तर्ककेसरी पडमुन्नूरु-नारायणाचार्यः

Source: TW

कर्नाटकसारस्वतॊपासकाः २

परिचयग्रन्थमाला

तर्ककेसरी पडमुन्नूरु-नारायणाचार्यः (सङ्क्षिप्तमितिवृत्तम्)

विद्यावाचस्पतिः पद्मश्रीः

डा. बन्नञ्जे गोविन्दाचार्यः

कर्नाटकः

TARKAKESAREE
PADAMUNNURUNARAYANACHARYA
(Biography)
Author: Padmashri Dr. Bannanje Govindacharya “Ishavasyam”, Ambalapadi, Udupi - 03

कुलपतिवचनम्

जानन्त्येव हि तत्र भवन्तो भवन्तः प्राग् वर्षत्रयात् लब्धजन्मनः कर्नाटकसंस्कृतविश्वविद्यालयस्य प्रधानतमम् उद्देश्यद्वयं वेदवेदान्तादि- शास्त्रेषु उन्ताध्ययनव्यवस्थापनं,शोधकार्यञ्चेति । विशिष्य एतद्द्वारा शास्त्रवाङ्मयस्य तत्त्वं समाजे व्यापयितुं विशेषोपन्यास- ग्रन्थप्रकाशनादियोजनाभिः प्रयासः विहितः ।

संस्कृतभाषा, तत्साहित्यं, शास्त्रसम्पत् च अगाधशेवधिः । खननेन अधिकं वर्धते । एतस्य निधेः सम्यगवगमनं यथा प्रधानं, तथा तस्य सम्यगुपयोगः अपि प्रधानतामाप्नोति इति वयं जानीमः । कर्नाटकसंस्कृतविश्वविद्यालयः शासनाङ्गं, शैक्षणिका, प्रसाराङ्गम्स् इति अङ्गत्रयं भजते । शासनाङ्गे कन्नडं, संस्कृतं आङ्ग्लं चेति तिसृणामपि भाषाणां परिक्रमः प्रचलति । शैक्षणिकाङ्गे क्वचित् कन्नडस्य, अधिकं संस्कृतस्योपयोगः भवेत् । प्रसाराने तु कन्नडसंस्कृतेः शास्त्रसम्पन्नतार्थं संस्कृतस्य प्रधानग्रन्थानां कन्नडानुवादः आवश्यकः । एवं अपूर्वग्रन्थानां आङ्ग्लभाषयामपि अनुवादः, संस्कृते स्वतन्त्रग्रन्थप्रकटणं च अस्माकं अग्रिमलक्ष्यं भवेत्।

संस्कृतविश्वविद्यालयः प्राचीन - आधुनिकज्ञानयोः युक्तसंयोजने दत्तावधानः । प्राधान्येन एतत् शैक्षणिकाङ्गे भवेत् । केवलं परीक्षाप्रचालनं शैक्षणिकाङ्गस्य लक्ष्यं न । तदर्थं योग्यं पाद्यं पूरकपाद्यरचना, परामर्शनग्रन्थनिर्माणम् अपि प्रधानं भवति । एतदर्थं इदानीं प्रसाराङ्गः आरब्धः ।

कर्नाटकराज्यं बहु प्राचीनकाले अनल्पान् संस्कृतग्रन्थान् असृजत् । मध्यकालीनसन्दर्भेऽपि तत् समेधितं च । आधुनिक

vi

तु तस्य नूतनरीत्या अभिवर्धनस्यावश्यकता वर्तते । कर्नाटकराज्यं अभिलषितार्थचिन्तामणिः, शिवतत्वरत्नाकरः इति बृहद्विश्वकोशद्वयं प्रायच्छत् । शतशः शास्त्रकाराः, व्याख्यानकाराश्चाभवन् अस्मिन् राज्ये । अनेके शास्त्रग्रन्थाः निर्मिताः अत्र । शताधिकाः व्याख्यानकाराः संस्कृते अन्यादृशव्याख्यानानि व्यरचयन् ।

कर्णाटकराज्यस्य सुदीर्घे वाङ्मयेतिहासे अतिविशिष्टेन योगदानेन नक्षत्रायमाणाः अनेके महान्तः विद्यन्ते । इदं संस्कृतसाहित्येतिवृत्तं स्वातन्त्र्यपूर्वकालीनयुगस्य संस्कृतसाहित्येतिहासं समीचीनतया चित्रयति। किन्तु स्वातन्त्र्यसङ्ग्रामस्य कालघट्टे प्रवृत्तस्य संस्कृतसाहित्यसर्जनस्य इतिवृत्तरचना सम्यक् न जाता । कालक्रमेण इदम् अन्धकारयुगमिव सम्पद्येत कदाचित् । अस्मात् कारणात् १८५० तः १९५० पर्यन्तम् एकस्य शताब्दस्य कालखण्डे कर्नाटकस्य विविधेषु प्रदेशेषु निवसतां संस्कृतवाङ्मयस्य महत्तां वर्धयितुं कारणीभूतानां महतां योगदानविषये, तेषां जीवनगाथाविषये च शतं पुस्तकानि प्रकाशनीयानि इति अस्माकम् आशयः । अनया योजनया संस्कृतवाङ्मयस्य नवेतिहासः निर्मितः भविष्यति । एतेन, आधुनिकयुगेन सह गतशताब्दस्य सांस्कृतिकबन्धॊऽपि दृढो भविष्यति इति मे विश्वासः।

अस्यां ग्रन्थमालायां पद्मश्री डा. बन्नजे गोविन्दाचार्यमहोदयेन विदुषां पडमुन्नूरुनारायणाचार्यमहोदयानां संस्कृतयोगदानमधिकृत्य विरचितं पुस्तकमिदं प्राकाश्यं नीयते । विद्वद्वरेण्यः पद्मश्री डा. बन्नञ्जे गोविन्दाचार्यमहोदयः निरन्तरं संस्कृतशास्त्रसेवायां रतः शताधिक- प्रबन्धकर्ता अस्माकं प्रार्थनानुरोधेन ग्रन्थपुष्पिकामिमां अल्पे काले विरचय्य प्रदत्तवानिति तस्मै महाभागाय कार्तज्ञ्यं निवेदयामः ।

प्रो. मल्लेपुरं जि. वेङ्कटेशः, डि.लिट् कुलपतिः

पूर्वोक्तिः

मम तातपादस्य तर्ककेसरीत्यादिप्रशस्तिभाजनस्य पडमुन्नूरुपदोपाह्वस्य श्रीनारायणाचायरितविषये कश्चन लघुः प्रबन्धो विरच्य देय इति प्रीतिपूर्वमादिष्टोऽस्मि कर्नाटकसंस्कृतविश्वविद्यालयस्य कुलपतिना कुशलमतिना तत्रभवता प्रा. मल्लेपुरं जि. वेङ्कटेशमहोदयेन । मम कर्तव्यमेवेदमासीत् । विस्मृतकर्तव्यस्तूष्णीकामासम् । विस्मृतं स्मारयित्वा कर्तव्ये जगरयामास तत्रभवान् कुलपतिमहाभागः । कृतज्ञोऽस्मि । सम्प्रति कार्तार्थ्यमनुभवामि ।

अस्य प्रबन्धस्य विषये किञ्चिद् वक्तव्यम् । नेदं समग्रमितिवृत्तमाचार्यस्य । तस्य जीवनघटनासु बहवोंऽशा अज्ञाता एव । तातपादस्त्वस्मासु किमपि स्वीयं नाऽविश्वकार । यत् किञ्चिन्मातृमुखाच्छ्रतम्, अन्यैश्च वृद्धैः तत्रतत्र प्रसङ्गवशात् कथितम्, तदत्र यथामति यथास्मृति समग्रहीषम् । जानामि, तथाऽप्यसमग्र्यं कृतिरिति । आचार्यस्य मेरुसदृशं व्यक्तित्वम् । तस्य प्रान्तोपलस्पर्श एवायम्।

मितमुदितम्, अथापि प्रमितम् । नात्र काचिदतिशयोक्तिः । स्यादपि न्यूनोक्तिः । स ममैव मन्तुः । यथाश्रुतं यथाश्रुतं समग्राहि । यदि स्यादपि स्मरणदोषेण कथानिरूपणेष्वबुद्धिकृतः कचिन्यूनातिरेकभावः, व्यत्ययो वा। तदर्थं क्षन्तव्योऽयं जनः । तदिदं महतां चरितं लेशतः प्रदर्शितम् । अथ

महान्तः प्रमाणम् ।

  • डा. बन्नञ्जे गोविन्दाचार्यः

श्री बन्न रामाचार्यः

बालयोरुद्वाहः

एकतश्चतुर्दशहायनो मुग्धो माणवकः । पुरत एकादशहायना मुग्धा कुमारी । उभयोरपि हस्तयोर्मङ्गलमालिका । मध्येऽन्तः पटः । पुरोधसां कण्ठे मन्त्रघोषः । मङ्गलाष्टकम् । सूर्यासूक्तम् । परिणयशब्दार्थमप्यजानतोः शास्त्रीयः परिणयः समपद्यत । वधूवरयोः शिरसि बन्धुजना अक्षतान् न्यक्षिपन् । कुमारनारायणो गृहमेधी बभूव । कुमारी सत्यभामा कुटुम्बिनी बभूव । अनागतार्तवां शिशुकामुद्वाह्य कुलवृद्धाः सम्प्रदायः सम्पन्न इति सन्तुतुषुः ।

स तादृशः कालः । १८२६तमे शा. शकवर्षे (१९०४ तमे क्रिस्ताब्दे ) निर्वृत्तोऽयमुद्वाहः । न तदा प्रणयपूर्वाः परिणया बभूवुः । किन्त्वज्ञात- प्रणययोः क्रीडावयसि परिणयः । अग्निहोत्रसातत्याय धर्मचरणार्थं दारसङ्ग्रहः। परिणयपूर्वाश्च प्रणयाः ।

यदाचक्षते पूर्वे कवयः - ‘अद्वैतं सुखदुःखयोरनुगतं सर्वास्ववस्थासु यद् विश्रामो हृदयस्य यत्र जरसा यस्मिन्नहार्यो रसः । कालेनाऽवरणात्ययात् परिणते यत् प्रेमसारे स्थितं भद्रं सुमानुषस्य कथमप्येकं हि तत् प्रार्थ्यते ’ इति ।

कोडवूरुग्रामः

अस्ति कश्चिद् ग्रामः । यस्य पश्चिमायां दिशि तनुतरङ्गः सौम्यः समुद्रराजः, यं पश्चिमसमुद्र इत्याचक्षते यत्र भगवान् पाशमन्थानपाणिः स्वय-

सङ्क्षिप्तमितिवृत्तम्

[[३]]

मन्तर्निलीय श्रीमध्यागमनं निरीक्षमाण आस जलधिलावण्यमास्वादयन् । पूर्वस्यां सरोवरमठ (केरेमठ) इति ख्यातं वेणुगोपालमन्दिरम् । यत्र पुरा हस्तामलकप्रतिष्ठितो वेणुगोपालः पूज्यमान आस । (सम्प्रति सोऽयं गोपालकृष्णः रजतपीठपुरीयश्रीकृष्णमन्दिरे गर्भगृहस्य कोणे वसति ।) ततोsपि पूर्वस्यां रजतपीठपुरं क्रोशद्वयव्यवहितम्, यत्र श्रीमध्वप्रतिष्ठितो बालकृष्णो विराजते । दक्षिणस्यामुदयपुरम्, या पुरातनी अलूपराजधानी । तन्नामा नदी च । उत्तरस्यां कल्याणपुरम् । तन्नामा नदी च । तदन्त- रस्मिन्नणुर्ग्रामः ‘कोडवूरु’ इति । ‘पडमुन्नूरु’ इत्यपि व्याहरन्ति । यत्र ग्रामदेवता श्रीशङ्करनारायणः ।

[[1]]

अत्र कुमारनारायणस्य प्रतनाः पितरः निवसन्ति स्म । अग्रहारतुल्यो ग्रामः । यत्र विप्रा न धनिनः । अथापि श्रुत्या श्रीमन्तः । वेदघोषमुखरा गृहाः । अनुष्ठानपरतन्त्रा अपि स्वतन्त्रजीवनसन्तुष्टाः । अल्पकृषयः, अल्पविषयभोगा अल्पतृप्ता अपि अनल्पहृदयवैशाल्याः । अन्ये च कृषिजीवनाः केदाररताः । सस्यहरितः केदाराः । प्रतिगृहमुद्यानम् । प्रत्युद्यानं समृद्धस्वादुसलिला वापी । अश्वत्थतालरसालनारिकेळ- कदळीषण्डमण्डितः परिसरः । प्रशान्तो रुचिरो ग्रामः । रुचिरा जनता । रुचिरं जीवनम् । यत्र परस्परभावनया दारिद्र्यमपि भूषणमिवालङ्करणं

बभूव ।

भट्टा आचार्या जाताः

तत्र केचन भट्टोपाह्वा द्विजा न्यूषुः । तेष्वेव केचिदाहितानला होमधूम- विधूतपाप्मानः कर्मठा विरुजो विमलचरिताः । सम्प्रदायनिष्ठुरो जीवन- क्रमः । तत्रतत्र शास्त्रेष्वधीतिनो बभूवुः । अथापि विरलं वैदुप्यमास ।तर्ककेसरी पडमुन्नूरु नारायणाचार्यः

एवमीदृशे ग्रामे शङ्करनारायणदेवमन्दिरमाग्नेयेन क्षेत्रपरीतं वृक्षपण्डमण्डितं बृहदिव शान्तं निशान्तमेकम् । प्रायस्तस्मिन् परिसरे तदेकमेवाट्टा- लिकाकलितं कुट्टिमललितं निकेतनम् । अभ्यर्ण एव अवगाहन- योग्यस्तटाकः । तदुपकण्ठे विशालः पिप्पलद्रुमः । तन्मूले प्रतनैराराधिता नागशिलाः । तत्राऽस्तामनन्तभट्टः पद्मावती च दम्पती ।

सत्यं पूर्वं भट्टान्वयोऽयम् । अथाप्यनन्तभट्टः शास्त्रेष्वधीती तदात्वे जनैर्विद्वानिति मानितः । अथच धर्मशास्त्रे ज्योतिःशास्त्रे साहित्यालङ्कार- शास्त्रादिषु च प्रथमगणनीयपाण्डित्यः श्रीरामाचार्यनामा विद्वद्वरः स्वां दुहितरमनन्तभट्टेन सह विवाहयामास । साऽपि स्वयमधीतशास्त्रा । एवं पण्डितापतिः पण्डितजामाता स्वयमपि पण्डित इति ततः परमनन्त- भट्टोऽयमन्ताचार्यो बभूव । स्वयमाचार्या पद्मावती सम्प्रत्याचार्यानी बभूव ।

सोऽयं पडमुन्नूरुग्रामः अस्मत्कथानायकस्य कुमारनारायणस्य जन्मभूमिः । एतौ च महितभागधेयौ कुमारस्य मातरपितरौ श्रीमाननन्ताचार्यः श्रीमती पद्मावती च ।

पित्रोर्वियोगः

अनयोर्दम्पत्योः द्वौ तनयौ बभूवतुः । अग्रजः श्रीनिवासः, कनीयान् नारायणः । उभावपि विद्वद्वरौ भूत्वा जनमानसे चिरमूषतुः श्रीनिवासा- चार्य इति, नारायणाचार्य इति ।

ज्ञायते, १८१२ तमे शा. शकवर्षे (१८९० तमे क्रिस्ताब्दे ) विकृतिसंवत्, पुष्यमासे अमायुक्तचतुर्दश्यां नारायणस्य जननमास । दैवविलासं को नाम जानीते ? नारायणस्य शैशव एव पितरौ स्वर्ययतुः । ततो मातामहो

