२९ श्रीमध्वविजय-तत्वचन्द्रिकाविष्कारः

डा.श्रीनिधि प्याटि

आचार्यत्रये मध्वाचार्यः कर्नाटदेशोत्पन्नेति अस्त्यस्माकं महद्गौरवम्।

त्रैलोक्याचार्यः सः वायुरूपी मध्वः माघशुद्धनवम्यां भूमाववतीर्णः सन् वैदिकं सिद्धान्तं प्रतिष्ठाप्य तत्वजिज्ञासूनां महदनुग्रहमकरोदिति विदितचरोऽयं विषयः।

तादृशस्यास्याचार्यस्य अभूतपूर्वं जीवनवृत्तान्तं ऐतिहासिक-काव्यग्रन्थरूपेण श्रीमध्वविजय इति नाम्ना निबबन्ध श्रीनारायण- पण्डिताचार्यः। महाकवये तस्मै आधमर्ण्यप्रवाहसमर्पणमपि ऋणपरिहाराय नालमिति सर्वेषां विश्वासः।

काव्यस्यास्य कर्ता स्वयमेव व्याख्यानरूपेण भावप्रकाशिकाख्यां व्याख्यां निर्माय तत्र तत्र क्कचित् स्वाभिप्रायं, क्कचित् अधिकान् विचारान् प्रकटयामासेति महत्सौभाग्यमस्माकम्। मध्वविजयस्य प्रसिद्धानि त्रीणि व्याख्यानानि सम्प्रति उपलभ्यन्ते-वेदाङ्गतीर्थीया पदार्थदीपिका, विश्वपतितीर्थकृता पदार्थ- दीपिकोद्बोधिका, छलारी-शेषाचार्यर्कृता मन्दोपकारिणी चेति। सत्स्वपि व्याख्यानेषु किमावश्यकं नूतनं व्याख्यानं बन्नञ्जे गोविन्दाचार्यकृतं तत्वचन्द्रिकाख्यमिति सन्दिहमानं प्रति इदमेव उत्तरं यत्, आम् सर्वाण्यपि व्याख्यानि मूलभावाविष्कारकाण्येव, तथापि न प्रतनेषु व्याख्यानेषु विचारितानि सप्रसङ्गं श्रीमध्वविजयोक्तानि सूक्तानि, न वा छन्दोगतिः विमृष्टा, न वा काव्यालङ्कारादायः विवृताः, न खलु पूर्वाचार्याणां भावप्रकाशिकाग्रन्थः समग्र उपलब्ध यत्र अनेके विषयाः स्पष्टीकृताः, तदेत्सर्वमत्र सम्पादितं गोविन्दार्यैरिति नास्य व्याख्यानस्य गतार्थत्वम्।

व्याख्यानस्य वैशिष्ट्यम् – व्याख्यानस्यास्य वैशिष्ट्यं सङ्क्षेपेणेत्थं सङ्ग्रहीतुं शक्यते – शुद्धपाठा- विष्कारः, वेदमन्त्रार्थविवरणम्, श्रीमध्वविजयप्रयोगसमर्थनं, छन्दोविमर्शः, अलङ्कारविमर्शः भावप्रकाशिकापाठशुद्धिः, वेदाङ्गतीर्थीयव्यख्यापरिशुद्धिः, पारिभाषिकानां ग्रामादिवाचिनां पदानां विवरणमित्यादि। अनेके अंशाः

[[253]]

आचार्यैः स्वयमेव ‘किञ्चित् प्राथमिकं वचः’ इत्याख्यभागे निरूपिताः, अतः प्रायः तत्राऽकथितानि वैशिष्ट्यानि द्वित्रोदाहरणपुरस्सरं निरूपयितुं प्रयते।

शुद्धपाठाविष्कारः ग्रन्थनाम आरभ्य शुद्धपाठोऽत्र शोधित इत्ययं विशेषः। परम्परायां खलु ग्रन्थस्यास्य सुमध्वविजय इति नाम। इदम्प्रथमतया ‘मध्वविजय’ इत्येव नारायणपण्डिताचार्याभिमतं नाम इति उद्घोषयामास। तत्र अनेकानि संवादि

-प्रमाणान्यपि प्रादर्शिषत उपद्घाते, तत्र विस्तरेण चर्चितत्वात्, नात्र विस्तरेण युक्तयोऽनूद्यन्ते। तदनन्तरं बहवः पण्डिताः विषयेऽस्मिन् राघवेन्द्रतीर्थप्रभृति ज्ञानिनां प्रयोगमपि संवादप्रमाणत्वेन प्रकाशयामासुः।

