मध्व-व्युत्पत्तिः

न्यायसुधायां -
मधुशब्दः सुखवाची। “मधु द्यौरस्तु नः पिता” इति प्रयोगात्।
वशब्दः शास्त्रापरपर्यायतीर्थवाची। वातेरवगत्यर्थात् करणे “घञर्थे कविधानम्” इति कः।
सुखसाधनं तीर्थम् अस्येति। “स्वः" इत्यत्रेव उकारलोपः।

वा गतिगन्धनयोः वा + घञ् ( अकर्तरि च कारके संज्ञायाम् ) वा + क ( घञर्थे कविधानम् इति कप्रत्ययः ) व् + अ ( आतो लोप इटि च इत्यनेन आकारस्य लोपः ) व