३७ ‘कादम्बरी’ एका समीक्षा

डा. सुशीलेन्द्राचार्यः गोग्गि

बन्नञ्जे गोविन्दाचार्यः न केवलं माध्ववेदान्ते कृतभूरिपरिश्रमः, स्वयं कविः, विमर्शकश्च वर्तते। संस्कृतसाहित्यप्रपञ्चे एका भणितिः प्रथिताऽस्ति

  • ‘गद्यं कवीनां निकषं वदन्ति’ इति। तथैव - कादम्बरीरसज्ञानाम् आहारोऽपि न रोचते। तेन इदं ज्ञायते - संस्कृतसाहित्ये गद्यरचना, तदर्थावगमश्च नैव सुलभः, तद्विषयम् अनुलक्ष्य अाचार्यः बाणभट्टस्य कादम्बरीं विमृशति। तत्र पीठिकाभागे संस्कृतसाहित्यस्य गद्यरचनायाः विषये लिखति- कस्यचनाऽपि देशस्य साहित्यं तदीयराष्ट्रीयगरिम्णः भवति दोधूयमानं देदीप्यमानं च ध्वजम् । तद्भवति समाजस्य दर्पणः । समाजस्य सर्वासामपि भावनानां किञ्च परिवर्तनशीलानां विचारधाराणां तत्र प्रतिबिम्बितत्वात् ।

तस्मात् कश्चित् भारतीयसमाज-भावना-रीति-कलापं ज्ञातुं कामयते तदा संस्कृतसाहित्यम् अनुशीलयेत्। यतो हि-संस्कृतसाहित्ये यत्र उत्कृष्टोत्कृष्टतराणि महाकाव्यानि रूपकाणि गीतकाव्यानि च शोभन्ते तत्रानवद्या रमणीयगद्यरचनाश्च भूयस्यः परिस्फुरन्ति ॥

संस्कृतसाहित्ये दण्डी, बाणः,सुबन्धुः त्रयः प्राचीनाः गद्यकवयः गण्यन्ते। याः याः विशिष्टताः सुन्दरताश्च शोभन्ते पूर्वतनानां गद्यकवीनां कृतिषु ताः सर्वाः ललिततरां उत्कृष्टतां प्राप्ताः बाणकवेः कृतिषु । अतः गद्यकविषु बाण एव श्रेष्ठः । संस्कृतसाहित्ये आलङ्कारिकेन दण्डिना गद्यम् एवं विभज्यते । काव्यादर्शे :- तत्कथाख्यायिकेत्येका जातिः संज्ञाद्वयात्मिका ।

तथा च एका कथा अपरा आख्यायिका इति । तदनुरोधेन आख्यायि- कात्मकं हर्षचरितं कथात्मिकां च कादम्बरीं च आरचयत बाणभट्टः।

[[333]]

बाणस्य कादम्बरी एकः कथाग्रन्थः । स्वयमेव कविना- ‘धिया निबद्धा इयमतिद्वयी कथा’ इति कादम्बर्याः कथाग्रन्थत्वम् उक्तम् । कादम्बर्यामुक्तकथा गुणोदयनामकेन कृतायाः बृहत्कथायाः संगृहीता। बृहत्कथातः सुमनस- नामराज्ञः साधारणीं कथां स्वीकृत्य, बाणभट्टः काव्यकलानैपुण्येन कादम्बरीं रचितवान्।’ इति ॥

कादम्बर्यां रसः- ‘न हि रसादृते कश्चित् पदार्थः प्रवर्तते” “वाक्यं रसात्मकं काव्यं इत्यादि वाक्यपर्यालोचनया भारतीयविद्वांसः काव्येषु रसस्योन्नतस्थानं दत्तवन्तः इति ज्ञायते। पद्यकाव्येषु रसस्य अवगमः सुलभः। परन्तु नैषः मार्गः गद्यकाव्येषु इति अालोच्य अाचार्यः कादम्बर्यां रसः कः ? इति विवृणोति- कादम्बर्यां पुण्डरीक महाश्वेतयोः चन्द्रापीड-कादम्बर्योः, प्रणयकथापूर्वक विप्रलम्भशृङ्गारः, शुकनास-चन्द्रापीडयोः सम्भाषणपूर्वकराजनीतिः, अपुत्रायाः विलासवत्याः विलापपूर्वकधर्मोपदेशः इत्यादयः तत्र तत्र वर्णिताः॥

तत्र प्रधानः नायकः कादम्बरी एका जन्मजन्मान्तरकथानुलम्बिनी।

चन्द्रापीडः, नायिका च कादम्बरी। अवान्तरकथायाः पुण्डरीकमहाश्वेते।

इयं बाणस्य अपूर्णाकृतिः । शूद्रकराज्ञः शुकस्य च सम्भाषणादारब्धा कृतिः, शुकनासकादम्बर्योः प्रथमानुरागः वियोगान्तः समाप्यते। तदुत्तरत्र तत्पुत्रेण भूषणभट्टेन पित्रादेशात् पूर्णीकृता। पुण्डरीकमहाश्वेतयोः चन्द्रापीड- कादम्बर्योः समागमपर्यन्तम् उपवर्णितं दृश्यते॥