सङ्क्षिप्तमितिवृत्तम्

रामाचार्यः मातामही च कावेरी नप्तारमेनं सुतनिर्विशेषं लालयामासतुः पोषयामासतुश्च ।

विवाहेन बन्धनीयोऽयम्

चित्रमिदम्, तौ बालमेनमन्नपानादिना यथा प्रेम्णा पुपुषुतुः न तथा शास्त्रदानादिना । नारायणः द्वादशाब्दो बभूव । अथापि शब्दमञ्जरीधातु- मञ्जरीभ्यामुपरि न जगाम । नारायणश्चिन्तापरीतो बभूव - ‘वृथा पौगण्ड- मतीतम् । वृथाऽतिक्रामति वयः । वर्धते च तर्कशास्त्राध्ययनाशा । किं कर- णीयम् ? कः प्रष्टव्यः ? कुत्र गन्तव्यम् ? कः परिहारः ? किमपि न ज्ञायते’ इति ।

[[1]]

एवं चिन्तयतस्तस्य पुनरन्या काचिदापदापतति स्म । या तस्मिन् मातृप्रेमधारां ववर्ष, यया च स्वयं मातृवैधुर्यं विसस्मार सा मातामही वात्सल्यमूर्तिः कावेरी पञ्चतामाप । वस्तुतोऽनाथः सञ्जातो नारायणः । एकतः शास्त्राध्ययनविरहचिन्ता । अपरतो मातामहीविरहदुःखम् । सदनं शून्यमरण्यमिव । जीवनमर्थहीनमिव कालयापनम् । कुत्रापि पलायनमेव शरणम्- इति नारायणश्चिन्तयन्नास । कुमारस्यान्तश्चिन्ताया गन्धं कथमपि वृद्धा अजिघ्रन् । कुमारं यथाकथाच देशान्तरगमनान्निवर्त्य गृह एव बन्धुं निरणैषुः । तेषां मनसि स्फुरित एक एवोपायः परिणयः ।

नष्टं मातृवात्सल्यम् । सम्प्रति जायाप्रीतिबन्ध एव तं गेहे निबध्य स्थापयेदिति वृद्धा अचिन्तयन् । ततः प्रारब्धं कन्यान्वेषणम् । नारायणश्चिन्तयामास–‘विवाहो विद्यानाशायेति वदन्ति । तदिदं वृद्धानां

[[६]]

तर्ककेसरी पडमुन्नूरु नारायणाचार्यः

बालिश्यम् । सम्प्रतीदमन्यदापतितम् । व्रणे लवणसेचनम् । गण्डस्योपरि पिटकः । ममान्तरङ्गं कोऽपि न जानीते । किं करणीयम् ? सम्प्रति मा भूत् परिणयनमिति न्यवेदयमसकृत् । कोऽपि तत्र न कर्णं ददाति । बधिराः सर्वेऽपि मत्प्रार्थने । अन्धाः सर्वेऽपि मद्भवितव्यतादर्शने । ते पुनर्मामेव भत्सयन्ति - ’ तूष्णीकां तिष्ठ । तव यद्धितं तदस्माभिः क्रियते । जानीमो वयम्, किं नः कर्तव्यम्, किमकर्तव्यमिति । न त्वदुपदेशानुसारेण वर्तितव्यमस्माभिः । भाषते महान् ज्ञानीव । त्वं किं जानीपे ? जोष - मङ्गीक्रियतां यदस्माभिः क्रियते’ इति । न मे वाचं कोsपि शृणोति । सम्प्रति मूकतैव शरणम्’ इति ।

लब्धा मुग्धवधूः

पडमुन्नूरुग्रामात् क्रोशान्तरितोsन्यो ग्रामः - ’ अम्बलपाडि ’ इति । यत्र महाकाळी जनार्दनश्च ग्रामदेवतात्वेन विराजेते । यत्र बल्लाळोपाह्वाः द्विजा ग्रामण्यः परितोऽष्टसु ग्रामेषु न्यायनिर्णायका इति प्रथिताः । तद्वंशीयः कश्चित् द्विजः श्रीनिवासबल्लाळ इति तत्र महित उवास । तस्य दयिता श्रीमती महालक्ष्मीरिति । तयोर्द्वे दुहितरौ, सत्यभामा च दुर्गाम्बा च । तयोः सत्यभामा मनोज्ञदर्शना अतीतदशहायनेति पित्रोः परं चिन्ताहेतुर्बभूव । दशवर्षेभ्यः पूर्वमेव कन्या परिणेतव्या, ततः परमपि अनूढा पितृगृह- वासिनी पितरौ निरये निपातयतीति पुरातनानां सम्प्रदायः । तदिदं तयोश्चिन्ताबीजम् ।

कुमारनारायणस्य गृहवृद्धाः कन्यार्थिनः परितो विचारयन्तो बभूवुः । बल्लाळदम्पती च वरार्थिनौ । उभयत्रापि वार्ता प्रससार । ज्यौतिषिकाः

सङ्क्षिप्तमितिवृत्तम्

[[9]]

जातकपत्रं पराममृशुः । समघटत जातकपत्रमुभयोः । तेजस्वी कुमार आजानुबाहुः। अजातव्यञ्जनाऽपि मनोज्ञा कन्या । सन्तुतोष कुटुम्बद्वयम् । पण्डितनप्ता स्फुरद्रूपः मनोनयनासेचनकः कुमारः कन्यापितुश्चित्त- मावर्जयामास । स्फुरद्रूपिणीं कुलीनां कन्यां दृष्ट्वा तुतुषुस्तरां कुमार- नारायणकुलवृद्धाः । ततः किमिति विलम्ब्यते । आघुष्यतैव मङ्गलवाद्यम् । सम्पन्न एव विवाहमहोत्सवः । पपाठ मन्त्रं पुरोधसां कण्ठः । अनूवाच च कुमरो नारायणः-‘माङ्गल्यतन्तुनाऽनेन मम जीवनहेतुना । कण्ठे बध्नामि सुभगे ….. ’ ।

परिणयेनापि कुमारनारयणस्य निर्धारो न विपर्यास । तच्चित्ते नृत्यन्ती विद्याललना सत्यभामाया भर्तुर्हृदये प्रवेशावकाशं न ददौ ।

देशान्तरगमनम्

एतस्मिन्नन्तरे काऽपि वार्ता कुमारनारायणस्य कर्णपुटगता बभूव । धारवाडप्रदेशादागताः केचन क्षेत्रयात्रिकाः कुमारस्य कर्णे जेपुः- सम्प्रति समग्रे दक्षिणभारते नवीनन्यायजलधिपारदृश्वा पण्डिततल्लज एक एवाऽस्ते - हानगल् विरूपाक्षशास्त्रीति । यस्य च पाठशाला धारवाडनगरे वर्वर्ति । तत्र स्वयं पण्डिताग्रणीः श्रीलो विरूपाक्षशास्त्री विनेयानां विद्यां वितरति । विशेषजिज्ञासूनां नवीनन्यायं च स्वयं शिक्षयति । सोऽयं महा- तार्किकस्य हरपनहळ्ळी हुच्चाचार्यस्यान्तेवासी प्रवचने चोपन्यसने च गुरुमप्यत्यशेतेति ।

यत् कुमारेण चिरं निरीक्षितम्, तदिदं पादमूले पतितम् । कुमारस्य मन उन्मत्तीभूय ननर्त विस्तृतप्रचलाको बर्हिण इव सिद्धं च समीहितमिति ।

[[८]]

तर्ककेसरी पडमुन्नूरु नारायणाचार्यः

एकस्मिन् प्रगे कृष्णदर्शनार्थं रजतपुरं प्रस्थितो नारायणः तत एव धारवाड- नगरं प्रति प्रतस्थे अज्ञात एव स्वबन्धुभिः, अनामन्त्र्यैव सद्यः परिणीतां प्रियजायां च ।

गृहे निरीक्षयामास बन्धुजनः । तत्रतत्र विचारयामास । तावता नारायणः धारवाडनगरं प्रति जगामैव । इह केनापि तच्चिकीर्षितवार्ताऽपि

नाध्यगम्यत ।

I

अतीतान्यहानि । अतीता रात्रयः । अतीताः पक्षाश्च मासाश्च । नाश्रूयत काऽपि वार्ता । दिङ्गूढो बन्धुजनः । किङ्कर्तव्यमूढा वधूटी । केचित् तामेव वक्रदृष्ट्या निरैक्षन्त - नूनं नववधूदोषोऽयम् । यस्याः पतिगृहे पादक्षेपमात्रेण कुमारोऽदृश्यो बभूवेति । प्रथमं भर्तृविरहदुःखम् । इदमपरं जनापवाददुःखम् । निर्घृणा रसना परनिन्दायाम् । निरनुक्रोशो लोकः परापवादे । सर्वं सेहे मुग्धा वधूः पत्युर्दर्शनक्षणं निरीक्षमाणा ।

भिक्षान्नभोजनम्

धारवाडनगरं प्राप्तो नारायणः कथङ्कथमपि जीवनं निरुवाह । सङ्गृह्याऽनीतं किञ्चिद् रिक्थमपि रिक्तं बभूव । इतः परं भिक्षान्नमेव शरणम् । तदानीं विद्यार्थिनां वासरान्नमिति भिक्षान्नं न दुर्लभमास । स एव वरो बभूव नारायणस्य यावद्गुरुदर्शनम् ।

अपरिचितो देशः । अपरिचिता जनाः । अपरिचिता जीवनरीतिः । करतलभिक्षा । तरुतलवासः । कियन्ति दिनान्येवमुपितव्यम् ? मनसैव गुरुत्वेन सङ्कल्पिताः विरूपाक्षशास्त्रिमहोदया दर्शनं देयासुर्वा ? शिष्यत्वेन

सङ्क्षिप्तमितिवृत्तम्

स्वीकृत्यानुगृह्यासुर्वा । गृहादिहाऽगमनं सफलं स्याद्वा ? एवं चिन्तयत- स्तस्य नातिचिरमेव लब्धोऽवकाशः । कथञ्चिद् धैर्यमालम्ब्य शास्त्रिणां पाठशालां जगाम । तत्राधिकृताः पप्रच्छुः ? ‘कुत आगतः ? किमर्थ - मागतः?’

नारायणः भीत इव सङ्कुचित इवोत्ततार - ‘न्यायशास्त्राध्ययनार्थमागतः । ‘ओडिपु ’ इति प्रथितं रजतपीठक्षेत्रं मम जन्मभूमिः । ज्ञानपिपासया गृहं सर्वां बन्धुतां च विहायेमं भूमिभागमागतः । विरूपाक्षशास्त्रिणां सविधे शास्त्रमध्येतव्यमिति महतीमाशामुद्वहन्निहाऽगतः । दययाऽस्यानाथस्या- वकाशो दीयताम्’ इति ।

अधिकृताः परिजहसुः । यदा विपश्चितोऽपि शास्त्रिमहोदयस्य पुरतः पदं प्रसारयितुमपि बिभ्यति । का कथाsस्य बालिशस्य ? किमयं शास्त्राध्ययनं नाम हेलां मन्यते । तत्र कश्चिदाह - ‘अशक्यमिह तवाऽशा पूरयितुम् । प्रौढा एव न्यायकक्ष्यायां प्रवेशनमर्हन्ति । न भवादृशाः शब्दमञ्जरी- मात्रपारङ्गताः । बह्वयः सन्त्यत्र पाठशाला बालानां कृते । तत्र गच्छ । यथासम्भवं पठ, यदि प्रवेशं लभसे’ ।

विवृतं द्वारं भागधेयस्य

अश्रुकणकलिले चक्षुषी प्रमृजन् नारायणो नैराश्याचलं बिभ्रत् परावृत्त इव । तावता दिष्ट्या वार्तेयं शास्त्रिमहोदयानां कर्णौ पस्पर्श - ‘आरात् रजतपीठपुरीतः कश्चिद् वटुर्नवीनन्यायमध्येतुकामः समागतः’ इति ।

करुणया द्रवति स्म श्रीमतां शास्त्रिणां हृदयम् । क रजतपीठपुरी । क धारवाडनगरम् । क्व कर्कशं तर्कशास्त्रम् । क्वच सुकुमारः कुमारः

[[१०]]

तर्ककेसरी पडमुन्नूरु नारायणाचार्यः

परिचतुर्दशः। नूनमदम्या कुमारस्य शास्त्रपठनतृष्णा परिदृश्यते । अन्यथा कथं विहाय प्रियमुदवसितं मातरपितरौ बन्धुवर्गं च दूरदेशं प्रति प्रव्रजनम् । इत्थं विचिन्त्य महान्तस्ते शास्त्रिमहोदया निकटे स्थितं कञ्चन परिजनमाहूयाऽहुः–‘इहाऽनीयतां स माणवकः’ ।

स धावमान आगत्य नारायणं प्रत्याह - ’ शास्त्रिमहोदयास्त्वां दिदृक्षन्ते ।

सत्वरमागच्छ मया सह’ ।

नारायणः श्रुत्वाऽपि श्रद्धातुं न पारयामास । किमयं जाग्रत् ? उत स्वप्नः ? किं तथ्यं शृणोमि ? उत भ्रान्तिविलासः ? उन्मील्य चक्षुषी परितः प्रसारया- मास । निश्चिकाय च नूनं जागर्मि, तर्हि वास्तवमिदमिति । ततः परमा- नन्दजलधौ प्लवमान इव तेन साकं मार्गसूचिना शालान्तरं प्रविवेश ।

अहो पुरतो विरूपाक्षशास्त्रिणः । कृशः कृष्णः कायः । अथापि ब्रह्मवर्चसा तेजस्वि मुखम् । पुरः स्थितं कुमारं प्रेम्णा पिबदिव करुणामृतवर्षि हर्षोत्फुल्लं नयनम् । मूर्तिमदिव शास्त्रम्। सम्पुटीकृतेव नवीनन्यायकीर्तिः । पाण्डित्यसौजन्ययोरपूर्वः समागमः । अगस्त्य इव निपीतनिखिल - शास्त्रजलधिः । जलधिरिवागाधगम्भीरोऽपि निस्तरङ्गपरिशान्तः । प्रतन ऋषिरिव भूमाववतीर्णः। भीष्म इव द्रोण इव वयसा ज्ञानेन च वृद्धतमः, अथापि युवेव चतुराचरणः।

नारायणः स्वजीवितभागधेयस्य पुरतः दण्डवत् प्रणम्येदमुवाच- ‘आङ्गिरस-बार्हस्पत्यभारद्वाजत्र्यार्षेयप्रवरान्वितः भारद्वाजगोत्रः बोधायन- सूत्रः तैत्तिरीययजुःशाखाध्यायी नारायणशर्मा अहं भो अभिवादये’ इति ।

सङ्क्षिप्तमितिवृत्तम्

विद्यावान् भव

[[११]]

‘उत्तिष्ठ वत्स, चिरञ्जीवी विद्यावान् भूयाः ’ । शास्त्रिणामाशिपा पुलकितसर्वाङ्गो बभूव नारायणः । श्रुतं श्रोतव्यम् । लब्धं लब्धव्यम् । वितस्तिमात्रो नालोकः । फलिता जीविताशा । चक्षुरुन्मीलयामास भागधेयम् । एवं चिन्तयन् नारायणः शतं वचनानि मुखे धारयन्, एकमपि वक्तुमपारयन् आनन्दमहापूरे प्लवमानो गुरोः पुरः तूष्णीकां तस्थौ ।

गुरव एव मौनमभाङ्गुः - ‘वत्स, अलमलं सङ्कोचेन । एहि मत्सविधे अत्रोपविश’ इति हस्तेन कटान्तं दर्शयामासुः । नारायणो भीतभीत इव गुरुनिकटमुपससार । तेजस्विनं कुमारं दृष्ट्वैव जातविश्रम्भा गुरवस्तं बहोः कालादिव परिचितं हस्तग्राहं स्वनिकटे उपावेशयन् । प्रीत्या च पप्रच्छुः- ‘वत्स, किमर्थमागतोऽसि बाल्य एवं गृहं विहाय ? कस्ते मनोरथः ? निर्भयं सर्वं वद’ इति ।

नारायणः स्वां कथां निवेदयामास - ‘गुरवः, अस्मत्प्रान्ते न्यायशास्त्रा- ध्ययनं विरलमिव । विद्वज्जनमुखाच्छ्रतं मया-‘समग्रे दक्षिणभारते तत्रभवतामद्वितीयं तर्कपाण्डित्यम्’ इति । ‘समधिगतसमस्तन्यायशास्त्राः सुवाग्मिनस्तत्रभवन्तः’ इति । अपिनामाहं भवच्चरणकमलचञ्चरीको भूत्वा आचूलमूलं समग्रं तर्कशास्त्रमध्येषीय ? अपि नामाहं लभेय भवच्चरण- परिचरणभाग्यम् ?’

