३० सङ्ग्रहचन्द्रिकावलोकनम्

डा. श्रीनिधि प्याटि

यावत् स्थास्यन्ति गिरयः सरितश्च महीतले।

तावत् रामयणकथा लोकेषु प्रचरिष्यति॥

इत्युक्तिस्तु लोकेषु रामायणस्य सार्वकालिकत्वं द्योतयन्तीव विराजते।

रामायणकथा तु नैकैः कविभिः नैकैः विमर्शकैः प्राकृते संस्कृते च विभिन्नदृष्ट्या वर्णितापि तस्याः विषये अधुनापि नूत्नाः कृतयः, नूतनानि काव्यानि विरचयन्त एव विराजन्ते पण्डिता इति तु कथायाः, कथानायकस्य, कथावस्तुनःसार्वकालिकं माहात्म्यं निरूपयति। सर्वेपि वाल्मीकीयं रामायणमाश्रित्यैव काव्यादिकमरचयन्निति निश्चप्रचम्। तद्यथोक्तं नारायणपण्डिचार्यैः सङ्ग्रहरामायणे – ‘वाल्मीकेर्गौः पुनीयान्नो महीधरपदाश्रया। यद्दुग्धमुपजीवन्ति कवयस्तर्णका इव’॥ इति। वाल्मीकीयं रामायणं सर्वैः श्रुतमेव, परन्तु ततोऽपि प्राचीनं मूलरामाणं वर्तते इति न कस्यचित् ज्ञातम्। अत एव आचार्यमध्वेन व्यासनिर्मितं मूलरामायणं किञ्चन वर्तते इति प्रमाणपुरस्सरं प्रत्यपादि। ‘मूलरामायणञ्चैव पुराणञ्चैतदात्मकमिति’ हि प्रमाणवाक्यं ब्रह्माण्डपुराणान्तर्गतमुदाहृतं विष्णुतत्वविनिर्णये आचार्यैः। रामायाणेऽपि च ‘चरितं रघुनाथस्य शतकोटिप्रविस्तरम्’ इति मूलरामायणस्यास्तित्वं सूचितम्। नहि वाल्मीकिरामायणं शतकोटिप्रविस्तरम्। न हि वस्तुनः अनुपलब्धिः तस्याभावे प्रमाणं भवितुमर्हति। व्यासवाल्मीक्योः व्यासस्यैव अतिशयाप्तत्वम्। अत एव मूलरामाणाविरोधेन कथं वा अध्येतव्यं वाल्मिकिरामायणं, कथं वा वाल्मिकिरामायणस्य पद्मपुराणादिषु निरूपितायाः रामकथायाश्च विरोधपरिहारः इत्यादिसंशयैः व्याकुलीभूतान् जनान् बोधयितुं आचार्यैः रामकथानिर्णयात्मकं व्यासहृदभिप्रेतं माध्वरामायणं प्रणीतं महाभारततात्पर्यनिर्णये। अथ च काले सम्प्रवृत्ते चतुर्विशंति-

[[264]]

सहस्रश्लोकात्मकस्य वाल्मीकिरामायणस्य अध्येतारो विरला भवेयुः, अथ च माध्वं रामायणं निर्णयात्मकं स्वल्पमिति धिया तस्यैवाध्यययने प्रवृत्ताः जनाः वाल्मिकिरामायणकाव्यसौन्दर्यास्वादनरहिताः विस्तृतरामकथावञ्चिताश्च भवेयुरिति कलियुगप्रवृत्तिं जानन्निव माध्व-वाल्मिकिरामायणयोः सेतुरिव विराजमानं ‘सङ्ग्रहरामायणं’ काव्यमग्रथयत् करुणया नारायणपण्डिताचार्यः।

