३६ छन्दोऽलङ्कारबन्धमीमांसा

विद्वान् श्रेयस् प्रसन्नाचार्यः

सुविदितमेव सर्वेषां यत् संस्कृतसाहित्यक्षेत्रं प्रति बन्नञ्जे गोविन्दा- चार्याणां योगदानम् अद्वितीयं तथा अविस्मरणीयं च विद्यते इति। बहवः संस्कृतार्वाचीनाः पण्डिताः संस्कृतसाहित्ये स्वकीयानि काव्यानि विरचय्य संस्कृतभारत्याः सेवां चक्रुः। परन्तु एतेषु आकाशे विद्यमानचन्द्रमा इव नितरां शोभमानः विराजते अस्माकं पण्डितराजः गोविन्दाचार्यः। अस्मिन् लेखने ‘सम्बन्धदीपिका’ इत्याख्ये मध्वविजयस्य तेषां व्याख्याने के के नूतनाः विषयाः प्रकाशिताः इति वयमालोचयामः।

सम्बन्धदीपिका नारायणपण्डिताचार्याः आनन्दतीर्थभगवत्पादानां जीवनमाधारीकृत्य ‘मध्वविजयः’ इत्याख्यं शास्त्रकाव्यं प्रबन्धयामासुः। एतस्मिन् हि शास्त्र- काव्ये १६ सर्गाः १००६ श्लोकाः च राराजन्ते इति अमुं विषयं सर्वेऽपि अनुमन्यन्ते। एतस्य हि काव्यस्य वहूनि व्याख्यानानि प्रकाशितानि, अप्रकाशितानि चोपलभ्यन्ते, परन्तु प्रायः बहुषु व्याख्यानेषु अस्पष्टाः विषयाः अस्पृष्टाः विषयाः च ‘सम्बन्धदीपिका’ व्याख्याने आचार्यैः प्रकाशिताः।

छन्दोमीमांसा- द्विविधानि हि छन्दांसि भवन्ति। १.वर्णच्छन्दांसि, २.मात्राच्छन्दांसि। अत्र पुनः वर्णच्छन्दसि त्रैविध्यं विद्यते। १.

समच्छन्दांसि, २. विषमच्छन्दांसि, ३. अर्धसमच्छन्दांसि चेति। मध्वविजये आहत्य ३९ वर्णच्छन्दांसि, ५ मात्राच्छन्दांसि विद्यन्ते इत्ययं प्रभेदः प्रायः आचार्यैः एव प्रकाशितः।

वयं सर्वे जानीमः यत् वर्णगणबद्धं वर्णच्छन्दः भवति, मात्रागणबद्धं मात्राच्छन्दः इति। अक्षरत्रितयात्मकः वर्णगणः। कलाचतुष्टयात्मकः मात्रागणः (कला कालविशेषः)। वर्णगणाः अष्टधा विद्यन्ते। मगण, नगण,

[[320]]

भगण, यगण, जगण, रगण सगण तगणः इति। परन्तु प्रायः अन्यैः व्याख्यानकारैः अप्रकाशितः विषयः अयं ‘‘कस्य गणस्य का देवता?’’ इति स्वकीये व्याख्याने गोविन्दाचार्यः स्पष्टममुं विषयं प्रतिपादयति मस्य भूमि देवता स्यात् सम्पत्तिः फलमिष्यते।

यस्य पाथो देवता स्यात् फलं वृद्धिः प्रकीर्तिता॥

रस्य वह्निर्देवता स्यात् फलं मरणमीरितम्।

सस्य वायुर्देवता स्यात् देशान्तरगतिः फलम्॥

तस्य आकाशो देवता स्यात् शून्यं फलं प्रकीर्तितम्।

जस्य सूर्यो देवता स्यात् रोगप्राप्तिः फलं मता॥

भस्य चन्द्रो देवता स्यात् फलं कीर्तिः उदाहृता।

नस्य नाको देवता स्यात् फलं सुखमच्युतम्॥

अयं विषयः नाचार्यकपोलकल्पितः अपि तु कृष्णावधूतैः अनुमानितः इति स्वयं सप्रमाणं स्पष्टीकृतं सम्बन्धदीपिकायाम्।

