3 Philosophical stotras

APPENDIX C. Philosophical stotras of Abhinava. अनुत्तराष्टिका । संक्रामोन न भावना न च कथायुक्तिन चर्चा न च ध्यानं वा न च धारणा न च जपाभ्यासप्रयासो न च । तत्कि नाम सुनिश्चितं वद परं सत्यं च तच्छ्रयतां न त्यागी न परिग्रही भज सुखं सर्वं यथावस्थितः ॥१॥ संसारोऽस्ति न तत्त्वतस्तनुभृतां बन्धस्य वार्तव का बन्धो यस्य न जातु तस्य वितथा मुक्तस्य मुक्तिक्रिया । मिथ्यामोहकृदेष रज्जुभुजगच्छायापिशाचनमो। मा किंचित्त्यज मा गृहाण विलस स्वस्थो यथावस्थितः ॥२॥ पूजापूजकपूज्यभेदसरणिः केयं कथानुत्तरे संक्रामः किल कस्य केन विदधे को वा प्रवेशक्रमः । मायेयं न चिदद्वयात्परतया भिन्नाप्यहो वर्तते सर्व स्वानुभवस्वभावविमलं चिन्तां वृथा मा कृथाः ॥३॥ आनन्दोऽत्र न वित्तमद्यमदवनवाङ्गग्नासवत् दीपार्केन्दुकृतप्रभाप्रकरवन नैव प्रकाशोदयः । हर्षः संभृतभेदमुक्तिसुखभूर्भारावतारोपमः सर्वाद्वैतपदस्य विस्मृतनिधेः प्राप्तिः प्रकाशोदयः॥ ४ ॥ रागद्वेषसुखासुखोदयलयाहंकारदैन्यादयो ये भावाः प्रविभान्ति विश्ववपुषो भिन्नस्वभावा न ते । व्यक्तिं पश्यसि यस्य यस्य सहसा तत्तत्तदेकात्मता मवेक्ष्य किं न रमसे तद्भावनानिर्भरः॥६॥ पूर्वाभावभवक्रिया हि सहसा भावाः सदाऽस्मिन्भवे मध्याकारविकारसरवतां तेषां कुतः सत्यता। निःसत्ये चपले प्रपंचनिचये स्वप्नभ्रमे पेशले शातडकलङ्कयुक्तिकलनातीतः प्रबुद्धो भव ॥ ६॥ १संकामो न न Mss. २ जपाभ्यासः प्रयासो Mss. ३ विहर MS., A. ४ संज्ञासत्किल MS., B. ( 405 ) भावानां न समुद्भवोऽस्ति सहजस्त्वद्भाविता भान्त्यमी निःसत्या अपि सत्यतामनुभवभ्रान्त्या भजन्ति क्षणम् । त्वत्संकल्पज एष विश्वमहिमा नास्त्यस्य जन्मान्यतः तस्मात्त्वं विभवेन भासि भुवनेष्वेकोप्यनेकात्मकः ॥७॥ यत्सत्यं यदसत्यमल्पबहुलं नित्यं न नित्यं च यत् यन्मायामलिनं यदात्मविमलं चिहणे राजते । तत्सर्व स्वविमर्शसंविदुदयादू रूपप्रकाशात्मक ज्ञात्वा स्वानुभवाधिरूढमहिमा विश्वेश्वरत्वं भज ॥८॥ इति श्रीमदाचार्याभिनवगुप्लपादेविरचितानुत्तराष्टिका समाप्ता । परमार्थद्वादशिका । शान्ति र संभज नित्यमल्पवचनैर्जल्पक्रम संहर ३ तत्संहारगमेन किं कमिदं कोसीति माचीक्लपः । भावाभावविभागभासनतया यदात्यभन्नक्रमम् तच्छून्यं शिवधाम वस्तु परमं ब्रह्मात्र कोर्थग्रहः ॥१॥ यद्यतत्त्वपरिहारपूर्वकं तत्त्वमेषि तदुतत्त्वमेव हि । यद्यतत्त्वमथ तत्त्वमेव वा तत्त्वमेव ननु तत्वमीहशम् ॥