३३ प्राणसूत्राणि

डा. म. जयरामः

उपोद्घातः बन्नञ्जे गोविन्दाचार्याः वेदेषु वेदान्ते चकृतभूरिपरिश्रमाः। बहूनां ग्रन्थानां विस्तृतानि सङ्क्षिप्तानि च संस्कृतव्याख्यानानि तैः रचितानि। नैकाः संस्कृतकृतयः कन्नडभाषया तैः अनूदिताः। तेषां प्रवचनान्यपि अत्यन्तं ज्ञानपूर्णानि प्रेरकाणि च। इत्थम् अत्यन्तं वैदुष्यपूर्णाः ते एकं विशिष्टं योगग्रन्थमपि व्यरीरचन्। स्वोपज्ञव्याख्यापि तस्य ग्रन्थस्य निबद्धा तैः।

तस्य योगग्रन्थस्य नाम ‘प्राणसूत्राणि’ इति। आधुनिके काले प्रायः जगति सर्वोऽपि मानवः योगस्य कमपि प्रकारम् अनुतिष्ठत्येव। योगस्य आसनं, प्राणायामः, ध्यानम् इत्यादीन्यङ्गानि प्रसिद्धानि। तत्रापि योगाङ्गेषु प्राणस्थानीयः प्राणायामः। हठयोगप्रदीपिकायाः एकं वचनम् अत्र स्मरणार्हं यच्च प्राणायामपारम्यं बोधयति - प्राणायामैरेव सर्वे प्रशुष्यन्ति मला इति।

आचार्याणां तु केषाञ्चित् अन्यत् कर्म न सम्मतम्॥ (२.३७) किञ्च - ‘प्राणायामः परं तपः’ (मनुस्मृतिः २.८३) इत्येतादृशानि प्राणायामवैशिष्ट्यज्ञापकानि बहूनि विद्यन्ते वचनानि। सर्वास्वपि वैदिकक्रियासु ‘आचम्य, प्राणानायम्य’ इत्येतत् वचनम् आदावेव श्रूयते, तदनुगुणञ्चानुष्ठीयते। वैदिककर्मानुष्ठानयोग्यताप्रदायकत्वमपि प्राणायमस्य विद्यते इत्यपि अनेन व्यज्यते। पतञ्जलिमहर्षिणापि ‘ततः क्षीयते प्रकाशावरण्म्’ (यो.सू २.५२) इति प्राणायामस्य तमोनिवर्तकत्वम्, तेनच ज्ञानप्रदत्त्वंसमसूत्रि। इत्थं महत् विद्यते वैशिष्ट्यं प्राणायामस्य। प्राचीनेषु ग्रन्थेषु प्राणायामस्य महत्त्वं बहुधा कथितं चेदपि अर्वाचीने काले देववाण्या आचार्यैः बन्नञ्जे गोविन्दाचार्यैः योऽयं प्राणसूत्राख्यः ग्रन्थः निबद्धः तस्य परिचयः, वैशिष्ट्यद्योतनं च अनेन लेखेन कर्तुमुद्दिष्टम्।

[[286]]

ग्रन्थस्वरूपम् तत्रादौ ग्रन्थस्य स्वरूपंप्रदर्श्यते।अयं ग्रन्थः पञ्चाध्यायात्मकः। अत्र संहत्य १०८ सूत्राणि विद्यन्ते।

अध्यायानां नामनि तद्गता च सूत्रसङ्ख्या इत्थं वर्तते - • प्रथमः अनिरुद्ध-प्राणपादः। अत्र १६ सूत्राणि विद्यन्ते।

