३५ श्रीमद्गोविन्दाचार्यकृतस्य काव्यमीमांसेति प्रबन्धस्य विमर्शः

प्रो. एन्. लक्ष्मीनारायणभट्टः,

श्रीमता तत्रभवताचार्येण नानाशास्त्रेषु नैकेषु विषयेषु प्रबन्धाः प्रणीताः सन्ति। ते च तत्तच्छास्त्रस्य सारेण सगर्भा इति हेतोरमीषामध्ययनेन शास्त्रं विदतां यथा दिशो दर्शनं भवति तथा मार्गस्य दर्शनमविदताम्। यथास्य द्वैतवेदान्तशास्त्रेऽप्रतिहतम् अकुण्ठितं तलस्पर्शि च ज्ञानं तथा शास्त्रान्तरेष्वपीत्याश्चर्यं जनयति नः। दृश्यन्ते च बहवः प्रबन्धाश्छन्दोमीमांसा, बन्धमीमांसेत्याद्याः साहित्यशास्त्रेऽपि। केचिद्गात्रेण महान्तः, केचिच्च लघव इतीयानेव विशेषः।

सर्वेष्वस्य प्रबन्धेषु हृद्या शैली, सारवती समासवती च वागध्येतॄणां मनांसि हरति। सूत्रायमाणेन लघुनैव वचनेन बहवोऽर्थाः प्रतिपाद्यन्ते। यथा यथा पठ्यते तथा तथा निरुक्तस्य महाभाष्यस्य तथान्येषां प्राचीनमूलग्रन्थानां शैली स्मृतिपथमायाति। तदीयेषु प्रबन्धेषु यः काव्यमीमांसेति प्रबन्धः तत्र मध्वविजय गतान् श्लोकानुदाहरणीकृत्य काव्यलक्षणम्, महाकाव्यलक्षणम्, नायकप्रभेद- तद्गुणाः, रसः, रीतिश्चेति पञ्च विषया प्राधान्येन निवेदिताः। यथाशास्त्रं च तान् निरूप्य पर्यन्ते सम्भवे सति स्वकीयमपि मतमाचार्येण निरूपितम्।

आक्षेप्तारो बहवः सन्ति किन्तु समाधातारो विरलाः। अयं तेष्वन्यतम इति मन्ये। लेखकेन सता यदवश्यं कर्तव्यं तदनेनाचार्येण कृतमित्यत्र नास्ति संशयः।

प्रकृते च तत्प्रबन्धे मध्वविजयग्रन्थस्य काव्यत्वं कथम्? तेन सह महाकाव्यत्वं कथम्? कस्तत्र नायकः तन्निष्ठगुणाश्च के? का रीतिः? कश्च रस इत्येषां प्रतिपादने प्रवृत्त आचार्यः प्रसक्तानुप्रसक्त्या काव्यस्य कतीनाञ्चन प्रमेयानां निरूपणं व्यधत्त। प्रकृते च लेखे केवलं तदुक्तानां विषयाणां यथाप्रतिपादनं स्फुटता विधीयते, क्कचिच्च चापलेन स्वकीयोऽपि विसंवादः प्रदर्श्यते।

[[309]]

काव्यस्य लक्षणम् काव्यलक्षणमिति प्रथमो विषयः। अत्राचार्येण मम्मटस्य कुन्तकस्य आनन्दवर्धनस्य विश्वनाथस्य जगन्नाथस्य च लक्षणं प्राधान्येन विचार्य निराकृतम्। पर्यन्ते च स्वसम्मतमपि किञ्चिल्लक्षणं निर्दिष्टम्। तदिदं सर्वं तदुक्तदिशा विवरीतुं प्रयत्यते, तथाहि - काव्यलक्षणे विषये मम्मटेन तावदिदं लक्षणमभिहितम् - अदोषौ सगुणौ शब्दार्थौ काव्यं क्कचिदनलङ्कृती अपीति॥

यद्यप्यत्राचार्येण न तदुक्तं लक्षणं यथावन्निर्दिष्टं तथाप्यर्थतः तत्सङ्गृहीतमिति न दोषः। लक्षणं चैतद्विश्वनाथादिभिः प्राचीनैर्नैकैः विमर्शकैरन्येनान्येन प्रकारेण निरस्तं विलोक्यते, आचार्येण तु ततोऽन्येनैव प्रकारेणेति विशेषः।

