+मानसतरङ्गिणीकृच्-चरित्रम्

मानसतरङ्गिणीकृता लिखितम् अत्र सौकर्याय रक्षितम्। तल्लेखासु सन्ध्याभाषा प्रयुज्यते ऽत्मविषये। सौकर्यायात्रान्यत्र च कोशः कृतः।

स्वभावपरिचयः

  • बहुशास्त्रवित् (गणितम्)। वेदः, ज्योतिषम्, गणितम्, साङ्गणक्तन्त्रांशरचनम्, जीवशास्त्रम्, कल्पः, आगमाः, तन्त्रम् (अभिचारः, प्रत्यभिचारश् चापि), पाश्चात्योन्मादाः, (राष्ट्र)नीतिः, इतिहासः (विशिष्य मॊङ्गोलकानाम्, भारतीयानाम्, आर्याणाम् प्राचीनानाम्)। काव्ये व्याकरणे शिक्षायां चाल्पतरा गतिः।
  • बहुभाषावित्। संस्कृतम्, महाराट्टीम्, हिन्दीम्, शूलपुरुषभाषाम्, आङ्ग्लिकीं च वेत्ति।
  • म्लेच्छदेशे जीवशास्त्रविज्ञानी प्रशस्तः।
  • स्वभावतो न जल्पकः। किञ्च गम्भीरम् भाषते।
  • जामदग्न्यः। वर्मशिवस्यापि कुलम्।
  • कुमारेण +इन्द्रेण देवीभिश्चासकृद् रक्षितस् तेषाम् पूजकश् च। ईषद्विस्तारो ऽत्र। आप्तैर् अपि कृतानां देवकर्मणां सत्फलम् भवतीति विश्वसीति।

पद्यार्चनम्

  • यद्यमरो भवेत् कश्चित् चरेद् भूमौ सनातनः। स भूयान् नापरः कश्चित् स स्याद् भवान् भवान् भवान्॥
  • नीतिज्ञोऽसौ जीवशास्त्रे प्रवीणस् तन्त्रे मन्त्रे वेदपाठे ऽपि सिद्धः। धीमत्खे वै भाति तिग्मांशुमित्रो मौड्यं नो द्राक् स्वीयमन्त्रैर् निहन्ति॥

आङ्ग्लिकया

a certain jAmadagnya vatsa, brilliant author of mAnasataraMgiNI (+ some in HH, GS_SV, AL_SV), gRhya ritualist, biologist, the hindu anthropologist who has managed to remain outside the influence of the Leukosphere.

MT word-cloud
MT word-cloud

इतिहासः

  • कल्याणपुर्यां जातश् चतुस्सप्ततितमस्य साधारणाब्दस्य परिसरे। पुण्यनगर्यां वृद्धः।
  • भ्रातृमान्। किञ्च छिन्नगृहो निःप्रजः। मातुर् आप्तः।
  • पिता धीमान् - जामितां विना बहु श्रान्तुं प्रभवति स्म। मस्तिष्के गणितं कर्तुम् प्रभवति स्म। अभियान्त्रिकः। Roddham Narasimha इत्यनेन सह किञ्चित् कार्यम् अकरोत्। बालावस्थायां तेन स्पर्धेते स्म बालौ। तस्मिन् विस्तारो ऽत्र दृश्यः।
  • ततो बाल्ये तैत्तिरीय-वेदशिक्षाम् प्रारभत पित्रा सह यत्याश्रमं गत्वा। तदैवापौरुषेयत्वं तिरश् चकार।
  • दशस्व् एव वर्षेषु विज्ञानादौ रुचिप्रचुरताम् प्रादर्शयत्। तत्पित्रा प्रोत्साहितः। “curves known as evolutes, Gauss, Lagrange equations, Laplace transforms” इत्याद्यदर्शयत्। बाल्ये हि दूरदर्शननालानि निर्माय तारा ऐक्षत। पञ्चनवतितमे वर्षे सङ्गणकम् अप्य् अदापयत्।
  • आदौ वैद्य-शालाम् प्रविश्य ताम् अत्यजत्। जीवशास्त्राध्ययनम् अन्ववर्तयत्।
  • द्वाविंशे (षण्णवतितमक्रमाङ्के) वर्षे दक्षिणं श्वेत-म्लेच्छदेशम् अगच्छत्। तत्र विद्यावारिधिपदवीम् प्राप्नोत्। तत्र च श्रुतौ दीक्षितेन केनचिच् छिक्षितः।
  • केभ्यश् चिद् वर्षेभ्यः परं जालक्षेत्रे लिखितुम् प्रारभत। किञ्च नवनवतितमे वर्षे सर्वं नष्टं जातम्। स्थानान्तरे ततो ऽलिखत् (india defence, blogspot, wordpress)। ततः २०११तमे ट्विट्टरम् प्राविशत्।
    • बहुभिः प्रशस्तः। बहुभिर् धिक्कृतः। कदाचिद् धूर्तेन नित्यानन्दाख्येन द्विसहस्राधिक-षोडशे वर्षे प्रकाशयितुं यतितम्।