इदञ्च काव्यं मध्वनिर्णयगर्भितं वाल्मिकिरामायणसौन्दर्योपेतञ्च विराजते।

अथापि काव्यमिदं पाठप्रवचनादिपरम्परायाम् लुप्तमिव अदृश्यत। अत एव अपपाठादिभिर्दूषितमभवत्। विद्याभूषणीयविश्वपतितीर्थीयादिटीकाभूषि तमपि घुणभक्षितमातृकादिना अनाविष्कृतशुद्धटीकं तत्र तत्र अपपाठविशिष्टमेव नैकाभिः संस्थाभिः मुद्रितं वर्तते स्म। अथ च बन्नञ्चे गोविन्दाचार्यस्य साहसेन, अपरिमितश्रमेण, महावैदुष्येण काव्यास्यस्य शुद्धप्रायो पाठः, शुद्धञ्च व्याख्यानं प्रकटितम्। अहो सौभाग्यमस्माकं यदिदानीं मूलपाठबालेन नारायणपण्डिताचार्यहृदयमवगन्तुं पारयेम। अथ च विलसति विश्वपतितीर्थीयं व्याख्यानं सरलं, मनोहरं, व्याकरणादिविशेषविशिष्टं, कालिदासकाव्यस्य मल्लीनाथीयसञ्जीविनीव्याख्यानमिव बालपण्डितोभोयोपकारकं गोविन्दा- चार्याणां प्रयत्नबलेन। अथापि एताः टीकाः सम्पूर्णतया काव्यसौन्दर्यप्रकटने असमर्था इति मन्वानेन गोविन्दाचार्येण स्वकृतसङ्ग्रहचन्द्रिकाख्यया शब्दालङ्कार-अर्थालङ्कार-प्रयोगविमर्शन-शुद्धपाठविमर्शन-प्रमेयविशेषनिरू पणादिविशेषविशिष्टया व्याख्यया काव्यमिदं समलङ्कारि। तद्यथा स्वोपज्ञे आचार्यस्य भणितिः– ‘अध्यगामिषत प्राचीनटीकानां गुणाः। अध्यगामिषत च दोषाः। तदेवं सतीष्वेतासु टीकासु किमप्यपूर्णमिव काप्यसमग्रविवरणमिव, क्काप्यनुद्घाटितहृदयमिव भाति सङ्ग्रहरामायणम्। अकृतप्रायैव अपाणिनीय- प्रयोगेषु शब्दसाधुत्वचर्चा। यथा ‘वत्सा वत्स्यामि’ इति। विद्याभूषणटीकायां को धातुरिति न स्फुटम्। ‘वत्स्यामि हनिष्यामि, वध सम्प्रहारे लृट् इति विश्वपतितीर्थीयम्। श्रीनिवासाचार्योऽपि निमील्य चक्षुषी प्राचां वचनमेव अनुवाच- ‘वत्स्यामि हनिष्यामि। वध सम्प्रहारे लृट्’ इति। एतावताऽपि न

[[265]]

शङ्कापरिहारः। वधधातुरेव पाणिनिनये न पठ्यते। यद्यपि प्राचीना वधधातुं पठन्ति। तत्पक्षेऽपि वधिष्यतीत्याद्येव रूपम्, न वत्स्यामीत्यादि। अतो न शङ्काशङ्कुपरिहारः। न स्पृष्टमेव छन्दोलक्षणादिकम्। क्कचिदस्पष्टमितव।

कचिदस्वरसमिव। अतः काव्यहृदयस्पृक् छन्दो-व्याकरणादिविश्लेषणपरा काव्यरसिकानां पुराणकृषिकाणां च हृदयङ्गमा काचिदन्यैव टीकाऽपेक्षितेति बहवो मामभ्यर्थयामासुः। मयि च स एव भावो जजागार। तदर्थमेकां नवीनां टीकां सङ्ग्रहचन्द्रिकां नाम विरचय्यात्र समयोजयम्।’ इति यद्यपि बन्नञ्जे-आचार्यकृतव्याख्यानस्य विशेषांशाः तत्कृतसङ्ग्रह- रामायणपीठिकाभागादेव ज्ञातुं शक्याः,‘लिलेख च तत्रसङ्ग्रहरामायणे साङ्ख्यं’, ‘सङ्ग्रहरामायणे छन्दोविलासः’, ‘सङ्ग्रहरामायणे शब्दार्थालङ्काराः’, ‘सङ्ग्रहरामायणे अपाणिनीयाः प्रयोगाः’, ‘इदमुपज्ञं शुद्धप्रायः पाठः’ इत्यादिभिः उपशीर्षिकाभिः स्वकृतव्याख्यानस्य वैशिष्ट्यम्। वस्तुतः तत्तु केवलं दिग्दर्शनं, न पुनः तावानेव विशेषः व्याख्यानस्यास्य। अथ च अनधीतसमग्रसङ्ग्रहरामायणोहं कथं वा व्याख्यानस्य वैशाल्यं वा वैदुष्यं वर्णयितुं वा प्रभवेयम्। तथापि सङ्ग्रहचन्द्रिकापुरस्सरं यत्किञ्चित् मया शिष्याणां कृते पाठितं, तदनुलक्ष्य स्थालीपुलाकन्यायेन केचन मद्-दृष्टिपथं गताः व्याख्यातृकृतपीठिकायामनुक्ताः विशेषांशाः विव्रियन्ते।