शास्त्रिणः विवृतेन चक्षुषा नारायणमपश्यन् । निर्भयं निवेदनम् । अस्खलिता वाणी । धीरगम्भीरो निर्धारः । अचला श्रद्धा । परिशुद्धा वाचोयुक्तिः । अदम्या अधिजिगांसा । अनन्या गुरुभक्तिः । ईदृश-

[[१२]]

तर्ककेसरी पडमुन्नूरु नारायणाचार्यः

शिष्यलाभ एव हि विदुषां महान् लाभः । शास्त्रिणः हर्षनिर्भरेण हृदयेन प्रीतिपूरं प्रसारयन्तः, पिबन्त इव चक्षुर्भ्यां परिरभमाणा इव पुरः प्रसृताभ्यां बाहुभ्यां स्फुटमाचक्षत–‘अवश्यम् । अस्मिन्नेव क्षणे त्वमस्मदन्तेवासी । अधीष्व तर्कशास्त्रम् । पारदृश्वा भव । नागेशशास्त्री तव सहपाठी भविष्यति । तव मित्रधेयं च’ इति ।

नारायणोऽध्ययने निममज्ज । लब्धं तदपेक्षितं सर्वम् । रजतपीठपुरवासी पाशमन्थानपाणिस्तत्प्रार्थनां शुश्राव । श्रुत्वा तथाsस्त्विति अनुजग्राह । किमतः परम्? नारायणः निरन्तरमध्ययननिरतो बभूव । विसस्मार जन्म- भूमिम् । विसस्मार बन्धुजनम् । विसस्मार बालां पाणिगृहीतीम् । अध्ययनम्, केवलमध्ययनं दिवानिशम् । नान्यत् किमपि तस्य मनसि

ललाग ।

बाला प्रौढा बभूव

इह पुनः कोडवूरुग्रामे बाला नारायणस्य जाया भर्तारमेव स्मरन्ती दिनानि यापयामास, स्वमेव दुष्टं दिष्टं शपन्ती । महान् कालोऽतीतः । न काऽपि वार्ता भर्तुः । प्रतीक्षयैव सप्त वत्सरा अतीताः । तरुणी अष्टादशे वर्षे पदं निदधौ । यौवनलतायां पुष्पं विचकास । वधूटी स्त्रीधर्मिणी बभूव । कस्मै सन्तोषाय ? न कस्यापि मुखे सन्तोषस्य रेखाsपि । वस्तुतः स्त्रीणां सम्भ्रमोऽयम्। वधूटी सत्यभामाऽपि स्वयं न सम्बभ्राम । दुर्दिनमिवेद- मार्तवं सर्वेषां खेदकरमास । न कोऽपि प्रतीक्षणीयाय ऋतुकालाय स्वागतं व्याजहार । स्वयं सत्यभामा बद्धमुखा स्वां दशां शपन्तीवास । शान्तमूर्तिः नारायणस्याग्रजः स्वयं सर्वंसहः प्रजावतीं सान्त्वयामास । एवं

सङ्क्षिप्तमितिवृत्तम्

[[१३]]

सर्वानपि समादधत् गृहवार्तां निर्वर्तयामास । अथापि श्रीमत्याः सत्य- भामायाः प्रथमरजोदर्शनं विना पुरुषसङ्गमं विफलमास ।

प्रवचनपारङ्गतः

नारायणस्तु अविदन्नेवैतत् सर्वं पपाठैव । स्वक्षेत्रं कृषियोग्यमासेति न जानात्येव सः । तर्कक्षेत्रे परं कृषिं चकार । विंशतिवत्सरः सम्प्रति नारायणः । श्मश्रुलं लम्बकूर्चं मुखमदृष्टवपनम् । अथाप्यासेचनकं रूपम् । कामिनीकमनीयं यौवनम् । स्फुरद् वपुः । एवं यूनोऽपि नारायणस्य मनसि नारी न पदं लेभे । आववार तं तथा विद्याकामिनी ।

I

समधिगतं समस्तं न्यायशास्त्रम् । गदाधरवाणी नारायणरसनायां ननर्त । तस्य शास्त्रेषु प्रागल्भ्यं निरीक्ष्य पण्डितमण्डली शिरः कम्पयामास । किमपरे ? स्वयं विरूपाक्षशास्त्रिणोऽपि । विद्यार्थिनस्त्वन्ये विस्मिता अपि मत्सरगर्भा बभूवुः ।

शास्त्रिणः नारायणमाहूयोचुः - ‘एहि नारायण, शृणु, मम द्वौ प्रियशिष्यौ । द्वापि नकारादी । एकस्त्वं नारायणः । अपरो नागेशः । मदीयं प्रवचनकलां तुभ्यमहं प्रादाम् । उपन्यासकलां च नागेशाय । सर्वदा प्रवचनपरो भव । संस्मर सदा श्रुतिवचनम् - ‘स्वाध्यायप्रवचनाभ्यां न प्रमदितव्यम्’ इति । स्नातकोऽसि सम्प्रति’ ।

माध्वं समयमधीष्व

नारायणस्य चिन्ता समजनि - गुरुः स्वसन्निधानादात्मानं निष्कास- यतीव । किमप्यवदन् तूष्णीं गुरोः पुरस्तस्थौ । विदिततदिङ्गिताः शास्त्रिणः साकूतमूचुः - ’ नारायण, त्वं माध्वः किल?‘१४

तर्ककेसरी पडमुन्नूरु नारायणाचार्यः

‘सत्यं गुरवः, माध्वा वयम् । गुरोरानन्दतीर्थस्य सन्निधानादिहागतः । तत्प्रतिष्ठितस्य श्रीकृष्णस्य पादमूले मे निवासः । गुरोर्मध्वस्य परदेवतायाः कृष्णस्य चानुग्रहादेव भवन्तो मे गुरवो लब्धाः ’ उत्ततार नारायणः ।

शास्त्रिणः अन्तःश्मश्रु स्मयमाना ऊचुः - ‘जन्मतो माध्वत्वमौपाधिकम् । मध्वशास्त्राध्ययनेन माध्वो माध्वो भवति । खलु तर्कशास्त्रमधीत्य । इतो माध्वं शास्त्रमधीत्य स्वभावतो माध्वो भव ।’

अवनतशिरा बभूव नारायणः ।

पुनः शास्त्रिण ऊचुः-‘किं कुत्राध्ययनमिति शङ्कसे? मा भूत् ते चिन्ता । अहमेव ते माध्वं समयं पाठयामि । तेन द्वौ लाभौ - प्रथमं मम माध्व- समयावगमनम् । द्वितीयं तव पाठनम् । किमस्ति ते विश्रम्भः शाङ्करमता- नुयायिनि मयि?’

‘आत्मानं धन्यं मन्ये । यदि तत्रभवन्त एव माध्वं तत्ववादं पाठयन्ति’ इति सप्रश्रयं निवेदयामास नारायणः ।

अथ माध्वसमयाधिगमाय पुनर्गुरुकुलवासः । एवमधीयानस्य तस्य क्षणमिव वत्सरा अतीताः । अथेदानीं नारायणपण्डितस्य चतुर्विंशो वत्सरः प्रावर्तत ।

शुभास्ते पन्थानः सन्तु

अथ शास्त्रिणस्तमाहूयाऽहुः– ‘वत्स नारायण, अधीतन्यायशास्त्रोऽसि । अधिगततत्ववादोऽसि। त्वमिदानीं नारायणपण्डिताचार्यः । गच्छ गृहान् । सन्तोषय बन्धुजनम् । शुभास्ते पन्थानः सन्तु ।’

सङ्क्षिप्तमितिवृत्तम्

[[१५]]

गुरुविरहमसहमानोऽपि गुरुनिदेशपरतन्त्रः, दैवात् सञ्जातबन्धुजनदिदृक्षश्च पण्डिताचार्यः स्वजन्मभूमिं प्रति प्रातिष्ठत ।

अथेदमुपज्ञं जायाया अपि सस्मार । तपस्विनी एकादशवर्षा यदा स्वयं धारवाडनगरं प्रति जगाम । ततश्च दशवर्षाण्यतीतानि । इदानीं सुव्यक्तयौवनलक्षणा युवतिः कां दशां गता स्यात् ? इति चिन्तयन्नेव रजतपीठपुरमाप । पुरदैवतं मध्वप्रतिष्ठितं श्रीकृष्णम्, महादेवमनन्तासनं चन्द्रमौळीश्वरं च प्रणम्य गृहाभिमुखं प्रतस्थे ।

कोऽयं नूतनोऽतिथिः

पण्डिताचार्यस्य अग्रजः श्रीनिवासाचार्यः वयसश्चतुर्थे दशके वर्तमानः, अदमारुमठाधीशानां पण्डितमण्डलीमण्डनायमानानां श्रीविबुधप्रियतीर्था- नामन्तेवासित्वमासाद्याधीतसुधान्तवेदान्तग्रन्थः कथञ्चिद् दौर्गत्येऽपि गृहवार्तां निर्वहन्नास्त । अनुजः अध्ययनार्थं गतः, अद्य वा श्वो वाssग- मिष्यतीत्याशातन्तुना निरीक्षमाण आस ।

तस्य निरीक्षा न वितथा बभूव । एकस्मिन् प्रगे प्रातः स्नानार्थं स्वगृहतटाकं प्रस्थित आचार्यः दूरे स्वगृहाभिमुखमायान्तं कश्चन युवानं ददर्श । शिरसि वासोग्रन्थिः । धीरोद्धता गतिः । कोऽयं नूतनोऽतिथिरिति क्षणं चिन्तयंस्तस्थौ ।

उत्तरक्षणे चाऽचार्य उच्चैरुदघोषयत् – ‘नागवेणि, (श्रीनिवासाचार्यभार्या), सत्यभामे, मम नारायण आगतः’ । नागवेणी भर्तुः स्वनमाकर्ण्य बहि-

[[१६]]

तर्ककेसरी पडमुन्नूरु नारायणाचार्यः

राधावन्ती उपससर्प । सत्यभामा अन्तरमिमानेन अनिरीक्षितेनानिर्वच- नीयेनाऽनन्दभरेण, अदम्यया च लज्जया बहोः कालाद् दृश्यमानं स्वहृदय-

दैवतं गवाक्षान्तर्निलीनैव दिदृक्षमाणाssस ।

दीर्घनिरीक्षाकृता व्यथा सम्प्रत्यानन्दसन्दोहतामाप । सर्वेऽप्यानन्दजलधौ निममज्जुः ।

क्षम्यतामपराधः

नारायणः पण्डिताचार्यः ज्येष्ठभ्रातुः पुरतः दण्डवत् प्रणनाम । प्रणम्य चोवाच- ‘अनिवेद्यैव गृहान्निर्गतः । बलवती अध्ययनतृष्णा तथा चकार । बालस्यापराधः क्षम्यताम्’ इति ।

श्रीनिवासाचार्यः गाढमनुजं परिषस्वजे । जगाद च - ‘मैवं वोचः । विदितवेद्यः समागतोऽसि । अस्मत्कुलतिलकस्त्वम् । तपस्विन्याः सत्यभामायाः तपः सपदि पुष्पितं च फलितं च । तस्याः सौभाग्यमेतत् यत् त्वमागच्छः ’ ।

माध्वो गुरुस्तम्मण्णाचार्यः

श्रीमतां विरूपाक्षशास्त्रिणां सविध एव समधीतमाध्ववाङ्गयोऽप्याचार्यः, ‘गुरोरभावे योग्यस्य स्वयमेवाभ्यसेत् सुधीः’ इति वचनानुसारेण सुधियामग्रणीः स्वयमेव स्वप्रतिभया विशिष्य शास्त्रान्तरङ्गमनुसन्दधे । अथापि ‘मुकुन्दभक्त्यै गुरुभक्तिजायौ’ इति प्राचां वचनं मानयन् पुनस्तत्ववादं माध्वगुरुमुखाच्छुश्रावेति तद्वचनादेव ज्ञायते । तथाहि तत्कृतावेबोपसंहारवाक्यम्-

[[१७]]

सङ्क्षिप्तमितिवृत्तम्

’ इति सर्वशास्त्र - पारावारीणाग्निहोत्र श्रीमत्तम्मण्णाचार्यशिष्य- नारायणाचार्यविरचितायां न्यायामृतकुल्यायां भङ्गश्रुतुर्थः’ इति ।

’ इति सर्वशास्त्र - पारावारीणाग्निहोत्र श्रीमत्तम्मण्णाचार्यशिष्य- नारायणाचार्यविरचितायां न्यायामृतकुल्यायां श्रुतिभङ्गो नाम चतुर्थो भङ्गः’ इति च ।

प्रथमग्रन्थप्रणयनम्

अथ स्वगृहे अग्रजेन श्रीमता श्रीनिवासाचार्येण साकं निवसन्नाचार्यः साकं पाठप्रवचनेन ग्रन्थप्रणयने व्यासक्तो बभूव ।

आचार्यस्य प्रथमा कृतिः - न्यायामृतकुल्या नाम । श्रीव्यासतीर्थानां प्रौढं प्रबन्धरत्नं न्यायामृतं प्रविविक्षूणां गोपुरमिव, विस्तारेण पिपठिषूणां पीठिकेव, वेदान्तगहनं प्रविविक्षूणां सङ्क्षिप्ता मार्गदर्शिनीव, वेदान्तपरिभाषायास्तार्किकं परिष्करणमिव, अपूर्वा न्यायामृतस्य लघुटीका ।

पद्यमयीं चैतां कुल्यां स्वकृतया अर्थद्योतनिकाख्यया व्याख्यया संयोजयामास । प्राय आचार्यस्य एवं ग्रन्थद्वयप्रणयने स्फूर्तिः विश्वनाथस्य कारिकावळीमुक्तावळीभ्यां बभूवेति भाति ।

अस्य प्रणयनकालं च स्वयमेवाऽचार्यः ग्रन्थान्ते स्फुटमाह-

‘शम्भुहग्गुणवसुक्षितिशाके मार्गकृष्णनवमीगुरुवारे । पूर्णतामुपगता जयतादाचन्द्रसूर्यमवनीतलमध्ये ’ इति ।

[[१८]]

तर्ककेसरी पडमुन्नूरु नारायणाचार्यः

शम्भुदृक्=३, गुणाः=३, वसवः=८, क्षितिः= १, अङ्कानां वामतो गतिः, तथाच १८३३ शाके, आद्यन्तग्रहणम्, शालिवाहनशके ग्रन्थः समाप्तिमगमदित्युक्तं भवति । (क्रि. शं. १९२१) । तदानीमयमाचार्य एकत्रिंशद्वया बभूव ।

सपदि प्राध्याकपदवी

श्रीविबुधप्रियतीर्थश्रीचरणैरन्वर्थनामभिस्तदानीमेव च सप्तमठाधीशानां साह्येन श्रीमन्मध्वसिद्धान्तप्रबोधिनी संस्कृतमहापाठशाला स्थापिता । ते पुनः नारायणाचार्यस्य न्यायशास्त्रेऽनुपमं वैदुष्यं विज्ञाय भृशं सन्तुष्टा बभूवुः । तमाहूय च सम्मान्य महापाठशालायां न्यायशास्त्रप्राध्यापकपदवीं प्रादुः । परस्ताद् वेदान्तप्राध्यापकतां च तत्र भवानाचार्य एव निरुवाह । अन्ते कञ्चित् कालं प्रांशुपालपदवीं च ।