बन्नञ्जे आचार्यैः कुत्रचित् वेदाङ्गतीर्थीयां व्याख्यां प्राचीनमातृकाञ्चानुसृत्य शुद्धाः पाठाः आविष्कृताः। तद्यथा ‘पदारविन्दप्रणतो हरीन्द्र’ इति वेदाङ्ग- तीर्थीयः पाठ इति ‘पदारविन्द इति’ प्रतीकग्रहणात् ज्ञायते। प्रचलितपाठे पादारविन्दप्रणतो इति श्रूयते। तथैव ‘प्रमाणकोटेः स हेळयाऽगात्’ इति प्रतनः पाठः, ‘हेलयाऽगात्’ इति प्रचलितः पाठः। कोशेषु यत्र ळकारो दृश्यते तत्र ळकारो निबद्धः, यत्र लकारः दृश्यते तत्र लकारः।ननु हेळया इति कथमित्यस्य स्वयमेव समाधानञ्चाह –‘हेळया अनादरेण। अनायासेनेत्येतत्। हेडृ अनादरे।

डस्य ळः इति वैयाकरणाः। वस्तुतस्तु हेळृ अनादरे इत्यपि पठनीयम्। तद् यथा ‘ईड ईळ स्तुतौ’ इति काशकृत्स्रः’ इति। परन्तु पाणिनिः अक्षरसमाम्नाये ळकारं न पपाठ इत्याक्षेपस्य उत्तररूपेण कटाक्षी कृतश्च पाणिनिः स्वकृतमहा भारततात्पर्यनिर्णयटीकायां – ‘लकारं रहयित्वा पाणिनिर्वर्णमालां पपाठ।

नवपञ्चवारं ढक्कां नादयन्नपि शम्भुर्ळकारमुप-सङ्ग्रहितुमहो विसस्मार।

अज्मध्यस्थडकारस्याऽदेशरूपं बाहृच्यं ळकारमेव केवलं पाणिनीया अङ्गीकुर्वन्ति।

तेनानेके प्रतनाः शब्दा अदर्शनमेव ययुः। प्राचीनसंस्कृते लळयोर्भेद एव’ इत्यादिभिः वाक्यैः। स्वयमेव उपोद्घातिकायामाह’ तद्यथा - काल इति समयः।

काळ इति कृष्णः। बहून् लातीति बहुलम् न बहुळम्। अपितु बहळम् न

[[254]]

बहलम्। विरळं न विरलम् केरळं न केरलम्। बाहुषाळी न बाहुशाली। तदेतत् सर्वं मूलग्रन्थेषु भगवत्पादप्रयोगादवगम्यते तदनुगुणमत्रापि तत्रतत्र ळकारः प्रायोजि’ इति। न तत्राग्रहविशेषः प्रदर्शितः। कुत्रचित् प्रचलित एव पाठ आदृतः। अत्रैव मध्वविजये ‘कान्त्या विळम्बितनवेन्दु’ इतिवेदाङ्गतीर्थीयः पाठः, प्रचलित-पाठस्तु ‘कान्त्या विडम्बितनवेन्दु’ इति प्रचलितः पाठः, अत्र प्रचलितं पाठमेव निबबन्ध, कारणञ्चाह –‘प्राचीनलिपिकाराः प्रायेण डकारस्थाने ळकारमेव लिखन्ति। नायुक्तमेतत्। अमध्यस्थत्वात्। अथापि ‘तेषां विडम्बनायवै ’ इत्याद्याचार्यपादप्रयोगात् ‘विडम्बितनवेन्दु’ इत्येव मूलपाठोऽत्राऽदृतः’ इति।

