ऋचीकः

(ऊर्वो ऋचीकपुत्र इति केचित्! [PE])- - चन्द्रवंशिनो राज्ञः गाधेः विश्वामित्रपितुः पुत्रीं सत्यवतीं पर्यनयत्, तस्मै १००० अश्वविशेषान् दत्त्वा। - ब्राह्मण-क्षत्रिय-प्रकृत्योः विश्वामित्रजमदग्न्योर् जन्मनि तद्धोमकर्म कारणमिति वदन्ति। - वैष्णवधनुः प्राप।

प्रजाः

  • जमदग्निः
  • शुनःपुच्छः
  • शुनःशेफः -
    • अम्बरीषयागे बलये विक्रीतः।
    • विश्वामित्रसूचनया ऽग्निप्रसादनेन प्राप बलिदानान् मुक्तिम्। तदा इन्द्र आह - “चरैवेति चरैवेति”। (ऐतरेय-ब्राह्मणम्।)
    • ततो विश्वामित्रस्य दत्तकपुत्रो जातः - “देवरात” इति ख्यातः।
    • तत्पुत्रो याज्ञवल्क्यः।
  • शुनोलाङ्गूलः