कोत्ति-मङ्गल-वरदाचार्ये नडादूरु-विद्वान्

तत्त्व-मुक्ता-कलापस्य कर्तुः
दैवादेश-प्राप्त-कवि-तार्किक-सिंह–सर्व-तन्त्र-स्वतन्त्रेत्य्-आद्य्-अन्वर्थ-प्रशस्तिमतः
श्रीमन्-निगमान्त-महादेशिकस्य विषये
नूतनस्य वक्तव्यस्यालाभात्, सर्व-जगद्-विदितत्वात् तदीय-चरितस्य,
तद्-विषये श्रमो न कृत इति क्षमां प्रार्थ्य,
तद्-व्याख्यातारम् अधिकृत्य किञ्चित् परिचयं दातु-कामा वयम् ॥

तुण्डीर-(काञ्ची)-मण्डलं हि शिष्टैर् अलंकृतम् इति प्रथितम् एव ।
तस्य प्राच्यां दिशि तिरुक्-कडल्-मल्लै (Mamallapuram) इति प्रसिद्ध-दिव्य-देशे
भूत-मुनिर् इति प्रसिद्धस्य ( भूतत्त्-आल्वार् ) सूरि-वर्यस्यावतार-क्षेत्र-प्रान्ते
महा-पण्डितानाम्, स्वाध्यायैक-निरतानां नित्य-सूरि-सदृशानां आचार-शीलानां
आवास-भूतः कोत्ति-मङ्गलं नाम एकः अग्रहारः पावन-तमः वरीवर्ति ॥

‘अनुष्ठान-समृद्ध्य्-अर्थं
ननु स्थानं विनिर्मितम् ।
नव्यमङ्गलनाम्नेदं
नित्यसूरि-समोषितम् ॥'

‘यत्र नाम बहवो महागुणा
नित्यसूरिसदृशा भुवस् सुराः ।
वेदशास्त्रनिपुणा विरागिणः
रागिणो गुण-गुणालये हरौ ॥’

‘कर्मठाः कलुष-मार्ग-दूरगाः
कम्प-दाः कलि-विलास-शालिनाम् ।
ख्याति-लाभ-मुख-दोष-दूर-गाः
धर्मशास्त्र-निपुणा विरेजिरे ॥ '

‘अप्राकृत-दिव्य-लोकात् पतितः खण्ड एक एतद् अग्रहारात्मना परिणतः किमु !’

इति चाभिज्ञैः वर्ण्यमानम्, “कोत्तिमङ्गलम्" इति व्यवह्रियमाणम्,
अग्रहारम् इमम् उद्दिश्योच्यमानं वचः
सर्वात्मना समञ्जसम् इत्य् एव भायाद् द्रष्टॄणाम् ।
एतद्-अग्रहार-मध्ये अच्छ-स्वच्छ-सलिल-पूर्णः सरसि-ज-षण्डालं-कृतः तटाकः
सर्वेषां अनुष्ठानोपयोगितया भ्राजमानो विराजते ।
यस्य तटाकस्य परितः प्रफुल्ल-विकसित-प्रसून-मण्डिताः वृक्षाः,
येषु वृक्षेषु मधु-पिपासवः भ्रमराः समेत्य
ओंकारम् इवोद्घोषमाणाः भगवन्-नामोच्चारणम् अस्माकं स्मारयन्तीत्य् अतितरां मोदम् आवहन्ति ॥

सर्वङ्कषा-व्याख्या-कर्तार इमे श्री-वरदाचार्याः
एतद्-अग्रहार-कृत-जन्मान इति सामोदम् आवेदयामः ।
एषां पितरः श्रीसुन्दर-राजाचार्या अन्व्-अर्थ-नामान आसन् ।
माता श्रीरङ्गाम्बा ।
श्री वरदाचार्यस्य पिता-महाः श्रीकृष्णमाचार्याः ।
एषां पितरः ‘कोत्ति-मङ्गलम् अप्पा’ इति प्रसिद्धाः महाविद्वांसः
सर्व-तन्त्र-प्रवीणाः वत्स्य-चक्रवर्ति-श्री-वीर-राघव-महादेशिकाः ।
श्री कृष्णमाचार्याः
स्व-ज्येष्ठ-भ्रातृ-वर्याणां ‘अपरव्यासः’ इति प्रसिद्धानां
’ गोपालण्णा’ इत्य् आदरात् व्यवह्रिय-माणानां
वत्स्य-श्री-गोपालार्य-महादे-शिकानां सविधे वेद-काव्य-नाटकादीन् अधीतवन्तः ॥