तदिदं नादरणीयमित्याचार्यः - अत्र शब्दार्थावित्यत्र शब्दशब्देन अर्थवद्वर्णसमूहस्यैव ग्रहणम्, न पुनरवर्णात्मकस्य ध्वन्याद्यपरपर्यायस्य नादस्य, अप्रसक्तत्वात् असङ्गतत्वाच्च। नहि कोऽपि मनीषी भेरी- निनादादिकमव्यक्तं शब्दं काव्यमित्यभिधित्सति। अभिदधाति च केवलमर्थवत एव शब्दस्य काव्यत्वम्। स्थिते चैवम्, किं कारणं पुनर्लक्षणे अर्थशब्दस्य ग्रहणम्? विशेष्यभागे शब्दशब्दमात्रस्य निवेशनादेवार्थस्यापि सङ्ग्रहात् अभीष्टसिद्धेः। यदि भेरीनादादिशब्दस्यापि केनचित् काव्यत्वेनाभिधानं स्यात् तर्हि तत्प्रतिविधानार्थं यत्नोऽवश्यं कर्तव्यः, न त्वनभिधाने। तस्मादर्थशब्दस्य ग्रहणं चिन्त्यम्। अत एव दण्डिना - इष्टार्थव्यवच्छिन्ना पदावली काव्यमिति शब्दमात्रस्य काव्यत्वं निर्णीयते।

पदावली पदानां समूहः।

यत्पुनः शब्दार्थयुगलस्यादोषत्वं सगुणत्वं चेति विशेषणद्वयम् - तदपि नादरणीयम्, सर्वथा निर्दोषस्य गुणपरिपूर्णस्य च वस्तुन एकान्ततोऽसम्भवात्।

ब्रह्मैव केवलं निर्दोषं गुणपरिपूर्णं च, तदतिरिक्ते सर्वस्मिन्नपि वस्तुनि दोषसाहित्यस्य गुणवैकल्यस्य च दर्शनात्। स्यान्नाम त्रिगुणात्मके जगति सत्त्वाधिक्येन क्कचिद्वस्तुनि दोषाल्पत्वं गुणबाहुल्यं च तथापि रजस्तमसोरपि

[[310]]

सत्त्वेन न तस्मिन् अंशतोंऽशतो दोषस्य बाहुल्यं गुणस्य चाल्पत्वम्।

ब्रह्मनिर्मिते ह्यस्मिन् जगति सर्वस्यापि वस्तुनो दोषसाहित्यं गुणवैकल्यं च दुष्परिहरम्। एवं वस्तुमात्रस्य सदोषत्वात् गुणपूर्णताविरहाच्च लक्षणेऽत्र असम्भवाख्यो दोषः।

अथ सङ्कटादस्मात्स्वात्मनः परिजिहीर्षया अदोषावित्यत्र अल्पार्थे नञः प्रयोग इत्याख्यायते, सगुणावित्यत्र चाल्पगुणावित्यर्थे तात्पर्यमित्याशय्यते तर्हि किञ्चिद्दोषं न्यूनगुणं च शब्दार्थयुगलं काव्यमित्यायाति। ततो दोषाणां गुणानां चाल्पतार्थं कविना प्रयत्तव्यमित्यनर्थापातः। अनेन परिहार्यस्य विधानम्, सञ्चेयस्य च नियमनमित्यनिष्टं स्पष्टम्। नहि दोषाभावार्थे गुणाधिक्यार्थे चोपदेशे किञ्चिद्दोषस्य किञ्चिद्गुणस्य च विधानं युज्यते। न च वक्तुरपि तद्भवति विवक्षितम्।

किञ्चाल्पत्वं सापेक्षम्। नह्येतावत्सु दोषेषु गुणेषु च सत्सु अल्पत्वं सम्भवतीत्यत्र निर्णायकं प्रमाणं किञ्चिदस्ति। अथ कथञ्चित्तादृशे प्रमाणे दर्शितेऽपि तथा विधानं न प्रज्ञावतां शोभनम्। तस्मात् तद्विशेषणद्वयमपि न साम्प्रतम्।

