३१ आनन्दमालाविमर्शः

विद्वान्. चिप्पगिरि नागेन्द्राचाचार्यः

शतं वद। एकं मा लिख। इतीयमुक्तिः ग्रन्थमात्रस्य लेखके अपेक्षितम् असाधारणसामर्थ्यं ध्वनयति। श्रीमदाचार्यमध्वस्य च ग्रन्थाः वेदादिसर्वमूल शास्त्रार्थनिर्णायकाः स्वयं सर्वमूलनामाभिधाः। तेषामपि व्याख्यानं व्याख्यातुः अतिशायितम् सामर्थ्यं द्रढयति। तत्र निदर्शनीभूताः श्रीमन्तः डा.

बन्नञ्जे गोविन्दाचार्यः।

बन्नञ्जे गोविन्दाचार्यकृतयः बह्व्यः बहुविधाश्च। काश्चिद्देवभाषीयाः काश्चिच्च देशभाषीयाः। पुनः काश्चित् स्वतन्त्राः, काश्चिच्च व्याख्यानरूपाः पाठसम्पादनात्मकाश्च। आचार्यकृतिषु काचिद्दृष्टिः विद्यते। तत्र शुद्धपाठ- सम्पादनात्मिका काचित्। मध्वाचार्याणां साक्षात् सम्बन्धवतांपण्डिताचार्यवं शीयानाम् ग्रन्थानां सम्पादनं तत्रापि पुनः शुद्धपाठस्यान्वेषणम् विशिष्टं योगदानम्। न हि अप्रकाशितत्वमेव प्रकाशने कारणम्, किन्तुतद्वाख्यानं विशेषतया।

यद्यप्यत्र बन्नञ्जे गोविन्दाचार्यैः आनन्दमालायाः पाठसम्पादनं कृतम्।

परं न हि आचार्याणां कृतिषु मक्षिकालिपिकरणमस्ति (नोणप्रति इति भाषायाम्)। तत्र तत्र अपेक्षितेषु स्थलेषु व्याख्यानमकृत्वा अग्रे सरणं नैव सम्भवति। अतः पाठसम्पादनमपि लघ्वी व्याख्या इत्येव मन्तव्यम्।

तद्भागधेयमस्माकम्। तत्रोदाहरणार्थम्-व्याख्यानं- मूले ‘नचेश्वरस्याक्रियत्वं कर्तृत्वनिवारकम्’ इत्यस्ति। तत्र पादटिप्पण्यां तद्व्याख्यानम्- अक्रियत्व- मित्यक्रियमाणत्वमेव। युज्यतेतत् सर्वकर्तुरित्याह - नचेत्यादिना। अत एव ‘सर्वकर्ता न क्रियत’ इत्याह आचार्यः। न विक्रियते च। तेन उपादानता एव निरस्ता। न निमित्तता। लघुवाक्येपि गर्भीभूतस्याशयस्य अभिज्ञानम् अपूर्वमपि समधीतसर्वमूले आचार्ये किन्तत्र चित्रम्।

[[273]]

अपि च आनन्दमालायां- ‘अतः परममङ्गलो मुख्येष्टदेवो भगवान्….’ इत्यादि। अस्य व्याख्यानं च ‘ परममङ्गल इत्यतश्शब्दस्यैवार्थान्तरम्।

मुख्येष्टदेव इति कार्यतावादापनोदनम्…… तदेवाह इष्टफलदत्वात् इति अतःशब्दार्थोयम्’। यद्यपि अणुभाष्यम् अत्यन्तं संक्षिप्तमिति तद्व्याख्यातम् नारायणपण्डिताचार्यैः। तस्यापि अनतिविस्तृतत्वात् व्याख्यानसापेक्षमिति गोविन्दाचार्याणां व्याख्यानमपेक्षितम् इति तद्व्याख्यानदर्शनादेव प्रतिभाति।