छन्दोदेवताः वर्णच्छन्दसु कस्य छन्दसः का देवता ? तत्र प्रमाणं किम् ? स्त्रीदेवता वा पुरुषदेवः वा अग्निपुराणवचनस्य समाधिः कः ? इति सर्वोऽपि विचारः आचार्यैः कृतः। तथाहि ऋग्वेदे अग्नेः गायत्र्यभवत् सयुग् वा उष्णिहया सविता संबभूव अनुष्टुभा सोम उक्थैः महस्वान् बृहस्पतेः बृहती वाचमावत् विराण् मित्रावरुणयोः अभिश्रीरिन्द्रस्य त्रिष्टुबिह भागो अह्नः। विश्वान् देवान् जगत्या विवेश तेन चाक्लप्त ऋषयो मनुष्याः॥ (ऋक् १०,१३०,४-५) एवञ्च वेदानुसारेण अयं देवानुक्रमः ज्ञातव्यः। गायत्र्याः (गायत्रीछन्दसः) अग्निपत्नी स्वाहा देवता। उष्णिहः सूर्यपत्नी संज्ञा। अनुष्टुभः चन्द्रपत्नी रोहिणी। बृहत्या बृहस्पतिपत्नी तारा। पङ्क्तेः मित्रावरुणयोः पत्न्यौ रेवतीगङ्गे।

त्रिष्टुभः इन्द्रपत्नी शची। जगत्याः सर्वाः देव्यः मानिन्यः अधुना प्रश्नः उदेति

[[321]]

पिङ्गलनागवर्येण इयं श्रुतिः अन्यथा व्याख्याता अस्ति किल ? तदनुसारेण अग्निः गायत्र्याः देवः, सोमः उष्णिहः देवः….. एवमेवान्येषामिति।

गोविन्दाचार्याः अमुं समाधिं दत्तवन्तः ‘श्रुत्यर्थानवगतिजननी भ्रान्तिरेवायं पिङ्गलनागस्य’। इति समीचीनञ्च इदमुत्तरं ‘‘यतो हि स्त्रियः हि छन्दो देवताः भवन्ति। अत एव छन्दसां नियत्या स्त्रीलिङ्गेनैव व्यपदेशः। यदि अग्न्यादयः देवताः अभविष्यन्, नूनं तदा पुल्लिङ्गे एव व्यपदेशः दृश्येत। इति॥अत्र पुनः प्रश्नः अग्निपुराणेऽपि- ………………..‘छन्दसां देवताः क्रमात्।

अग्निः,सूर्यः,शशी,जीवः, वरुणः चेन्द्र एव च। इति (३३०-१९) कथितमस्ति, अतः पिङ्गलनागवचनमेव समीचीनं स्यात् किल इति।

परन्तु आपाततः एवायमर्थः। अत एव ऋग्भाष्ये अपि मध्वाचार्यः पिङ्गलनागेन उदाहृतमर्थं न अङ्गीचकार, अपि तु पूर्वोक्तम् एवार्थमङ्गीचकार।

तथाहि ऋग्भाष्ये उक्ताः देवताः- गायत्री बृहती चैव ताः सर्वाः गरुडस्तथा।

ब्रह्माण्यनुष्टुबिन्द्राणी त्रिष्टुप् स्वाहेति चोच्यते॥

गायत्री जगती चैव वारुणी रोहिणी तथा।

अनुष्टुप् बृहती चैव तारा पङ्क्तिः शची तथा॥

उष्णिक् सौरी, जगत्यश्च सर्वदेवस्त्रियो मताः।

विराण्मित्रावरुणयोः भार्ये इति च कीर्तिते॥

अतिच्छन्दांसि सर्वाणि सर्वदेवस्त्रियो मताः ॥ इति ॥

एतद् विहाय श्रीः, सरस्वती भारती चेति देवताः। एवञ्च समग्रदेवतानुक्रमः अयम्- १. गायत्री श्रीसरस्वती भारती गरुडः स्वाहा चेति।