एवं क्कचिदनलङ्कृती अपीति विशेषणमपि नादर्तव्यम्, अलङ्कारवत्त्वस्य स्वरूपनिर्णायकत्वाभावेन उपलक्षणत्वात्। नह्युपलक्षणं कादाचित्कत्वेन लक्ष्यस्य ज्ञापकं चेदपि न सार्वदिकत्वेन। सार्वदिकमेव लक्षणं लक्षणम्।

काकवद्देवदत्तस्य गृहमित्युक्तौ तत्काले देवदत्तगृहस्य ज्ञानेऽपि न सर्वदेति काकवत्त्वस्य यथा परिचायकत्वमात्रं तद्वदिहापि प्रकृतविशेषणस्य। अत एव को नाम पुरुष इति प्रश्नस्य कटकी कुण्डली दण्ड्युष्णीषी च प्राणिविशेष इति लक्षणं केनापि नाख्यायते। अथ तल्लक्षणं युक्तमिति भाव्यते तर्हि कटकित्वादिमान् काष्ठमयः पुरुषोऽपि पुरुष इत्युच्येत। किं बहुना? वानरादिरपि तथा कृतः तथोच्येत। तस्मादिदमपि विशेषणं तथा।

नन्वत्र भोः! अदोषौ सगुणौ सालङ्कारावित्यनेन दोषाणां वारणे,

[[311]]

गुणानामादाने, अलङ्काराणां सन्निवेशने च केवलं तात्पर्यमित्युच्यते - अस्तु तर्हि, तुष्यतु भवान् इत्युपसंहारवचनम् आचार्यस्य।

इदं युक्तमिति भाति - प्राचीनेषु कैश्चित्तथाभिधानात्। अत एव रमणीयार्थकः शब्दः काव्यमिति जगन्नाथः। अत एव सगुणत्वादिविशेषणं न युक्तमिति विश्वनाथः। स एवमाशेते - यत्र गुणाः सन्ति तादृशो रस एव केवलं सगुणो भवति, न तच्छून्यौ शब्दार्थौ। नह्यन्यगतो धर्मोऽन्यत्र विशेषमाधातुं शक्नोति। अथ सगुणावित्यस्य व्यञ्जकतारूपपरम्परासम्बन्धेन गुणवन्तावित्यभिप्रायः तर्हि तथाविधस्य गुणवत्त्वस्य काव्ये प्रकर्षाधायकत्वात् न तस्य लक्षणोदरे प्रवेशः। ये स्वरूपनिर्णायका धर्माः तेषामेव लक्षणे प्रवेशनम्, नहि यस्य कस्यचित्। तस्मादाचार्येण यदस्य लक्षणस्य निराकरणं तत्प्राचीनाचार्याणामपि सम्मतमेवेति बोध्यम्। निराकरणप्रकारस्तु केवलं भिद्यते॥

इत्थं मम्मटमतं प्रत्याख्याय वक्रोक्तिकारस्य मतं प्रत्याचक्षाणो वदत्याचार्यः - यत्पुनः वक्रोक्तिः काव्यजीवितमिति कुन्तकः - तन्न ग्राह्यम्, शाखाग्रे चन्द्र इत्यत्र शाखाग्रस्य चन्द्रं प्रति यथा परिचायकत्वं तथा काव्यं प्रति वक्रोक्तेः। नहि परिचायकं किञ्चित् पदार्थस्य असाधारणधर्मरूपं लक्षणं भवति। वक्रोक्तिशून्यमपि किञ्चिद्वाक्यं स्वभावोक्त्या घटितं काव्यं भवति, यथा - कुरङ्गैरुत्तरङ्गाक्षैः स्तब्धकर्णैरुदीक्षितम् इत्यादिकम्। अत्र कुरङ्गगतं वीक्षणं स्तब्धकर्णत्वादिरूपस्वधर्मवत्त्वेन यथावद्वर्ण्यते। नात्र विचित्रं प्रतिपादनमस्ति येन वक्रोक्तिरित्युच्येत। विचित्रमभिधानमेव वक्रोक्तिः, वैचित्र्यं च प्रतीयमानार्थद्योतकत्वमिति ध्वनावेव तस्यान्तःपात इति नायं नवीनः कश्चित्प्रकार इत्यभिप्रैति ॥