२॥ यद्यहाति न भानतः पृथगिदं भेदोपि भातीति चेत् भाने सोऽपि न भाति कि जहि ततस्तदगिभंगग्रहम् । स्वप्ने स्वप्नतया प्रथां गतवति क्रोडव नो भीति कृच्छस्त्राघातजलावपातहुतभुनिर्घातबन्धादिकम् ॥ ३ ॥ ज्ञान क्रियाकलनपूर्वकमध्यवस्ये यद्यद्भवान् कथय कोऽस्य जडाद्विशेषः । स्फूर्जाडोऽपि न किमद्वयबोधधाम निस्सीमनित्यनिरवग्रहसत्यरूपम् ॥ ४॥ भावानामवभासकोसि यदि तैर्मोहः किमातन्यते कि ते तद्यदि भान्ति हन्त भवतस्तन्नाप्यखण्डं महः । नोचेन्नास्ति तदेवमप्युभयथा निर्व्याजनिर्यन्त्रणा त्रुट्यद्विभ्रमनित्यतृप्तमहिमा नित्यं प्रबुद्धोऽसि भोः॥६॥ १चिद्धर्षणे राजसे Mss. २ तथ्यातथ्यमकल्पमल्पशयनैः MS., B. ३संहस्तत् MS., B. ४ ततस्त्वद्भगि MSS. ६भाति MSS. (406) “दृष्टि बहिः प्रहिणु लक्ष्यपथातिरिक्तम् ख्या रवानुकरणं वत वञ्चनेयम् । निर्द्वन्द्वबोधगगनस्य न बाह्यमस्ति नाभ्यन्तरं निरवकाशविकासधान्नः ॥६॥ वासनाप्रसरविभ्रमोदये यद्यदुल्लसति तत्तदोक्ष्यताम् । आदिमध्यनिधनेषु तत्र चेत् भासि भासि तव लीयते जगत् ॥७॥ मोहो दुःखवितर्कतर्कणवनो हेतुप्रथानन्तर प्रोद्यद्विभ्रमशृङ्खलातिवहुलो गन्धर्वपू:सन्निभः । द्वैताद्वैतविकल्पनाश्रयपदे चिद्वयोन्नि नामाति चेत् कुत्रान्यत्र चकास्तु कास्तु परमानिष्ठाप्यनेकात्मना ॥ ८॥ स्वप्नेतावदसत्यमेव सरण’ सोसुप्तधान्नि प्रथा नैवास्यास्ति तदुत्तरे निरुपधौ चिढ्योनि कोऽस्य ग्रहः । जाग्रत्येव धरावदर्थनिचयः स्याचेत् क्षणे कुत्रचित् ज्ञानेनाथ तदत्ययेऽपृथगिदं तत्रापि का खण्डना ॥९॥ ये ये केऽपि प्रकाशा मयि सति परमव्यान्नि लब्धावकाशाः काशा ह्येतेषु नित्ये महिमनि मयि ते निर्विभार्ग विभान्ति । सोऽहं निर्व्याजनित्यप्रतिहतकलनानन्तसत्यस्वतन्त्र ध्वस्तद्वैताद्वयारिद्वयमयतिमिरापारबोधप्रकाशः॥१०॥ कालः संकलयन्कला: कल यतु स्रष्टा सृजत्वादरा दाज्ञायाः परतन्त्रतामुपगतो मथ्नातु वा मन्मथः । ३ क्रीडाडम्बरमम्बराश्रयमिव खोल्लेखरेखाकर्म देहाद्याश्रयमस्तु वैकृतमहामाहे न पश्यामि किम् ॥११॥ कः कोऽत्र भार्य कवलीकरोमि कः कोऽत्र भोर्य सहसा निहन्मि । कः कोऽत्र भोर्य परबोधधामसञ्चवणोन्मत्ततनुः पिवामि ॥ १२ ॥ भवोत्थभयभङ्गदङ्गदशगालविद्रावणम् प्रबोधधुरिधीमतामपि सकृद्यदुद्दीपनम् । सुधामगहनाटवीविहरणातितृप्तयुगमादू अभेदकरिबृंहितं व्यधित रम्यदेवो हरिः॥१३॥ इत्याचार्याभिनवगुप्तकृता परमार्थद्वादशिका भव्यायास्तुतराम् । काशांद्येतेषु MS., B. १मरणम् MSS. २ काशामेतेषु MS., A. ३ क्रीडाम्बर Mss. ४ उद्दीपयन् , MSS. ( 407) परमार्थचर्चा । अर्केन्दुदीपाद्यवभासभिन्नं नाभात्यतिव्याप्ततया ततश्च । प्रकाशरूपं तदियत् प्रकाश्यप्रकाशताख्या व्यवहार एवं ॥१॥ ज्ञानाद्विभिन्नो न हि कश्चिदर्थस्तत्तत्कृतः संविदि नास्ति भेदः । स्वयं प्रकाशाच्छतमैकधान्नि प्रातिस्विकी नापि विभेदिता स्यात् ॥२॥ इत्थं स्वसंविद्धन एक एव शिवः स विश्वस्य परः प्रकाशः । तत्रापि भात्येव विचित्रशक्ती ग्राह्यगृहीतृप्रविभागभेदः ॥३॥ भेदः स चायं न ततो विभिन्नः स्वच्छन्दसुस्वच्छतमैकधान्नः । प्रासादहस्त्यश्वपयोदसिन्धुगिर्यादि यद्वन्मणिदर्पणादेः॥४॥ आदर्श कुक्षौ प्रतिबिम्बकारि सबिम्बकं स्याद्यदि मानसिद्धम् । समर्पर्क स्वच्छन्दसंविन्मुकुरान्तराले भावेषु हेत्वन्तरमस्ति नान्यत् ॥६॥ संविद्धनस्तेन परस्त्वमेव त्वय्येव विद्यानि चकासति द्वाक् । स्फुरन्ति च त्वन्महसः प्रभावात् त्वमेव चैषां परमेश कर्ता ॥६॥ इत्थं स्वसंवेदनमादिसिद्धमसाध्यमात्मानमनीशमीशम् । स्वशक्तिसंपूर्णमदेशकालं नित्यं विभु भैरवनाथमीडे॥ ७॥ सवृत्तसप्तकमिदं गलितान्यचिन्ताः सम्यक् स्मरन्ति हृदये परमार्थकामाः । ते भरवीयपरधाम मुहविशन्ति जानन्ति च निजगतीपरमार्थचर्चाम् ॥८॥ इति श्रीमदभिनवगुप्तविरचिता परमार्थचर्चा समाता । महोपदेशविंशतिकम् प्रपञ्चोत्तीर्णरूपाय नमस्ते विद्यमूर्तये । सदानन्दप्रकाशाय स्वात्मनेऽनन्तशक्तये ॥१॥ त्वं त्वमेवाहमेवाहं त्वमेवासि न चास्म्यहम् । अहं त्वमित्युभौ न स्तो यन्त्र तस्मै नमो नमः ॥२॥ अन्तदें हे मया नित्यं त्वमात्मा च गवेषितः । न दृष्टस्त्वं नचैवात्मा यञ्च दृष्टं त्वमेव तत् ॥३॥ भवद्भक्तस्य संजातभवद्रापस्य मेऽधुना। त्वामात्मरूपं संप्रेक्ष्य तुभ्यं मह्यं नमो नमः ॥४॥ १एवं स्व MS., B. २ आदर्शमध्ये MS., B. ( 408) एतद्वचननैपुण्यं यत्कर्तव्येतिमूलया। भवन्मायात्मनस्तस्य केन कस्मिन् कुतो लयः॥६॥ अहं त्वं त्वमहं चेति भिन्नता नावयोः क्वचित् । समाधिग्रहणेच्छाया भेदस्यावस्थितियसौ ॥६॥ त्वमहं सोयमित्यादि नूनं तानि सदा त्वयि । न लभन्ते चावकाशं वचनानि कुतो जगत् ॥७॥ अलं भेदानुकथया त्वद्भक्तिरसचर्वणात् । सर्वमेकमिदं शान्तमिति वक्तुं च लज्जते ॥ ८॥ त्वत्स्वरूपे जम्भमाणे त्वं चाहं चाखिलं जगत् । जाते तस्य तिरोधाने न त्वं नाहं न वै जगत् ॥