कादम्बर्यां रसः कः इति जिज्ञासायां उत्तरार्धे पुलिन्दभट्टः’ कादम्बरीरसभरेण समस्त एव मत्तो न किञ्चिदपि चेतयते जनोऽन्यम् । इत्यादि ।

कविकुलतिलकः बाणभट्टः प्रसङ्गानुकूलेन विविधरसानां अभिव्यञ्जकः

[[334]]

आसीत् इति विज्ञायते । तथा च पुण्डरीक-चन्द्रापीडयोः मरणानन्तरमपि पुनर्जीवने आशा आसीत्, कादम्बरी-महाश्वेतयोः । अतः विप्रलम्भश्रृङ्गाररसः प्रधानम्, उत्तरार्धे च करुणा-विप्रलम्भः इत्युक्तम्। इति ॥

रचना शैली कादम्बर्याः रचना पाञ्चालीरीतिं अनुसरति । तत्र तत्र गौडीरीतिमपि अनुसरति ।

नवोऽर्थो जातिरग्राम्या श्लेषोऽक्लिष्टः स्फुटो रसः ।

विकटाक्षरबन्धश्च कृत्स्नमेकत्र दुर्लभम् ॥

इति दुर्लभत्वेन यदुक्तं तदत्र कादम्बय सुलभम् इति महागौरवजनकम् इति अस्य कवेः साहित्ये ऽन्यत्र दुरापः इति ज्ञायते ॥

अयं बाणः यत्र दीर्घतरान् समासान् च प्रयुङ्क्ते विकटानि वाक्यानि सृजति। श्लेषादि अलङ्कारेण चित्रितं तानि स्थलानि सन्त्येव एवं विधानि ।

यष्टि तेषां वर्णनं तथा विधया न कृतं स्यात् तर्हि तेषां स्वारस्यं तद्गतं च वैशिष्ट्यं प्रतिभाति ॥

अपि च न केवलं दीर्घसमासां वाक्यावलिं रचयित्वा वाचकानां पुरतः वर्णनबाहुल्यम् उपस्थापयति तत्रैव लघुवाक्यानि प्रयुज्यते हृदि क्लेषं निवारयति अज्ञ दृष्टान्तः - “अथ तस्य हरजटाकलापस्य चन्द्रलेखेव, कौस्तुभप्रभेव कैटभारति- वक्षःस्थलस्य, चन्दनवनराजिरिव मलयस्य फणामणिशिखेव शेषस्य भूषणमभूत् त्रिभुवनविस्मयजननी सकलान्यःपुरप्रधानभूतमहिषी विलासवती नाम” । अपि च काव्यशोभाकरान् धर्मान् अलङ्कारान् प्रचक्षते। इति वाक्यानुसारेण श्लेषादि शब्दालङ्कारेण, उपमादि अर्थालङ्कारेण कादम्बरीं निर्वर्ण्य, तस्याः शोभाम् अवर्धयत कविना ।

[[335]]

सुलभतया प्रवेशः वर्णितः अपि च कादम्बर्यां चित्रिता सामाजिकस्थितिः सा कविसमानकालेनैव । तस्मिन् काले वर्णव्यवस्था आसीत्, परन्तु वर्णव्यवस्थायां सामरस्यम् आसीत्। अतः चान्डालकन्यायाः अपि राज्यसभायां चतुर्वर्णस्थाः अपि जनाः स्वं स्वं कर्म कुर्वन्तः आसन्। अतः ब्राह्मणः शुकनास मन्त्रित्वेन नियोजितः, राजा तारापीडः तद्वचः सर्वं परिपालयति । अपि गुणज्येष्ठशर गुरूणां च गौरवकरणे विशिष्टताऽऽसीत्।

चन्द्रापीडः अमात्यस्य ब्राह्मणस शुकनासस्य उपदेशम् अनुसरति ।

कादम्बर्यां सामाजिकस्थितिः समर्थशिक्षणे समीचीनाः रीतिः आसीत् । शिक्षणसमये शिक्षामपि दातु गुरवः । विभिन्नानां नृत्य-द्यूत-चित्रकलानामपि प्रचलनम् आसीत् ॥

बाणभट्टः देशाटनं बहु अकामयत। देशसञ्चारेण अनेकेषामपि राज्ञाम् उन्नतिं वीक्ष्य, तस्य ज्ञानं बहुधा विकासं प्राप्तं तत्सर्वमपि सः बाणः शुकना- समुखेन कादम्बर्यां बन्धयामास। तद्यथा-इहजगति किम्स्विदस्ति यथेयमनार्या। लब्धापि खलु परिपाल्यते। दृढगुणपाशसन्धान- निस्पन्दी- कृतापि नश्यति । न परिजयं रक्षति। नाभिजनं ईक्षते । न कुलक्रमम् अनुवर्तते। न शीलां पश्यति । न श्रुतम् आकर्षयति । न धर्मानुरुध्यते । न त्यागमाद्रियते। न विशेषज्ञतां विचारयति । गन्धर्वनगरलेखेव पश्यत एव नश्यति ।

उपसंहारः सरस्वत्याः वरपुत्रः शब्दप्रयोगस्य अप्रतिमशिल्पी भावस्य सूक्ष्मदर्शकः बाण इव स्वकादम्बरीसमीक्षकेन संस्कृत-साहित्यस्य नूतनः मार्गः अन्वेषितः।

इति मदीयं लेखं समापयामि॥