• द्वितीयः प्रद्युम्नापानपादः। अत्र २० सूत्राणि विद्यन्ते।

• तृतीयः सङ्कर्षण-व्यानपादः। अत्र १६ सूत्राणि विद्यन्ते।

• चतुर्थः वासुदेवोदानपादः। अत्र २० सूत्राणि विद्यन्ते।

• पञ्चमः नारायण-समानपादः। अत्र ३६ सूत्राणि विद्यन्ते।

अत्रावलोकितुं शक्यं यत् – अध्यायनामस्वेव किञ्चन वैशिष्ट्यं विद्यत इति। अस्य ग्रन्थस्य पञ्चाध्यायाः अनिरुद्धः, प्रद्युम्नः, सङ्कर्षणः, वासुदेवः इति चतुरः व्यूहान्, परं नारायणं चशिरसा शीर्षकत्वेन वहन्ति। किञ्च प्राणस्य पञ्च वृत्तयः अपि शीर्षकेषु प्रतिफलिताः दृश्यन्ते। इदं च बोधयति यत् -प्राणायमविषयकः अयं ग्रन्थः, केवलं श्वासोच्वासाभ्यास-विधान- बोधकः स्वास्थ्यविचारपरः न। किन्तु वेदान्तसम्प्रदायानुगुणं योग- सम्प्रदायानुगुणं च ईश्वरप्रणिधानपूर्वकं भगवत्तत्त्वावगतयेचैतन्यस्वरूपेणावस् थानाय च क्रियमाणः प्राणनियमविधानबोधकः इति। एतदुद्देशेन क्रियमाणः प्राणायामः स्वास्थ्यमपि प्रददाति इत्यत्र नास्ति संशीतिलेशोऽपि। अधुना अध्यायशः अस्य ग्रन्थस्य परिचयः कार्यते।

प्राणायामो नाम कः? अध्यायसारप्रतिपादनात् पूर्वं तत्रादौ अस्य ग्रन्थस्य प्रथमसूत्रस्यभाष्ये प्राणायामस्यकेचन प्राथमिकाः विचाराःस्पष्टीकृताः अवधेयाः वर्तन्ते। तत्र तावत् प्राणो नाम कः इति ग्रन्थप्रणेता कथयति। तदित्थम् -

[[287]]

‘प्राणो बलम्। प्राणा इन्द्रियाणि। प्राणापानाद्या अपि प्राणाः। पञ्च दश वा। प्रणेता च मुख्यः। जीवाश्च प्राणाः। परमश्च प्राणः। एक एव पञ्चधा प्रवर्तमानः प्राणा इत्युच्यते। चतुर्धा वा। अशना पिपासाऽपानश्च मृत्युश्चेति चतुर्विधः। एक एव महान् वायुः सर्वदेवेषु संस्थितः।’ प्राणस्य सर्वेऽपि प्रभेदाः, प्रभावाः च विस्पष्टं प्रकटिताः भाष्यवचनैरेभिः।

अनेन यस्य प्राणतत्त्वस्य विषये ग्रन्थः प्रणीतः तद्विषये बोधशुद्धिः भवति अध्येतॄणाम्। प्राप्तव्यस्य विषये एव अस्पष्टतायां सत्यां साधनानि कथां सश्रद्धम् अनुष्ठातुं शक्यानि ? अतः समग्रे ग्रन्थेऽस्मिन् पूर्वोद्धृतानि वचनानि अत्यन्तमेव मननीयानि।

आयामशब्दः अपिग्रन्थप्रणेत्रा निरुक्तः। स चइत्थम् - ‘प्राणानां यथायथमायामः। वशीकरणं विजय इत्येतत्। यथायथमिति कथम् ? क्कचित् प्रणयिनीमिव तरुणीं प्रणयप्रावण्येन। क्कचिदपि च प्रभुमिव प्रोद्गतं प्रपत्तिप्राग्भारेण। तद् यथायथा सम्भवति तद्विधानं प्रस्तूयते। ‘ आयामशब्दः विजयः वशीकारः इत्यनयोः अर्थयोः ग्रन्थेऽस्मिन् प्रयुक्तः इति, स च वशीकारः विजयो वा नानाविधैः उपायैः प्राप्तव्यः इति च पूर्वोद्धृतैः वचनैः प्रभोः तरुण्याः च उदाहरणेनसरसं ग्रन्थकर्त्रा विचारः प्रस्तुतः अवधेयः।

प्रथमः अनिरुद्ध-प्राणपादः वेदः प्राणस्य महत्त्वं गायति - तमेव मृत्युममृतं तमाहुः। तं भर्तारं तमु गोप्तारमाहुः।

स भृतो भ्रियमाणो बिभर्ति। य एनं वेद सत्येन भर्तुम् ॥

(तैत्तिरीयारण्यकम् ३.१४) प्राणः यदि सम्यक्(प्राणायामादिभिः, आहारादिनियमैः) भ्रियते, तर्हि सः अस्मान् बिभर्ति। तेन वयम् इतरान् अस्मत्सहजीवनं?? सम्यक् पालयितुं

[[288]]