क्कचित् मूलकोशेऽदृष्टत्वात् समग्रः श्लोकः प्रक्षिप्त इति परित्यक्तः। तद्यथा एकादशे सर्गे ‘हरितप्रसून’ इति श्लोकादनन्तरम् ‘ उपचारनन्दनमिदं’ इत्येकः श्लोकः प्रचलितपाठे पठ्यते, परन्तु मूलकोशेषु अनुपलम्भात्, प्राचीन- व्याख्यातृभिः वेदाङ्गतीर्थविश्वपतितीर्थैरव्याख्यातत्वाच्च प्रक्षिप्त इति निर्णीतः, तत्र गोविन्दाचार्यभणितिः – ‘प्रचलितपाठे’ हसितप्रसूनइत्यतः पद्यात् परम्, ‘वरपारिभद्रक’ इत्यतः पूर्वं पद्यमेकमधिकं पठ्यते। तद् यथा-‘उपचार- नन्दनमिदं युवनं नियमेन नन्दयति यन्न जनम्। परमेव नन्दनमुपेन्द्रवनं सकलं सदा यदभिनन्दयति॥’ इति। प्राचीनटीकाकारैः कैरपि न परिगृहीतमिति स्फुटं प्रक्षिप्तम्। अर्थास्वारस्याच्च नहि मोक्षगतमपि वनं सकलं जनमभिनन्दयति। किन्तु सात्त्विकमेव।’ इति यत्र मूलकोशः प्रचलितपाठानुसारी तत्र वेदाङ्गतीर्थीयविरुद्धोऽपि प्रचलितः पाठ एव आदृतः। तद्यथा ‘ द्रुतसखिषु’ इति वेदाङ्गतीर्थीयः पाठः, द्रुतसखेषु इति प्रचलितः पाठः, वस्तुतः प्रयोगोऽयं प्रसिद्धपाणिनि- व्याकरण- विरुद्धः, तथापि अयमेव पाठः समर्थितः‘द्रुतसखिषु कथमेतत्? ‘राजाहः सखिभ्यष्टच् [५.४.९१] इति टचि ‘द्रुतसखेषु’ इति भाव्यम्। सत्यम्, अथापि प्राचीनकोशे ‘द्रुतसखिषु’ इत्येव पठ्यते। समासान्तो विधिरनित्य इति सङ्गमनीयम्। तद् यथा- ‘गङ्गासङ्गेन नैर्मल्यं रथ्याद्भिर्लभ्यते यथा’, ‘शुच्यम्पि तटाकानि ‘इत्यादि’ इत्यादिवाक्यैः।

[[255]]

कुत्रचित् वेदाङ्गतीर्थीयानुसार्यपि प्रचलितपाठो नादृतः। तद्यथा – प्रचलितपाठे वेदाङ्गतीर्थीये च बुद्धिसागरः वादिसिंहेन सह वादार्थमागत इत्यर्थकः ‘सवादिसिंहोऽत्र स बुद्धिसागरः’ इति पाठः, परन्तु मूलकोशानुरोधेन अर्थस्वारस्यचिन्तनेन च ‘स वादिसिंहोऽत्र सबुद्धिसागरः’ पाठः ‘स वादिसिंहः सबुद्धिसागरः वादार्थमागत इत्यर्थकः पाठ आदृतः। ‘यः पूर्वं वेदवादी सन्नपि बुद्धिसागरमतावलम्बेन वेदद्विषां प्रथमः सम्बभूव सः समस्तवादीन्द्रगजप्रभङ्गदो वादिसिंहः सबुद्धिसागरः समाययौ। युक्तं चैवमन्वयनम् सिंहो हि गजप्रभङ्गदः न सागरः’। इति। समस्तवादीन्द्रगजप्रभंगदः इति विशेषणमेव पाठनिर्णये निर्णायकम् न भवति, तस्य तु अन्यथाऽपि योजयितुं शक्यत्वात्, परन्तु मूलकोशेऽपि तथैव पाठस्य लाभेन अर्थस्वारस्यस्यापि सद्भावात् निर्णयः।

भावप्रकाशिकावचनमत्र संवादिप्रमाणं स्यात्, परन्तु भावप्रकाशिकामुल्लिख्यापि वेदाङ्गतीर्थः ‘सवादिसिंहोऽत्र स बुद्धिसागरः’ इति पाठमेव जग्राह। तेन प्राचीनमातृका एव अत्र प्रमाणं। अतः सन्देहशीलैः मूलमातृका पठनीया परीक्षणीया वा, तद्विरुद्धं लभ्यते चेत् प्रदर्शनीया, बन्नञ्जे गोविन्दाचार्यो वा विश्वसनीयः। न हि केवलं वाचारम्भरणेन तत्वं निश्चीयते।