बन्नञ्जे गोविन्दाचार्याणां मूलपाठनैर्भर्यम्, तदाविष्करणप्रतिभा च ज्ञातमेव यत् सर्वेषां आचार्यस्य शुद्धपाठाविष्करणे मुद्रणे च दीक्षा।

अपिचाचार्यः महाकविः इति लोकप्रसिद्धमेव। कवेः पुनः काव्यसौन्दर्ये रतिः।

संशोधकस्य पाठशोधने। तदेतदुभयस्य साङ्कर्यम् आचार्ये। उभयधर्मे सङ्घृष्टे तत्र को विजेता संशोधको वा कविर्वा इति जिज्ञासायां स्वप्रणीतकाव्ये कवेः, परकाव्यविमर्शने संशोधकस्य जय इति प्रामाणिकं पन्थानमनुसरतः आचार्यस्य प्रामाणिकता श्लाघ्या। तद्यथा बालकाण्डे द्वितीये सर्गे सुमन्त्रदशरथयोः एकान्तवृत्तायाः आख्यायिकायाः वर्णनप्रसङ्गे श्लोकक्रममेवं

[[266]]

मूलपाठान्वेषणेननिबबन्ध –‘एकान्तेऽकान्तवदनं राजानं पुत्रलालसम्’ इति। अत्र वस्तुतः विश्वपतितीर्थीयः पाठः’ एकान्ते कान्तवदनम्’ इति, ’ कान्तं मनोहरं वदनं यस्य सः तथा तम्,’ इति चाख्यायि, कान्तवदनं प्रसन्नमुखमिति विद्याभूषणीयेपि स एव पाठः आदृतः। परन्तु मूलापाठानुसरेण अकान्तवदनं म्लानवदनमिति व्याचख्यौ सङ्ग्रहचन्द्रिकायां, तन्मार्गानुसरी क्लान्तवदनमिति पाठः स्वरसः, काव्यसौन्दर्यवर्धकः काशी-आचार्यपाठे उपलभ्यते, तथापि मूलपाठं तथैव जग्रन्थ, पुटस्य अधस्तात् ‘क्लान्तवदनम्’ इति का.श्री पाठ इति भाति। तदपि रमणीयम्।’ इति पाठमसूचयत्। अत्र क्लान्तवदनमिति पाठस्य सौन्दर्यमनुभूयापि मूलपाठानुरोधेन पाठं निबबन्ध इति तु तस्य प्रामाणिकतायाः निदर्शनम्। तथैव शुद्धपाठान्वेषणं सूक्ष्मेक्षिकत्वं, महतीं प्रतिभां, कोशव्याकरणादिषु पाण्डित्यञ्चापेक्षते। त्रयस्यास्य सङ्गमः त्रीवेणीसङ्गमः प्रयागराजे इव पण्डितराजे आचार्ये दृश्यते – तद्यथापायसं भक्षयित्वा ताः स्त्रियः रेजिरे इति वर्णनप्रसङ्गे ‘मधुकालगुणान् भुक्त्वा माधव्य इव सल्लताः’ इति प्रचुरः पाठः, तत्र च आचार्यस्य पाठविमर्शनरीतिः अनुसन्धानयोग्या सर्वेषां संशोधाकानाम् - तद्यथा आचार्यवाक्यम्’ ‘मुन्मनाः’ इति वि.ती पाठः। अत्र महान् पाठभ्रंशः। माधव्यइव सल्लताः’ इति प्रचुरः पाठः। स्यादपि। परन्तु न केनापि व्याख्यात्रा समादृतोऽयंपाठः।

माधव्य इव सन्मनाः’ इति क्कचित्। सर्वथाऽसङ्गतम्। ‘माधव्यइव सन्मदाः’ इति क्कचित्। प्रायः ‘सम्मदाः’ इति साधुः पाठ इति भाति। ‘सन्तुष्टाः’ इति विद्याभूषणस्य काशी श्री. आचार्यस्य च व्याख्यानमेतमेव पाठं कटाक्षयति।