प्रभवामः इति वेदभाष्यकाराः सायणाचार्याः व्याख्यान्ति। एतदनुगुणमेव प्राणसूत्रग्रन्थकर्तारः गोविन्दाचार्याः अपि ग्रन्थस्य प्रथमाध्यायस्य अवतरणिकाभाष्येकथयन्ति– ‘प्रसन्नो हि वशे क्रियते। तदर्थोऽयमधिकारः’ इति।‘ अत्र प्राणप्रसादसिद्ध्यर्थं- पूर्वाङ्गत्वेन आसनम् उल्लिखितम्। किन्तु आसनानुष्ठानविधानं तुविस्तरेण द्वितीये पादे प्रतिपाद्यते। अस्मिन् प्रथमपादे तावत् - प्राणायामाभ्यासाय शुचिः देशः, नदीतटाकोद्यानादिरूपः चेतव्यः इति ग्रन्थकर्तुः अभिमतं सविस्तरं प्रकटितमस्ति। ग्रन्थकारः अभिप्रैति यत्प्राणायामानुकूलः देशः - •वालुका-सूक्ष्मपाषाणादिभिः विहीनः भवेत् •नातिशीतः नात्युष्णः भवेत् •मनोनुकूलः च भवेत्।

सूत्रकारः पुनः कथयति यत् - •केवलायां भूमौ प्राणायामः न कर्तव्य इति •कुशाजिनकम्बलैः आसनं निर्मितं भवेत् ततश्च - पूर्वां दिशम्, उत्तरां वा दिशमभिमुखीकृत्य अनुष्ठाता उपविशेत् इति कथयति सूत्रकारः। तत्र च एतयोः दिशोः एव चयनस्य कारणं बोधयति ग्रन्थकृत् – ‘ध्रुवानुकूल्यात्॥१॥१४॥’ इत्यनेन सूत्रेण।

ग्रन्थकृत् अभिप्रैति यत् - प्राचीं दिशम्, उत्तरां वादिशम् अभिमुखीकृत्य उपविशतः साधकस्य उत्तरध्रुवस्य आकर्षणं, पितृयाणपरिपन्थिता (अर्थात् देवयानोन्मुखता च) च क्रमेण सिद्ध्यति।

[[289]]

यथा विस्पष्टतया अनुष्ठानयोग्यः देशः निर्दिष्टः ग्रन्थकर्त्रा। एवं कियन्तं कालम् प्राणायामः अभ्यस्तव्यः इति कालविषयकं स्वीयं चिन्तनं निगदितम्- ‘आभ्यासपाकम्॥१॥१५॥’ - इत्यनेन सूत्रेण।

पूर्वोक्तनियमपूर्वकम् प्राणायामाः अभ्यस्तव्याः। तेन हि अभ्यासस्य परिपाकः सिद्ध्यति इति अभिप्रैति ग्रन्थकृत्। तादृशाभ्यासपरिपाकपर्यन्तम् अभ्यासः आवर्तनीयः।

इत्थं च प्रथमे पादे साधारणकारणभूतौ देशकालौ विवृतौ सूत्रकारेण।

एतेषां विषयाणां विस्तारः योगयाज्ञवल्क्यसंहितायाः द्वितीये अध्याये (१३ शतमानम्), हठयोगप्रदीपिकायाः प्रथमोपदेशे (१५ शतमानम्) च तपोवनम्, योगमठः इत्येतेषां विवरणावसरे द्रष्टुं शक्यः।

द्वितीयः प्रद्युम्नापानपादः अस्मिन् पादे प्राणायामार्थमनुकूलानि आसनानि कथ्यन्ते। विशिष्य पञ्च आसनानि विवृतानि। तानि च - ‘पद्मस्वस्तिकभद्रवज्रवीराणि’ (२.१) पद्मासनम्, स्वस्तिकासनम्, भद्रासनम्, वज्रासनम्, वीरासनम्।

न केवलम् आसनानाम् उल्लेखः किन्तु, आसानानुष्ठानविधानमपि विधिवत् कथितमस्ति अस्मिन् पादे। प्राणायामार्थं पूर्वोक्तानि पञ्चापि आसनानि पञ्चस्वन्यतमं वा आसनमास्थेयम् इति न नियमः। एतद्विषये ग्रन्थकृत् कथयति यत् – ‘यथानुकूलं यथासुखं च॥२॥२॥’ इति।

तन्नाम एतेषु आसनेषु अन्यतरत् यच्च सौख्यं, स्थिरतां च प्रयच्छेत् तद् अनुष्ठातुं शक्यते इति। आसनेषु ब्रह्ममुद्रा, ज्ञानमुद्रा वा आस्थेया।

पादस्यास्य समापनंशवासनस्य विवरणेन कृतमस्ति।

[[290]]

