३४ प्रत्नप्रयोगमीमांसा

डा. रामकृष्ण पेजत्तायः

अवतरणिका प्रयोग एव भाषाया जीवातुः। व्याकरणं तावद् व्यवहारस्थानां शब्दानां व्युत्पादकम्। तदेतत् प्रस्फुटं शाब्दिकानामपि ‘प्रयुक्तानामिदमन्वाख्यानम्’ इति स्वं शास्त्रं परिचाययताम्। न पुनर्व्यवहारे विद्यमानाः सर्वे प्रयोगाः साधवो भवन्ति। शिष्टकर्तृकाणामेव प्रयोगाणामिह साधुताभ्युपगमः। के पुनरिह शिष्टाः? तल्लक्षणं नैकैर्वर्णितं चेदपि न तथाभूतानां साम्प्रतं दर्शनम्।

तथा च अस्माकमुपलभ्याः शिष्टाः शास्त्रप्रणेतारो महाकवयश्च। अमीषां प्रयोगे न क्काप्यास्पदमपशब्दानाम्। तेषु क्काप्यसाधुतायां दृष्टायां तदाभास- मात्रमिति वेद्यं न तु वस्तुगत्या। अत एव केषुचन महाकविप्रयोगेषु पाणिनीय- नयानुसारेण1 दृष्टायामप्यसाधुतायां तेषां पाणिनीयपरिधौ प्रवेशयितुं यतन्ते शाब्दिकाः, न पुनरसाधव इति तान् प्रतिक्षिपन्ति। यथा त्रिलोकनाथः।

‘त्रयो लोकास्त्रिलोकाः, तेषां नाथ’ इति व्युत्पाद्योऽयं शब्दः। किञ्च संख्यावाचकस्य विशेषणस्य विशेष्येण समासं संज्ञायामेवाभ्युपैति पाणिनिः।2 प्रकृते त्रिलोकशब्दो न कस्यापि संज्ञा। त्रयाणां लोकानां समाहारे विवक्षिते त्रिलोकीति शब्दः शक्यो व्युप्तादयितुम्। ततस्तत्पुरुषे कृते त्रिलोकीनाथ इति वक्तव्यम्। तथा च प्रागुक्तस्त्रिलोकनाथशब्दः असाधुरिति सिद्धम्। परन्तु ‘त्रिलोकनाथः पितृसद्मगोचर’ इति प्रायुङ्क्त प्रत्नः कवितल्लजः कालिदासः। न्यायसूत्रादिष्वपि एतद्विधाः शब्दाः सन्त्युपलभ्याः। एवं च शब्दोऽयं शिष्टप्रयोगपरिपूत इति कृत्वा असाधुरयमिति प्रतिक्षेपं सर्वथा नार्हति। अत एनं पाणिनीयपरिधावानेतुं प्रयेतिरे पदशास्त्रनिपुणाः।

  1. इह व्याकरणानि नैकानि। तेषु प्रथमोपस्थितं भवति पाणिनीयम्। साम्प्रतं सर्वत्र व्याकरण विचाराः पाणिनीयनयानुसारेणैव प्रवर्तन्ते। तदीया परिपूर्णता प्रामाणिकता चात्र मूलम्।

अत इह तदेवोल्लिखितम्।

2.दिक्संख्ये संज्ञायाम् (2.1.50)

[[299]]

संज्ञायामेव समास इति नियमः कर्मधारयविषयः किल! अतो मार्गान्तरेणेह समासो द्रष्टव्यः। त्रिसंख्याका लोकास्त्रिलोका इति। तमेनं मध्यमपदलोपिनं न किञ्चिन्निरुणद्धि शास्त्रम्। अतोऽनेन वर्त्मना प्रयोगोऽयं सूपपाद इत्याख्यान्ति व्याख्यातारः। तदेवंविधं साधुत्वोपपादनमेव लक्ष्यीकृत्य प्रवृत्तानि ग्रन्थरत्नान्यपि नैकानीति अवधानार्हं नः।