‘माधव्यः भ्रमरस्त्रियः’ इति तु सर्वेषां व्याख्यातॄणामैककण्ठ्यम्। माधवी लतेति प्रसिद्धार्थं विहाय तथा व्याख्याने कारणं तु मृग्यम्’।

सूक्ष्मेक्षिकत्वस्योदाहरणं तत्रैव चतुर्दशे श्लोके ‘तं मुनीन्द्रं समानयत्’ ‘तं मुनीन्द्रमुपानयत्’ इति पाठान्तरम्। तत्रैव तृतीये सर्गे द्वितीये श्लोके ‘निर्ज्जरा विज्वरा स्वस्था भवत माचिरम्’ इति पाठः, ‘मा चिरम्’ इति अधष्टिप्पण्यां पाठान्तरं विश्वपतितीर्थीयमसूचयत्। न केवलं काव्ये, व्याख्यानेपि

[[267]]

मूलपाठनैर्भर्यं दृश्यते। तत्रैव त्रयोविंशतिश्लोकव्याख्याने विश्वपतीये ‘अदेर्घस्ल्’ घस्लादेशः इति वाक्यं वर्तते, तत्र अधस्तात् टिप्पण्याम् ‘अदेर्धातोः लिट्यन्यतरस्याम्’ घस्ल् इत्ययमादेशो भवतीति वचनाद् घस्लादेश इत्यर्थः। अतोऽत्रअदेर्लिटि घस्लादेशः ‘इत्येवस्वरसो मूलपाठः’ इति मूलपाठमाविश्चकार स्वप्रतिभया पाण्डित्येन च।

तादृशेस्मिन् त्रिवेणीसङ्गमे स्नानं कुर्वतां नैकानि रत्नानि प्राप्यन्ते एव।

लेखविस्तरभिया अग्रे गम्यते।

काव्यभावाविष्कारः व्याख्यानवैशिष्ट्यञ्चकाव्यस्य हदयं वर्णयतुमेव व्याख्यानानि भवन्ति। तत्र प्रसिद्धामर- कोशबलेन भावं ज्ञापयितुं प्रायः सर्वेपि प्रयतन्ते। गोविन्दाचार्यस्य रीतिस्तु भिन्ना वर्तते। प्रसिद्धम् अमरकोशं विहाय हलायुध-मेदीनी-विश्वाभि- धानादिबलेन अर्थनिरूपणं सङ्ग्रहचन्द्रिकाव्याख्यानवैशिष्ट्यं, प्रसिद्धार्थेन सह नूतनस्य स्वरसस्यार्थस्य निरूपणम् बहुत्र प्रस्तूयत इत्यपरम्।

क्षीरसमुद्रस्य तीरमधिष्ठाय देवाः परमात्मनः स्तुतिं चक्रुरिति वर्णनप्रसङ्गे नारायणवाचकं विष्टरश्रवस् इति पदं प्रयुक्तं पण्डिताचार्येण’ तस्य तीरमधिष्ठाय कञ्जोद्भवभवादयः।

तुष्टुवुस्तुष्टमनसो विष्टरश्रवसं सुराः॥

इति श्लोके। विष्टरश्रवस् इति पदस्य प्रसिद्धार्थः वर्णितः विश्वपतीये व्यापनशीलकीर्तिमानिति, सङ्ग्रहचन्द्रिकायान्तु प्रसिद्धार्थः पूर्वैरेव व्याख्यातत्वात् स्वरसमर्थत्रयं वर्णितम् –’ विष्टरश्रवसम्। देवेष्विव दैत्येष्वपि विष्टो रमत इति श्रवः कीर्तिर्यस्य तम्। अन्तःस्थित्वा रमणकृदन्तरः।

अन्तर्विष्ट्वा रमणकृद् विष्टरः। अथाप्याहुः वृक्षः। ‘पलाशी विष्टरः स्थिरः’ इत्यभिधानात्। विष्टरे अश्वत्थवृक्षे श्रूयत इति विष्टरश्रवाः। ‘अश्वत्थः सर्ववृक्षाणाम्’ इति स्मरणात्। विष्टरो दर्भमुष्टिरिव श्रवसी कर्णावस्येति विष्टरश्रवा इत्यन्ये॥’ इति।

[[268]]