२. उष्णिक् सूर्यपत्नी सञ्ज्ञा।

[[322]]

३. अनुष्टुप् सरस्वती रोहिणी।

४. बृहती श्री सरस्वती भारती गरुडः बृहस्पतीपत्नी तारा च।

५. पङ्क्तिः इन्द्रपत्नी शची, रेवती गङ्गा च ६. त्रिष्टुभ् शची इति एवं विस्तृतरूपेण छन्दोदेवतानां विषये विचारं प्रायः अन्ये व्याख्यान- काराः नैवाकुर्वन्। अयं विचारः अनपेक्षितः इति केचन वदेयुः, परन्तु किं छन्दः कां देवतां स्वनियामकत्वेन चिनोति इति विचारः सर्वसङ्गत एव।

छन्दोविचारः- मध्वविजये विद्यमान अनुष्टुप् छन्दसः विषये किञ्चित् प्रस्तूयते। अनुष्टुभि बहवः प्रभेदाः विद्यन्ते- पथ्यावक्त्रम्, युग्मविपुला इत्यादि। यान् भेदान् मध्वविजयव्याख्याने गोविन्दाचार्याः प्रकाशितवन्तः तानेव वयमत्र स्वीकृतवन्तः। आचार्याणां मतानुसारेण ‘अनुष्टुप्’ छन्दसि विद्यमानप्रभेदेषु पञ्चभेदाः मध्वविजये प्रकाशिताः, ते च - १. पथ्यावक्त्रम्, २. युग्मविपुला, ३. प्रमाणिका, ४. विद्युन्माला, ५.

माणवकं चेति।

पथ्यावक्त्रम्- यत्र आद्याक्षरात् परं नगण-सगणौ न स्याताम्।

चतुर्थाक्षरात् परं यगणः भवति अयुग्मयोः। युग्मयोः जगणः, तत्र पथ्यावक्त्रं नाम छन्दः भवति। तत्रोदाहरणं- प्र क ा र ं। । प्र कऽ टऽी क र्त ु म ा र भ् य वि । ऽर।रा म नो (य) (ज) म ह ी य ो म । ति ऽम ऽाह ा त् म् य ा द् व ैव श् य ेन। ख ऽन।न् ख लः (य) (ज)

[[323]]

२. युग्मविपुला- युग्मविपुलाया चत्वारः प्रभेदाः अत्र दृश्यन्ते- प्रथमपादे तृतीये पादे वा भगणोपेता, रगणोपेता, नगणोपेता, मगणोपेता। तेषामुदा- हरणानि य थ ा स म् ब न् ध द ऽीᐋ।पक। ाय ा ं प्र ᐋ त प ा।दि तऽ।ानि तथा प्रदर्श्यते- नात्यत्वरा । (नभाति) र । या। न स् ख(जल)न्ती। निरन्त। रा अ न ा न ा व । यऽव।ेत्।य े। व द व ी य ो भि ः । । प्र ऽत।कि ᐀्। ता (१५-४) (भ) (ज) ३.प्रमाणिका- ‘प्रमाणिका जरलगा न यतिः पादमध्यगा’। इयं प्रमाणिका जगणेन रगणेन लघुगुरुभ्यां च पादवती भवति।

। ऽ। ऽ। ऽ । ऽ क्कचिच्छि। लाच्छटा। भ्र। मा । ऽ। ऽ। ऽ । ऽ दमुंस। सङ्गम। त्य। जन् ४. विद्युन्माला- यत्र अष्टौ अपि अक्षराणि गुर्वक्षराणि एव भवन्ति, तत्र विद्युन्माला छन्दः भवति। ‘विद्युन्माला ममगगा यतिः विधिमुखैः युगैः।’ ऽ ऽ ऽ ऽ ऽ ऽ ऽ ऽ स त्यो च्छे। दे स्वे च्छा। या तं ऽ ऽ ऽ ऽ ऽ ऽ ऽ ऽ व्या घ्रा का। रं दै त्य। व्या घ्रम् ॥(१०.२३) एवमन्यानि अपि बहूनि छन्दांसि लक्षणपूर्वकं निरुपितानि विद्यन्ते। प्रायः अन्ये व्याख्यानकाराः लक्षणमुक्त्वा विरमन्ति। परन्तु गोविन्दाचार्याः लक्षणं कथयित्वा तत्र विद्यमानावान्तरभेदान् उदाहृत्य तेषां (अवान्तरभेदानां) लक्षणानि विलिख्य लक्षणस्य लक्ष्ये विद्यमानत्वं तथा अविद्यमानत्वं च सम्यक् परीक्षयन्ति इति अहो अस्मद्भाग्यं यत्ते माध्वकुले अवतीर्णाः सम्बभुवुः।