एवं श्रूयते - यदा श्रीविबुधप्रियतीर्थश्रीचरणाः न्यायशास्त्रप्राध्यापकपदवीं निर्वोढुमादिदिशुः, सहसा नाङ्गीचकार नारायणाचार्यः । प्रतिदिनं क्रोश- द्वयपरिमितं प्रयाणम्, प्रातरेव प्रस्थानम्, सायं प्रतिनिवर्तनम्, सर्वमेतत् स्वानुष्ठानभङ्गायैव स्यादिति प्रथमं प्राध्यापकत्वं निराचकार तत्रभवान् ।

तदा श्रीपादा जगदुः-‘प्रातः सायमिति द्विरागमनं मा भूत् । केवलमपराह्न एव शालामागत्य पाठः क्रियताम् । न खलु तदपि निराकर्तव्यम् । दुर्लभं पाण्डित्यं भवतः । तस्मादनुरुध्येमहि - अत्रत्यानामपि बुभुत्सूनां भवत्प्रतिभाया उपयोगो यथा स्यादिति’ ।

आचार्य ओमित्याह ।

सङ्क्षिप्तमितिवृत्तम्

[[१९]]

श्रीपादा विश्वविद्यालयाधिकृतानां पुरतः विषयमेनं मण्डयामासुः । आचार्यस्य अपराह्नमात्रोपस्थितिः समग्रोपस्थितितुल्येति परिगृह्य तस्य प्राध्यापकतया नियोजने विशेषानुमतिर्देया । यत एतादृशोऽपरो विद्वान् दुर्लभ इति ।

विश्वविद्यालयाधिकृतानामप्येतन्मनसि ललाग । ते सहजं नियम- मुलाचार्यस्य प्राध्यापकत्वे विशेषाज्ञां ददुः । ततो निवृत्तिपर्यन्त- मप्याचार्यः अपराह्न एव शालायां पाठनार्थमुपस्थाय समग्रोपस्थितितुल्यं वेतनमलभत । अहो ! षष्ठी रूप्यकाणि महापाठशालायां प्राध्याप- कस्याचार्यस्य मासिकं वेतनम् । तेनैव समृद्धं संसारं निर्वर्तयामास ।

नूतनं गृहम् - प्रशस्तिमाला च

अपुत्रो ज्येष्ठभ्राता श्रीनिवासाचार्यः सभार्यः अनुजेन सहैवावर्तत ।

ततः आचार्यः ‘पडमुन्नूरु’ ग्रामगतं पूर्वेषां गृहं कस्मैचिद् विप्राय विक्रीय, पुरा ‘ताळेकुडे’ इति प्रथिते, सम्प्रति ‘बन्नञ्जे’ इति व्याह्रियमाणे ग्रामे नूतनं सोद्यानं गृहमक्रीणात् । मुख्यं तु कारणम्, निकट एव संस्कृतपाठशाला वर्तत इति, प्रत्यहं गमनागमनार्थं कालव्ययो मा भूदिति, अनुष्ठानस्य सातत्यं मा भाङ्कीदिति । तेन पडमुन्नूरु नारायणाचार्यः बन्न नारा- यणाचार्य इति पप्रथे ।

एतस्मिन्नन्तरे बहूनि विद्वत्संस्थानानि तत्रभवन्तं पण्डिताचार्यम्, तर्ककेसरीति, न्यायमहाविद्वानिति, न्यायवेदान्तवाचस्पतिरिति, एव- मादिभिः प्रशस्तिभिः सममानयन् ।

[[२०]]

तर्ककेसरी पडमुन्नूरु नारायणाचार्यः

बहुश्रुत आचार्यः

तदा उडुपिक्षेत्रे द्वौ विपश्चितौ पण्डिताग्रण्यौ गण्यौ सर्वमान्यावास्ताम्, कट्टे श्रीनिवासाचार्य इति बन्न नारायणाचार्य इति । तत्र वेदान्तक्षेत्रे कट्टे श्रीनिवासाचार्यः। यस्य द्वितीयः पुत्रः दि. वादिराजाचार्यः श्रीमतो नारा- यणाचार्यस्यान्तेवासी सन् तर्कशास्त्रमधीयाय । तृतीयः दि. वेदव्यासाचार्यः (वि. एस्, आचार्यः) कर्नाटकसर्वकारे प्रमुखं मन्त्रिपदमलञ्चकार । सोऽयं कट्टे श्रीनिवासाचार्य आचार्यात् चतुर्भिर्वत्सरैर्ज्यायान् ।

नारायणाचार्यस्तु तर्फे वेदान्ते अलङ्कारशास्त्रे च परिनिष्ठितपाण्डित्यः । सर्वत्र कृतमुखश्च कृतहस्तश्च । अतः स्वयं तर्कप्राध्यापकः सन् नवीनन्यायं छात्राणां पाठयन्नपि सहैव वेदान्तविद्यार्थिनां सतरङ्गिणीकं न्यायामृतं च, साहित्यविद्यार्थिनां रसगङ्गाधरं च पाठयन् शालायां विश्वतोमुखं पाण्डित्यं प्रदर्शयन् विश्वमान्यो बभूव । विद्यार्थिनां चाsदरणीयः स्पृहणीय- तमश्चाऽदर्शः ।

सन्यासिनोऽप्युदतिष्ठन्

श्रीसोदामठाधीशैः कीर्तिशेषैः श्रीविश्वेन्द्रतीर्थश्रीचरणैरपि श्रुता पण्डिता- चार्यस्य बहुश्रुतता । अनुभूता च तैः प्रचालितासु विद्वत्सभासु । तच्छिष्याः श्रीशीरूरुमठाधीशाः कीर्तिशेषाः श्रीलक्ष्मीन्द्रतीर्थाः । तेषां शास्त्रपाठनार्थं कं नियोजयाम इति चिन्तयतां श्रीविश्वेन्द्रतीर्थानां प्रथमं स्मृतिपथमागतं नाम श्रीमतो नारायणाचार्यस्य । सिन्धुतटे कोऽन्धः पुनरन्धुं खनितुमिच्छति ! एवं श्रीविश्वेन्द्रतीर्थानामनुरोधेन श्रीलक्ष्मीन्द्र - तीर्थाः सन्यासिषु प्रथमशिष्या आचार्यस्य बभूवुः ।

सङ्क्षिप्तमितिवृत्तम्

[[२१]]

एते श्रीपादा आचार्यस्यातिप्रियाश्चाऽसन् । श्रीपादानां चाऽचार्येऽतिशयितं

[[1]]

गौरवमास । सर्वैः प्रत्यक्षदृष्टमेतत् यदाचार्यविषये श्रीपादानां गौरवस्य परा काष्ठा । तथाहि - प्रत्यहं सायं पाठनार्थं पण्डिताचार्यः श्रीमठं प्रति

गच्छति स्म । तदा श्रीपादाः स्वासनादुत्थाय स्वयं मठस्य महाद्वारमागत्य आचार्याय स्वागतं व्याहृत्य प्रकोष्ठं नयन्ति स्म । मठाधिपतिभि- रप्युत्थानपूर्वं सम्माननं केवलमेकस्यैव गृहस्थस्य लभ्यमासीत्, स एको नारायणाचार्यः।

मठाधिपतयः शिष्याः

एवं श्रीविबुधप्रियतीर्थश्रीचरणाः स्वशिष्यस्य पलिमारुमठाधीशस्य कीर्तिशेषस्य श्रीरघुमान्यतीर्थश्रीचरणस्य पर्यायसमये (क्रि.श. १९२५-६) श्रीकृष्णमठे स्वीयामेव काञ्चन पाठशालां प्रारभन्त अष्टमठीययतीनामेव कृते-परमहंसपाठशालेति । तत्र प्रथमं नारायणः पण्डिताचार्य एव परमहंसानां पाठकतया नियोजितः । तत्र पलिमारुमठाधीशाः श्रीरघुमान्य- तीर्थश्रीचरणाः, पुत्तिकामठाधीशाः श्रीसुज्ञानेन्द्रतीर्थश्रीचरणाः, पेजावर- मठाधीशाः श्रीविश्वमान्यतीर्थ श्रीचरणाश्च श्रीमत आचार्यस्य छात्रा

आसन् ।

शीरूरुमठाधीशानां शिष्यत्वं पूर्वमेवाऽवेदितम् । अन्यत्र ज्ञानवृद्धा वयोवृद्धा यतय आसन्निति न तत्राऽचार्यस्य पाठनावकाशः ।

महात्मानः कर्मन्दिभूषणाः श्रीविबुधप्रियतीर्थश्रीमच्चरणा घटिकाचले तपोनिरताः सन्तो यदा हरिपदमापुः, तदा श्रीविबुधमान्यतीर्थश्रीचरणास्तत् पीठमलमकुर्वन् । दिष्टवशात् तरुणे वयस्येव हरिपदमितानामेतेषामपि न्यायवेदान्तपाठकः श्रीनारायणाचार्य एव ।

[[२२]]

तर्ककेसरी पडमुन्नूरु नारायणाचार्यः

एतेषु तरुणयतिवर्येषु पण्डितनारायणाचार्यस्यातितरां भर आसीत् । तेषां स एवं वदति स्म - ’ मया पाठितेषु विबुधमान्यः अद्वितीयः । तादृशः प्रतिभानवान् नान्यः कोऽपि मया दृष्टः’ इति ।

अनुक्तमप्यनूदुः

तद्विपये एका कथाsपि श्रूयते - पण्डिताचार्यः श्रीचरणानां द्वैतधुमणिं पाठयन्नासीत् । द्वैतद्युमणिरिति तर्कजटिलो ग्रन्थः, दुर्बोधो विदुपामपि । ग्रन्थग्रन्थिं विश्लथयन् मूलभावं विवृण्वान आचार्यः पुरः स्थितं यतिशिष्यं ददर्श । अहो विस्मयावहं दृश्यम् । श्रीचरणाः अन्यत्रासक्ता इव पाठेष्वदत्तकर्णाः कापि निक्षिप्तचक्षुपस्तूष्णीमासन् ।

आचार्यश्श्रुकोप । मुखतः कोपाक्षराण्येव निर्जग्मुः - ‘किमिदम्? यदि भवतां श्रवणे नाऽदरः, मम पाठनेऽपि नासक्तिरस्ति । किं मम किमपि कर्तव्यं नास्तीति पाठयामि वा ? खलु वृथा पाठनेन ! किं कुड्यं प्रति पाठयामि वा? एतावत्पर्यन्तं यन्मयोदितं तदादित आन्तमनूद्यताम् । ततः परमेवोत्तरः पाठः । नो चेदितः परं पाठो मा भूत् । इदमेवास्तु पाठमङ्गलम्’ इति ।

अहो, श्रीचरणा असम्भ्रान्ता अविचलिता मूलमनूदितुमारप्सत । यावत् पाठितं तत उत्तरं भागमप्यनूदुः ।

नारायणाचार्यश्चकित उवाच - ‘अलमलम् । अवगतं भवतां प्रतिभाविल- सितम् । भवतां प्रायः पाठेन न किञ्चित् प्रयोजनम् । स्वयमाचार्या भवन्तः । भवतां पाठनेन वयं तु धन्याः ।’

नारायणः पण्डिताचार्यो वक्ता । प्रतिभानिधिर्विबुधमान्यः श्रोता । अपूर्वः समागमः । कोऽन्यस्तद्वर्णनस्येष्टे ।

सङ्क्षिप्तमितिवृत्तम्

[[२३]]

ईदृशः प्रतिभाम्बुधिर्यतिशेखरः तरुणे वयसि हरिपदमापेति दुर्विधि - विलसितमेतत् विद्वत्प्रपञ्चस्य । किं करणीयम् ? निष्करुणो विधिः । मन्द-

भाग्या वयम् ।

अपूर्वं सुधामङ्गलम्

[[1]]

ततः तत्पीठमधिरूढाः श्रीविबुधेशतीर्थश्रीमच्चरणा अपि पण्डिताचार्यसविध एव कृताध्ययनाः तर्के च वेदान्ते च परिनिष्ठितप्रज्ञा वभूवुः । तेषां सुधा- पाठसमये अहमपि तेषां सब्रह्मचारी आसमिति महदिदमामोदस्थानम् । अविस्मरणीयानि तानि दिनान्यासन् ।

तेषां श्रीपादानां प्रथमपर्यायमहोत्सवसमय एव (क्रि.श. १९५७-८) सुधा- मङ्गलमहोत्सवोऽपि संवृत्तः । अपूर्वं पाठप्रवचनम् । अपूर्वः मङ्गलोत्सवः । एतन्महोत्सववैभवं दृष्ट्वा वृद्धाः श्रीचरणपरमगुरुभिः श्रीविबुधप्रिय - तीर्थैराचरितस्य सुधामङ्गलस्य संस्मरन्ति स्म । यत्र नारायणाचार्यस्या- ग्रजः श्रीनिवासाचार्यः सुधाविद्यार्थी बभूव । तस्येदमुपमानम्, अस्य च तदेवोपमानम् । नान्यदुपमानान्तरमनयोः क्वाप्यपश्यामेति वृद्धाः प्रशशंसुः । ऊनविद्या आद्यूनाः, अलमलम्, पर्याप्तम्, मामेति परिवेषकान् निवा- रयन्त एव आकण्ठमभुञ्जत अदृष्टपूर्वाणि स्वादूनि भक्ष्यभोज्यानि । अपूर्वेण ज्ञानसमाराधनेन चाऽनन्दतुन्दिला पण्डितपरिपत्, अपर्याप्तकटिबन्धया विद्वत्सम्भावनया च । तत्र प्रत्यक्षदर्शिनो वयमेव साक्षिणः ।

अपूर्वो गुरुः । अपूर्वः शिष्यः । अपूर्वमध्ययनम् । अपूर्वश्चाध्ययन- मङ्गलोत्सवः । सर्वमप्यपूर्वमनुपमानम् । ईदृशो महो न भूतो न भविष्यतीति जना जगदुः । नूनं ममाप्यपूर्वोऽनुभवः । यत् कुत्राप्यसक्तः स्वच्छन्दचारी२४

तर्ककेसरी पडमुन्नूरु नारायणाचार्यः

स्वतन्त्राध्ययनशीलोऽप्यहं तातचरणस्य निकटे प्रह्वीभूय छात्रदीक्षया समग्रं

न्यायसुधापाठमशृणवम् ।

विद्यार्थिसार्थः

संस्कृतमहापाठशालायां तर्केषु वेदान्तेषु चाधीतिनः आचार्यान्तेवासिनो बहवो बभूवुः । तेषु प्रमुखाः केचन - बन्न पदोपा अनन्तकृष्णाचार्यः, अग्रहार- पदोपाह्नः नारायणतन्त्री, कट्टेपदोपाह्नः वादिराजाचार्यः, अडिगपदोपाह्वः रमेशः, बल्लाळपदोपाह्वो वरदराज इत्याद्याः । तौळव- मण्डले पुनराचार्योपज्ञं नवीनन्यायस्य परिचयः । तत एव चाध्ययनपरम्परा समारब्धा सम्प्रत्यपि कृच्छ्रेण जीवतीव ।

आचार्यस्य पाठनशैली तादृशी बभूव । तच्छिष्या इदानीमपि स्मरन्ति- ‘अभूतपूर्वः आचार्यस्य पाठक्रमः । अतिक्लिष्टामपि तर्कपरिभाषां पञ्चतन्त्र- कथामिव पुस्तकनिरपेक्षमक्लेशेन छात्रान् बोधयति स्म । आचार्य - मुखोद्गतस्य तर्कपाठस्याऽस्वादनमेव महत् सौभाग्यम्’ इति ।

इयं प्रथा सर्वतोदिशं प्रसृता । तेन आचार्यस्य मन्दिरमपि नित्यं प्रवचनेन मुखरीबभूव ।