किञ्चैतदिह चित्रं यद् द्वैतराद्धान्तप्रतिष्ठापकानाम् असंख्योद्ग्रन्थप्रणेतॄणां प्रत्नप्रयोगप्रवणानां श्रीमदाचार्याणाम् अपाणिनीयाः प्रयोगा नव्यैर्वैयाकरणैः साधुत्वोपपादनार्थमुपात्ता न विलोक्यते। सर्वथा साध्वी ननु माध्वी वाणी।

न पुनस्ताम् असाधुतायाश्छायापि स्पष्टुमर्हति। क्कचित् तैः प्रयोजनविशेषं पुरस्कृत्य श्रौता आर्षाश्च प्रयोगा विहिता इत्यपि न मतिं नारोहेत् सुमतीनाम्।

न केवलं श्रीमदाचार्याणां किञ्च अन्येषामपि केषाञ्चन प्रत्नप्रयोगाणां साधुत्वं पाणिनीयनयानुसारेण दुरुपपादम्।1 यथा, नैकेषु तन्त्रग्रन्थेषु भूयः प्रयुक्तो दृश्यते ळकारः। कलत्रादिष्वपि शब्देषु ळकारघटितं (कळत्रमिति) लेखनं दृश्यते दाक्षिणात्यासु मातृकासु। किञ्च पाणिनिना ळकारविषये न किञ्चिदभिहितमिति सर्ववेद्यम्। एवमेतद्विधानां प्राचीनानां प्रामाणिकानां च प्रयोगाणां साधुत्वमुपपादयितुं काचिल्लघुकाया कृतिः प्रणीताऽचार्यगोविन्देन यस्याः प्रत्नप्रयोगमीमांसेति नाम।

प्रत्नं नाम प्राक्तनम्।2 प्राक्तनानामपि पाणिनिनयेन अनुपपन्नानां प्रामाणिकानां प्रयोगाणां व्युत्पत्तिं तदध्वना तेषां साधुत्वं च विवरीतुमसावुद्यम इति स्वयं निगदति ग्रन्थकृद् यथा - 1. नेह पाणिनीयो नयोऽपूर्णोऽग्राह्यो वेति विवक्षितम्। गैर्वाण्या व्याप्तिर्देशकालाभ्यामुभाभ्या मप्यपरिमेया। तामिमाम् अपरिमेयां पदसम्पत्तिं मुष्टिमेयैः पदैरन्वाख्यातुं न सुशकम्।

तदेतदेतावद् व्यवस्थितं विधातुं न पाणिनेरन्येन शक्यमित्यपि शते शतं व्यक्तं नः। यदि कश्चन शिष्टप्रयोगः पाणिनीयं परिधिं न प्रविशति तर्हि तत्समन्वयनविधिश्चिन्त्यो न पुनरसावसाधुरिति प्रत्याख्येय इत्येवात्र मनीषितोऽर्थः।

  1. पुराणे प्रतनप्रत्नपुरातनचिरन्तनाः (अमरः 3.1.77)

[[300]]

पाणिनीयनये प्रायो ये शब्दा न निरूपिताः।

प्रत्नास्तेषां तु निष्पत्तिप्रक्रियात्र प्रदर्शिता ॥

इह प्रयोजनान्तरमप्यस्ति ग्रन्थकर्तुः। वैदिकान् प्रयोगान् व्युत्पादयितुं क्कचिद् ‘बहुलं छन्दसि’ इत्याकारकाणि सूत्राणि सृजति स्म पाणिनिः। न तदर्थास्तदुक्तया व्युत्पत्त्या स्फुटीभवन्ति। क्कचित् केचन शब्दा अर्थविशेषनिमित्ताः प्रयुक्ता भवन्ति। तेऽप्यर्थविशेषा न नः पाणिनिनयेन वेद्याः। ईदृशीनामपि न्यूनतानां परिहृतिं लक्ष्यीकुरुते प्रकृता कृतिः। इहोक्तेषु प्रत्येकमप्यंशः सोदाहरणम् उत्तरत्र प्रपञ्चयिष्यते।