तृतीयः सङ्कर्षण-व्यानपादः षोडशसूत्रात्मके अस्मिन् पादे प्राणायामस्य अन्याः काश्चनइतिकर्तव्यताः सूत्रकारेण बोध्यन्ते। तेषां बिन्दुशः सङ्ग्रहः अधः दत्तः - १) औत्सर्गिकरूपेण प्राणायामः भोजनात् पूर्वं कर्तव्यः। यदि भोजनानन्तरं क्रियेत अवरपक्षे घटिकाकालात् (२४ निमेषाः) परं प्राणायामः कर्तव्यः।न ततः पूर्वम्। (३.२, ३) २) मलमूत्रे विसृज्यैव प्राणायामः कर्तव्यः। (३.४) ३) प्राणायामाभ्यासकाले जायमानः स्वेदः न परिमार्जनीयः। (३.५) ग्रन्थकर्तुः इदं वचनम् - ‘ जलेन श्रमजातेन गात्रमर्दनम् आचरेत्’ (२.१३) इति हठयोगप्रदीपिकावचनं स्मारयति।

४) वसन्तकालः प्राणायामस्य युक्ततमः कालः।(३.६) ५) कर्णादिषु शीर्षण्येषु अवयवेषु वेदनायां सत्यां प्राणायामाभ्यासः नैव कार्यः।(३.८) ६) समन्त्रकः अमन्त्रकः वा प्राणायामः कर्तव्यः। ओङ्कारः तत्र प्रशस्तः मन्त्रः। प्राणायामानुकूलः सव्याहृतिः, सप्रणवः, सशिरस्कः गायत्रीमन्त्रः कथितः (३.९)।

७) कुम्भककालस्य क्रमेण वृद्धिः कर्तव्यः। (३.१०) ८) चतुर्दशवर्षीयः प्राणायामाभ्यासस्य आरम्भं कुर्यात्।

अशीतिवर्षपर्यन्तम् अभ्यासः कर्तुं शक्यः इति सूत्रकृतः आशयः। (३.११) ९) प्राणायामकाले चक्षुषी निमीलिते एव स्याताम्। क्कचित् ग्रन्थेषु कर्णपिधानमपि विहितमिति भाष्ये विचारः प्रस्तूयते। (३.१२) १०) बन्धत्रयवित् प्राणायामं कुर्यात् इति सूत्रकारः अभिप्रैति।

(३.१३-१६) अत्र विशिष्य उड्डियानबन्धः प्राणस्य विरेचनानन्तरं कर्तव्य

[[291]]

इत्युक्तम् अवधेयम्। लोके अभ्यासिभिः रेचकानन्तरमेव उड्डियानबन्धः विहितः चेदपि - हठयोगप्रदीपिकायां प्राणम् अन्तःकुम्भयित्वा अयं बन्ध- विशेषः कर्तव्यः इत्युक्तमस्ति। तद्विषयकं वचनमित्थम् - ‘ कुम्भकान्ते रेचकदौ कर्तव्यस्तूड्डियनकः (२.४५)।

किञ्च त्रिष्वपि बन्धेषु मूलबन्धस्य प्राधान्यमिति ग्रन्थकारः अभिप्रैति।

(३.१६) एवञ्च प्राणायामप्रक्रियातः पूर्वम् अत्यन्तं प्रमुखाः इतिकर्तव्यताः, प्राणायामाभ्यासिभिः अवधेयाः पादेऽस्मिन् प्रस्तुताः।

चतुर्थः वासुदेवोदानपादः अस्य अध्यायस्य विषयवस्तु अधिकृत्य अध्यायावतरणिकायां ग्रन्थकारः इत्थं कथयति – ‘कुम्भकाङ्गं नासाजयो नाडीजयश्च चतुर्थे’।

१) नासाजयप्रकारः-आदौ नासाजयप्रकारः कथ्यते। तत्र अनुलोम-विलोमः, चन्द्रानुलोमः, सूर्यानुलोमः इति त्रिविधः क्रमः उपदिश्यते। (४.१-१०) अ) अनुलोमविलोमः (४.१-८) - तत्र तावत् अयं क्रमः विवृतः- आदौ उभाभ्यामपि नासापुटाभ्यां निश्शेषं रेचनं करणीयम्। ततः परं द्वाभ्यामपि नासापुटाभ्यां वायोः पूरणं कर्तव्यम्। रेचकपूरकयोः कालः सम एव भवेत् आरम्भे। विषमवृत्तिः प्राणायामः अत्र स्थैर्यप्राप्तयनन्तरमेव इति ग्रन्थकृतः आशयः। किञ्च उच्छ्वासनिःश्वासौ अत्यन्तं गाढौ पूर्णौ भवेताम्।