आशयाविष्करणचातुर्यम् ‘आगमोदितः’ इति अणुभाष्ये अस्ति। आनन्दमालाव्याख्यानव्याजेन मूलस्यैव आशयाविष्कारः कृतः आचार्यैः। तद्यथा- निर्दोषं वाक्यम् आगमः अत एवैतावन्तमर्थमभिसूचयितुं तत्पदमुपादत्त भगवानागमोदित इति।

अन्यथा शास्त्रोदितो वेदोदित इत्यवक्ष्यत्। उक्तं च ‘प्रत्यक्षवच्च प्रामाण्यं स्वत एवागमस्य हि’ इति। नह्यत्रैवैवं व्याख्यानम्, परन्तु तत्र तत्रैवमेव व्याख्यानं विद्यते।

यद्यपि अाचार्यैः किं व्याख्यातमिति नाधिकं मृग्यमस्ति। पाठ- सम्पादनस्यैव लक्ष्यत्वात्। आनन्दमालायाः अध्येतारस्तु आचार्यैः बहूपकृताः ज्ञेयाः। आनन्दमालायाः यत्र यत्र श्रुतयः संस्पृष्टाः तत्र सर्वत्रापि भाष्यगताः श्रुतयः पादटिप्पण्यां निबद्धाः। मूलस्यावगमने ये प्रमेयाः सामान्येन अपेक्षिताः भवन्तिते सर्वेऽपि तत्त्रैव मूलाधस्तात् प्रदत्ताः। पूर्वं प्रदर्शिताः अंशाः स्थालीपुलाकमाश्रिताः। न हि सर्वस्यापि गोविन्दाचार्ययोगदानानां निरूपणं लक्ष्यमस्ति। तस्यैव ग्रन्थान्तरप्रसङ्गात्। तावानस्ति विनिवेद्यप्रसङ्गः।

प्रयोगसौन्दर्यम् बन्नञ्जे गोविन्दाचार्याणां भाषामाधुर्यविषये नैव वक्तव्यमस्ति। द्राक्षायाः माधुर्यवर्णनमिव। ‘पौनःपुन्येन ग्रन्थगौरवं श्रोतृशेमुषिमधिरोहितुमाह’, यद्यप् यविषयत्वात्प्रतिपाद्यत्वमपि समस्तीति पुरस्तात् प्रास्तावि। तथाप्यभ्युपगम्य इदम् दोषान्तरमुच्यते- तर्हि तद्भेद इति। संसृष्टिः सर्वापिहि भेदेन गर्भिणी

[[274]]

भवति। इत्यादयः काव्यधर्माः अकाव्येऽपितत्र तत्र स्वभावकवेः वाक्येषु सहजतया अहम्पूर्वमहम्पूर्वं समुद्भवन्ति।

प्रधानं तावदत्र पाठसम्पादनमेव। न ह्येकेनैव ताळपत्रेण पाठसम्पादनमत्र न विहितम्। चत्वारः पाठा अत्र विमृष्टाः। अथापि क्कचित् प्रचलितः पाठः प्राचीनपाठः इत्यपि पादटिप्पण्यां उल्लिख्यते। पाठेषु एतेषु शुद्धपाठः तत्त्र तत्त्र युक्तिपूर्वकं च तर्क्यते। क्कचित् पाठान्तरवैशिष्ट्यमप्युदघाटि, तद्यथा मूलपाठे यद्यप्यस्मदाचार्यादयो मध्वसूक्तिसन्दर्शितार्थान् इत्यस्ति परस्मिन् च अस्मदाचार्याग्नयः मध्वसूर्यसन्दर्शितार्थान् इति च। द्वितीयपाठोऽनादृतश्चेदपि न तिरस्कृतः आचार्यैः। तत्पाठस्यापि अर्थविशेषप्रख्यानेन विभूषयाम्बभूव च। अतः बहुतरपाठाः अवलोकिताः इति तु स्पष्टम्। अपूर्वस्य कस्यचित् प्राचीनग्रन्थस्य प्राप्तिमात्रेण तत्प्रकाशयितुं नैव त्वरते आचार्यः। किन्तु शुद्ध पाठादिगुणानामाधानमपेक्षते।


[[275]]