एवं तर्हि ध्वनिरेव काव्यस्यात्मेति आनन्दवर्धनस्य मतमेव ग्राह्यत्वेन अापतितमिति चेत् - न, व्यङ्ग्यरूपस्य ध्वनेः नाट्ये नादे चित्रादावपि सत्त्वेन लक्षणस्यातिव्यापनात्। नहि नाट्यादिकं काव्यम्, दृश्याख्ये तु

[[312]]

काव्ये कामं तद्वर्तते। नहि तद्वृत्तितामात्रेण न तस्य तत्त्वं सम्भवति। नाट्यं नाम आकूताभिव्यञ्जकं हस्तादिचेष्टितम्, नादोऽव्यक्तवर्णः, चित्रं च स्वरूपाभिव्यञ्जक ऋजुकुटिलादिरेखाविन्यासः। एतेन यस्य काव्यत्वं तद्गतस्येवान्यस्यापि काव्यत्वप्रसङ्ग इति स्फुटमेव सदोषत्वम्॥

वस्तुतस्तु शब्दार्थयुगलरूपे काव्ये आत्मा क इति जिज्ञासायां प्रधान व्यङ्ग्यरूपो ध्वनिरित्युक्तं ध्वनिकारेण। स्यान्नामायं व्यङ्ग्यो नाट्यनादादावप्यस्तीति - तावता न तस्य काव्यत्वं कथ्यमानं युज्यते? नहि काव्ये ध्वनिरात्मेति वदतः पुंसो ध्वनियुक्तं सर्वमपि काव्यमित्यभिप्रेतम्।

अभिप्रेतं च ध्वनिः काव्ये सारभूतोऽर्थ इति। एतेनातिव्याप्तिः कथम्? यत्र यत्र धूमः तत्र तत्र वह्निरित्युक्तौ यथा धूमस्य वह्निना साहचर्यं प्रतीयते न तथा वह्नेर्धूमेण साहचर्यम्। तदत्र ध्वनिकारस्य वचनं नासङ्गतिं स्पृशतीति मे भाति॥

एवं ध्वनिकारस्य मतं कटाक्षीकृत्य शब्दस्यैव काव्यत्वं मन्वानस्य विश्वनाथस्य मतं विचारयति। ‘वाक्यं रसात्मकं काव्यम्’ इति यत्तदुक्तं लक्षणम्

  • तन्न, यत्र नास्ति रसः, यथा - ‘हनुमानब्धिमतरद्दुष्करं किं महात्मनाम्’ इत्यादौ, तत्रापि काव्यत्वस्य अवस्थानात्। किञ्च रसशब्देन शृङ्गारादिरसमात्रस्य ग्रहणं नोचितम्, प्रत्युत रसनीयस्य सर्वस्यापि रसभावादेरर्थस्येति।

वस्तुतः अत्रापि आचार्यस्य मतमंशमात्रेण सङ्गतमिति मे मतिः, स्वयं तेनैव हि रसशब्देनात्र एकदेशस्य शृङ्गारादिरसमात्रस्य न ग्रहणम्, किन्तु रसाद्यष्टकस्येत्यभिधाय तदनुसारेणैव निरूपणं कृतम्॥

शब्दमात्रस्य काव्यत्वमभ्युपयतोऽपि जगन्नाथस्य रमणीयार्थ- प्रतिपादकः शब्द इति यल्लक्षणं तदपि न युक्तमित्याचार्यः। तथाहि - शब्दः सर्वोऽप्यर्थवानेवात्र गृह्यते इति पूर्वमुदीरणात् रमणीयः शब्दः काव्यमित्येतावतैव लक्षणेनालम्। रमणीयत्वं शब्देऽर्थे चेति रमणीयमर्थं प्रतिपादयन् रमणीयः शब्दः काव्यमिति सिध्यति। किञ्चार्थो रमणीय इति यदुच्यते तत्रार्थे