पेजावरमठाधीशैः श्रीविश्वेशतीर्थश्रीचरणैः स्थापिते पूर्णप्रज्ञविद्यापीठे ये तर्कविद्यार्थिनो बभूवुः तेषामुच्चशिक्षणार्थं श्रीचरणास्तान् श्रीमतः पण्डिताचार्यस्य निकेतनमेव प्रेषयन्ति स्म । श्रीमान् डि.प्रह्लादाचार्यः, यः परस्तात् तिरुपतिक्षेत्रे राष्ट्रिय - संस्कृत विश्वविद्यालयस्य कुलपतिर्बभूव । श्रीमान् के. हयवदनपुराणिकः यश्च पूर्णप्रज्ञविद्यापीठस्य प्रांशुपालः

सङ्क्षिप्तमितिवृत्तम्

[[२५]]

बभूव । श्रीमान् पि. केशवबायरि महोदयः, पि. एस्. शेषगिरिआचार्य एवमन्ये च बहवः पूर्णप्रज्ञविद्यापीठ-विद्यार्थिनः आचार्यस्यापरवयसि तन्मुखादेव समधिगततर्कपाण्डित्याः । अपरश्च कोडत्तूरुग्रामवासी उडुपोपाह्वः विद्वान् वारणासीविश्वविद्यालये प्राध्यापको बभूव स पूर्ववयसि आचार्यस्य छात्रो भूत्वा तर्कशास्त्रमधीत्यैव तयाऽधिरोहण्या वाराणसीविश्वविद्यालये प्राध्यापकपदवीमारुरोह ।

अन्यच्च विचित्रमिदम् - कश्चित् कोडवूरुग्रामवासी अनन्तरामभट्ट इति आचार्यस्यान्तेवासी आसीत् । ततः परं स शर्मण्य (जर्मनि) देशं जगाम । तत्र हिट्लर्महाशयस्य मित्रमास । स तस्माद्देशात् स्वगुरोराचार्यस्य पत्राणि लिखन्नासीत् । मम बाल्ये तानि पत्राणि मया दृष्टानि । सङ्ग्रहार्थसङ्ग्रहः

निडम्बूरुनारायाणबल्लाळ इति प्रथितः अम्बलपाडिग्रामणीः अष्टग्रामता- न्यायनिर्णेता महाकाळीजनार्दनमन्दिरयोः धर्मदर्शी कश्चिद् द्विजवर आस । स आचार्यजायायाः श्रीमत्याः सत्यभामायाः बन्धुतायां ज्येष्ठ- भ्रातृसमान आस । परितो ग्रामेषु लब्धमानः विततयशाः स आचार्यान्ते- वासी बभूव । आचार्यस्तस्मै तर्कसङ्ग्रहं पाठयामास । तदानीं सङ्ग्रहस्य शाब्दबोधक्रमं पाठयन् सङ्ग्रहार्थसङ्ग्रहं नाम ग्रन्थं रचयामास ।

प्रबन्धोऽयं श्रीमददमारुमठाधीशैः श्रीविबुधेशतीर्थैः १८७९ तमे शा. शके स्वीयकृष्णपूजापर्यायावसरे मुद्रितः प्रकाशितश्च । तस्य उपोद्घातरूपायां पूर्वोक्तौ प्रकाशकैः श्रीचरणैः प्रबन्धारमधिकृत्यैवमवादि- ‘न्यायशास्त्रा- ध्ययनारम्भे तर्कसङ्ग्रहाध्ययनकाले, इदानीं प्रकाशं नीयमानेयं कृतिर्महती- मस्माकमुपकृतिं कृतवतीति तदानीमेव विचिन्तितमस्माभिः, यदस्य

[[२६]]

तर्ककेसरी पडमुन्नूरु नारायणाचार्यः

ग्रन्थस्य प्रकाशः कर्तव्य इति । न केवलमेतत्, किन्तु ग्रन्थकर्तॄणां समीप एवास्माकं तर्कशास्त्राद्यभ्यासः । अतोऽपि अस्माकीनोऽयं प्रकाशनप्रयत्नः कृतज्ञताप्रदर्शनप्रयत्न एवेति मन्यामहे ’ - इति ।

अस्य पुनर्मुद्रणं सम्प्रति क्रियमाणमस्ति । आचार्यशिष्येष्वन्यतमेन श्री डि. प्रह्लादाचार्यमहोदयेन संशोध्य सम्पादितम्, श्रीपलिमारुमठाधीशैः श्री- विद्याधीशतीर्थश्रीचरणैः प्रकाश्यमानं च ।

न्यायामृतकुल्या

आचार्येण तारण्य एव विरचिता न्यायामृतकुल्या व इतः पूर्वमेव श्रीशीरूरुमठाधीशैः हरिपदमितैः श्रीलक्ष्मीन्द्रतीर्थैः प्रकाशिता । ततः सम्प्रति श्रीपूर्णप्रज्ञविद्यापीठसंस्कृतमहापाठशालायाः प्रांशुपानेन अद्य- पाडिपदोपाह्वेन श्रीहरिदासभट्टमहोदयेन संशोध्य, सम्पादिता श्रीपलिमारु- मठाधीशैरेव पुनः प्रकाशिता चकास्ति । शुश्रूषुजनहस्तलभ्या चास्ति ।

पञ्चसरव्याख्या

न्यायरत्नावळीति प्रबन्धराजः पञ्चसरान्वितः श्रीवादिराजपूज्यचरणै- र्विरचितो विराजते । परन्तु तस्य ग्रन्थस्य पद्यात्मकतया व्युत्पित्सूनां दुर्बोधस्य तावन्तमनेहसमपि काsपि व्याख्या नाsस । आचार्यश्च स्वरचिताभ्यां द्वाभ्यां ग्रन्थाभ्यां तोषितविद्वन्निकुरम्बः, प्रदर्शितवैदुष्यः प्रकाशितगद्यपद्यमयग्रन्थरचनकौशलश्च । तेन पण्डितस्याऽचार्यस्य वैदुष्येण पाटवेन च प्रभाविताः श्रीसोदामठाधीशाः विद्वद्वराः श्रीविश्वेन्द्र- श्रीमच्चरणाः न्यायरत्नावळीव्याख्यानप्रणयने श्रीमन्तमाचार्यं प्रचोदया- मासुः । श्रीवादिराजश्रीचरणानां परमभक्तः श्रीमानाचार्यः सम्भ्रमेण उदुह्य

सङ्क्षिप्तमितिवृत्तम्

[[२७]]

शिरसा श्रीपादानामाज्ञां सपदि पञ्चरसव्याख्यासमाख्यां न्यायमुक्तावळी- व्याख्यां प्रबबन्ध । इदमप्याचार्यस्य पूर्ववयस्येव । यदाऽऽचार्यः कोडवूरुग्रामे स्वपूर्वतनानां गृहमेवाध्युवास । स्वयमेवोज्जुघोष च ग्रन्थारम्भे- ‘पश्चिम- त्रिशतग्रामवास्यनन्तसुतः सुधीः’ इति । प्रतीचीत्रिशतग्राम इति ‘पडु - मुन्नूरु’ इत्यस्य संस्कृतीकृतं नाम । श्रीसोदामठाधीशैः श्रीविश्वेन्द्रतीर्थैरेव प्रकाशितोऽयं ग्रन्थः । पुनर्मुद्रणं प्रतीक्षते ।

एवमेभिस्त्रिभिः प्रबन्धैः काव्ये वेदान्ते तर्फे च प्रदर्शितचातुर्य आचार्यः विद्वत्प्रपञ्चे त्रिविक्रम इव विरेजे ।

वैदिकोऽपि लोकज्ञः

यदाऽऽचार्यः शास्त्राध्ययनमवसाय स्वगृहमागतः, गृहे दौर्गत्यस्यैव विजृम्भणमास । प्रत्यहं अन्नादिपाकार्थमपि परगृहात् प्राणीत्यमेव शरणम् । अवर्धत पर्युदञ्चनम् । अग्रजः श्रीनिवासाचार्यः व्यवहारेषु मुग्धः असहायस्तूष्णीकां हस्तौ विकीर्य तस्थौ । नारायणाचार्यः सर्वं व्यवस्था- पयामास । हस्तच्युतं प्रतनं क्षेत्रादिकं स्ववशे चकार । तत्र कर्मकरैरन्यायेन लोपितं धान्यादिकं तैरेवाऽनाययामास । नवीनानि केदारादीनि विक्रीय गृहसम्पदं वर्धयामास । न केवलं शास्त्रज्ञः, लोकव्यवहारपटुरप्यासीदा- चार्यः । ‘वनौकसोऽपि लौकिकज्ञा वयम्’ इति महाकवेः कालिदासस्य वचनमाचार्यविषयेऽन्वर्थमास ।

तदानीं शीरूरुमठेऽपि समर्थस्य व्यवहारचतुरस्य सचिवस्याभावात् किञ्चिदव्यवस्थितमिवाऽस । मठीयकेदारादिषु कार्मिकेभ्यः प्रतिहर्तव्यं धनधान्यादिकं लुप्तमिवाऽस । तदा श्रीचरणानां शास्त्रपाठने नियुक्त

[[२८]]

तर्ककेसरी पडमुन्नूरु नारायणाचार्यः

आचार्यः मठीयस्य कोशस्य वृद्ध्यर्थमायव्यययोः समतोलनार्थं च कञ्चित् कालं श्रीपादानामनुरोधेन सर्वाधिकारिपदं निरुवाह । यदा तु मठस्य साम्पत्तिकी स्थितिः सुस्थिरा बभूव तस्मिन्नेव क्षणे तस्याः पदव्या आत्मानं मोचयामास ।

नैस्पृह्यं परमं सुखम्

सर्वं निर्वाहयन्नाचार्यः सर्वत्र निस्पृहो बभूवेति प्रायः सर्वेषामैककण्ठ्यम्। तत्र तावदिदमेकमुदाहरणम्-

यदाऽऽचार्यः शीरूरुमठस्य पारपत्यं स्वीचकार तदा निर्वृत्तेयं घटना । कश्चित् मठस्य क्षेत्रकार्मिकः स्वेन मठाय प्रत्यर्पणीयं धान्यादिकं कारणान्तरेण दातुमप्रभवन् स्वीयामशक्तिं प्रकाश्य क्षमामभ्यर्थयितुमा - चार्यगृहमाजगाम । धनिनो गृहं प्रति रिक्तहस्तेन न गन्तव्यमिति प्रतनः सम्प्रदायः । तस्मात् कृषीवलैः स्वनिष्कुटे रोहितं कन्दमूलादिकम्, अलसान्द्रपटोलिकाकर्कटिकावृन्ताकादिकं धनिनां गृहे शाकपाकाय निवेदयन्ति स्म । एवं मठीयः कृषीवलोsपि किञ्चिदुपायनमादायैवाऽ- जगाम । तत् सर्वमाचार्यस्य पुरतो निधाय दण्डवत् प्रणनाम ।

आचार्यः पप्रच्छ–‘किमिदम् ? किमर्थमानीतमेतत् सर्वम्?’ इति ।

कृषीवल उवाच -‘धनिनां कृते इदमुपायनम्’ ।

आचार्यः क्रुध्यन्निवोवाच- ‘नाहं तव धनी । श्रीमठस्य कर्मकरस्त्वम् । तस्माच्छ्रीमठ एव तव धनी । सर्वमिदं तत्रैव नीयताम् । कावाटमात्रमपि नात्र शेषणीयम् । अपनय मत्पुरतः सर्वम् । अपसर अपसर ।’

सङ्क्षिप्तमितिवृत्तम्

[[२९]]

कृषीवलः सर्वं सञ्चित्य मठं प्रति ययौ । ईदृशं नैस्पृह्यमाचार्यस्याऽजानो धर्मः ।

आचार्यस्य जीवनमेव तादृशम् । निरपेक्षमनुष्ठाननिबिरीसम् । यदाह भवभूतिः-‘किन्त्वनुष्ठाननित्यत्वं स्वातन्त्र्यमपकर्षति’ ।

न कदापि परान्नं बुभुजे । न पादौ परैः क्षालयामास । न दानाय न दक्षिणायै हस्तं प्रसारयामास । यद्यपि षट्कर्मा द्विजः । अथापि ददावेव न परिजग्राह । नित्यमियाजैव । न कमप्ययाजयत । किन्तु निरन्तरमधीयाय चाध्यापयामास च । तेन षट्कर्मस्वधिकृतोऽपि चतुष्कर्मैव बभूव चतुरकर्मा नारायणशर्मा ।

अपेक्षित्रे दीयताम्

कोयमुत्तूरुप्रान्ताद् कौचिद् दम्पती रजतपीठपुरमागच्छताम् । श्रीकृष्ण- सन्निधानावष्टोत्तरं शतं ब्राह्मणानां पादक्षाळनेन समाराधनीयमिति तयोराशाबन्धः । अत्र केके समाराधनीयाः विप्रा इति ताभ्यां पूर्वमेव निरणीयत । तत्र प्रथमं नाम नारायणाचार्यस्याऽसीत् ।

मठाधिकृता आचार्यगृहं गत्वा आह्वासत । आहूय चैतदाहुः - ’ पाद- क्षालनाय परिगणितेषु द्विजेषु तत्रभवतो नाम प्राथम्येन परिगृहीतम् । विशिष्टं चेदं पादक्षाळनं भवति । सर्वेषां क्षालितपादानामेतान्युपायनानि भवन्ति –बहुमूल्यं सुवर्णाञ्चलं कौशेयद्वयम्, परिधानीयमुत्तरीयं च, राजतः करीरः, राजतानि सर्वाणि पूजासाधनानि, शतं च रूप्यकाणि’ इति ।

नारायण आचार्यः अन्तःश्मश्रु हसन्निव साकूतमुवाच - ‘पश्यामस्तावत् किं भवतीति’ ।

[[३०]]

तर्ककेसरी पडमुन्नूरु नारायणाचार्यः

परेद्यवि कृष्णमन्दिरे पादक्षालनसमारम्भः प्रावर्तत । नारायणाचार्यो न भागमुवाह । सर्वेऽपि प्रत्यैक्षन्तैव । नाऽजगामैव पण्डिताचार्यः ।

कोयमुत्तूरुदम्बती नैराश्यमनुवभूवतुः । नारायणाचार्यस्य विषये महानादरस्तयोरास । महच्च गौरवम् । कथञ्चिदपि सम्मानस्वीकाराय स आङ्गीकारयितव्य इति हठस्तयोर्मनसि प्रादुर्बभूव । अपराह्ने आचार्यः पाठशालायां शास्त्रग्रन्थान् पाठयन्नासीत् । तौ दम्पती शालामागत्य आचार्यस्य पुरतः सर्वमुपायनजातं निधाय, दण्डवत् प्रणामं विधाय विज्ञापयामासतुः - ‘आचार्यमहाभाग, तत्रभवतः पादौ सम्प्रक्षाल्य पवित्री- भूयास्वेति महानभिलाषो नावासीत् । प्रहीणौ तेन भागधेयेन । अस्तु, किञ्चिदिदमुपायनं स्वीकृत्य आवामनुग्राह्यौ’ इति ।

आचार्यः दृढमुवाच - ‘कृतज्ञा वयं यद्युवयोरस्मास्वीदृशोऽभिमानभरः । इयं प्रीतिरेव सर्वोत्कृष्टमुपायनम् । किन्त्वशक्यमिदं पुरःस्थितमुपायनं स्वीकर्तुम् । अपरिग्रहानन्दा वयम् । निरपेक्षा वयम् । इदं महदुपायनजातं निरीक्षमाणा अपेक्षमाणाश्च बहवः सन्ति । यस्मैकस्मैचन अपेक्षित्रे

दीयताम् ।’

I

बहुधाऽनुरुद्धोऽपि न विचचालाऽचार्यः । तौ दम्पती अलब्धाशावपि आचार्यविषये पूर्वस्मादधिकं गौरवं दधानौ निववृताते ।