इमे च कृष्णमाचार्याः
नेल्वाय्-अभिजनानां (मणप्पाक्क)-कौशिकानां साङ्ग-वेदाध्यायिनां परमैकान्ति-सार्वभौमानां
स्वी-कृत-पुत्रा अभूवन् ।
इमे श्रीवेङ्कट-वरदाचार्याः श्रीशैल-चतुर्-वेद–शत-क्रतु–श्री-वाजि-वक्त्र-करुणा-परिपूर्ण-बोधानां
दिग्-अन्त-विश्रान्त-यशसाम् आचार्य-सार्वभौमानां
नावल्पाक्कं-श्रीमद्-अण्णयार्य-महा-देशिकानां मातृ-ष्वसेयाः,
तथा श्री-अण्णयार्य-महा-देशिक-मातुलेयानां महा-विदुषां
‘कोत्तिमङ्गलं अप्पा’ इति प्रसिद्धानां वात्स्य-चक्रवर्ति-श्री-वीर-राघवार्य-महा-देशिकानां पैतृ-ष्वसेयाश् चाऽभूवन् ।
एषां श्री-वेङ्कट-वरदाचार्याणां सकाशे एव
‘अपर-व्यासः’ इति प्रसिद्धाः
सर्वङ्कषा-कर्तुः पिता-महानां श्री-कृष्णमाचार्याणां ज्येष्ठ-भ्रातरः
कोत्ति-मङ्गलं–वात्स्य-चक्रवर्ति-गोपालार्य-महा-देशिकाः
समग्र-साङ्ग-वेदम् अधीतवन्तः ।
श्रीसुन्दर-राजाचार्याः
स्वीय-ज्येष्ठ-पितृव्याणाम् अपर-व्यासानां श्री-गोपालार्य-महा-देशिकानां सकाशात् प्राप्त-चक्राङ्कनादि-संस्काराः,
तेषाम् एव सविधे वेद-काव्य-नाटकादीन् अधीत्य
स्वात्म-भरं च न्यक्षिपन् ।
श्रीसुन्दर-राजाचार्याश् च महा-विदुषां नावल्पाक्कं-चतुर्-वेद-शत-क्रतु- श्री-नृ-सिंह-तातयार्य-महा-देशिकानाम्,
तथा स्व-मातुल-पादानां ओंगूर्-वेलामूर-वीर-राघवाचार्याणां च सविधे
तर्क-शास्त्रम् अधीत्य
श्री-नृ-सिंह-तात-देशिकानां सन्निधौ वेदान्त-शास्त्रम् अधीतवन्तः ॥

दुन्दुभि-नाम-संवत्सरे (1922 A. D. ) जाता इमे वरदाचार्य-महोदयाः
स्व-पितृ-चरणानां सन्-निधौ पञ्च-संस्कारादीन् प्राप्य,
तेभ्य एव काव्य-नाटकादीन्,
तथा नावल्पाक्कं-सोमयाजी-श्री-नारायण-तात-देशिकानां सन्निधौ वेदांश् च
स्व-ग्राम एवाधीत्य,
ततः चेन्न-पुर्यां काकुमानी-आदि-केशवुलु-श्रेष्ठि-संस्कृत-पाठ-शालायाम्,
अनन्तरं श्री-पद-पुर्यां (Tirupati) श्री-वेङ्कटेश्वर-संस्कृत-कला-शालायां न्याय-शिरोमणि-कक्ष्यायां न्याय-शास्त्रं समधीतवन्तः ।
कोत्ति-मङ्गलं वात्स्य श्री-वीर-राघव-महादेशिकानां चरणयोः समर्पितात्म-भराश् च बभूवुः ॥