सूत्रमयं वर्त्म गोविन्दाचार्याणां कार्येषु सर्वदा भवति काचिदभिनवता। सा चाभिनवता साम्प्रदायिकीं काञ्चन सृतिं रीतिं वा आवहन्ती कामप्यभिख्यामाकलयति।

एतदध्वन्येतावता कृतप्रवृत्तयो वाग्विचिन्तकाः पाणिनीयमेव सूत्रम् अन्यथा व्याख्यान्तः, अभीष्टं शब्दं प्रकारान्तरेण व्युत्पादयन्तो वा नैजं लक्ष्यं प्रतिपन्नाः। परं नितान्तविलक्षणोऽयं बन्नञ्जेमार्गः। इह हि पाणिनिशैल्या नूत्नानि सूत्राण्येव प्रणीतानि। सूत्राणि किल भारतीयशास्त्रपरम्पराया एकसूत्रताम् अभिव्यञ्जते। सूत्रं नाम वृत्तिं भाष्यं वाऽपेक्षते। प्रकृते तां वृत्तिमपि स्वयमुपकल्प्य अन्यथाव्याख्यानं निरास्पदं कृतवानस्त्याचार्य- गोविन्दः। तदिदं सूत्रजालं वृत्तिश्चोभे अभिजातशैल्येह सम्पन्ने। इत्थं विषये प्रस्तुतौ चोभयत्रापि नौतन्यमस्याः कृतेर्वैशिष्ट्यम्।

तदधुना कृतेरस्याः संरचना विषयजातं च स्तोकमिव परिचाययिष्यते।

असौ कृतिर्वर्णसमाम्नायः ळकारसमाम्नायः क्रियासमाम्नायः शिष्ट- समाम्नायश्चेति चतुर्भिः पादैर्विभक्तास्ति। अमूनि नामान्येव तत्तत्पादगान् विषयान् साधु सङ्गिरन्ते। अतो नात्र तद्विस्तरप्रसङ्गः। पादक्रमेणैव तत्तत्पाद- गतानां द्वित्राणां स्वारसिकानां विषयाणां प्रस्तुतिरुचिता भवेत्।

[[301]]

प्रथमः पादः - वर्णसमाम्नायः वर्णानां गुणस्वभावादिकं विवृण्वन्नसौ पादश्चतुर्दशसूत्रीं बिभर्ति।

अत्रत्या द्वित्रा विशेषा यथा - ह्नस्वयोः ऎकार-ऒकारयोः दीर्घस्य लॄकारस्य च अङ्गीकारः व्यावहारिक्यां वर्णमालायां ह्नस्व ऎकार ऒकारश्च नोपलभ्येते। तयोः प्रयोगोऽप्युपलभ्ये गैर्वाणे वाङ्मयप्रपञ्चे न दृश्यते। व्याकरणान्यपि एकार- ओकारयोर्ह्नस्वभेदं नाभिदधति। परन्तु गोविन्दाचार्यास्तमेनं ह्नस्वप्रभेदम् ऊरीकुर्वाणाः तत्कारणं विवृण्वन्ति यथा – ‘लघुतयोच्चारदर्शनान्न्यूङ्खेषु गानेषु च’ इति। अयमत्र सारः। वैदिका न्यूङ्खेषु अमो३ ऒ ऒ ऒ ऒ ओ३ इत्यादिरूपेण ह्नस्वमुच्चारयन्ति। तमेनं ते ह्नस्वम् ऒकारं सङ्गिरन्ते। अथ गीतेषु ह्नस्व-ऒकारस्य प्रयोग आनन्दतीर्थीय उपलभ्यते यथा – ‘अतितम- तमॊगिरि-समितिवि-भेदन जगदॆक-कारण-रमरम-रमण’ इति। गीतमिदं चतुर्मात्रागतिकम्। इह ‘तमॊगिरि’ ‘जगदॆक’ चैतयोर्गणयोः क्रमेण ह्नस्व ऒकार ऎकारश्च यदि नाभ्युपगम्येत तर्हि गतिभङ्गप्रसङ्गः। गतिमाश्रित्यैव किल भवन्ति च्छन्दोनियमाः। अतो गतिभङ्गो नाम च्छन्दोभङ्ग एव यो हि दोषाणामग्रणीः। न तादृशो दोषः प्रसजत्यभिज्ञानां वाण्यां विशिष्या- चार्यमध्वानाम्। अत इहाचार्यैर्ह्नस्वावेव ऒकार-ऎकारौ प्रयुक्ताविति गोविन्दमतम्। एवमेव दीर्घ-लॄकारोऽप्यस्यां मीमांसायामूरीकृतोऽस्ति यश्चैतैस्तन्त्रादिगतैः प्रयोगैरुपपादितः।