कुत्रचित् अनिर्णय एव शरणमित्यप्युवाचतद्यथा ‘अत्रानन्तस्वान्तवेदान् तसिंहे’इति वेदाङ्गतीर्थीयः पाठः, ‘तत्रानतस्वान्तवेदान्तसिंहे’ इति प्रचलितः पाठः विश्वपतितीर्थानुसारी। कस्तावदत्र समीचीनम् इत्यस्मिन् विषये बन्नञ्जे आचार्याणां वचनमित्थं वर्तते –‘तत्र रजतपीठपुरे’ इति विश्वपतितीर्थीयः प्रकटितः पाठः। ‘अत्र रजतपीठपुरे’ इति तु वेदाङ्गतीर्थीयम्। कस्तावदत्र लिपिकृत्प्रमाद इति महान्तः प्रमाणम्’इति। तथैव ‘भर्त्सयन्निति जहास सुहासो’ इति प्रचलितः पाठः, भत्सयन्निति प्राचीनकोशानुसारेण पाठं निबबन्ध, परन्तु तत्र विषयोऽयं सन्देहास्कान्दित इति स्वयमेवोच –’ प्राचीनकोशेषु ‘भत्सयन्’ इत्येव पठ्यते। नतु भर्त्सयन्’ इति। वेदाङ्ग- तीर्थीयेऽपि तथा। श्रीहृषीकेशतीर्थादिभिरप्येवं लिखितं दृश्यते। किं भर्त्सधातोः प्रतनं रूपं भत्सेति, आहो धात्वन्तरमुतवा केवलं लिपिस्खलनमिति विशेषज्ञैर्विभावनीयम्’ इति।

[[256]]

कुत्रचित् सम्भावनामात्रं प्रकटितं तद्यथा – ‘विधानमात्रं तदुपाददे तदा’ इति प्रचलितः पाठः, वेदाङ्गतीर्थीये तु आददे इत्येव प्रतीकग्रहणं कृतम्।

परन्तु आददे इति पाठे छन्दोभङ्गः। तत्र गोविन्दाचार्यवचनं- व्याख्याने ‘आददे’ इत्येव पठ्यते। न ‘उपाददे’ इति तेन ‘तदुताऽददे’ इति वेदाङ्गतीर्थसम्मतः पाठः सम्भाव्यते विश्वपतितीर्थीयेऽपि तथा’ इति। इत्येवं प्रकारेण अनेकैः प्रकारैः पाठः शोधितः मूलभावश्च प्रकाशित इत्ययं संशोधकस्य कर्तव्यं द्योतयन्निव विराजते।

वेदमन्त्रार्थविवरणम् – तत्वचन्द्रिकाव्याख्यानस्य वैशिष्ट्यमिदं यत् मध्वविजयभावप्रकाशि- कोदाहृतानां मन्त्राणामर्थविवरणम्। तद्यथा ‘तां मन्त्रवर्णैरनुवर्णनीयां’ इति श्लोकस्य भावप्रकाशिकाव्याख्याने वायुः -’बळित्था तद् वपुषे धायि दर्शतम्’, ‘भूषन्न योऽधि बभ्रुषु नम्नते’, ‘तां सुते कीर्तिं मघवन् महित्वा’ इति मन्त्रवर्णैः अनुवर्णितः, पूर्वोक्तानि तु सूक्तानि। उत्तरत्र मन्त्रवर्णाः निरूपिताः ‘विष्णोः पदे परमे मध्व उत्सः’, ‘विद्वान् मध्व उज्जभारा दृशे कम्’ इत्यादयो मन्त्रवर्णाः’इति। बन्नञ्जे गोविन्दाचार्यैः तेषां सर्वेषां सूक्तानां, मन्त्रवर्णानां अर्थाः सप्रसङ्गं निरूपिता इत्यंशःतेषां पाण्डित्यस्यदर्पणायितः।

तथैव ‘सद्ददाददसुशंसननिन्दाकारिसूक्तगतमर्थमुपेत्य’ इति श्लोक- व्याख्याने भावप्रकाशिकायां सूचितस्य ‘न वा उ देवा’ इति सूक्तस्य समग्रतया व्याख्यानं विद्वज्जनानन्दकरम्। ‘कन्यकादृतसुरेन्द्रवपुःश्रीदानवा चिवरसूक्तहृदुक्तौ’ इति श्लोकसूचितसूक्तार्थविवरणं वेदाङ्गतीर्थीये यावद् अावश्यकं तावद्विवृतं, परन्तु बन्नञ्जे गोविन्दाचार्यैः समग्रं अपालासूक्तं व्याख्यातमिति वेदार्थजिज्ञासूनां रसायनम्।

न केवलं वेदमन्त्रार्थविवरणं, वैदिकयागप्रक्रिया तद्गतमन्त्रभागार्थ- निर्णयोऽपि कृतः। तद्यथा ‘ याज्यया समुचितानुवाक्यया’ इति श्लोक- व्याख्यानावसरे भावप्रकाशिकाव्याख्यानमुपलक्ष्यीकृत्य का नाम याज्या,