[[313]]

रमणीयत्वस्य कथं निर्णयः? प्रमाणाभावात्। नहीदं रमणीयम् इदं चारमणीयमित्यत्र प्रमाणमस्ति। कश्चिदर्थः कस्यचिद्रमणीयोऽपि अन्यस्य कस्यचिदरमणीयो भवति, भिन्नरुचित्वाल्लोकस्य। अत एव श्रीहर्षः - यथा यूनस्तद्वत्परमरमणीयाऽपि रमणी कुमाराणामन्तःकरणहरणं नैव कुरुते॥

यथा च सोमदेवः - या यस्याभिमता मूर्ख! सुरूपा तस्य सा भवेत्॥

तदेवमनिर्णीतार्थकेन विशेषणेन घटितं लक्षणम् अनिर्णायकमेव सम्भवति।

ननु सहृदयस्य यद्रमणीयं तदेव रमणीयमिति कथमनिर्णयः? - एवं हि सहृदयत्वस्य कथं निर्णय इति पुनः पर्यनुयोगापत्तिः। यो रमणीयस्यास्वादकः स पुमान् सहृदयः, यश्च तेनास्वाद्यते स रमणीयोऽर्थ इति व्याख्याने अन्योन्याश्रयः, यथा वैयाकरणानां धातुपाठविषये। ते हि भू सत्तायाम्, अस भुवीत्यादि पठन्ति। तत्र भूवादीनां शब्दानां क्रियावचनत्वादेव धातुत्वम्, धातुत्वादेव क्रियावचनत्वमिति अन्योन्याश्रयः। तद्वदिदमपि लक्षणं न साम्प्रतम्।

काव्यस्य लक्षणं किं भवितुमर्हति? एवं तर्हि काव्यस्य लक्षणं किमिति पृष्ट आचार्यो ब्रवीति - अशब्दं प्रत्याययन् शब्दः काव्यम् ॥

ध्वननशील शब्द इति तदर्थः। स्ववाचकशब्दाभावेऽपि तदर्थप्रतिपादकः शब्द इति अस्यार्थः। स्वार्थबोधनद्वारा स्वाबोध्यमर्थान्तरं यो द्योतयति स शब्द इत्याचार्यकृतं विवरणम्। शब्द इत्येकवचनं जात्यभिप्रायेण।

प्रत्याययनं द्योतनम्। ‘एकः कृती शकुन्तेषु योऽन्यं शक्रान्न याचते’ इत्यत्र ‘सज्जनादन्यस्मिन् याचनाभाववान् पुरुषोऽयं धन्यः’ इत्यर्थस्य प्रतिपादनाय शब्दस्याप्रयोगेऽपि तेन वाक्येन तदर्थस्य प्रतीतिर्भवति। तस्मात्तद्वाक्यं काव्यमिति विशदोऽर्थः।

[[314]]

न चैवं घटादिरित्युक्तौ पटादेः प्रत्ययात् काव्यत्वापत्तिरिति वाच्यम् - घट आदिर्यस्येत्यादिशब्देन पटादेरप्यभिधानात्। ततश्चात्र न द्योतनं किन्त्वभि- धानमेवेति दोषाभावः। काकेभ्यो दधि रक्ष्यतामित्यादौ यद्यपि काकशब्देन प्रतिपादकशब्दाभावेऽपि मार्जारादेः प्रतीतिर्भवति तथापि चमत्कारित्वाभावान्न दोषः। ननु चमत्कारित्वस्य लक्षणे निवेशनं नास्ति? - सत्यम्, शब्दस्य ह्यभिधानं द्योतनं चेति यद्व्यापारद्वयं तत्र घटादिशब्दस्य घटाद्यर्थेऽभिधानं व्यापारः, अग्निः पश्यतीत्यादौ तु अग्निशब्दस्य अग्निसदृशो माणवक इत्यादावर्थे द्योतनम्। तच्च द्योतनं प्रायेण चमत्कारीति द्योतनशब्देनैव तदर्थस्य सिद्धिः।

एतेन द्योतनं चमत्कारगर्भमिति तस्य सत्त्वे काव्यत्वम्, असत्त्वे त्वकाव्यत्वमिति विभागः सिध्यति। नहि चमत्कारादृते काव्यत्वं भवति।