अत्रत्याऽपरा स्वारसिकी मीमांसैवम् – अवर्गीयव्यञ्जनान्यस्माभिः यरलवेति क्रमेण आम्नायन्ते ननु। किन्तु यवरलेति क्रमः पाणिन्यभिमतः।1 तदनयोः कतरः क्रमः साधीयानित्यत्र इदं गोविन्दहृदयम् – वस्तुतः पाणिनिक्रमो युक्तियुक्तः। स्वराणामानुपूर्वी ‘इ उ ऋ ॡ’ इति। अमुमेव क्रमं चेदनुसरेम तर्हि इ+अ य, उ+अ व, ऋ+अ र, ऌ+अ र – इति 1. हयवरट्, लण् – चैतत् सूत्रयुगलम् इह स्मार्यम्।

[[302]]

यवरलाकारा आनुपूर्वी एव युज्यते। तथापि यरलवेति याऽनुपूर्वी समुत्पन्ना सा देवताक्रमेण। तद्यथा – ‘यमिति वायुः। रमित्यग्निः। लमिति भूः।

वमिति जलम्। शमित्याकाशः।’ तदेवं वर्णसम्बद्धा बहवो हि रसवद्विचारा इह शक्या विलोकयितुम्।

द्वितीयः पादः – ळकारसमाम्नायः संस्कृतवाङ्मये ळकारो वर्तते किन्नवेति विचारश्चिराद् वरीवर्ति।

वैदिकवाङ्मये दृश्यो ळकारस्तदुत्तरवर्तिन्या भाषया नाभ्युपेत इति भूयसां भाषाविदां मतम्। पाणिनीये वर्णसमाम्नायेऽपि न ळकारो लब्धास्पदः।

किन्त्वत्र न संवदन्ते गोविन्दाचार्याः। लौकिकेऽपि वाङ्मये ळकारप्रयोगश्चिराद् वरीवर्तीति द्रढीयांस्तदभिप्रायः। एतदुपोद्बलकानि नैकानि प्रमाणानि1 स्वीयेषूपन्यासेषु तैर्विव्रियमाणान्यपि स्मर्तुमर्हाणि। आचार्याणामेतद्विषयको विचारो नैतावता विरमति। प्रत्युत, प्रयोगेषु लकार-ळकारयोर्भेदं तद्व्युत्पत्तिसहितं ते प्रस्तुवन्ति। तथा च कृत्स्नोऽयं पादस्तन्मीमांसापरत्वेन तै रूपित इति विशेषोऽपीहावधार्यः। सेयं मीमांसा नवदशभिः सूत्रैरिह निर्वर्तितास्ति। पिपठिषूणामामोदाय द्वित्राण्युदाहरणानीह सन्दृभ्यन्ते।

राल्लो ळः समानपदे रकारात् परस्य लकारस्य ळकारादेशो भवतीति प्रकृतसूत्रार्थः।

सोऽयमादेशः स्थानिनिमित्तयोः समानपदस्थितयोरेव। यथा – विरळः, सरळः, कराळश्च। विपुल-चञ्चल-प्रभृतिषु निमित्ताभावान्न ळादेशः।

अथ कालशब्दः। अस्य विभिन्नानां प्रयोगस्थानानां सूक्ष्मया पर्यालोचनया समुदिते विद्येते ‘कलतेः कालः’ ‘कडतेः काळः’ चेति द्वे सूत्रे।