[[257]]

का वा ऋगनुवाक्या, के वा अभिष्टवाः मन्त्रा इत्यादिविषयाणां विस्तरेण निरूपणमस्माकं कर्मकाण्डभागाऽपाण्डित्यं उपहसदिव विराजते।

न केवलं वैदिकप्रक्रियागतमन्त्रार्थनिर्णयः, अपि पुनः वेदोच्चारणक्रमः विशिष्टतया निरूपितः त्रयोदशसर्गे। ‘उक्ताङ्गेभ्यः कादिकान् व्यञ्जयन्तं इति श्लोकादारभ्य ‘काल्पीः कॢप्तीर्व्यञ्जयन्’ इति श्लोकपर्यन्तं आचार्यस्य वेदोच्चारणक्रमो वर्णितः। भावप्रकाशिकायामपि विशेषेण विवरणं प्रदत्तम्।

शिक्षादिवेदोच्चारणशास्त्रानध्येतॄणां दुर्बोधं विषयं सज्जनुजिघृर्षया व्यवृणोत् श्रीगोविन्दाचार्यः इति नः भाग्यधेयम्। इत्थं वेदपुरुषानुग्रहेण वेदसम्बद्धः सर्वोऽपि भागः ऐदम्प्राथम्येन प्रकाशितः इतीदमस्य व्याख्यानस्य महत्वं वैशिष्ट्यञ्च।

भावप्रकाशिकापाठशुद्धिः तद्वाख्यानञ्चश्रीमध्वविजयस्य भावप्रकाशिकाख्या व्याख्या श्रीनारायणपण्डिताचार्य- कृता ऐदम्प्राथम्येन मातृकाशोधनादिना शुद्धरूपेण प्राकाश्यं नीता इति विषये अस्माभिः सर्वदा गोविन्दाचार्याणां कृते आधमर्ण्यं प्रकटनीयम्।

अनेके विषयाः, प्रसङ्गाः श्लोकव्याख्यानरूपेण नारायणपण्डिताचार्यैः वर्णिताः। कुत्रचित् ते वेदाङ्गतीर्थीयव्याख्यानेषु सङ्गृहीता, बहवो विषया असङ्ग्रहीताः। तेषां सर्वेषां वाक्यानामपि व्याख्यानं व्यधायीति नकेवलमिदं श्रीमध्वविजस्य व्याख्यानं, अपि पुनः भावाप्रकाशिकाव्याख्यानमपि।

तद्यथा ‘सम्भूयामी चोळजद्वीपिपुर्योः’ इति श्लोकव्याख्यानावसरेचोळजः पद्मतीर्थः शाक्ततन्त्रज्ञः आसीत् इत्ययं विषयो भावप्रकाशिकायामुल्लिखितो दृश्यते ‘यो गुप्तपटलोक्तायां भैरवीचक्रसङ्गतौ। साङ्कर्यां परविद्यायां महावाग्गग्म्य सतां गुरुः’ इति। अत्र केवलं पद्मतीर्थः भैरवीचक्रविद्यायां असज्जनानां गुरुरासीदित्येव ज्ञायते, का सा भैरवीचक्रविद्या, के वा तस्य विषया, कैराचर्यते इत्याद्याः विषयाः यौवनावस्थायामेव समधीततन्त्रशास्त्रैः व्याख्याततन्त्रसारसङ्ग्रहैः गोविन्दाचार्यैः व्याख्याताः – ‘कौलानां तन्त्रस्य गुप्तपटल उक्तायां भैरवीचक्र सङ्गतावसतां गुरुः। साङ्कर्यां च परविद्यायां

[[258]]

महावाग्मी गुरुरिति। तथाहि कौलाचाराणां भैरवीचक्रम्- भैरव्याः कल्पितं चक्रं संस्थाप्य पूर्ववत् प्रिये।

सुराणां शोधनं कुर्याद् यथावत् परमेश्वरि॥

प्रवृत्ते भैरवीचक्रे सर्वे वर्णा द्विजोत्तमाः।

निवृते भैरवीचक्रे सर्वे वर्णाः पृथक्पृथक् ॥

इत्यादि त्रिपुरा, कामेश्वरी, भुवनेश्वरी, त्रिपुरबाला, अन्नपूर्णेश्वरी - इत्याद्या बहुविधा भैरव्यो भवन्ति’ इत्यादिना।