तदर्थम् उरसः, उदरस्य शिरसः यथायोग्यं विन्यासः कर्तव्यः। इदं विवरणं ग्रन्थान्तरे दुर्लभम् (सूत्रं ४.६, तद्भाष्यं च)। अस्मिन् प्रारम्भिके अभ्यासे कुम्भकः अपि न विहितः। गाढतया श्वासोच्छ्वासस्य अभ्यासे सत्येव तदुत्तरं कुम्भकः अभ्यसितुं शक्यः इति सूत्रकारः अभिप्रैति। अस्य अभ्यासस्य आवृत्तिःपञ्चवारं, दशवारं, पञ्चदशवारं कर्तुं शक्यते। किन्तु प्रातः सायं चेति वेलाद्वये अभ्यासः कार्यः। अयम् अनुलोमविलोमः।

[[292]]

आ) चन्द्रानुलोमः (४.९) इति द्वितीयः प्राणायामप्रकारः बोध्यते ग्रन्थेऽस्मिन् यत्र पूरकरेचकौ वामनासापुटेन एव।

इ ) सूर्यानुलोमः (४.१०) तृतीयः यत्र पूरकरेचकौ दक्षिणनासापुटेनैव।

एभिः त्रिभिः अनुष्ठानैः नासाभागे सञ्चरतः वायोः जयः भवति इति ग्रन्थकृतः आशयः।

२) नाडीजयः (४.१२-२०) - नासाजयानन्तरं नाडीजयक्रमः कथ्यते। एतदर्थं किञ्चन विशिष्टं कुम्भकरहितं नाडीशुद्धिप्रकारं प्राणायामक्रममाह सूत्रकारः। अत्र तावत् इडया पूरणं, पिङ्गलया रेचनम्, ततः परं पिङ्गलया पूरणम्, इडया रेचनं कर्तव्यम्। हठग्रन्थेषु नाडीशुद्धिक्रमः कथितश्चेदपि तत्र अन्तःकुम्भकः विहितः अत्र तावत् स च न कथितः। किञ्च

  • इडानाड्याः पिधानं मध्यमानामिकाभ्याम् इति कथितम् (४.१४) अवधानार्हम्। हठग्रन्थेषु ‘मध्यमातर्जनीभ्यां विना’(२.६४) प्राणायामकाले अङ्गुलीभिः नासापुटस्थप्राणनियन्त्रणं करणीयमिति कथितमस्ति। अत्र ग्रन्थे तावत् मध्यमायाः अङ्गुल्याः उपयोगः न निषिद्धः।

अस्याः नाडीशुद्ध्याः अनुष्ठानम् - साधकस्तरानुगुणं पञ्चदशतः - त्रिंशत्-वारपर्यन्तम् अनुष्ठातुं शक्यते। क्रमेण सङ्ख्यावृद्धिः कर्तव्या, न हठात् एकदैव इत्यपि भाष्ये ग्रन्थकारः स्पष्टीकरोति। (४.१८) अस्यानुष्ठानस्य प्रयोजनं स्वयं सूत्रकारः द्वाभ्यां सूत्राभ्यां कथयति - ‘नाडी-शुद्धी रसोत्पत्तिर्मलबन्धवारणं मांसखण्डेषु शक्तिवृद्धिरग्निमान्द्यवारणं च॥४॥१९॥’ ‘कासश्वासादिनिवृत्तिर्निवृत्तिः॥४॥२०॥’ इति।

अस्यार्थस्तु स्पष्ट एव। अत्र विशेषो नाम - अनेन प्राणायामाभ्यासेन इडापिङ्गले शुध्यतश्चेदपि तेनैव सुषुम्नायाः अपि शुद्धिः भवति। यतो हि

[[293]]

इडापिङ्गलयोः मध्ये एव सुषुम्नायाः अपि संस्थितिः इति सप्रमाणं भाष्ये स्पष्टीकरोति ग्रन्थकारः। (४.१९) पञ्चमः नारायण-समानपादः अस्मिन् पादे बाह्याभ्यन्तरकुम्भकप्रकारौ निरूप्येते। पूर्वतनेषु पादेषुप्राणायामविधानं निरूपितं चेदपि तत्र कुम्भकानुष्ठानविधानं नैव विहितम्। कुम्भकस्तु प्राणायामापरपर्यायः। तस्मात्कुम्भकस्य अत्यन्तमेव वैशिष्ट्यं विद्यते प्राणायामानुष्ठाने। तदेव हि च लक्ष्यम्। तस्मात् अस्मिन् पादे कुम्भकस्य निरूपणं विधीयते। अयं कुम्भकाभ्यासः समन्त्रकः, अमन्त्रकः वा भवितुमर्हति इति अभिप्रैति ग्रन्थकृत्। (५.२) ततः परं कुम्भकप्रकारान् निरूपयति।