अत्रायं सारः। शब्दसंख्यानयोरर्थयोः कलधातोर्निष्पद्यमानाः शब्दा लकारघटिता एव। यथा समयार्थकः कालशब्दः। एवम् अव्यक्तशब्दार्थकः कलशब्दोऽपि लकारघटितः। अस्त्यन्यः ‘कड’धातुः यस्य मदाभ्यवहारावर्थौ।

  1. यथा दक्षिणभारतोपलब्धेषु नैकेषु संस्कृतताडग्रन्थेषु ळकारघटिता उल्लेखा भूयांसो दृश्यन्ते।

[[303]]

अस्य डकारो ळकारो भवति। यथा काळवर्णः, काळाष्टमी, काळी चेत्यादिषु शब्देषु। तथा चैते शब्दा मदार्थपरतया अभ्यवहारार्थपरतया वा व्याख्येया इति भावः। अस्मिन्नेव प्रसङ्गे कळत्रं कळा चेति शब्दावप्याचार्यैरुदाहृतौ विशेषेणावधानार्हौ। इह कळत्रशब्दे मदार्थे, कळाशब्दे अभ्यवहारार्थे च कडधातुर्द्रष्टव्यः। इमां मीमांसामनुवर्तयन्नाचार्य आह – ‘कलेर्वर्णे वा ळः’ इति। कलधातुरपि वर्णार्थे चेत् प्रयुक्तः1, तस्य लकारो ळकारो भवतीत्यर्थः।

यथा – काळाष्टमी। अत्र कलधातोर्निष्पन्नः कालशब्दः कृष्णवर्णवाची।

अतोऽस्य लस्य ळादेशः। अथ चेदत्रत्यः कालशब्दः संख्यानार्थे विवक्षितः तर्हि लकार एव तिष्ठति।

प्रकरणेऽस्मिन्नित्थम्भूतानि भूयांसि मीमांसितानि सन्ति चेदपि गौरवभयादिह विरम्यते।

तृतीयः पादः – क्रियासमाम्नायः क्रियापदसम्बद्धान् पाणिनिनानुक्तान् कांश्चिदंशान् विवृण्वन्नसौ पादः सप्तविंशत्या सूत्रैरुपनिबद्धः। अत्रत्यान् द्वित्रान् विशेषानधुना पश्येम।

अडभावश्चाल्पाख्यायां लङि लङ्लकारे धातूनामडागमः संस्कृतज्ञानां विदित एव।2 यदि क्रियाया अल्पत्वं विवक्षितं तर्हि अडागमोऽयं न भवतीति प्रकृतसूत्रार्थः। यथा – ‘स ईक्षतेमान् लोकान्नु सृजा इति’ (ऐतरेयोपनिषत् ४.१) इत्युपनिषद्वाक्ये ईक्षणक्रियाया अल्पत्वमभिप्रेतम् इति कृत्वा अडागमाभावः। अडागमे सति ऐक्षत इति स्यात्। तथा च ईषदीक्षणेनैव भगवान् सर्वान् लोकान् ससर्जेत्यर्थोऽत्र फलति।

वस्तुतस्तु ईदृशान् वैदिकप्रयोगान् साधयितुं ‘बहुलं छन्दस्यमाङ्योगेऽपि’ 1 धातूनामनेकार्थत्वात्।

2 धातुरजादिश्चेदाडागमः।

[[304]]

(६.४.७५) इति सूत्रयामास पाणिनिः। किन्तु सूत्रमिदम् अभीष्टं रूपं साधयति चेदपीदृशेषु प्रयोगेषु स्थितो विशेषार्थो न तेन व्यक्तः। तमेनं प्रकाशयदाचार्यसूत्रं श्रुतिवाक्यं कार्त्स्न्येनावगन्तुम् उपकरोति। इदमेवैतत्सूत्रा- रम्भप्रयोजनम्।