लक्षणायां व्यञ्जनायां च अर्थान्तरस्यावगमनं समानं किन्त्वेकत्र मुख्यार्थस्य बाधोऽपेक्ष्यते, अन्यत्र तु नेति विशेषः। न च व्यञ्जनायामपि तात्पर्यस्यानुपपत्तेः सद्भावात् मुख्यार्थबाधो नियत इति वाच्यम्, ‘भगवति वसुन्धरे! देहि मे विवरम्’ इति भवभूत्यादौ वाक्ये तात्पर्यानुपपत्तेरभावेऽपि अश्लीलार्थस्य व्यञ्जनात्। अतो मुख्यार्थबाधमन्तरेणापि व्यञ्जना समुन्मिषतीति स्फुटम्। तस्मान्मदुक्तमेव लक्षणं साधीय इत्येवमुपसंहरति ॥

महाकाव्यलक्षणम् नगरार्णवशैलर्त्वादिकारिकाजातेन महाकाव्यस्य प्राचीनैः यल्लक्षणमुक्तं तत्प्रायिकम्, बहुषु महाकाव्येषु अनुपदोक्तानां सर्वेषां वर्णनस्याभावात्।

ततश्चेदं लक्षणं दिग्दर्शनाभिप्रायेण कृतं न वस्तुस्थित्यनुरोधेन। ततश्च सम्भवे सति सर्वेषां वर्णनम्, अन्यथा त्वपेक्षितमात्राणामिति आचार्यस्याशयः।

युक्तश्चायम्, काव्यमार्गस्य प्रभावात्। नहि काव्यमार्गे शास्त्रमार्ग इव अव्याप्तयादिदोषशून्यत्वेन निष्कृष्टं लक्षणमुच्यते। कुतः? - मन्दमतीनामत्र अधिकृतत्वात्। ते हि जलमेव पातुं न शक्नुवन्ति किं पुनः पायसम्? तस्मादत्र सर्वोऽप्युपदेशः प्रायेण पदार्थानां स्वरूपस्य दिग्दर्शनाय न तु अव्याप्तयादि-

[[315]]

दोषशून्यतया तत्स्वरूपबोधनाय। तत्तावच्छास्त्रे। तत्र हि बुद्धिमन्तो अधिकारिणः। ते पायसेन सह माषभक्ष्यमपि लीलया खादन्ति। तस्मादेतेषां परिष्कृत एवोपदेशः, प्रकृतानां तु अनायासवेद्यः परिष्कार्यः। यदा पुनः क्रमेण वर्धमानबुद्धयः सन्तः शास्त्रमार्गमुत्तरत्र समाश्रयन्ति तदा तेषां वस्तुस्थितेः ज्ञानं भविष्यति।

यदि पुनस्त्वरयास्मिन् मार्गे शास्त्रमार्ग इवोपदेशः तर्हि कविकुलमद्य प्रविष्टश्छात्रः श्वो न दृश्येत, भीतश्च ततः परं तद्दिशाभिमुखं शिरः कृत्वापि न शयीत। तस्मात् काव्यमार्गे लक्षणादिकं प्रायिकं भवति। वचनमपि तदनुसारेणैव। एवं च केषाञ्चिदंशानां वैकल्येऽपि कस्यचित्प्रबन्धस्य महाकाव्यत्वं नूनं सम्भवतीति निर्विवादम्॥

एवं तत्रभवताचार्येण मध्वविजयस्य महाकाव्यत्वं निर्विवादं सम्भवतीति सोदाहरणं स्फुटीकृत्य मधुपानरतोत्सवादीनामपि काव्येऽस्मिन् कथञ्चित् सङ्गमनं शक्यम्, प्रसक्तानुप्रसक्त्या प्राप्तेषु वैकुण्ठपुरनिवासिषु तेषां वर्णनादित्यभिप्रैति। एतेन नायिकाया अभावेऽपि काव्यं भवितुमर्हति, यदि नायको विरक्तः, यथा प्रकृते काव्ये। अथ नायको रक्तः तर्हि काव्यं सनायिकमिति विषयविभागं व्यवस्थापयति।