आदौ अन्तःकुम्भकप्रकाराः १) प्रथमः प्रकारः- अयम् अनुलोमविलोमाभिधः कुम्भकः (५.४- ९)। आदौ द्वाभ्यां सूर्य-चन्द्रनाडीभ्यां पूरकः कर्तव्यः। तदुत्तरम् अन्तः वायुः निरोद्धव्यः। तदुत्तरं द्वाभ्यामेव नाडीभ्यां वायोः रेचनमपि कार्यम्।

आदौ यथासामर्थं वायोः अन्तःकुम्भकं कार्यम्। अभ्यासे दृढे जायमाने क्रमेण १६ मात्रया पूरणं, ६४ मात्रया कुम्भनम्, ३२ मात्रया रेचनं विधेयम् इति सूत्रभाष्याभ्यां स्पष्टयति ग्रन्थकारः। प्रतिदिनं दशावृत्तितः प्रारभ्य अधिकाधिकं विंशत्यावृत्तिपर्यन्तं अयं प्राणायामः सकुम्भकः अनुलोमविलोमाभिधः प्राणायामः अनुष्ठातुं शक्यः। दिने च द्विवारम् ईदृशः अभ्यासः शस्तः। अनेन राजयक्ष्मरोगः विनश्यति इति कथयति ग्रन्थकृत्।

२) द्वितीयः प्रकारः - सुखपूरकाभिधः अयम् (५.१०-१२)। आदौ वामेन नासापुटेन रेचनम्। ततः परं वामेनैव पूरणम्। ततः परं कुम्भकानुष्ठानं विधेयम्। एवमेव दक्षिणेन अपि करणीयम्। अन्ते च रेचनं वामेन। एषा एका आवृत्तिः। अनेन प्राणायामेन मधुमेहादिदोषाः नश्यन्ति, प्राणश्च प्रतिष्ठितः भवति।

[[294]]

३) तृतीयः प्रकारः - अयं च सूर्यभेदनाभिधः कुम्भकः (५.१३, १४)।

दक्षिणेन नासापुटेन रेचनम्। ततः दक्षिणेनैव पूरणम्। तदनन्तरम् अन्तःकुम्भकः। अन्ते रेचनमपि दक्षिणेनैव।शैत्यादिदोषाणां निवारणम् अनेन भवति।

४) चतुर्थः प्रकारः - अयं चन्द्रभेदनाभिधः (५.१५, १६)। या प्रक्रिया दक्षिणानाड्या कृता पूवोक्तविधानेन तस्या एव वामनाड्या अनुष्ठानं चन्द्रभेदनकुम्भकः। विशिष्य अयं प्राणायामः स्त्रीणाम् उपकारकः तासां योनिदाहहृत् भवति अयं कुम्भकः इति कथयति सूत्रकारः। पुरुषाणामपि आरोग्यं सिद्ध्यति अनेन इति भाष्ये स्पष्टीकृतमस्ति।

बाह्यकुम्भकप्रकाराः १) बाह्यकुम्भकस्यानुष्ठानं (५.१७-२०) शववत् उत्तानं शयानेन करणीयमिति अभिप्रैति ग्रन्थकारः। उपविश्यापि कर्तुं शक्यते। हृदय- दुर्बलतावतां शवासने अन्तःकुम्भ्कानुष्ठानं सुकरं स्यादिति प्राणसूत्रभाष्ये स्पष्टीकृतमस्ति। द्वाभ्यां नाडीभ्यां वायोः बहिः रेचनं करणीयम्। ततः परं वायुः बहिरेव निरोद्धव्यः। उच्छ्वासः न करणीयः। ततः परं द्वाभ्यां नाडीभ्यां पूरकः करणीयः, पुनरपि विरेच्य, बाह्यकुम्भकानुष्ठानं विधेयम्। षड्वारम् अस्यावृत्तिः करणीया। एवं दिने द्विवारं विधेयम्। हृदयदुर्बलतावतां तद्दौर्बल्यं विनिवारितं भवति अनेन इति अस्य अनुष्ठानस्य प्रयोजनं कथयति ग्रन्थकृत्।