तिरुपति-कला-शालायाम् इमे मम सहपाठिनः आसन्
इतीदं स्मृत्वा नितरां मोदते ममान्तरात्मा ।
ततः मही-सुर-पत्तने (Mysore) श्री-पर-काल-मठे मूर्धाभिषिक्तानां
जगद्-विख्यातानां श्रीमद्-अभिनव-रङ्ग-नाथ-ब्रह्म-तन्त्र-स्वतन्त्र-पर-काल-स्वामिनाम्,
तथा तच्-छिष्याणां महा-पण्डितानां आत्मकूर्-दीक्षाचार्याणाञ् च सन्निधौ
दश-वत्सरान् प्राचीन-नव्य-न्याय-शास्त्र-वेदान्त-प्रौढ-ग्रन्थान्,
तथेतर-दर्शन-ग्रन्थांश् च संसेव्य,
उभय-वेदान्त-महा-पण्डिता दार्शनिकाश् चाभवन् ।
आचार्य-वर्याणां परमानुग्रह-पात्राश् च रेजिरे ।
‘न्याय-मञ्जरी’ति सु-प्रसिद्ध-प्रौढ-न्याय-ग्रन्थस्य
व्याख्या-निर्माणेन न्याय-शास्त्रे एतेषां विद्यमानं अ-कुण्ठित-पाण्डित्यं
नितराम् अशोभत ।
कर्नाटक-राज्य-शासनञ् च ग्रन्थम् एनं प्रशस्य विशेषतः सभाजयाम् आस ॥

काञ्ची-काम-कोटी-पीठ-परमाचार्याः
एतेषां नाना-मुखं पाण्डित्यं प्रत्यक्षतो ऽनुभूय
1953 वत्सर एवैनान् स्वर्ण-खचितेन ‘पण्डि-रत्नम्’-बिरुदेनालं-चक्रुः ।
2002 तमे वर्षे भारत-राष्ट्र-पतिना सम्मानिताश् च ।
तिरुपती-स्थ-राष्ट्रिय-संस्कृत-विद्या-पीठो ऽप्य् एनान्
2003-तमे वर्षे ‘महा-महोपाध्याय ’ बिरुदेन सभाजयाम् आस ।
ख्याति-लाभ-पूजा-विमुखा अपीमे,
स्वयं-प्राप्त-शास्त्र-रत्नाकर–सर्व-शास्त्र-कला-निधि-प्रभृति-नाना-बिरुदालंकृताः
विख्यात-विद्वद्-गोष्ठी-तिलकायमानाः,
तट-स्थ-सर्व-मत-पण्डितैश् च श्लाघ्यमानाः,
ज्ञानाचार-वैराग्यालं-कृताः,
शम-दमाद्य्-आत्म-गुण-संपन्नाश् च ।

किं बहुना भुवि नाना-शास्त्र-पण्डिताः विरलाः ।
तेष्व् अपि नाना-शास्त्र-विमर्शन-पूर्वक-व्याख्यातारः अति-विरलाः ।
तत्रापि अध्यापन-समर्थाः अतीव मृग्याः ।
इत्थम् एक-संश्रय-दुर्लभाः इमे त्रयो गुणविशेषाः
वरदाचार्येऽस्मिन् सङ्गमं प्राप्य
त्रिवेणी-सङ्गमं स्मारयन्त्य् अस्माकम् ।
एवं तारा-मण्डले ऽमृत-किरणवत् भ्राजमाना इमे
बहून् संवत्सरान् अ-रोग-दृढ-गात्रतां लब्ध्वा
चिरन्तन-सरस्वत्याः सेवां चिरं कर्तुं
श्रियः पतिः श्रीमन्नारायणः अनुगृह्णात्व् इति प्रार्थयामः ॥

19-12-2002
शिरुङ्गटूर, नडादूर-श्रीभाष्य-सिंहासनम्, कलै-मामणिः
एस्. एन्. श्रीराम-देशिक-दासः
(भारत-राष्ट्र-पति-पुरस्कृत-पण्डितः )