९॥ जाग्रत्स्वप्नसुषुप्त्याद्या धारयंश्च निजाः कलाः। स्वेच्छया भासि नटवन २ निष्कलोऽसि च तत्त्वतः ॥१०॥ त्वत्प्रबोधात् प्रबोधोस्य त्वचिद्रातो लयोस्य यत् । अतस्त्वदात्मकं सर्व विश्व सदसदात्मकम् ॥११॥ जिह्वा श्रान्ता भवन्नान्नि मनः श्रान्तं भवत्स्मृतौ । अरूपस्य कुतो ध्यान निर्गुणस्य च नाम किम् ॥ १२ ॥ पूर्णस्यावाहनं कुत्र सर्वाधारस्य चासनम् । स्वच्छस्य पाद्यमय॑ञ्च शुद्धस्याचमनं कुतः ॥ १३ ॥ निर्मलस्य कुतः स्नानं वस्त्रं विश्वोदरस्य च । निलेपस्य कुतो गन्धो रम्यस्याभरणं कुतः ॥१४॥ निरालम्बस्योपवीतं पुष्पं निर्वासनस्य च । अप्राणस्य कुतो धूपश्चक्षुहीनस्य दीपकः ॥१६॥ नित्यतृप्तस्य नैवेद्यं ताम्बूलं च कुतो विभोः । प्रदक्षिणमनन्तस्याद्वितीयस्य कुतो नतिः ॥ १६ ॥ स्वयंप्रकाशमानस्य कुतो नीराजनं विभोः। वेदवाचामवेद्यस्य कुतःस्तोत्रं विधीयते ॥ १७ ॥ अन्तर्बहिश्च पूर्णस्य कथमुद्वासनं भवेत् । भेदहीनस्य विश्चन्न कथं च हवनं भवेत् ॥१८॥ पूर्णस्य दक्षिणा कुन नित्यतृप्तस्य तर्पणम् । विसर्जनं व्यापकस्याऽप्रत्यक्षस्य क्षमापणम् ॥ १९ ॥ एवमेव परा पूजा सर्वावस्थासु सर्वदा । ऐक्यबुद्धया तु सर्वेशे मनो देवे नियोजयेत् ॥ २० ॥ इति महामहेश्वराचार्याभिनवगुप्तकृतं महोपदेशविंशतिकम् । This verse is obscure. It is very difficult to connect " यत्कर्तव्येतिमूलया” with the rest of the verse. २ नरवत् MS., B. ( 409 ) क्रमस्तोत्रम् । अयं दुःखवातव्रतपरिगमे पारणविधि महासौख्यासारप्रसरणरसे दुर्दिनमिदम् । यदन्यन्यक्कृत्या विषमविशिखप्लोषणगुरो विभोः स्तोत्रे शश्चत्प्रतिफलति चेतो गतभयम् ॥१॥ विमृश्य स्वात्मानं विमृशति पुनः स्तुत्यचरितम् तथा स्तोता स्तोत्रे प्रकटयति भेदैकविषये। विमृष्टश्च स्वात्मा निखिलविषयज्ञानसमये तदित्थं त्वत्स्तोत्रेऽहमिह सततं यत्नरहितः ॥२॥ अनामृष्टः स्वात्मा न हि भवति भावप्रमितिभाक् अनामृष्टः स्वात्मेत्यपि हि न विनाऽऽमर्शनविधेः । शिवश्चासौ स्वात्मा स्फुरदखिलभावैकसरस स्ततोऽहं त्वत्स्तोत्रे प्रवणहृदयो नित्यसुखितः ॥३॥ विचित्रैर्जात्यादिभ्रमणपरिपाटीपरिकरै रवासं सार्वज्ञं हृदय यदयत्नेन भवता । तदन्तस्त्वबोधप्रसरसरणीभूतमहसि स्फुटं वाचि प्राप्य प्रकटय विभोः स्तोत्रमधुना ॥ ४ ॥ विधुन्वानो बन्धाभिमतभवमार्गस्थितिमिमा रसीकृत्यानन्तस्तुतिहुतवहलोषितभिदाम् । विचित्रस्वस्फारस्फुरितमहिमारम्भरमसात् पिवन् भावानेतान् वरद मदमत्तोस्मि सुखितः ॥ ६ ॥ भवप्राज्यैश्चर्यप्रथितवहुशक्तेर्भगवतो विचित्रं चारित्रं हृदयमधिशेते यदि ततः । कथं स्तोत्रं कुर्यादथ च कुरुते तेन सहसा शिवैकात्म्यप्राप्तौ शिवनतिरुपायः प्रथमकः ॥६॥ ज्वलद्रूपं भास्वत्पचनमथ दाहं प्रकटनम् विमुच्यान्यद्वद्धेः किमपि घटते नैव हि वपुः । स्तुवे संविदूरश्मीन् यदि निजनिजास्तेन स नुतो भवेन्नान्यः कश्चिद् भवति परमेशस्य विभवः ॥ ७ ॥ विचित्रारम्भत्वे गलितनियमे यः किल रसः परिच्छेदाभावात् परमपरिपूर्णत्वमसमम् । स्वयं भासां योगः सकलभवभावैकमयता विरुद्धधर्मों धैः परचितिरनोचितगुणा ॥८॥ इतीहौ रूपैर्वरद विविधं ते किल वपु विभाति स्वांशेऽस्मिन् जगति गतभेदं भगवतः । 52( 410 ) तदेवैतत्स्तोतुं हृदयमथ गीर्वाह्यकरण प्रबन्धाश्च स्युमें सततमपरित्यक्तरभसः॥९॥ तवैवैकस्यान्तः स्फुरितमहसो बोधजलधे विचित्रोमिवातप्रसरणरसो यः स्वरसतः। त एवामी सृष्टिस्थितिलयमयस्फूर्जितरुचा शशांकाग्निीनां युगपदुदयापायविभवाः॥१०॥ अतश्चित्राचिन्त्रक्रमतदितरादिस्थितिजुषो विभोः शक्तिः शश्चद् व्रजति न विभेदं कथमपि । तदेतस्यां भूमावकुलमिति ते यत्किल पदम् ___तदेकाग्रीभूयान्मम हृदयभूभैरव विभो ॥ ११ ॥ अमुष्मात् सम्पूर्णात् वत रसमहोल्लाससरसा निजां शक्ति भेदं गमयसि निजेच्छाप्रसरतः । अनर्धे स्वातंत्र्यं तव तदिदमत्यद्भुतमयीम् भवच्छक्ति स्तुन्वन विगलितभयोहं शिवमयः ॥१२॥ इदन्तावद् तव भगवतः शक्तिसरसं __क्रमाभावादेव प्रसभविगलत्कालकलनम् । मनःशक्तयावाचाप्यथ करणचक्रर्बहिरथो ____घटाद्यैस्तद्रूपं युगपदधितिष्ठेयमनिशम् ॥ १३ ॥ क्रमोल्लासं तस्यां भुवि विरचयन भेदकलनाम् स्वशक्तीनां देव प्रथयसि सदा स्वात्मनि ततः । क्रियाज्ञानेच्छाख्यां स्थितिलयमहासृष्टिविभवां त्रिरूपां भूयासं समधिशयितुं व्यग्रहदयः ॥१४॥ परासष्टिीना हुतवहमयी यात्र विलसत् ____परोल्लासौन्मुख्यं व्रजति शशिसंस्पर्शसुभगा। हुताशेन्दुस्फारोभयविभवभाग भैरवविभो तवेयं सृष्टयाख्या मम मनसि नित्यं विलसतात् ॥१५॥ विसृष्टे भावांशे बहिरतिशयास्वादविरसे ____यदा तत्रैव त्वं भजसि रभसाद् रक्तिमयताम् । तदा रक्ता देवी तव सकलभावेषु ननु माम् क्रियाद्त्तापानक्रमघटितगोष्टीगतघृणम् ॥ १६ ॥ बहिर्वृत्ति हातुं चितिभुवमुदारां निवसितुं यदा भावाभेदं प्रथयसि विनष्टोमिचपलः । १ तवैकैकस्य MSS. २ देव: MSS. ३ क्रियाज्ञानेच्छाख्या स्थितिलयमहासृष्टिविभवा त्रिरूपा MSS. ४ विलसेत् MSS. (411) स्थिते शं देवी कलयति तदा सा तव विभो स्थितेः सांसारिक्याः कलयतु विनाशं मम सदा ॥