[[324]]

बन्धमीमांसा प्रायः मध्वविजयस्य व्याख्यानकारेण केनापि श्लोकेषु विद्यमानबन्धविषये तादृशं चिन्तनं न कृतं यादृशं सम्बन्धदीपिकायां भाति। तत्र हि १.

सर्वतोभद्रबन्धः २. चक्रबन्धः इत्यादीन् उल्लिख्य स्वयमेव व्याख्यानकारः स्वपद्यरचनाकौशलेन अन्यबन्धेषु अनेकान् श्लोकान् रचयित्वा बन्धमीमांसां पूरयति। तथाहि १. सर्वतोभद्रबन्धः समानया यानमासा मायया ततया यमा।

नयासना नासयान यातनाललनातया ॥

चक्रबन्धः

[[325]]

इमौ मध्वविजये एव प्रसिद्धौ श्लोकौ तत्र विद्यमानबन्धौ च।

अन्यबन्धविषये यद्यपि सुस्पष्टाः श्लोकाः नोपलभ्यन्ते इति आचार्यः स्वयमेव श्लोकान् संस्त्य तद्विवरणं च कृतवान् विद्यते।

खड्गबन्धः यथा पातु हैयङ्गवीनस्य हर्त्री सकलपालनी।

नीलनीरदनीकाशा कैशोरी कापि सा कृपा॥

पाशबन्धलसत्कुक्षिनिक्षिप्ताखिलविष्टपा।

पावनी ननु सा वीशाहीशादिभिरनुस्मृता ॥

[[326]]

मुसलबन्धः- पाहि देव रमाभूमीजानिरात्मेष्टदः पिता।

तानयित्वा किल निजानीश्शे गतिमजार्

[[327]]

कुलालचक्रबन्धः या मे गदाभृन्निजतारमाया या मारता भक्तनरावना या।

या नावरा सर्वगता विभाया या भाविता पातु सदागमज्ञेया ॥

[[328]]

अलङ्कारमीमांसा- सर्वप्रसिद्धमेवैतत् शास्त्रे अलङ्कारस्य द्वेधा गतिः कल्पिता इति। १.

शब्दालङ्कारः २. अर्थालङ्कारः। यत्र शब्दचमत्कारः भाति तत्र शब्दालङ्कारः भवति। यत्र च अर्थचमत्कारः तत्रैव च अर्थालङ्कारः दृश्यते। मध्वविजये शब्दालङ्कारार्थालङ्कारयोः उभयोरपि प्रयोगबाहुल्यं दरीदृश्यते।

शब्दालङ्कारः- शब्दालङ्कारे प्रसिद्धः अलङ्कारः अनुप्रासालङ्कारः, अयं च शब्दानामनुवर्तनेन सञ्जायते। एषः त्रेधाविभक्तः विद्यते। १. छेकानुप्रासः २.

वृत्यनुप्रासः ३. लाटानुप्रासः इति व्यवधानं विना सजातीयवर्णद्वयस्य

[[329]]