तदनु सौन्दर्यौदार्येति सार्धकारिकाद्वयेन नायके ये गुणाः ते सर्वेऽपि नायके यथोदाहरणं निरूपिताः। एवं मध्वविजयस्य काव्यत्वमिव महाकाव्यत्वमपि सुघटमेवेति मन्यते।

रसः अस्मिन् मध्वविजये रसः को भवितुमर्हतीति विचारे प्रवृत्त आचार्यः प्रथमं तावत् रससङ्ख्याविषयकं मतभेदं विचारयति। यद्यप्यालङ्कारिकेषु केचिदष्टावेव रसा इति वदन्ति, अन्ये च शान्तेन सह नवेति। वयं तु भक्तिरपि कश्चिद्रस इत्याचक्ष्महे इति वदन् तद्रसे भक्तिः स्थायिभावः, वर्णः शृङ्गारवच्छ्यामः, देवता च विष्णुरिति स्वाशयं प्रकटीकरोति। भक्तिर्नाम

[[316]]

प्रीतिः, सा च स्त्रीपुरुषगता शृङ्गारः, अवरगतोच्चविषया भक्तिः, तद्विपरीता च वात्सल्यमिति त्रिविधेति विवृणोति।

न चैवं भक्ते रसत्वे रसा दश स्युः, अष्टेति नवेति वा संख्यानियमो भज्यते इति वाच्यम् - एतेन न कापि हानिः, एतावन्त एव रसा इति राजाज्ञाया अभावात्। नन्वेवं सति वात्सल्यस्यापि रसत्वं एकादशत्वं च स्यादित्याक्षेपे चित्ते चिरावस्थानस्याभावादेव न तस्य रसत्वमिति नासङ्गतिरिति वक्ति तत्रभवान्।

इदमत्र ज्ञेयम् - मुनिवचनस्य नियामकत्वे तदुक्तदिशा अष्टावेव रसाः, वचनप्रामाण्यात्। शान्तस्यापि स्वीकार्यत्वमिति वादे नवेत्यपि युक्तम्, शान्तः प्रकृतिः शृङ्गारादयो विकृतय इति रसेषु प्रकृतिविकृतिभावस्योररीकरणेन विकृतीनामिव रसत्वेन प्रकृतेरपि परिगणनात्। विकृतिः चित्तस्यान्यथा- वस्थानम्, प्रकृतिः तस्यैव स्वरूपेणावस्थानम्। रसास्तु दशेत्यपि भवितुम् अर्हति, मुनिवचनस्य प्रायोवादत्वेन तदुल्लङ्घनस्यादोषत्वेन निर्णेतव्यत्वात्, विश्वनाथादिभिः तथैव परिगणनाच्चेति ॥

तत्रभवानयमाचार्यो रसं प्रकारान्तरेणापि विभजते। विभागश्चायं नालङ्कारिकेषु ग्रन्थेषु प्रसिद्धः। तथापि, आत्मचेतसन्निकर्षमात्रजातस्त्वलौकिकः।

बहिः स्वन्निकर्षेभ्यः स्यादुद्भूतस्तु लौकिकः ॥

इति श्लोकं प्रमाणयन् रसोऽयमलौकिको लौकिकश्चेति द्विविधः।

आत्मचित्तयोः सन्निकर्षात् जातो रसोऽलौकिकः, नयनबाह्यवस्तुसन्निकर्षाज् जातस्तु लौकिक इत्याशेते। यद्यपि विभागोऽयं रसमात्रस्य आहोस्वित् भक्तिमात्रस्येति सन्देहः तथाप्युत्तरत्र ‘भक्तिरप्येवमलौकिकी भवति’ इत्यपि शब्दघटितस्य वाक्यस्य परिशीलनेन रसमात्रस्येति विदितं भवति।

भक्तिरियं श्रीकृष्णे अर्जुनस्येव सख्यरूपा, यशोदादीनां वात्सल्यरूपा, गोपिकादीनां शृङ्गारमयी, नारदादीनां तु शुद्धेति चतुर्विधावलोक्यते।

[[317]]