१७॥ जगत्संहारेण प्रशमयितुकामः स्वरमसात् स्वशंकातंकाख्यं विधिमथ निषेधं प्रथयसि । १इमं सृष्ट्वेत्थं त्वं पुनरपि च शहां विदलयन् महादेवी सेयं मम भवभयं संदलयताम् ॥१८॥ विलोने शंकौघे सपदि परिपूणे च विभवे गते लोकाचारे गलितविभवे शास्त्रनियमे । अनन्तं भोग्योघं ग्रसितुमभितो लंपटरसा विभो संसारख्या मम हृदि भिदांशं प्रहरतु ॥ १९॥ ॥१०॥ तदित्थं देवीभिः सपदि दलिते भेदविभवे विकल्पप्राणासौ प्रविलसति मातृस्थितिरलम् । अतः संसारांश निजहृदि विमृश्य स्थितिमयी प्रसन्ना स्यान्मृत्युप्रलयकरणी मे भगवती ॥२०॥ तदित्थं ते तिस्रो निजविमवविस्फारणवशा दवाप्ताः षट्चक्रं क्रमकृतपदं शक्तय इमाः । क्रमादुन्मेषेण प्रविदधति चित्रां भुवि दशा मिमाभ्यो देवीभ्यः प्रवणहृदयः स्यां गतभयः ॥२१॥ इमां रुन्धे भूमि भवभयभिदातंककरणीम् इमां बोधैकांतनुतिरसमयीं चापि विदधे । तदित्थं संबोधगतिमथ विलुप्याशुभतती यथेष्टं चाचारं भजति लसतात् सा मम हृदि ॥ २२ ॥ क्रियाबुद्ध्यक्षादेः परिमितपदे मानपदवी मवाप्सस्य स्फारं निजनिजरुचा संहरति या । इयं मार्तण्डस्य स्थितिपदयुजः सारमखिलम् हठादाकर्षन्ती कृषतु मम भेदं भवभयात् ॥ २३ ॥ समग्रामक्षाली क्रमविरहितामात्मनि मुहु निवेश्यानन्तान्तर्बहलितमहारश्मिनिबहा । परा दिव्यानन्दं कलयितुमुदारादरवती प्रसन्ना मे भूयात् हृदयपदवी भूषयतु च ॥ २४ ॥ प्रमाणे संलोने शिवपदलसद्वैभववशा -च्छरीरं प्राणादिमितकृतकमातृस्थितिमयः । यदा कालोपाधिः प्रलयपदमासादयति ते तदा देवी यासौ लसति मम सा स्ताच्छिवमयी ॥२॥ १यमम् MSS. ( 412 ) प्रकाशाख्या संवित् क्रमविरहिता शून्यपदतो बहिर्लीनात्यन्त प्रसरति समाच्छादकतया । ततोऽप्यन्तःसारे गलितरभसादक्रमतया महाकाली सेयं मम कलयतां कालमखिलम् ॥ २६ ॥ ततो देव्यां यस्यां परमपरिपूर्ण स्थितिजुषि क्रमं विच्छिद्याशु स्थितिमतिरसात्संविदधति।। प्रमाणं मातारं २मितिमथ समग्रं जगदिदम् क्रोडीकृत्य श्रयति मम चित्तं चितिमिमाम् ॥२७॥ लस्वात्ममये महेशे तिष्ठन्ति यस्मिन विभुशक्तयस्ताः । क्तिमन्तं प्रणमामि देवं मन्थानसं जगदेकसारम् ॥ २८॥ स्वशक्तिकिरणौवनुतिप्रबन्धान ३ आकर्ण्य देव यदि मे व्रजसि प्रसादम् । तेनाशु सर्व जनतां निजशासनांशु संशान्तिताखिलतमःपटलां विधेयाः ॥२९॥ षट्षष्ठिनामके वर्षे नवम्यामसितेऽहनि। ५ मयाऽभिनवगुप्तेन मार्गशीर्षे स्तुतः शिवः ॥ ३०॥ इति श्री अभिनवगुप्तपादाचार्यकृतं क्रमस्तोत्रं सम्पूर्णम् ॥ भैरवस्तवः व्याप्तचराचरभावविशेष चिन्मयमेकमनन्तमनादिम् । भैरवनाथमनाथशरण्यं त्वन्मयचित्ततया हृदि वन्दे ॥१॥ त्वन्मयमेतदशेषमिदानी भाति मम त्वदनुग्रहशक्त्या। त्वं च महेश सदैव ममात्मा स्वात्ममयं मम तेन समस्तम् ॥२॥ स्वात्मनि विश्वगते त्वयि नाथे तेन न संमृतिभीतिकथास्ति । सत्स्वपि दुर्धरदुःखविमोहनासविधायिषु कर्मगणेषु ॥३॥ अन्तक मां प्रति मा दृशमेनां क्रोधकरालतमा विनिधेहि । शङ्करसेवनचिन्तनधीरो भीषणभैरवशक्तिमयोस्मि ॥४॥ इत्थमुपोढभवन्मयसंविदूदीधितिदारितभूरितमित्रः । मृत्युयमान्तककर्मपिशाचैर्नाथ नमोस्तु न जातु विभेमि ॥६॥

  1. According the post-Nagesa grammarians the root ““Dadha” cannot be used in active voice. Abhinava, however, here seems to follow the practice of earlier grammarians who maintained. " अनुदात्तेत्त्वलक्षणमात्मनेपदमनित्यम्”।
  2. मित MSS. 3. प्रबन्धात् MSS. ( 413) प्रोदितसत्यविबोधमरीचिप्रेक्षितविश्वपदाथसतत्त्वः । भावपरामृतनिर्भरपूणे त्वय्यहमात्मनि निर्वृतिमेमि ॥६॥ मानसगोचरमेति यदैव क्लेशदशाऽतनुतापविधानी । नाथ तदैव मम त्वदभेदस्तोत्रपरामृतवृष्टिरुदेति ॥ ७॥ शङ्कर सत्यमिदं व्रतदानस्नानतपो भवतापविदारि तावकशास्त्रपरामृतचिन्ता स्यन्दति चेतसि निवृतिधाराम् ॥ ८॥ नृत्यति गायति हृष्यति गादं संविदियं मम भैरवनाथ । त्वां प्रियमाप्य सुदर्शनमेकं दुर्लभमन्यजनैः समयज्ञम् ॥ ९ ॥ वसुरसपौषे कृष्णदशम्यामभिनवगुप्तः स्तवमिममकरोत् । येन विभुर्भवमरुसन्तापं शमयति जनस्य झटितिर दयालुः ॥१०॥ समासं स्तवमिदमभिनवाख्यं पद्यनवकम् । देहस्थदेवताचक्रस्तोत्रम् । असुरसुरवृन्दवन्दितमभिमतवरवितरणे निरतम् । दर्शनशताय्यपूज्यं प्राणतनुं गणपतिं वन्दे ॥१॥ वरवीरयोगिनीगणसिद्धावलिपूजितांघ्रियुगलम् । अपहृतविनयिजनाति वटुकमपानाभिधं वन्दे ॥२॥ आत्मीयविषयभोगैरिन्द्रियदेव्यः सदा हृदम्भोजे । अभिपूजयन्ति यं तं चिन्मयमानन्दभरवं वन्दे ॥३॥ यद्धीबलेन विश्व भक्तानां शिवपथं भाति । तमहमवधानरूपं सद्गुरुममलं सदा वन्दे ॥ ४ ॥ उदयावभासचर्वणलोला विश्वस्य या करोत्यनिशम् । आनन्दभैरवीं तां विमर्शरूपामहं वन्दे ॥६॥ अर्चयति भैरवं या निश्चयकुसुमैः सुरेशपन्नस्था । प्रणमामि बुद्धिरूपां ब्रह्माणी तामहं सततम् ॥६॥ कुरुते भैरवपूजामनलदलस्थाऽभिमानकुसुमैर्या । नित्यमहंकृतिरूपां वन्दे तां शाम्भवीमम्वाम् ॥ ७॥