पण्डितसंसारः

पण्डितयोर्द्वयोः सहोदरयोर्ज्येष्ठः श्रीनिवासाचार्योऽनपत्य आसेति पूर्वमेवाऽवेदितम् । अनुजस्य नारायणचार्यस्य जाया श्रीमती सत्य-

सङ्क्षिप्तमितिवृत्तम्

[[३१]]

भामाऽष्टौ गर्भानसूत । चत्वारः पुत्राश्चतस्रश्च दुहितरः । आचार्यस्य संसारे मा महान् भून्ममकार इतीव चिन्तयद् दैवं षड्गर्भानपाहरत् । एकः पुत्रः तिस्रश्च पुत्र्यः पञ्चषहायना एव पञ्चतामगमन् । कोडवूरुग्रामे प्रतनगृह एवेदमापतितम् । ततः सञ्जातनिर्वेद इव तगृहं विक्रीय बन्न ग्रामे नूतनमन्यत् प्रशान्तं निशान्तं विशालनिष्कुटं विक्रायेति चाऽवेदितम् ।

बन्नञ्जेनिकाये ज्येष्ठभ्राता श्रीनिवासाचार्यः तद्वधूः श्रीमती नागवेणी, नारायणाचार्यः, तज्जाया श्रीमती सत्यभामा, रामः कृष्णो गोविन्द इति त्रयः पुत्राः, पुत्री च काळीति इत्यष्टौ सुखमूषुः ।

काळ्या विवाहोऽपि समजनि । पञ्चदशहायना सा गर्भिणी बभूव । हा! हन्त ! पुनर्देवं प्रतिकूलमिव । मुग्धा सा गर्भं प्रसूय सप्रसवा मृता । ’ हा हन्त हन्त नळिनीं गज उज्जहार’ ।

सर्वं सोढमाचार्येण वेदान्तविज्ञानपरिपक्वचेतसा । ततः परारि ज्येष्ठसुतस्य रामाचार्यस्य विवाहो निर्वृत्तः । कोडञ्चकुलोत्पन्ना तुळसीनामधेया, पति- गृहे जानकीति पुनर्नवनामधेया वधूः आचार्यगृहे स्रुषा बभूव । वधूश्चतु- र्दशवत्सरा । वरस्तु वयसा पञ्चविंशकः । सोऽयं रामाचार्यः उत्तरादिमठे भूतपूर्वकर्मन्दिनां श्रीसत्यप्रमोदतीर्थानां पूर्वाश्रमे सतीर्थ्यो बभूव संस्कृत- महापाठशालायाम् । ततः कर्णाटकभाषायां विख्यातः प्रबन्धा बभूव । तद्रचिताः कथाः पत्रिकासु प्रकाशितास्तस्य चतुरो प्रबन्धकार इति ख्यातिं प्रापयामासुः । स्वयं च पत्रिकासम्पादकः द्वित्राः पत्रिकाः प्रारभ्य सम्पाद्य प्रकाशयामास । अन्ते च उदयवाणीदिनपत्रिकायां वार्तासम्पादकपदवीं निरुह्य वार्धके वृत्तेर्विरराम । अथच चतुर्नवतिवर्षाणि जीवित्वा हरिपदमाप ।

[[३२]]

तर्ककेसरी पडमुन्नूरु नारायणाचार्यः

अलमप्रसक्तचिन्तया । नारायणाचार्यस्य गृहे तु विपद् विपदमनुबबन्ध । द्वितीय आचार्यतनयः कृष्णनामा अतीव प्रीतिपात्रं पित्रोः, अष्टादशवर्षस्तरुण एव विषमज्वरेण विधिवशो बभूव । तदनु ज्येष्ठ भ्राता श्रीनिवासाचार्यः, तज्जाया नागवेणी च स्वर्ययतुः । एवं मृत्योर्नृत्यलीलया विषण्ण इवाऽचार्यस्तमपि निकायं विचिक्राय ।

कृष्णमन्दिरनिकटे, पश्चिमविपणिरिति ( पडुपेटे) पूर्वं प्रथिते, सम्प्रति कनकदासरथ्येति व्यवह्रियमाणे, उपह्वर एव संस्कृतमहापाठशालायाः काञ्चन वसतिं व्यवस्थापयामासुः अदमारुमठाधीशाः श्रीविबुधेशतीर्थाः । कतिचन मासांस्तत्रोषित्वा ततः अदमारुमठस्य पार्श्वे मठसम्बद्ध एव महत्यायतने श्रीविबुधेशतीर्थानामनुरोधेन न्यूषुः, येन श्रीपादानां पाठनमपि सुकरमभूत् ।

एतस्मिन्नेवान्तरस्मिन् श्रीविबुधेशतीर्थानामेकतीर्थी भूत्वा आचार्याणां चरमस्तनयो गोविन्दाचार्यः ( एतत्प्रबन्धस्य रचयिता ) पितुः सकाश एव सुधामधिजगाम ।

पितुरनुग्रहेण च महत् साधयामास । पण्डितानामपि दुरवगाहं श्रीमध्वप्रणीतं श्रीतन्त्रसारसङ्ग्रहं ललितं कर्नाटकभाषायामनूवाद । तेन विद्वद्वृन्दमुत्सार्य मात्सर्यं श्रीमतो गोविन्दाचार्यस्योभयभाषावैदुष्यं मुक्तकण्ठं शश्लाघे । आचार्यमध्वस्य सर्वान् मूलग्रन्थान् श्रीमध्वप्रिय- शिष्येण श्रीहृषीकेशतीर्थेन लिखित्वा रक्षितस्य मूलपाठस्यानुसारेण इदमुपज्ञं संशोध्य सम्पादयामास ।

यदा पञ्चविंशतिहायनो बभूव तदा भट्टान्वयजया कार्कळग्रामवासिन्या श्रीमत्या अहल्याख्यया तस्योद्वाहो बभूव ।

सङ्क्षिप्तमितिवृत्तम्

[[३३]]

तस्य पाण्डित्यं वैदग्ध्यं चावमृश्य अदमारुमठाधीशाः ‘विद्यावाचस्पतिः’, इति प्रशस्तिदानेन तं मानयामासुः । पलिमारुमठाधीशाः श्रीविद्यामान्य- तीर्थाः ‘विद्यारत्नाकरः’ इति, पेजावरमठाधीशाः श्रीविश्वेशतीर्थाः ‘शास्त्रसव्यसाची’ इति, पुत्तिकामठाशीधाः - ’ विमर्शनविचक्षणः’ इति, श्रीगोकर्णमठाधीशाः श्रीद्वारकानाथतीर्थाः ‘पण्डितरत्नम्’ इति च प्रशस्तिदानेन तमाचार्यपुत्रं मानयामासुः । अन्यानि बहूनि विद्या - संस्थानानि तमनेकाभिः प्रशस्तिभिर्बहुधा सम्मानयामासुः ।

तस्य प्रवचनानि देशे विदेशेषु च जनादरणीयान्यासन् । विदेशीयास्त- माहूय स्वस्वदेशेषु प्रवचनानि व्यवस्थापयामासुः । तेन च संस्कृतभाषायां कर्णाटकभाषायां च बहवो ग्रन्थाः प्रकट्यकारिषत । तत्र प्रमुखाः केचित्- महाभारततात्पर्यनिर्णयटीका निर्णयभावचन्द्रिका, पण्णामुपनिषदां हृदयद्योतनी उपनिषच्चन्द्रिका, श्रीमध्वविजयटीका भावचन्द्रिका, विष्णुसहस्रनामभाष्यम्, शतरुद्रियभाष्यम् - इत्यादयः । कर्णाटकभाषायां च बाणभट्टस्य कादम्बरी, भवभूतेरुत्तररामचरितम्, काळिदासस्य शाकुन्तलमित्यादीनामनुवादाः सर्वमेतत् तातकारुण्यस्यानुग्रहस्य च फलमिति मन्यते तनयोऽयम् ।

अत एव सोऽयं पण्डितपुत्रः भारतसर्वकारेण पद्मश्रीप्रशस्तिदानेनामान्यत । मङ्गळूरुविश्वविद्यालयेन च डाक्टरेट्प्रशस्तिदानेन ।

एवं बहुधा मानितोऽप्ययं प्रबन्धा पितुः सकाशाल्लब्धां माननामेव सर्वस्मा- दधिकां मन्यते । तथाहि यदा नारायणाचार्यः अशीतिमप्यतिगतः, जरसा३४

तर्ककेसरी पडमुन्नूरु नारायणाचार्यः

जीर्णः प्रवयाः, तदा कदाचिदेकान्ते तनयमाजुहाव - ‘गोविन्द, इत एहि’ ।

अहं समीपमेत्यावोचम्–‘आदिश्यतां तात’ ।

[[1]]

‘न किमप्यादेष्टव्यमवशिष्टम् । किन्तु किञ्चिद् वक्तव्यमवशिष्यते । पित्रा पुत्रस्य प्रशंसा न कर्तव्येत्येतावन्तमपि दीर्घमनेहसमनाविष्कृतं तथ्यमिदानीमाविष्क्रियते । सम्यगध्यगीष्ठाः । साधु मामप्रीणयः । भगवांस्त्वामनुगृह्णातु । चरमोऽयमाशीर्वादस्ते….’

किमितोऽप्यधिका प्रशस्तिः केनापि लब्धुं शक्या वा? सर्वप्रशस्तीनां शिरोमणिरयम् ।

अलमिदानीमाचार्यसन्ततिप्रशंसया । साऽप्यन्ततः आचार्यप्रशंसैवेति एतावत् कथितव्यमापतितम् । अथेदानीमचार्यस्य महिमान्तरे चक्षुः

प्रसारयामः ।

त्यागस्य परा काष्ठा

यदा बन्नञ्जे ग्रामगते स्वक्रीते सदने आचार्य उवास, प्रायोऽनुभूतपञ्चाशद्- वसन्तः, तदा स्वगुरूणां महीशूरनगरे राजगुरुपदवीमधिरुह्य महाराजेन सम्मानितानां नृपसभे लब्धप्रथमासनानाम्, राजानुरोधेनैव कूडली - शृङ्गेरीमठपतित्वेन पारमहंस्याश्रमं प्रविविक्षूणां श्रीविरूपाक्षशास्त्रिणां सन्देशमेकं प्राप नारायणाचार्यः । सन्देशपत्रं शिरसि निधाय उद्घाट्य चाऽवृतिपत्रं सन्देशं पपाठ । तत्रैवं लिखितमासीत् - वत्स नारायण, प्रीति- सम्भृता आशिपः । बहोः कालादिदं पत्रं प्रेप्यते । प्रवयसो जीर्णा वयम् । जरद्गवा न भारवहनस्य किलेशते । भवान् मध्यं वयः प्रपन्नोऽपि

सङ्क्षिप्तमितिवृत्तम्

[[३५]]

कुशलीति मन्यामहे । सम्प्रति वयं राजगुरुपदवीतः निविवर्तिषामहे । महाराजानुरोधेन तुरीयाश्रमं स्वीकर्तुमुद्युआमहे । निवर्तमानाना- मप्यस्माकमेका कामना बाधते । सा भवता पूरणीया । राजगुरुपदवीं भवति निधाय निश्चिन्ता वयं निवर्तामहे । एहि वत्स, महीशूरपुरं प्रति । स्वीकुरु राजगुरुपदवीम् । पूरय नः कामनाम् । तस्याः पदव्याः भवतोऽपि युक्ततरमन्यं न पश्यामः । तस्माद् भवानेवमनुरुद्ध्यते । सपदि भवतः प्रत्युत्तरं निरीक्षामहे’ इति ।

[[1]]

अहो! किमुत्तरं स्यादाचार्यस्य ? सर्वामपि लौकिकीमाशामतीत्य तस्थौ तत्रभवान् नारायणाचार्यः । सर्वथा लोभनीयेनापि गुरुसन्देशेन नाऽचार्यो लुलुभे । न किञ्चिदपि विचकम्पे । स प्रत्युत्तरं प्रेषयामास-

‘गुरुचरणयोः प्रणाममाला । तत्रभवतां निदेशादधिगतः किङ्करेऽस्मिन् वात्सल्यातिशयः । अधमर्णोऽहम् । किन्तु अत्र रजतपीठपुरे मध्व- प्रतिष्ठितात् श्रीकृष्णराजादृते नान्यं कञ्चन मानुषं राजानं सिषेविषते मे मनः । तस्मादसमर्थोऽस्मि भवदाज्ञापालने । क्षम्यतां क्षुल्लशिष्यस्या- यमपराधः’ इति

यामन्ये प्रपदे स्थित्वा प्रतीक्षेरन् तां पदवीमाचार्यस्तृणायापि न मेने । इदमाचार्यचरितं पिङ्गलोपाख्यानवचनं स्मारयतीव - ‘आशा हि परमं दुःखं नैराश्यं परमं सुखम्’ इति ।

आचार्यदिनचर्या

आचार्यस्य दिनचर्या अनुष्ठाननिष्ठुराऽपि नियतिबद्धा बभूव । उषःकालात् किञ्चिदर्वागेवोत्थानम् । प्रातः स्मरणम् । कृताशौचस्य मध्वसरोवरेऽ-

[[३६]]

तर्ककेसरी पडमुन्नूरु नारायणाचार्यः

वगाहनम् । ततो गृहमेत्य प्रातः सन्ध्या । कुलदेवताया नवनीतकृष्णस्य पूजा । आ सूर्योदयनं तैत्तिरीयसंहितायाः पठनम् । ततः प्रत्यहमेकैकस्य गीताध्यायस्य पठनम् । इत्थमवसितं प्रातरनुष्ठानम् ।

I

ततो दण्डपाणिना घटिकाद्वयं बहिः परिक्रमविहारः । तदिदं नियतं व्यायमनमाचार्यस्य । तेन स प्रवयस्यपि दृढकाय आस । नातिस्थूलं नातिकृशं न्यग्रोधपरिमण्डलं शरीरम् । सिंहसंहननोंऽसलः स्वयमभुग्न- पृष्ठश्चापिचण्डिलश्च, निम्ननाभिर्वलिनो दर्शनीयतमः । धीरोद्धता गतिः । परिक्रमान्निवृत्तस्य प्रथमं कर्म महाभारतपठनम् । न केवलं यान्त्रिकं पठनम् । तच्चरित्रं स्वयमनुभवन्निव, साक्षात्कुर्वन्निव, तस्यां घटनायां स्वयमपि पात्रभागिव, भूतपूर्वं स्मरन्निव साश्रुपातं सगद्गदस्वरं स्वदमानः पठति स्म ।

ततः समागत्य प्रतीक्षमाणानां छात्राणां शास्त्रपाठनम् । बहवो वयोवृद्धा अप्यन्तेवासिनो बभूवुः । अधीतमप्याचार्यमुखादधिगन्तव्यमिति त्वरा ।

यदा सूर्योदयात् पञ्चदश घटिकाः, ललाटन्तपः सविता, तदा माध्याह्निकी पूजा, प्रार्पणभोजनम्, ततः पञ्चदश निमेषान् वामकुक्षिः सुखशायिका, पत्रिकाद्यवलोकनम्, दर्शनार्थमागतैः सह मितं सम्भाषणम्, शास्त्रावमर्शः, आसायं रामनामजपश्च । प्रत्यहं षष्टिसहस्रवारं रामनामा- वर्तनं तस्य नियतं कर्म । ततः सायं सन्ध्या, रात्रिपूजा, तक्राक्त- लाजाशनम्, ततः स्वापः । प्रकृतिरियमाचार्यस्य यदेवं नियतं जीवनम् ।

मम तारुण्ये निर्वृत्तः कश्चन प्रसङ्गोऽत्र स्मर्तव्यः । नक्तं शय्यायामासीनः कञ्चन ग्रन्थं पठन्नासम् । ग्रन्थास्वादेन समयातिपातं व्यस्मरम् ।

सङ्क्षिप्तमितिवृत्तम्

[[३७]]

