम् आरभत।

रहस्यग्रन्थाः, श्रीभाष्यम्, रामायणम् (२१ वारम्) … इत्यादि तत्रैव पित्रा पाठितः।
पाठ-प्रक्रिया राजगोपाल-चरित्रे द्रष्टव्या।

शास्त्रादि-पाठनम्

कालक्षेप-प्रक्रिया

स्वीयैर् उपन्यासै रहस्य-त्रय-सारम् प्रापयच् छ्रोतृभ्यः केभ्यश्चन ७ वर्षेषु।
किरीटि-व्याधि(corona)-काले
दूरवाण्यापि पाठयितुम् अङ्ग्य् अकरोत्।
ततः श्रीभाष्य-कालक्षेपान् प्रारभत।
एतेषु समाश्रयण-सम्पन्नान् सन्ध्यावन्दनाचारसहितान् एवाङ्गीकरोति -
तत्रापि सकृद् वा साक्षात्कृतान्।
पुनर् ये स्वनगरे वसन्ति
तैस् साक्षाद् आगमनीयम् इति निबन्धनम्।

एवम् अस्य उपचत्वारिंशत् च्छात्राः।
स्वजीवने सम्प्रदायरक्षायै १० पण्डिताः स्रष्टव्या इति तत्-सङ्कल्पः।

इमे च्छात्राः प्रायेण परकाल-मठे कदाचिद् दत्तेनोपन्यासेनाकृष्टा
लौकिकपरिवारोत्पन्नाः, लौकिक-वृत्तिषु सुप्रतिष्ठिताः।
तथाप्य् अस्य प्रभावेण
बहवो वेदाभ्यासादीन् प्रारभन्त।
तेषु लघुतमो बालः प्रथम-कक्ष्यातो ऽप्य् उपन्यासान् श्रुणोति,
वेदाध्ययनम् अपि करोति।

सार्धैक-घण्टाम् पाठयितुं
२० घण्टानां सिद्धता -
नाना-ग्रन्थावलोकन-रूपा, सूक्ष्मांश-विशदीकरण-सहिता।

एतद्-अर्थं ५०-तमे वयसि
स्थिरशरीरोऽपि स्व-शरीर-स्वास्थ्ये चिन्ताम् आरभत विशिष्य।

पाठने महान् उत्साहः - विश्वासं सपुत्रं सरलसंस्कृतेन द्राविड्ग्रन्थन् अपि पाठयितुं प्रारभत।

उपन्यासाः

एतद्-अन्तरा साधारणजनेभ्यो लोकभाषया ऽपि महता परिश्रमेणोपन्यस्यति। तदीयाः केचनोपन्यासा त्वन्नालजालक्षेत्रे लभ्याः ,

परिवारः

पुत्र-त्रयस्य पिता।
सौम्यया सु-पत्न्या ऽन्वितः।