द्वित्राणां वा वर्णानाम् व्यञ्जनानां वा आवर्तनं छेकानुप्रासः मध्वविजये छेकानुप्रासः बहुत्र दृश्यते इति आचार्याः- १. विषं विषण्णो विषभृद्गणोऽतः १.३१ २. नानावनेषु चरतश्चरतस्तृणानि २.४५ ३. शरणतो रणतो निरगान्नृभिः ३.०२ ४. अयि कृपालय पालय बालकं ३.१५ ५. भुजे भुजेनाशु भुजङ्गशायिना ४.३७ ६. उवाच वाच परिहासहासवान् ५.१७ ७. मान मानमयतीह कथं नो ६.१२ ८. कमला कमला सनानिलैः ७.२५ यमकम्- यमकमपि अनुप्रासभेद एव। ‘‘असकृदेकानुपूर्वीकवर्णसमूहघ टितं यमकम् इत्याचक्षते।’’ इदं यमकं पादादिगं पादमध्यगं, पादान्त्यगं, त्रिपादगं, द्विपादगम्, अन्त्यपादगमित्यादिभेदेन बहुविधम् ॥

बहुसत्वगणं सविकं समहा ‘‘विषमोक्षमहाहिमवन्तमयम्।

विषमोक्षमहाहिमवन्तमयम्’’ नगमैक्षत फुल्लदृगस्तभयः ॥ (६.५५) ‘‘यमशेषभवप्रभवः स्मरता मसुखाब्धिरपैति न चित्रमिदम्।

मरुतीदृशि भान्ति हि यत्स्तवने यमशेषभवप्रभवः स्म रताः’’ ॥ (१०.०७) अत्र आद्यं द्वितीयतृतीयपादयोः यमकं, द्वितीयं प्रथमचतुर्थपादयोः यमकम्। यथा- प्रथमतृतीययोः यमकम्

[[330]]

वैकुण्ठे ते श्रीविशेषा जनाना मत्याश्चर्यं चित्तवाचामभूमिः।

वैकुण्ठते श्रीविशेषाजनाना मुक्तश्लाघ्ये युक्तमेतादृशत्वम् ॥ (११.७५ ) यथा द्वितीयचतुर्थयोः सन्मात्सर्यं बद्धमूचेऽशुभानां वाचालोलं कोऽपि गां धारकस्य।

मध्ये तेषां नीचनीत्या समानो वाचालोऽलं कोऽपि गान्धारकस्य ॥ (१२.०३) सर्वपादवृत्तियमकं पादमध्यगतं जननं समयेसमये जगतः प्रथिते समये समयेदमिते।

सनिरासमयेऽसमये स्थितियुक् स्ववभासमयेऽसमयेष्टधिया ॥ (१०.४५) अर्थालङ्कारः अर्थालङ्कारे प्रायः सर्वेषां मनसि प्रथममेव आयाति उपमालङ्कारः। परन्तु काव्ये उपमालङ्कारार्थं ये शब्दाः सादृश्यवाचकत्वेन दण्डिना सूचिताः प्रायः सर्वान् अपि तान् शब्दानुपयुज्य नारायणपण्डिताचार्यः श्लोकान् अरचयत् इति कथयन्ति कलिकालसर्वज्ञाः गोविन्दाचार्याः।

दण्डी- इव वद् वा यथाशब्दाः समान निभ सन्निभाः।

तुल्य सङ्काश नीकाश प्रकाश प्रतिरूपकाः॥

सदृक् सदृश संवादि सजातीयानुवादिनः प्रतिबिम्ब प्रतिच्छन्द सरूप सम सम्मिताः ॥

[[331]]

गरुडतुण्डमिव प्रतिपन्नवान् ३.४०द्विजमण्डलस्थशशिमण्डलवत् ११.१५ मध्ये तेषां नीचनीत्या समानो १२.०३ स्फुटशोणोपलपङ्क्तिसन्निभः ७.४४ ब्रह्म ब्रह्मसमो ददौ १५.९७ साधर्म्यात् अभेदारोपः रूपकम्। तदपि मध्वविजये बहुत्र विद्यते इति आचार्याः १. रसोज्झिताचञ्चलवृत्तयोऽलं शोभां न भेजुः सुरवैरिमेघाः २. स्वशिष्यहस्तेन मठान्तरेषुधेः सुपक्षदक्षं सुखतीर्थमार्गणम्।

तदित्थं बह्वर्थगर्भमिदं व्याख्यानं निर्माय दत्तवते अाचार्याय सभक्तिश्रद्धं प्रणामं निवेद्य विरम्यते।


[[332]]