‘अविदितगतयामा रात्रिरेव व्यरंसीत्, न पठनम् । अरुणोदयवेला । अहमलिन्दके मञ्चगतः पठन्नेवासम् । मम तातपादस्तत्रभवानाचार्यः शयनादुत्थाय विहितप्रातःस्मरणः स्नानार्थं प्रस्थितः स्नानवासः परिग्रहीतुं प्रकोष्ठं प्रविवेश । अहं विनिद्रः पठन्नेवाऽसम् । मां निशाम्य तत्र- भवानाचार्यः परिजहास-‘अरे वत्स, प्रातरासीत् । निशाचरस्य ते शयनक्षणः । इतः सुखं शय्यताम् । सुप्रातं ते दिनं भवतु’ इति ।

चरमदिनानि

यदाऽऽचार्योऽशीतिं वसन्तानतीयाय, निवृत्तबाह्यव्यापारः नितरामन्त- र्मुखो बभूव । अरतिर्जाता जनसंसदि । ततः ‘अम्बलपाडि ’ ग्राममागत्य तत्र मया सह स्वनिर्मिते गृहे न्युवास ।

साऽप्यन्या कथा । पञ्चाशद्वर्षेभ्यः पुरा कश्चिद् घट्टोपरिवासी नरसिंगराव्- नामकः षष्टिहायनो द्विजः सहभार्यया रजतपीठमाजगाम । स किलाऽङ्ग्लसर्वकारेण महत्यधिकारे नियुक्तः, आङ्ग्लभाषायां परिणतः, स्वाधिकारं निर्वर्त्य निवृत्तः, स्वयमनपत्यः, नारायणपण्डिताचार्यस्य प्रथितं पाण्डित्यं निशम्य तन्निकटे शास्त्रमधीतुकाम इहागतः ।

आचार्यस्तं शिष्यत्वेन परिजग्राह । पाठार्थं बहून् वत्सरानत्रैव स्थातव्यम् । वृद्धौ च दम्पती । आचार्यः स्वयमेवं विचार्य अम्बलपाडिग्रामे स्वकीये विशाले निष्कुटे साट्टालकं हर्म्यमेकं निर्माय तस्य वासार्थं प्रददौ । तदिदं महद् हर्म्यं न स्वपुत्रार्थं निरमायि । किन्तु शिष्यार्थम् । स द्विजः तज्जाया च बहूनि वर्षाण्यत्रैव सुखमूषतुः । अत्रैव स्वेच्छया राघवेन्द्रस्वामिनां

[[३८]]

तर्ककेसरी पडमुन्नूरु नारायणाचार्यः

वृन्दावनमेकं प्रतिष्ठाप्य निर्गतौ मम्रतुश्च । हन्त, तत्रभवानाचार्यः स्वचरम- दिनेषु पुत्रेण मया सह तदेव गृहमध्युवास ।

नाहं जानामि किञ्चन

अथाऽचार्यः सर्वात्मनाऽन्तर्मुखो बभूव । तथाऽपि यदाकदाच शास्त्रप्रमेयमधिगन्तुम्, क्वचिदाचार्याशयमवगन्तुम्, कचिद् विशयनिरासेन प्रमेयं निर्णेतुम्, क्वचिदपि स्वाशये आचार्यगमनमावर्जयितुम्, कचिदा- चार्यवचःसंवादेन स्वाभिप्रायं द्रढयितुं भूयांसो विद्वांसः चिचर्चपियन्ते स्म । प्रायस्तान् निवारयितुं स्यादिति भासते, आचार्यः जिज्ञासयाऽऽगतान् सर्वान् प्रति एवं वक्तुमारभत- ‘न मां किमपि पृच्छत । सर्वमधीतं विस्मृतं मया । नाहं जानामि किञ्चन’ इति ।

गुरुस्मरणगरिमा

एवं स्थिते महीशूरनगरात् कश्चन विप्रः समागतः । आचार्यः पप्रच्छ-‘को भवान्? कुत आगतम् ? '

आचार्योऽशीतिमतिगतः । सोऽपि षष्टिमतिगतः । स सप्रश्रयमुवाच - ‘अहं यज्ञेश्वरशास्त्रीति मैसूरुनगरादागतः । चतुर्दशलक्षणी अध्येतव्येति मनीषा बहोः कालादासीत् । तदपि श्रीविरूपाक्षशास्त्रिणां सविध एवाध्येतव्यमिति च । अतो मम तारुण्ये तत्समीपमगमम् । अभ्यर्थयामास च तान् महाभागान् तर्कपाठनेन मामनुग्रहीतुम् ।

‘ते प्रेम्णा प्रतिजगदुः - ‘वत्स यज्ञेश्वर, जरसा जीर्णोऽहम् । कुण्ठिता शक्तिर्देहे । तेनासमर्थोऽस्मि पाठने । अन्योऽप्यस्ति मत्सदृशः पाठनेऽ-

l

सङ्क्षिप्तमितिवृत्तम्

[[३९]]

द्वितीयः महाविद्वान् नारायणाचार्य इति । स मदन्तेवासी । पाठने मत्तोऽनवमः । स सम्प्रति रजतपीठपुरेऽस्ति । तत्र गच्छ । तं ब्रूहि मयोक्त- मिति । स त्वां पाठयति । मदीयपाठसारस्यं तन्मुखेनाऽस्वदस्व ’ इति ।

’ तदानीं कस्मिंश्चिदुद्योगे व्यापृत इति इहागत्य भवत्सकाशेऽध्येतुं नावकाशो बभूव । सम्प्रति निवृत्त इत्यागन्तुं प्राभवम् । तेन प्रार्थ्यते तत्रभवान् विरूपाक्षशास्त्रिणामाज्ञानुसारेण चतुर्दशलक्षणीं भवान् कृपया पाठयतु’ इति ।

आचार्यो विस्मित इव पप्रच्छ-

‘किं मद्गुरुभिः श्रीविरूपाक्षशास्त्रिभिराज्ञप्त इहाऽगमः? ’

‘आम् आचार्य ।’

‘कृतज्ञतामर्पये । यद् भवता गुरवः स्मारिताः । गुरुस्मरणेन विस्मृतं सर्वं पुनः स्मरामीव। वृद्धोऽपि गुरूणामाशिषा युवेव संवृत्तः । श्वस्त एव पाठः प्रारभ्यते । श्वः प्रगे आगम्यताम् ।’

स द्विजः प्रणिपत्य सिद्धसमीहितः समुल्लसितो जगाम । आचार्यः मामाहूयोवाच–‘गोविन्द, स द्विजः श्व आगमिष्यति । ऋते पुस्तका - दिहाऽगतः। अस्मदीयं चतुर्दशलक्षणीगदाधरीयं श्वस्तस्य दीयताम् ’ ।

ओमित्यङ्गीकृतं मया ।

श्वस्तने प्रभाते स द्विज आगतः । गदाधरीयं च तस्मै प्रादाम् । अथापि काऽपि शङ्का मामबाधत । तातपादः सर्वदा भणति - ‘न किञ्चित् स्मरामि । मा कोऽपि किमपि प्राक्षीत् । रामशब्दस्य विभक्तीरपि व्यस्मरम् । का कथा शास्त्रविषयाणाम्’ इति ।

[[४०]]

तर्ककेसरी पडमुन्नूरु नारायणाचार्यः

तर्हि कथं गदाधरीयान् क्लिष्टान् परिष्कारान् पाठयति ? कथं शाब्दबोधं विवृणोति? कथं पदकृत्यं वर्णयति?

बालकथामिव कथयामास

अद्भुतम् ! न किञ्चिद् विस्मृतमाचार्येण । सर्वं क्लिष्टं प्रमेयजातं काक- कलविङ्ककथामिव पुस्तकनिरपेक्षं सलीलं निरायासं विस्तारयामास । सप्ताष्टानि वा अष्टदशानि वा दिनान्येवं निरातङ्कं पाठोऽन्ववर्तत । अवसितपाठः यज्ञेश्वरशास्त्री आचार्याय कृतज्ञतां समर्प्य स्वयं जन्मनः कार्तार्थ्यमनुभवन् स्वदेशं प्रति निववृते ।

इदानीमपि मम कुतूहलस्य नोत्तरमलब्ध । न विचिकित्सा पर्यहार । किमाचार्यः सर्वं स्मरन्नपि पृच्छकजननिवारणाय वृथैव प्राह- न किञ्चित् स्मरामीति, आहो गुरुचरणानां श्रीविरूपाक्षशास्त्रिणां स्मरणेन सद्यः सर्वं प्रत्यभादिति । भगवानेव जानाति ।

S

गुरुविरहे रुरोद सस्वरम्

आचार्येण राजगुरुपदवीनिराकरणानन्तरं कतिपयाहस्सु श्रीविरूपाक्ष- शास्त्रिणः महाराजस्य महताऽनुरोधेन निर्बद्धा इव श्रीवालुकेश्वरभारती इतिसुगृहीतनामधेयाः कूडलीशृङ्गेरिसंस्थानमधिरूढाः सन्न्यासदीक्षिता बभूवुः ।

श्रीचरणानामारोग्यं प्रत्यहं जह्रास । तदा आचार्याय श्रीचरणैः पुनरेकं पत्रं प्रेषितम् । तत्रैवं सन्दिष्टम्– ‘श्रीचरणानामारोग्यं श्लथमानं वर्तते । गुरव - स्तत्रभवन्तमाचार्यं दिदृक्षन्ते’ इति ।

सङ्क्षिप्तमितिवृत्तम्

[[४१]]

आचार्यः मञ्जु प्रस्थानाय समनह्यत । यावत् त्वरमाणः प्रतिष्ठते तावत् तन्तिवार्ता समागता - ‘गुरवो हरिपदं गताः’ इति ।

दीर्घः प्रवासः । ततोऽन्त्यदर्शनमपि दुःशकम् । गुरुविरहं सोढुम- प्रभवन्नाचार्यः शिशुक इव मुक्तकण्ठं रुरोद - ‘अहो मे दुर्भगता । गुरवो मां द्रष्टुमैच्छन् । कुतो मे तादृशं भागधेयम् । पुण्यहीनोऽहम् । दैवहतकोऽहम् । किं मया वृजिनं कृतम्, यद् गुरूणामन्त्यदर्शनमपि दुर्लभमास । हा धिङ् माम्’ इति ।

धीरोऽयमाचार्यः यः स्वसन्तानेषु म्रियमाणेष्वपि नाश्रूण्यवर्तयत्, नोच्चै रुरोद, सोऽयं गुरुमरणेऽन्तः सम्भृतं दुःखं निरोद्धुमप्रभवन् बालानामस्माकं पुरतः आस्रैरात्मानं स्नापयामास । मुक्तकण्ठं रुरोद ।

नक्तं न क्वापि गन्तव्यम्

अथाऽचार्यश्चतुरशीते वयसि स्थितः । १८९६ तमं शा. शकवर्षम् (क्रि.श. १९७४) । कार्त्तिके मासि पूर्वपक्षप्रतिपत् । आचार्यस्य ज्येष्ठपुत्रः रामाचार्यः ‘उदयवाणी’ पत्रिकायाः यः सहायसम्पादक आस, स प्राह्णे पत्रिका- लयगमनात् पूर्वं पितरं द्रष्टुं स्वगृहादस्मद्गृहमागतः । प्रत्यहमेवमागत्य तातस्य योगक्षेमं विचार्य कार्यालयं गच्छति स्म ।

पितरं दृष्ट्वा प्रस्थितं तमाचार्य उवाच - ‘राम, अद्य सायं कार्यालयादागतः स्वगृहं मा स्म गच्छः । इहैवाऽगच्छ । नक्तमत्रैव स्थातव्यम्’ इति ।

कार्त्तिकस्य सितप्रतिपत् । तुलसीपूजारम्भदिनम् । पर्वदिनेऽस्मिन् स्वगृहे सर्वे प्रतीक्षन्ते । अथापि तातो ब्रवीति - स्वगृहं प्रति न गन्तव्यमिति । किं

[[४२]]

तर्ककेसरी पडमुन्नूरु नारायणाचार्यः

कारणं स्यात् ? को जानीते ? अथापि तातवचनं न शक्यं निराकर्तुम् । यद्

भवति तद् भवतु । सर्वथाऽगन्तव्यमिति निश्चिकाय रामाचार्यः ।

[[1]]

‘आगमिष्यामि’ इति पितरमुक्त्वा वन्दित्वा निर्जगाम ।

तातान्तेवासी श्रीनिवासभट्ट इति कश्चिद् विप्रः अस्मद्गृह एवोवास तातं

शुश्रुषमाणः । सोऽपि तस्मिन् दिने स्वगृहं जिगमिषुरासीत् - पर्वदिने पत्नीपुत्रैः सह तिष्ठासुः ।

सोऽप्याचार्यं निवेदयामास - ’ आचार्य, अहमद्य गृहं जिगमिषामि । तुलसीपूजापर्वदिनं किल?’

आचार्यः पप्रच्छ—‘कदा पुनरिहाऽगमनम् ?

भट्ट उवाच - ‘श्वः’ ।

आचार्यः स्फुटमुवाच–‘नहिनहि, अद्यैव नक्तमिहाऽगन्तव्यम् । आचार्यस्य दृढ आदेशः ।

सोऽपि सन्दिहान इव, असन्तुष्टमना इव, अथाप्यनुल्लङ्घनीयतया तातवचनस्य कृच्छ्रेण ओमित्युक्त्वा निरगच्छत् ।

I

न कोऽपि विजज्ञौ किमर्थमेवमाचार्यः सर्वान् नक्तमागन्तव्यमिति निर्बभ्रातीति । को ज्ञातुमीष्टे महतामाशयस्य ? किमपि स्यात् सन्देष्टव्यम्, सम्प्रत्यनाख्येयम्, नक्तमेवाऽविष्कर्तव्यम् । एवमालोच्य सर्वे वयं तूष्णीमतिष्ठाम ।

आचार्यस्य ग्रन्थरचनाशैली

न्यायामृतकुल्या (प्रथमकृतिः) संस्कृतव्याख्ययाऽर्थद्योतनिकया सहिता

मङ्गलपद्यानि-

सर्वाम्नाय-वचोजुषेऽखिल-पुषे सद्गम्य-कंस-द्विषे गो-व्यूहार्ति-मुषे समस्त - विदुषे संशान्त - गोपी- तृषे । नृणां पाप-मुषे नवाभ्र-वपुषे श्री - युक्ततासेदुषे

कृष्णेत्यक्षर-जग्मुषे नम इदं ब्रूमः परञ्ज्योतिषे

तेजःपुञ्जविराजिने सुगुणिने मायामतध्वंसिने

पाषण्डौघविखण्डिने विजयिने स्वान्तस्तमोभेदिने ।

मध्वेत्यक्षरशालिने सुकृतिने ब्रह्मैकनिष्ठात्मने

सद्धृत्सम्मददायिने नम इदं ब्रूमो भिदावादिने

न्यायामृतकुल्यां तां कुरुते कृपया सुधीर्गवीशस्य । आचार्याणां नयतो ज्ञीप्सूनां सिद्धये सुखतः

॥ १ ॥

॥२॥

11 3 11४४

गङ्गाजलपूर्णं कलशमादाय तातसकाशमाधावम् I कलशस्य पिधानमपसार्य उद्धरण्या गङ्गोदकमपाययम् ।

तातः व्यादाय वदनं पपौ गङ्गाजलम् । अन्तःकण्ठं ‘गुटक्’ इति जलनिर्गमनध्वनिरप्यश्रावि । चक्षुषी उन्मील्य आशीर्भिरभिषिञ्चन्निव नः सर्वान् क्षणं निशामयामास । तत उपधाने शिर आधाय चक्षुषी न्यमीमिलत् । अस्तङ्गतो ज्ञानसूर्यः । अनाथा जाता नवीनन्यायपरम्परा । द्युलोकमाचक्राम विद्वत्कुलभीष्मः ।