लृटि वा अस्मिन् पादे स्थितं सूत्रान्तरं लृटि वा इति। लृट्-लकारे हन्तेर्वधादेशो वा स्यादिति सूत्रार्थः। अनेन हनिष्यति वधिष्यति चेति रूपद्वयस्यापि साधुता साध्यते। पाणिनिनये वधिष्यतीति प्रयोगो न सिद्ध्यति। यतो वधरूपो धातुरिह न सम्मतः। हनो वधादेशो विहितः1 चेदपि न तत्प्रसक्ति- र्लृटि। किञ्च आनन्दतीर्थभगवत्पादैः ‘शकुनिं त्वक्षकितवं सहदेवो वधिष्यति’ (महाभारततात्पर्यनिर्णयः २१.३५०) इत्यत्र वधिष्यतीति प्रयुक्तम्।

अतस्तत्साधुत्वमुपपादयितुं प्रकृतं सूत्रम्। प्रयोगमेनं युक्त्यन्तरेणापि समर्थयन्त्याचार्या यथा – वस्तुतस्तु प्राचीनधातुपाठानुसारेण वधधातुरेव रूपं निष्पादयति। व्याकरणं विदतामिदम् अतिरोहितमेव यदत्र धातुपाठे सन्ति मतभेदा इति। पाणिनिनाऽनिर्दिष्टानपि भूयसो धातून् पाणिनीया अभ्युपयन्तीति इहानुसन्धेयम्।

चतुर्थः पादः – शिष्टसमाम्नायः प्रागभिहितेषु विषयेष्वनन्तर्भवतां शिष्टैः समाम्नातानां नानाविधानां प्रयोगाणां साधुत्वं विवरीतुं प्रवृत्तोऽयं पादः। इह समस्ति सूत्राणामशीतिः।

यथापूर्वम् अत्रत्या अपि कतिपये विशेषा इहोपन्यस्यन्ते।

पर्वभाराभ्यां मत्वर्थे तः संज्ञायाम् पर्वतः भारतश्चेति शब्दयोर्व्युत्पादनार्थं प्रकृतमिदं सूत्रम्। क्रमेण ‘पर्वाण्यस्य सन्ति’ ‘भारोऽस्य अस्ति’ चेत्यर्थयोः पर्व-भार-शब्दाभ्यां 1 यथा अवधीद् वध इत्यादिषु।

[[305]]

तप्रत्ययोऽनेन सूत्रेण विहितः। पाणिनीयनये इमौ शब्दौ व्युत्पादयितुं शक्यै चेदपि नैतयोरर्थयोः।1 यथा भरतस्येदम् इति, भरतं भरतवंश्यान् अधिकृत्य कृतो ग्रन्थ इति च अर्थयोः भरतशब्दादणि भारतशब्दो व्युत्पादयितुं शक्यः पाणिनिनये। किञ्च ‘महत्त्वाद् भारवत्त्वाच्च महाभारतमुच्यते’ इति महाभारतमात्मानं परिचाययति। अतो भारवत्त्वरूपेऽर्थे भारतशब्दोऽस्माकम् इष्टः, यं पाणिनीयनयो न प्रदत्ते। तदेवम् अभिप्रेतेऽर्थे प्रकृतशब्दयोः साधनार्थमारब्धं प्रकृतसूत्रम्।

छन्दसि विभाषा ह्नस्वदीर्घत्वे छन्दसि क्कचिद् ह्नस्वो दीर्घतां याति क्कचिद् दीर्घो ह्नस्वतां चेति एतत्सूत्रार्थः। यथा ‘अत्रा सखायः सख्यानि जानते’ (ऋग्वेदः १०.७१.२) इत्यत्र अत्रशब्दान्त्योऽकारो दीर्घीभूतः सन् ‘अत्रा’ इति रूपायाकल्पत।