तथैव देवतानां वचनं श्रुत्वा ब्रह्मणा प्रतिवाक्यमित्थभिहितमिति कथनावसरे सङ्ग्रहरामायणे – ‘यो योगक्षेमदाता नस्तेन हीदं विधित्सितम्’ इति श्लोकः वर्तते। अत्र योगक्षेमपदस्य प्रसिद्धार्थः सर्वैः ज्ञात एव, परन्तु अभिधानबलेन तमर्थमसर्थयत् ‘योगक्षेमदाता। आह हि भगवानेव- योगक्षेमं वहाम्यहम्’ इति। को योगः? अपूर्ववस्तुसंयोगो योगः। कः क्षेमः? अक्षीणो भोगः ‘जानीयान्मङ्गलं क्षेमंक्षेमं लब्धार्थरक्षणम्’ इत्यभिधानम्।

अयोध्याकाण्डे प्रथमसर्गे ‘मातामहस्यौकसि कैकयस्य’ ओकश्शब्दार्थ- निरूपणावसरे ‘गृहं सद्माऽश्रयश्चौकः’ इति मङ्ख’ इत्यप्रसिद्धकोशोदोहारणम्।

‘विश्वं च यद्वश्यमवश्यमेत्’ इत्यत्र अवश्य-पदार्थकथनावसरे ‘अवश्यं तु निश्चिते’ इति यादवप्रकाशोद्धरणम्। ‘लालप्यमानस्य भृशं शरणं भव भामिनि’ इति श्लोके शरणपदार्थोक्त्यवसरे ’ ‘शरणं गृहरक्षित्रोर्वधरक्षणयोरपि’ इति मेदिनी’ इति मेदिनीकोशोदा-हरणम्। तेन व्याख्यातुः मनः अमर- कोशादन्यात्रापि जिज्ञासवः नेत्रं प्रसरयेयुरिति निवेदयन् दिव भासते।

बहुत्र पूर्वव्याख्यानेष्वप्रकटितं काव्यकर्तृभावम् उद्घाटयामास। तद्यथा वालिसुग्रीवाङ्गदसुषेणावतरक्रमनिरूपणावसरे श्लोकस्य अभिप्रायविशेष- वर्णनम् – वासवो वालिनामाऽऽसीदिन्दुस्तत्तनयोऽङ्गदः।

रविः सुग्रीवनामाऽभूदनलो नीलनामकः॥

वरुणश्च सुषेणोऽभूद् विश्वकर्मा नळोऽजनि।

अभूतां मैन्दविविदावश्विनौ सेवितुं विभुम्॥’ इत्यत्र सङ्ग्रहरामायणे अग्न्यवतारभूतस्य नलस्यावतारनिरूपणानन्तरं वरुणावतारभूतस्य सुषेणस्यावतारनिरूपणम् अकरोत्। वस्तुतः अग्निः तारतम्यक्रमे वरुणादनन्तरः अथापि तस्य वरुणात् पूर्वमेव निरूपणे किं बीजम्?, अङ्गदस्य सुग्रीवात् पूर्वं निरूपणं कुतः? किमर्थं सुग्रीवेण सह

[[269]]

नीलस्य निरूपणम्? विश्वकर्ममैन्दविविदयोरवतारक्रमपूर्वापरीभावे किं निमित्तमिति जिज्ञासापूर्वकमपूर्वं कविभावमाविश्चकार –’ यद्यपि तारतम्य- क्रमेणानलो वरुणादनन्तरः। अथापि सोमसूर्याग्नीनां ज्योतिषां सहोक्ति- सौकर्याय क्रमव्यत्ययः। तेषु हि त्रिषु भगवानुपास्यः। ‘अष्टपत्रे हृत्पद्ममध्ये सूर्येन्दुवह्निगम्’ इति ओन्तत्सत्प्रणवकल्पे। पितापुत्रयोः सहोक्ति- सौकर्यायाङ्गदस्य पूर्वमुक्तिः। सेनापतित्वाच्च नीलस्य सुग्रीवेण सहोक्तिः।

यद्यपि विश्वकर्माणमश्विनोरनन्तरमेकोनविंश्यां कक्ष्यायां पठन्ति। वस्तुतस्तु त्वष्टा किल विश्वकर्मा। ‘विश्वकर्मा तु वर्धकिः। त्वष्टा नाम स देवानाम्’ इति यादवप्रकाशाचार्यः। स तु द्वादशादित्येष्वेकोऽष्टाविंश्यामेव कक्ष्यायां पठित इत्यश्विसमानकक्ष्य एव। तत्र वानरवर्धकिरिति विश्वकर्मणः पूर्वमुद्देशः।