श्रीकृष्णवचनं स्मरन्तो विरमामः-

‘तस्मिन्नस्तं गते भीष्मे कौरवाणां धुरन्धरे ।

‘Elgeri ufuif……….’ ॥

आचार्यस्य ग्रन्थरचनाशैली

न्यायामृतकुल्या (प्रथमकृतिः) संस्कृतव्याख्ययाऽर्थद्योतनिकया सहिता

मङ्गलपद्यानि-

सर्वाम्नाय वचोजुषेऽखिल-पुषे सद्गम्य-कंस - द्विषे गो-व्यूहार्ति-मुषे समस्त - विदुषे संशान्त - गोपी- तृषे । नृणां पाप-मुषे नवाभ्र-वपुषे श्री - युक्ततासेदुषे कृष्णेत्यक्षर-जग्मुषे नम इदं ब्रूमः परञ्ज्योतिषे

तेजःपुञ्जविराजिने सुगुणिने मायामतध्वंसिने

पाषण्डौघविखण्डिने विजयिने स्वान्तस्तमोभेदिने ।

मध्वेत्यक्षरशालिने सुकृतिने ब्रह्मैकनिष्ठात्मने

11 2 11

सद्धृत्सम्मददायिने नम इदं ब्रूमो भिदावादिने

॥२॥

न्यायामृतकुल्यां तां कुरुते कृपया सुधीर्गवीशस्य ।

आचार्याणां नयतो ज्ञीप्सूनां सिद्धये सुखतः

11 3 11

नास्त्यस्मिन् पक्षपातो मम निखिलजगत्सत्यतावादिशास्त्रे

श्रुत्या युक्त्या च मत्या विहिततरवचोगुम्फिते युक्ततैव । दृष्टः सत्पक्षपातो न पुनरवगतः क्वाप्यसत्पक्षपातः पक्षोऽसन्मेऽत्र मानं जगाति नयनवान् तेन मेऽत्र प्रवृत्तिः

118 11

[[४६]]

एतत्पद्यं स्वयमाचार्य एवैवं स्वकृतव्याख्यायामर्थद्योतनिकायां व्याचख्यौ । तद्यथा-‘ग्रन्थकरणे श्रुतिः युक्तिः तदविरुद्धा मतिश्च एताभि- युक्ततरत्वमेव निमित्तम् । नतु पक्षपात इति समुदितार्थः । स्वस्यास्मिन् ग्रन्थे पक्षपाताभावमर्थान्तरेण दर्शयति- दृष्ट इति । सत्पक्षपातो दृष्टः । सति शास्त्रे बहूनां पक्षपातः दृष्टः । काप्यसति बौद्धादिशास्त्रे कस्यापि पक्षपातः पुनर्नावगत इति एको यथाश्रुतोऽर्थः । अपरस्तु सतो विद्यमानस्य पक्षस्य पातो दृष्टः । असतः अविद्यमानस्य पक्षस्य पातो नावगत इति । नहि क्वापि गगनारविन्दपतनं नयनसरणिमारूढम् । कुतः ? अविद्यमानत्वात् । एवं प्रकृतेऽपीति भावः । ततः किमित्यत आह- पक्षोsसन्निति । मम च पक्षः असन् अविद्यमानः नास्तीति यावत् । तत्र किं मानमिति चेदाह- मानमिति । अत्र चक्षुष्मानेव मानं साक्षीत्यर्थः पर्यवसन्नः । तेन युक्तत्वेनेत्यर्थः ॥ ४ ॥

पक्षः सन्द्वैतीयो नान्यः सन्नत्र साक्षिणी युक्तिः पूर्वोत्तराविरोधा नीत्या युक्ता दशप्रमतेः

नाहं शेषगवीषु जागरमतिर्न न्यायचातुर्यवान्

नाम्रायस्मृतिलोडने च निशिता प्रज्ञा न वैयासिके । किन्तु श्रीमदनन्तसन्ततकृपासन्तानसम्पूरिता

॥५॥

वाणी मे जयतात् प्रसन्नहृदये या काsपि विद्वन्नृणाम्

॥ ६॥

पद्यमिदं ‘न शब्दाब्धौ गाठा नच निगमचर्चासु चतुराः’ इति न्याय- सुधावचनमनुकरोतीव ।

एतत्पद्यखण्टं न्यायरत्नावलीव्याक्यायां प्रकाशसङ्ग्रहाख्यायामाचार्यः स्वयमेव व्याचख्यौ–‘अत्र श्रीमतोऽनन्तस्य तन्नामकपितुः, देवदेव-

सङ्क्षिप्तमितिवृत्तम्

[[४७]]

स्यानन्तपद्मनाभस्य वा, श्रीमतामादिगुरूणां विद्यागुरूणां वा अनन्ता

सन्ततकृपेति वा’ इति ।

गन्थान्ते चेदं मङ्गलपद्यम्-

अनन्तगुणसद्धाम्ने त्रिधाम्नेऽनन्तमूर्तये । गोपीजनमनोधाम्ने भूम्नेऽनन्ताय ते नमः ॥

तद्वाख्यायामर्थद्योतनिकायां चेदं चरमपद्यम्-

नामंनाममहीशकञ्जनिलयावक्षोजदुग्धाम्बुधि- ब्रह्माद्यैः कृतमञ्चकन्दुकगृहप्रैष्यं रमावल्लभम् । तत्कारुण्यकटाक्षतो विरचिता व्याख्या मया पूरिता

ह्यर्थद्योतनिकाभिधा भवतु सा विद्वन्मनोरञ्जिता ॥

आचार्यरचनासु श्रीवादिराजपूज्यचरणानां काव्यशैलीपरिपाकस्य प्रभावः स्फुटं दृश्यते ।

आचार्यस्य वेदान्तवादेष्वपि तर्कजटिला शैली स्फुटं दृश्यते । यथा मिध्यात्वानुमानपरिष्कारे-

‘अत्र च ब्रह्मप्रमेतराबाध्यत्वे सति ब्रह्मभिन्नत्वे सति असद्विलक्षणत्वे सति विश्वं नाम वियदादिकम् । ब्रह्मविशिष्टविश्वं पक्ष इत्यर्थः । विश्वस्मिन् ब्रह्मवैशिष्ट्यं च स्वप्रमेतरबाध्यत्वसम्बन्धावच्छिन्न- स्वनिष्ठावच्छेदकताक- प्रतियोगिताकभेदवत्त्व-स्वभिन्नत्वस्वसमानकालीनासद्विलक्षण-त्वैतत्- त्रितयसम्बन्धेन । अवच्छेदकावच्छेदेन तद्वत्ताबुद्धिं प्रति अवच्छेदका -

[[1]]

[[४८]]

वच्छेदेन तदभाववत्तानिश्चयः, सामानाधिकरण्ये तदभाववत्तानिश्चयोऽपि प्रतिबन्धक इति तद्वत्ताबुद्धिं द्वावपि निश्चयौ प्रतिबध्नीतः……….’ इत्यादि।

अर्थद्योतनिकायाः मङ्गलपद्यानि -

‘देवदेवं वासुदेवं गोपी-जन- मनः प्रियम् । ‘जननीं सर्व-जगतां रमां मङ्गल - देवताम् ॥

‘पवनं श्रीमदाचार्यमाचार्यानीं च भारतीम् । ‘सन्नमामि दयापूर्णा दिशन्तु मम सद्धियम् ॥

’ हयग्रीवेति यो वक्ति तस्य गङ्गेव पावनी । ‘आस्यान्निस्सरते वाणीत्येवं यो वक्ति मे

गुरु ॥

‘ग्रन्थादौ तां गुरोर्वाणीं स्मरन्नयमहर्निशम् ।

‘तं देवं तं गुरुं वाऽपि विनाऽन्यं प्रणमेत् कथम् ॥

एतान्येव पद्यानीषद्व्यत्यासेन न्यायरत्नावलीटीकारम्भे च पठ्यन्ते ।

एषु पद्येषु वादिराजश्रीचरणानां प्रभावः परिस्फुटो दृश्यते । तथाहि वादिराजश्रीचरणानां वचनानि-

‘आचार्यः पवनोऽस्माकमाचार्यानी च भारती । ‘देवो नारायणः श्रीमान् देवी मङ्गलदेवता’ इति,

’ हयग्रीव हयग्रीव हयग्रीवेति यो वदेत् ।

‘तस्य निःसरते वाणी जह्नुकन्याप्रवाहवत्’ इति च ॥

सङ्क्षिप्तमितिवृत्तम्

न्यारत्नावळीटीकाया द्वितीयसरारम्भे-

‘गगनमणिजिघृक्षोश्चापलाद् वादिराजाः ‘प्रथमसरवगाहे दत्तहस्तावलम्बाः । ‘पुनरपि करुणार्द्रा दत्त हस्तावलम्ब-

‘मपरसरवगाहे दुर्धिया प्रोद्यतस्य’ इति ।

तृतीयसरारम्भे-

“गुरुवर तव सा कृपार्द्रदृष्टि-

‘र्मम हृदयमलीमसानि भिन्ताम् ।

‘उभयसरवगाहने कृतेऽपि

‘न भवति विमलो ममान्तरात्मा’ इति ।

चतुर्थसरारम्भे-

‘गुरूत्तंसो वादिराजः करोत्यंहोनिवारणम् । ‘भिनत्तु मतिदारिद्र्यं युनक्तु सुधियं मयि’ इति ।

पञ्चमसरारम्भे-

‘क्व सूक्तिरत्नमाला ते वाणी काचमणिः क्व मे । ‘तथाऽपि योजयंस्तस्यां तमद्य त्रिजगद्गुरो ॥ ‘यास्यामि हास्यपदवीं न विदूये तथाऽप्यहम् । ‘सर्वं च बालचरितं रमणीयं यतो विदुः’ इति ।

एवं सङ्ग्रहार्थसङ्ग्रहस्य मङ्गलपद्यम्-

[[५०]]

‘गोपीजनेशकृपया नारायणपदी कृती ।

‘तनुते सङ्ग्रहार्थस्य नवं किमपि कौतुकम् ’ इति । एतद्गन्थरचनकारणं चोपसंहारपद्येषु-

‘नारायणेति सन्नाम्नां पश्चिमालयवासिनाम् । ‘बल्लाळोपपदानां तु प्रार्थनानुसृतेः कृते ॥

‘कल्पवृक्षगृहावर्तिदेवालयकृतस्थितेः । ‘देवदेवस्य पुरतचन्द्रचूडमहात्मनः ॥

‘तद्दयारचितस्सोऽयं सङ्ग्रहार्थस्य सङ्ग्रहः । ‘गोपीजनेशपदयोः भक्त्यादरसमर्पितः ॥

‘प्रीयेतां तेन देवेशौ भारतीकमलाप्रियौ । ‘अनन्तकारुण्यनिधी अनन्ततनुजन्मनः ॥

‘नारायणेतिसन्नाम्नस्त्रिशतग्रामवासिनः ।

‘दद्यातामनवद्यां तां हृद्यां विद्यां विमुक्तिदाम् ॥

उडुपीक्षेत्रे प्रसिद्धस्य श्रीचन्द्रमौळीश्वरस्य मन्दिरे पूर्वं संस्कृतमहा - पाठशाला प्रावर्तत । तत्रैवास्य ग्रन्थस्य च निर्माणमासीदित्येभि- रुपसंहारपद्यैरवगम्यते–‘देवदेवस्य चन्द्रचूडस्य पुरतः’ इति ।

पद्मश्री डा. बन्नओ गोविन्दाचार्याः

कर्णाटकस्य अभिमानभाजनं विद्यावाचस्पति डा. बन्न गोविन्दाचार्याः दिगन्तविश्रान्तकीर्तयः विद्वत्कुलचक्रवर्तयश्च । पद्मश्रीबिरुदेन विभूषिताः डा. बन्नओ गोविन्दाचार्याः वेद- वेदान्तादिशास्त्रेषु अद्वितीयविद्वांसः, अभिजातकवयः, शताधिक- ग्रन्थकर्तारः, विशिष्टाः वाग्मिनश्च । कर्णाटकस्य उडुपिप्रान्ते १९३६तमे वर्षे पण्डितराजपडमुन्नूरुनारायणाचार्याणां पुत्रत्वेन लब्धजन्मान आचार्याः स्वप्रतिभया पाण्डित्येन प्राप्तयशसः नैकैः ग्रन्थैः सहस्रशः प्रवचनैश्च विशिष्टमाचार्यमध्वकृतसर्वमूलग्रन्थ- संशोधन-सम्पादन - प्रकाशनकर्मणा विश्वविख्याताः जाताः । वेदवाङ्मये आचार्याणां योगदानं अनितरसाधारणम् । बाणभट्टस्य कादम्बर्याः, काळिदासीयशाकुन्तलस्य, भवभूतेः उत्तरराम- चरितस्य, शूद्रककृतमृच्छकटिकस्य एभिरेव विद्वद्भिः विहितैः कन्नडानुवादैः कन्नडसाहित्यलोकः श्रीमान् अभवत् । द्वैताद्वैत- विशिष्टाद्वैतमतप्रवर्तकस्य आचार्यत्रयस्य जीवितमधिकृत्य संस्कृत- चलनचित्रनिर्माणेऽपि आचार्याणां कौशलं दृष्टचरम् । तेषां सारस्वत- सेवामनुलक्ष्य भारतसर्वकारेण पद्मश्रीगौरवसम्माननं प्रदत्तम् । मङ्गळूरुविश्वविद्यालयेन गौरवडाक्टरेट् उपाधिः प्रदत्तः । कर्णाटक- राज्यसर्वकारप्रशस्त्या केन्द्रसाहित्याकडमीपुरस्कारेण च सभाजिताः आचार्याः नैकमठाधिपतिभिरपि सम्मानिताः ।

पडमुन्नूरुनारायणाचार्यः

Rs.50/-

कर्णाटकराज्यस्य सुदीर्घे वाद्ययेतिहासे अतिविशिष्टेन योगदानेन

विद्यन्ते

इदं संस्कृत

नक्षत्रायमाणाः अनेके महान्तः संस्कृतसाहित्येतिवृत्तं स्वातन्त्र्यपूर्वकालीनयुगस्य साहित्येतिहासं समीचीनतया चित्रयति। किन्तु स्वातन्त्र्यसङ्ग्रामस्य कालघट्टे प्रवृत्तस्य संस्कृतसाहित्यसर्जनस्य इतिवृत्तरचना सम्यक् न जाता । कालक्रमेण इदम् अन्धकारयुगमिव सम्पद्येत कदाचित् । अस्मात् कारणात् १८५० तः १९५० पर्यन्तम् एकस्य शताब्दस्य कालखण्डे कर्णाटकस्य विविधेषु प्रदेशेषु निवसतां संस्कृतवाङ्मयस्य महत्तां वर्धयितुं कारणीभूतानां महतां योगदानविषये, तेषां जीवनगाथाविषये च शतं पुस्तकानि प्रकाशनीयानि इति अस्माकम् आशयः । अनया योजनया संस्कृतवाङ्मयस्य नवेतिहासः निर्मितः भविष्यति। एतेन, आधुनिकयुगेन सह गतशताब्दस्य सांस्कृतिकबन्धोऽपि दृढो भविष्यति इति मे विश्वासः ।

अस्यां ग्रन्थमालायां पद्मश्री डा.

डा. बन्नञ्जे गोविन्दाचार्यमहोदयेन विदुषां पडमुन्नूरु नारायणाचार्यमहोदयानां संस्कृतयोगदानमधिकृत्य विरचितं पुस्तकमिदं प्राकाश्यं नीयते। विद्वद्वरेण्यः पद्मश्री डा. बन्नञ्जे गोविन्दाचार्यमहोदयः निरन्तरं संस्कृतशास्त्रसेवायां रतः शताधिकप्रबन्धकर्ता अस्माकं प्रार्थनानुरोधेन ग्रन्थपुष्पिकामिमां अल्पे काले विरचय्य प्रदत्तवानिति तस्मै महाभागाय कार्तज्ञ्यं निवेदयामः ।

प्रो. मल्लेपुरं जि. वेङ्कटेशः, डि लिट्

कुलपतिः