२) बन्धत्रयेण बाह्यकुम्भकः (५.२१-२९) - मूल-जालन्धर- उड्डियानबन्धानां बाह्यकुम्भकानुष्ठानवेलायां विनियोगविधानं कथ्यते।

सूर्यचन्द्राभ्यां द्वाभ्यां नाडीभ्यां पूरकं कृत्वा, जालन्धमूलबन्धाभ्याम् अन्तः वायोः धारणं करणीयम्। एतत् हठयोगिनाम्। वायोः अन्तः अवस्थितौ उड्डियानबन्धस्य वर्जनं करणीयम्। अन्ये तु अन्तःकुम्भकं केवलेनमूलबन्धेन सह कर्तुमर्हन्ति। ततः परंद्वाभ्यां नाडीभ्यां वायुरेचनं करणीयम्। एवं षड्

[[295]]

अष्ट वा आवृत्तयः कार्याः। दिने द्विवारम् अनुष्ठातव्यम्। वीर्यदोष- स्वप्नस्खलन-अजीर्णतादयः दोषाः, निवारिताः भवन्त्यनेन।

एते प्राणायामाः नैमित्तिकाः इति ग्रन्थकृता सूचिताः (५.३० - अवतरणिका). नित्यः प्राणायामः (५.३०-३५) नित्यः प्राणायामः यश्च जपाङ्गः सः अधुना कथ्यते।

स च इत्थम् - दक्षिणतः रेचनं करणीयम्। दक्षिणभागे हि अशुद्धेः सञ्जयः अतः प्रथमम् अनया क्रियया अशुद्धेः निवारणम्। तदनन्तरं वामतः वायोः पूरणं करणीयम्। हृदि अवधानेन कुम्भकानुष्ठानं करणीयम्। ततः परः दक्षिणेन निरवशेषं वायोः रेचनं करणीयम्। तत्र रेचक-पूरक-कुम्भकानां क्रमात् मात्राकालः तु - ३२ः १६ः६४ः इति भाष्ये स्पष्टीक्रियते (५.३४)।

ग्रन्थस्य अन्तिमं सूत्रम् अस्य पादस्य अन्तिमं सूत्रं तावत् – ‘प्राणः प्रीणाति प्राणः प्रीणाति॥५॥३६॥’ एतेन विधानेन अनुष्ठाने कृते सति प्राणः प्रसीदति। न केवलं तावत्।

अस्य सूत्रस्य भाष्ये स्पष्टीक्रियते यत् - प्राणः, तत्प्रणेता भगवान् नारायणोऽपि अनया प्राणायामप्रक्रियया अनुष्ठीयमानया प्रसीदति इति।

यतो हि अस्यां प्रक्रियायां न केवलं वायोः आचमनं, निरोधः, त्यागः इत्येते विधीयन्ते। अत्र मन्त्रः, तदावृत्तिरूपः जपः, तेन जायमानं भगवतः ध्यानम् इत्येतत् सर्वमपि अस्तीत्यतः परमात्मा नारायणोऽपि अनेन प्रीतः भवति।

इत्थं च अयं ग्रन्थः समाप्तिमेति।

उपसंहारः आधुनिकसंस्कृतग्रन्थाः गद्यपद्यमयाः काव्यविषयाः, शास्त्रविषयाः च प्रणीयमानाः एव सन्ति। किन्तु शास्त्रविषयाः सूत्रग्रन्थाः तु विरलाः।

[[296]]

तादृशेषु ग्रन्थेषु आदरणीयैः बन्नञ्जे गोविन्दाचार्यैः प्रणीतः प्राणसूत्राणि इत्ययं ग्रन्थः विशिष्टं स्थानं भजते।

किञ्च कालेऽस्मिन् योगेन अरोगता-स्वास्थ्यप्राप्तयादिकं च यद् भवति तद् वैज्ञानिकैः अपि प्रमाणीक्रियते इत्यतः आर्षमूलकस्य अस्य शास्त्रस्य विषये जनानां मध्ये महती श्रद्धा दरीदृश्यते। किन्तु प्राचीनयोगशास्त्रपरम्परां परिशील्य निजाभ्यासबलेन च आधुनिकाः योगग्रन्थाः संस्कृतभाषायां विरलाः। किन्तु प्राणसूत्रग्रन्थः तादृशीं समस्यां परिहरति। शास्त्रीयया शैल्या, शास्त्रप्रमाणपूर्वकं, स्वानुभवं च संयोज्य रचितः अयं ग्रन्थः सर्वैः अपि योगाभ्यासनिरतैः अध्येयः, ज्ञेयश्च।