अत्रान्येषामपि मतं दर्शयत्याचार्यः, तथाहि - केचित्तु रस एक एव, स च शृङ्गारः। नान्यो रसः। शृङ्गारश्च धर्मार्थकाममोक्षरूपपुरुषार्थभेदेन चतुर्धा, यथा - रसो वै स इति श्रुत्या रस एकः प्रकीर्तितः।

अतो रसः स्याच्छृङ्गार एक एवेतरे तु न॥

धर्मार्थकाममोक्षाख्यभेदेन स चतुर्विधः। इत्यादि।

धर्मशृङ्गारादौ च यथाक्रमं धीरोदात्तादयो नायकाः। भक्तिश्चेयं शृङ्गारस्यैव प्रभेद इति॥ एतन्मतानुरोधेन विचारे रतौ नायिका नियमेन भवति, भक्तौ तु न तथा, तस्यां सत्यामसत्यां च सम्भवादित्येतावानेव विशेषः। अनया दृष्ट्या विवेचने भक्तेः शृङ्गारेऽन्तर्भावोऽपि युज्यते इत्यभिप्रैति।

रीतिः रीतौ विषयेऽपि आचार्येण भाषितम्। रीतिरात्मा काव्यस्येति वामनोक्तमनुवदता तेन वैदर्भी, लाटी, गौडी, पाञ्चाली चेति प्रभेदचतुष्टयं निर्दिश्य, तत्रापरुषपदबन्धा नातिदीर्घसमासा च रीतिर्वैदर्भी भवति, तत्सन्निकृष्टा शान्ताक्षरबहुला अदीर्घसमासा च लाटी, समासबहुला चोज्ज्वलवर्णा च गौडी, गौडीवैदर्भ्योर्मध्यगा च पाञ्चाली च। टवर्गशून्या वर्गेष्वाद्यतृतीयाः तदन्त्यसंयुक्ता यवलाश्च वर्णाः कोमलाः, धनौ रणौ शसौ हश्च शान्ता इति विवृत्य चतुर्णामप्येतेषां प्रभेदानां मध्वविजयगतानि उदाहरणान्यादाय विशदीकृतम्।

पर्यन्ते तु ‘एतावता रीतेः प्रभेदचतुष्टयमिति न मन्तव्यम्। यद्यपि चत्वारः प्रभेदा मतान्तरानुसारात् वचनम्, श्लक्ष्णा तीक्ष्णा चेति प्रभेदद्वयमात्रमिति समुचितम्, समाहाररूपत्वात् पाञ्चालीति प्रभेदोऽपि भवितुमर्हति, यस्या एव कार्णाटीति नामान्तरमित्याशेते।

[[318]]

युक्तं चेदम्, वर्णास्तावत् संयुक्ता असंयुक्ताश्च कोमला रूक्षाश्चेति यथा द्वेधा विभक्तुं शक्यन्ते तथा पूर्वाभ्यां सह मध्यमा इति त्रेधापि। यदि द्वेधा विभागः तर्हि पाञ्चालीति सङ्कररूपा, अथ त्रेधा तर्हि तत्तद्वर्णघटित एकैकः प्रकार इत्यभिप्रायात्॥

एवं पाकोऽपि नालिकेरपाको द्राक्षापाकश्चेति द्विविध इति कथयन् आद्यस्य ‘आदौ ह्नस्वत्वेन वत्सानुसृत्याम्’ (१२.३२) इति श्लोकम्, अन्त्यस्य च ‘तदिदं वपुरस्य दृश्यते दलितेन्दीवरसुन्दरद्युति’ (७.२३) इति श्लोकं च उदाहरन् प्रबन्धमिममुपसंहरति ॥

एवमत्र काव्यत्वम्, तद्गतं महत्त्वम्, नायकः तन्निष्ठं च गुणजातम्, रसो रीतिश्चेति यद्यदपेक्षितं तत्सर्वमपि प्रबन्धेऽस्मिन् तत्रभवताचार्येण सोदाहरणं निरूप्य श्रीमध्वविजयस्य महाकाव्यत्वं समर्थितम्। रमणीयश्चायं प्रबन्ध इति दिक् ॥


[[319]]