असुराविष्टाविति मैन्दविविदयोः पश्चात्। विश्वकर्मा देववर्धकि-र्नळनामा कपिः सन्नजनि स्वयं स्वतनयो भूत्वा।’ इत्यादिना सङ्ग्रहचन्द्रिकायाम्। इदं केवलमेकमुदाहरणमात्रं, सर्वेष्ववतार क्रमनिरूपणश्लोकेषु पूर्वापरीभावस्य सार्थक्यं चिन्तितम्।

मध्वरामायणवाल्मीकिरामायणयोः सेतुरिव इदं काव्यमिति ज्ञातं किल।

तत्सूचयन्निव वाल्मीकिमपि ननाम कविरादौ मङ्गलाचरणे। तत्प्रकाशयितुमेव सङ्ग्रहचन्द्रिकायां रामायणश्लोकाः कथानुसरेणोल्लिखिताः। तेन च अनधीत- रामायणानां रामायणकाव्यसौन्दर्यरसास्वादनेन सम्पूर्णतया अधिजिगमिषापि जागर्तीत्यन्यत्फलम्। तथैव सेतुत्वं मनसि निधाय व्याख्यातत्वादपूर्वाः विशेषांशा अपि ज्ञायन्ते – तद्यथावनवासवर्णनप्रसङ्गे अरण्यकाण्डे द्वितीये सर्गे ‘ससौमित्रिर्न्नव समा निन्ये मुनिजनप्रियः’ चतुर्दशसु वर्षेषु नव वर्षाणि अतीतानीति पण्डिताचार्याभिप्रायः। रामायणे तु सम्प्रति‘ययुः संवत्सरा दश’ इति दश वर्षाणि अतीतानीत्यर्थे पाठः लभ्यते। तत्र ‘ययुः संवत्सरा नव’ इति ग्रन्थकृत्सम्मतः पाठः’ व्याख्यानेनरामायणेपि पाठभेदं प्राकाशयत् व्याख्याकारः।

तत्रैव ‘विराधं दृष्टवान् वीरो मुनिमांसांशिनं वने। अष्टौ सिंहान् विनिर्भिद्य

[[270]]

शूलेनाक्रम्य च स्थितम्’॥इतिसप्तदशश्लोकव्याख्यानावसरे रामायणविरोधं आक्षिप्य समादधन् चन्द्रिकाकारः प्रमेयद्वयमाविर्भावयामास –‘यद्यपि विराधप्रसङ्गानन्तरं शरभङ्गप्रसङ्गो रामायणे पठ्यते। अथाप्यत्र पाठक्रमादर्थ- क्रमो बलीयानिति व्यत्यस्य पपाठ। तथाहि तात्पर्यनिर्णये- ‘शूलेन विनिर्भिद्य तान् शूलेनैवाऽक्रम्य अवसज्य च स्थितम्’। यद्यपि रामायणे - ‘त्रीन् सिंहांश्चतुरो व्याघ्रान् द्वौ वृकौ पृषतान् दश। सविषाणं वसादिग्धं गजस्य च शिरो महत्’ (२.७ ) इति पठ्यते। ‘अष्टौ सिंहान्’ इति तु मूलरामायणादि ग्रन्थान्तरोदितमिति भाति। रामायणं तु क्रौर्यातिशयोप- लक्षणम्। एकदा सिंहानन्यदा व्याघ्रानवसज्येति व्याख्येयम्। रामदर्शनकाले त्वष्टौ सिंहान्॥’ इत्यादिना॥अनुपदं एतान्यनेकान्युदहरणानि लभ्यन्ते।

अथ च बन्नञ्जे गोविन्दाचार्याणां अध्येत्रनुजिघृक्षेच्छा सर्वत्र स्फुटा।

क्षीणे वयस्यपि न केवलं मातृकां संशोध्य शुद्धप्रायपाठमाविर्भावयामास, अपि पुनः अध्येतृसौकार्याय विश्वपतितीर्थीयादिव्याख्यानगतानंशान् स्पष्टीचकार। तद्यथा बृहस्पतिशब्दनिर्वचनप्रसङ्गे ‘बृहतां महतां ब्रह्मर्षीणां बृहत्या वा पतिर्बहस्पतिः। ‘तद्बृहतोः करपत्योश्चोरदेवतयोः सुट् तुलोपश्च’इति सुडागमलोपौ’इति विश्वपतीयम्, अत्र’ ‘पारस्करप्रभृतीनि च संज्ञायाम्’ इत्यत्र पठितं वार्तिकमिदम्’ इति सूत्रोदोहरणेन अध्येतृसौकर्यं कल्पितम्।