सूत्रेऽस्मिन् छन्दःशब्दो वृत्तवाचकोऽपि। अतो गीतिष्वपि ह्नस्वदीर्घयोर्मिथो व्यत्ययो भवतीत्यर्थोऽपि सिध्यत्यस्य सूत्रस्य। यथा कृष्णाष्टके पालया कमलालया। इहोभयत्र यकारात् परयोराकारयोः स्थाने वस्तुतो विद्यमानो वर्णः अकारः।2 स चात्र गीत्यां दीर्घीभूतो द्रष्टव्यः। सोऽयं ह्नस्वदीर्घव्यत्ययो न वृथा। तदुच्यते सूत्रान्तरेण – ‘अर्थविशेषादेव’ इति। महात्मनां व्याहारेषु स्वरमात्रादितोऽपि अर्थविशेषा अभिव्यक्ता भवन्ति। त इमेऽर्थविशेषाः सन्ततं सञ्चिन्त्याः सुधीभिरित्याचार्याणामाशयः। यथा ‘अथा ते सख्ये अन्धसो (ऋग्वेदः १०.२५.१) इत्यादिषु मन्त्रेषु अथाशब्दस्य दीर्घान्तप्रयोगः 1. पर्वतशब्दः पाणिनीयनये द्वेधा व्युत्पादयितुं शक्यः। १. पर्वतीत्यर्थे पर्वधातोरतच्प्रत्ययः।

२. पर्वाणि सन्त्यस्येत्यर्थे पर्वशब्दादतच्प्रत्ययः। इह द्वैतीयीकी व्युत्पत्तिः आचार्याभिप्रेते अर्थे एव विद्यते। आचार्योक्ते पाणिन्युक्ते च प्रत्ययमात्रं भिद्यते, न त्वभिप्रेतोऽर्थो रूपं च।

तथापि प्रकृतसूत्रे पर्वतशब्दस्याप्यन्तर्भावो विस्मयावहः।

  1. इह कमलालयपदान्तगस्य अकारस्य गुरुत्वं पादान्तभवत्वादेव सिद्ध्यति। तस्मान्नात्र दोषप्रसङ्गः। किन्तु ‘पालय’शब्दस्य ‘पालया’ इति दीर्घान्तत्वम् अनेन सूत्रेण विना दुर्वचम्। ह्नस्वत्वे तु च्छन्दोभङ्गः, यं न मनागपि कुर्वन्ति महात्मानः।

[[306]]

अत्यन्तनैकट्यं बोधयितुम्। तथा च ‘कुर्वाणा चीरमात्मनः’ इत्यादौ तैत्तिरीयोपनिषन्मन्त्रे चिरमिति वक्तव्ये चीरमिति प्रयोग एकान्तदैर्घ्यम् अभिव्यङ्क्तुम्। सोऽयमस्याः कृतेः संक्षिप्तः परिचयः।

चिन्तनम् पाणिनीयनये ये प्रत्नप्रयोगा न निरूपितास्तेषां निष्पादनमस्याः कृतेर्विषय इति प्रतिज्ञावाक्यमाचार्याणाम्। पाणिनिना व्युत्पादितेष्वपि शब्देषु यदि कस्यचिद् अभिप्रेतोऽर्थविशेषो न परिस्फुरति तर्हि सोऽप्यत्र मीमांसितोऽस्माभिः शक्यो द्रष्टुम्। परन्तु क्कचित् पाणिनिनये अभिप्रेतार्थे एव च सिद्धाः शब्दा अनेन ग्रन्थकर्त्रा उपात्ता दृश्यन्ते। अनया दृष्ट्या पर्वतशब्दः प्रागेव विवृतो मया। अपरमिहोदाहरणं शक्यं वीक्षितुम्। शरशब्दान्मतुपं कृत्वा व्युत्पादयितुं शक्यः शरावतीशब्दः। परमेतयोः प्रकृतिप्रत्यययोर्योगे शरवतीति भवति। इह दैर्घ्यसिद्ध्यर्थं शरादीनाञ्च इति सूत्रं प्रोक्तवानस्ति पाणिनिः। धूमावतीशब्दोऽप्यनेन सूत्रेण निष्पन्नो भवति। तथाप्येतद्विधानां शब्दानां दैर्घ्यं सम्पादयितुम् आचार्यगोविन्देन शरनेत्रधूमपद्मानां दैर्घ्यं स्त्रीसंज्ञायाम् इति किञ्चित् सूत्रितमस्ति। सूत्रेऽस्मिन् शरधूमशब्दयोरुपादाने बीजं न शक्यं विवरीतुम्। किमप्यन्यदिहाभिप्रेतं स्यादाचार्याणाम्।