  3. तनुतामविधाय MS., B. 2. The metre here is apparently defective. We have, how ever, not corrected it, because this reading is supported by all the MSS., to which we have had access, as well as by the current oral tradition. 3. This “Abhinavākhya padyan avaka” is popularly called “Bhairava Stava”. ( 414 ) विदधाति भैरवा! दक्षिणदलगा विकल्पकुसु मैर्या । नित्यं मनःस्वरूपां कौमारी तामहं वन्दे ॥८॥ नैऋतदलगा भैरवमर्चयते शब्दकुसुमैर्या। प्रणमामि शब्दरूपां नित्यं तां वैष्णवीं शक्तिम् ॥९॥ पश्चिमदिग्दलसंस्था हृदयहरैः स्पर्शकुसुमैा । तोषयति भैरवं तां त्वग्रूपधरां नमामि वाराहीम् ॥१०॥ वरतररूपविशेषेर्मारुतदिगदुलनिषण्णदेहा या। पूजयति भैरवं तामिन्द्राणी हक्तनुं वन्दे ॥११॥ धनपतिकिसलयनिलया या नित्यं विविधषड्रसाहारैः । पूजयति भैरवं तां जिह्वाभिख्यां नमामि चामुण्डाम् ॥ १२ ॥ ईशदलस्था भैरवमर्चयते परिमलैविचित्रर्या । प्रणमामि सर्वदा तां घ्राणाभिख्यां महालक्ष्मीम् ॥ १३ ॥ षड्दर्शनेषु पूज्यं षनिशत्तत्त्वसंवलितम् । आत्माभिख्यं सततं क्षेत्रपति सिद्धिदं वन्दे ॥१४॥ संस्फुरदनुभवसार सर्वान्तः सततसन्निहितम् । नौमि सदोदितमित्थं निजदेहगदेवताचक्रम् ॥१५॥ इति देहस्थदेवताचक्रस्तोत्रम् । अनुभवनिवेदनम् । अन्तर्लक्ष्यविलीनचित्तपवनो योगी यदा वर्तते दृष्टया निश्चलतारया बहिरसौ पश्यन्नपश्यन्नपि । मुद्रेयं खलु शाम्भवो भवति सा युष्मत्प्रसादाद्गुरो शून्याशून्यविवजितं भवति यत् तत्त्वं पदं शाम्भवम् ॥१॥ अोद्घाटितलोचनः स्थिरमना नासाग्रदत्तेक्षण श्चन्द्राविपि लीनतामुपगतौ त्रिरूपन्दभावान्तरे। ज्योतीरूपमशेषबाह्यरहितं चकं पुमांसं परम् तत्त्वं तत्पदमेति वस्तु परम वाच्यं किमत्राधिकम् ॥२॥ शब्दः कश्चन यो मुखादुदयते मन्त्रः स लोकोत्तरः संस्थानं सुखदुःखजन्मवपुषो यत्कापि मुदैव सा । प्राणस्य स्वरसेन यत्प्रवणं योगः स एवाद्भुतः शाक्तं धाम परं ममानुभवतः किन्नाम न भ्राजते ॥३॥ मन्त्रः स प्रतिभाति वर्णरचना यस्मिन्न संलक्ष्यते मद्रा सा समुदेति यत्र गलिता कृत्स्ना क्रिया कायिकी । योगः स प्रथते यतः प्रवहणं प्राणस्य संक्षीयते त्वद्धामाधिगमोत्सवेषु सुधियां कि कि न नामाद्भुतम् ॥४॥ इति अनुभवनिवेदनस्तोत्रम् ।