कुत्रचित् व्याख्यानस्पष्टनं- तद्यथा बालकाण्डे तृतीयसर्गस्य द्वितीये श्लोके ‘स्वस्थाः’ इति पदव्याख्यानावसरे ‘स्वर्गेषु तिष्ठन्तीति स्वस्थाः।‘वा शरि’ इतिविसर्गलोपे स्वर्लोकस्थिता इत्यर्थो भवति’ इति वाक्यमबोधकं विद्यार्थिनां, तदर्थं ‘वा शरि’ इति सूत्रविवरणाय प्रवृत्तेन ‘खर्परे शरि वा लोपो वक्तव्यः’ इति वार्तिकेन विसर्गलोपे सतीत्यर्थः। विसर्गस्य लोपेन तत्स्थाने सकारादेशे ‘स्वस्स्थाः’ इति रूपं सम्पद्यत इति वा’ इति विवरणं दत्वा विद्यार्थिमनश्शङ्का- कलङ्कः प्रक्षालितम्। अन्यथा वा शरि इति सूत्रेण कथं वा लोपो विधीयत इति शङ्का तथैव अवतीष्ठेत्। तस्मिन्नेव श्लोकव्याख्याने ‘वत्स्यामि’ इति प्रयोगविमर्शनं पण्डितानामपि मोदावहम्।

[[271]]

अनेकत्र प्रचीनव्याख्यानेषु वस्तुसंज्ञादिव्याख्यानावसरे वृक्षविशेषः, वर्णविशेषः इत्यादिरीत्या अबोधाकन्येव पदान्युपयुज्यन्ते। सङ्ग्रहचन्द्रिकायां बहुत्र लक्षणवर्णनपुरस्सरं कन्नडादिप्राकृतभाषायां सः पदार्थो वर्णितः इति महदुपकारकत्वं जिज्ञासूनां, तद्यथा- अरण्यकाण्डे द्वितीये सर्गे ‘सालतालतमालांश्च’ इत्यादिना निर्दिष्टानां वृक्षाणामर्थनिरूपणम् - सालः सर्जः। ѐǷ΂К͹ इति भाषायाम्। तालस्तृणराजः। ˚ϷШ˛ इति भाषायाम्।

तमालस्तापिच्छः ˚Ҫǎа˛, नागः ˚ϻǡȀǎПа˛ पुन्नागः ˚Ҫсͽ ȀȇǹЍȀǹЍ˛, चम्पकः ȀǎПа, चन्दनः गन्धद्रुमः। स्यन्दनः ǑКǷȇǟ͹ ȁȇЧЍǻȇ चूतः प्रसिद्धः। खर्जूर। खर्जूरद्रुमः सम्प्रति भारते दुर्लभः। पुराणेषु बहुधा पठ्यते। तेन ज्ञायते तदात्वे खर्जूरोऽपि भारते प्रचुर आसीदिति।’ इत्यादिना। एवमनेकगुणविशिष्टस्यास्य व्याख्यानस्य विशेषंशाः अहमहमिकतया लेखनप्रवेशनमिच्छन्तः धावन्त इवभासन्ते, कं वा प्रवेशयामि, कं वा सन्निरुणध्मि। विषयवैशाल्यमनुलक्षयन् लेखन- परिमितिञ्च मनसः ज्ञापयन् अधिकात् विवरणात् विरमामि।

अहो अस्य तत्ववेत्तुः कवेः काव्यगाम्भीर्यं, आश्चर्यकरञ्चास्य व्याख्यातुः व्याख्यानलौशलम्, ऐकाग्र्यमध्ययनवैशाल्यम्। स्मारं स्मारं मोदते चेतः।

नान्यत् किञ्चित् निवेदयितुं प्रभवामि ‘भूयिष्ठां ते नम उक्तिं विधेम’ वाङ्नतिं विना।


[[272]]