तदेवमन्यत्रापि क्कचिदाचार्याणामाशयो न स्फुटं व्यक्तो भवति।

अत्रोपात्तान् बहूनंशांस्ते स्वेषूपन्यासेषु समुल्लिखन्ति स्म। अतस्तान् अनारतं श्रुतवद्भिः विद्यया तन्निकटवर्तिभिर्वा ‘इदमित्थम्’ इति तदभिप्रेतं शक्यमभिधातुम्। तथाभूतेषु कश्चिदस्य विस्तृतं व्याख्यानं लिखेच्चेदसौ कृतिः सर्वत्र प्रसृत्वरा सती अधिकान् जिज्ञासून् प्राप्नुयात्। अनेन तद्वचसाम् अन्यथाव्याख्यानप्रसङ्गोऽपि दूरान्निवारितः स्यात्।

अत्र लक्ष्यत्वेनोपात्ताः प्रयोगा अपि विभिन्नमूलाः। परन्तु तन्मूलं क्कापि नोल्लिखितमस्मिन् पुस्तके। इदमपि पठितॄणां क्लेशाय कल्पते। अत एषां स्रोतःसहितं प्रकाशनम् आवश्यकम्।

[[307]]

उपसंहारः इति संक्षिप्तं परिचायिता आचार्यगोविन्दकृता प्रत्नप्रयोगमीमांसा।

मीमांसेयं प्रत्नानाम् अपाणिनीयानां प्रयोगाणां व्युत्पादनार्थमेव, तेऽस्मद्व्यवहारे प्रयोगार्हाः किं न वेत्यत्र नास्माकं भरो महानित्यपि तैः स्पष्टीकृतम्उपसंहारपद्येषु। एतत्प्रणयनं पाणिनिना अनुक्तानामंशानां कथनार्थमेव, न तु तत्पर्यायत्वेनेति प्रथमं मनसि कार्यम्। भाषां व्याकरणं वा एकयैव दृष्ट्या विलोकितवतामियं कृतिर्नूतनां दृष्टिं प्रदिशतीत्यत्र न मनागपि संशयः। पूर्वैः पदशास्त्रज्ञैरस्पृष्टानां प्रयोगाणाम् उपपादनार्थं प्रवृत्ताप्यसौ मीमांसा अभिप्रेतार्थानुसारेण व्युत्पादनं स्वरमात्रादीनामप्यर्थविशेषः चैतदाद्यैरध्वभिः स्वां व्याप्तिं विस्तारयति। गैर्वाण्या व्याप्तिः देशकालाभ्याम् उभाभ्यामप्यायामाभ्याम् अपरिमितेति कृत्वेह प्रयोगमीमांसा न सुकरा।

अत्रापीदं सुवेद्यम्। अस्यां मीमांसायां सकृदवलोकितायां वैदिकवाङ्मयं पुराणानि तन्त्रग्रन्थाः प्रातिशाख्यानि चैवं नानाविषयकं ग्रन्थकर्तुरध्ययनं तेषां कूलङ्कषं विवेचनं नास्माकमविदितं भवति। प्रस्तुतावाश्रितः सूत्रवृत्तिरूपो मार्गोऽपि कृतिमिमां रसनीयां तनुते।

आचार्यगोविन्दीयां भाषां प्रति किञ्चिन्न लिखेयं चेदसौ परिचयो न पूर्णतामञ्चेत्। स्पृहणीया किल वाणी गोविन्दीया। मुक्तकप्रायैः पदैः, असंश्लिष्टैर्वाक्यैः, स्थाने विन्यस्तैर्वाग्योगैश्च कथं भाषा रसनीया कर्तव्येति तस्माच्छिक्षेत लेखकलोकः। एतान् पठितवतां गैर्वाणीप्रणयिनां मनस्ययं भाव उत्पद्यत एव यद् – आचार्या इतोऽपि चेत् संस्कृतेन अलेखिष्यन्॥

॥ श्रीकृष्णार्पणमस्तु ॥

[[308]]