किञ्च, विनूतनाः केचन योगविचाराः ये चात्र दृश्यन्ते तेऽपि अस्य ग्रन्थस्य उपादेयतां निताराम् अभिवर्धयन्ति। ते च अभिलक्षिताः नूतनाः विषयाः अधः सङ्गृह्यन्ते - १) आदौ कुम्भकेन विना प्राणायामकथनं, तदनन्तरं सकुम्भकं प्राणायामकथम्।

२) प्रायः हठयोगप्रदेपिकादिषु हठग्रन्थेषु अन्तःकुम्भकस्य एव विवरणं दीयते, किन्तु अस्मिन् ग्रन्थे स्पष्टतया बाह्यकुम्भकस्यापि अनुष्ठानविधानं कथितम्।

३) उड्डियानबन्धस्य बाह्यकुम्भके विनियोगः, जालन्धर-मूलबन्धयोः च अन्तःकुम्भके विनियोगः इतः पूर्वं योगग्रन्थेषु अदृष्टपूर्वः। इदं विधानम् अनुष्ठानपरम्परायां विद्यते चेदपि ग्रन्थेषु नैतावत् लक्षितः। अतः इदंप्रथमतया तस्य विचारस्य गन्थे निबन्धनम् साधकानां सन्देहनिवारणं करोति, येन च अनुष्ठाने सविश्वासं प्रवर्ततितुं शक्यते अभ्यासिभिः।

४) प्राणायामकाले चक्षुषोः निमीलनमपि अनुष्ठानपरम्परायां विद्यते चेदपि, ग्रन्थे तस्य निबन्धनम् इदम्प्रथतया प्राणसूत्रे एव दृश्यते।

[[297]]

५) १४-८० इति येयं वयोमितिः कथिता प्राणायामार्थं सोऽपि अनुभवसिद्धः विचारः इति भाति।

६) मधुमेहनिवृत्तिः, हृदाघातनिवृत्तिः इत्यादीनि यानि प्रयोजनानि कथितानि, तानि विनूतनानि प्राणायामस्य। इदं च अनुष्ठाय स्वानुभवगम्यं करणीयम्। वैज्ञानिकैश्च प्रमाणीकरणीयम्।

७) सूर्यभेदन-चन्द्रभेदनादयः प्राणायामप्रकाराः ये चास्मिन् ग्रन्थे निरूपिताः ते विशिष्टाः विनूतनाश्च। तेषां च यथायोग्यं अनुष्ठानं विधाय अभ्यासिनः तत्फलभाजः भवेयुः।

८) प्राणायामस्य भगवदाराधनरूपतापि अस्मिन् ग्रन्थे या प्रपञ्चिता तदत्यन्तं महत्त्वम् आवहति। आसन-प्राणायामादिरूपः योगः, अनीश्वरः आरोग्यार्थः अभ्यासः इति आधुनिके काले काचिद्धारणा प्रसृताऽस्ति।

आसन-प्राणायामदिपूर्वकः योगः मूलतः भगवदाराधनार्थकः। तेन आरोग्यादिकमपि सिद्ध्यतीत्ययं सनातनधर्मानुसारी विचारः अस्मिन् ग्रन्थे विस्पष्टतया निरूपितः।

इत्थं च प्राचीन-परम्परानुगुणं, निजाभ्यासबलेन नूतनविचारसहितः अयं प्राणसूत्राभिधः ग्रन्थः पुरापि नवः पुराणः। एतदर्थं ग्रन्थकाराः आचार्याःबन्नञ्जे गोविन्दाचार्याः वन्दनीयाः। एषः च ग्रन्थःअभ्यासिभिः साधकैः अधीति-बोधाचरण-प्रचारणैः चतुर्दशावत्त्वं प्रापणीयः इति विनिवेद्य विरम्यते।

आकरग्रन्थाः 1. प्राणसूत्रगळु, संस्कृत सूत्र भाष्य मत्तु (कन्नड) अनुवाद, बन्नञ्जे गोविन्दाचार्य, ईशावास्य प्रतिष्ठानम्, उडुपि-बेङ्गलूरु, २०११-१२ 2. ‘@اG@XNF@OQ@C؇OHJ؅NE2U؅SL؅Q؅L@VHSGBNLᐭ ƒ LDMS@QXIXNSRM؅NEAQ@GL؅M@MC@@MC$MFKHRG3Q@MRᐭ ƒ K@SHNM 3GD CX@Q+HAQ@QX@MC1DRD@QBG"DMSQD

[[298]]