कुत्रचित् पाठप्रक्षेपाः दूरीकृताः। तद्यथा ‘योऽसौ देवो विश्वदीपः प्रदीप्त’ इति श्लोकभावप्रकशिकायां ‘किं ललाट इति पृष्टो राज्ञा करेण गदां भवन्तो बिभ्रन्ति (?) वयं ललाट इत्यूच इत्याद्यशब्दार्थ’ इति भागः लभ्यते।

नूनमिदं प्रक्षिप्तमिति गोविन्दाचार्यैः सकारणं प्रत्यपादि – ‘भवन्तो विभ्रन्ती त्याद्यपपाठगर्भमिदमप्रबुद्धं वाक्यं संस्कृतभाषानभिज्ञैः प्रक्षिप्तमिति स्फुटम्।

तुरुष्कराजः करे गदामबिभरुरिति चाद्भुतमितिहाससंशोधनम्। अनधीतानां शास्त्रेषु अप्रगल्भानामितिहासेषु अप्रबुद्धानां भाषासुभवन्तीदृशाः प्रक्षेपा इत्यतिरोहितम्’ इत्यादिवाक्यैः।

क्कचित् सम्भावना, क्कचित् अनिर्णयशरणतापि प्रदर्शिता। तद्यथा दशमसर्गस्य एकविंशतिव्याख्याने भावप्रकाशिका ‘दस्यूनवाप्तानवलोक्य सोऽब्रवीत् को मेऽस्ति शिष्यो विभयो जयीत्यलम् अभ्यासवांस्तूर्णमुपेन्द्रती र्थस्तत्तेजसा क्रूरचमूं प्रभोऽभ्ययात्’ इति पठ्यते। अत्र ‘क्रूरचमुं प्रभोऽभ्ययात्’इत्यस्यार्थः न स्फुटः। तदुच्यते तत्वचन्द्रिकायां –’ क्रूरचमूं प्रभोऽभ्ययात्’ इत्येव सर्वत्र पठ्यते। अर्थस्तु न स्फुटः। क इह नाम सम्बोध्येत ‘प्रभो’ इति ‘समभ्ययात्’ इति मूलपाठः सम्भाव्यते’।

इत्थं अनेकत्र मूलपाठप्रदर्शनेन, क्कचित् सम्भावनाप्रदर्शनेन, बहुत्र विशेषार्थविवरणेन बहूपकुरुते व्याख्यानमिदं भावप्रकाशिकाध्येतॄणाम्।

[[259]]

वेदाङ्गतीर्थीयव्याख्यापरिशुद्धिः श्रीमध्वविजस्य अतिप्राचीनं व्याख्यानं वेदाङ्गतीर्थीयं कालगर्भ- लीनमासीत्, गोविन्दाचार्याणां प्रयत्नेन प्रकाशितमिति महानुपकारः अध्येतृपरम्परायाः। तत्र व्याख्याने लिपिकृत्प्रमादेन कुत्रचित् सूत्राणि, धातवः, कोशाः व्यत्यस्ता दृश्यन्ते। तत्सर्वमपि स्वव्याकरणभाषाशास्त्रज्ञान वैशाल्येन निरीक्ष्य पर्यहरत् गोविन्दाचार्यः। तद्यथा ‘सौमेरवं गौरवमावहन्ति’ इति श्लोकव्याख्यानवसरे ‘विनश्यामः पुरा नष्टाः स्म, यावत्पुरानिपातयोर्लट्’ इति लट् ‘ इति वाक्यं दृश्यते। परन्तु ‘यावत्पुरानिपातयोर्लट्’ इति सूत्रं भविष्यदर्थे लटः विधानं करोति। तन्निरीक्ष्य अधस्तात् टिप्पणी प्रदत्ता गोविन्दाचार्यैः –’ भविष्यदर्थे लड्विधायकमिदं सूत्रं सम्पातायातमित्युक्तम् ‘पुरि लुङ् चास्मे’ इति पठनीयम्’ इति।

तथैव ‘पूर्वजन्मसु हि वेद पुरेदम्’ इति श्लोकभागव्याख्यानासवरे ‘ वेद पुरेत्यत्र ‘ यावत् पुरानिपतयोर्लट्’ इति सूत्रेणातीतार्थे लडादेशः’ इति वेदाङ्ग- तीर्थीयं वाक्यं पठ्यते, तत्रापि गोविन्दाचार्यः‘ पुरि लुङ् चास्मे’ (३.२.१२२)। पुराशब्द उपपदे स्मशब्दवर्जिते लुङ् भवति, लडपि भवति।

तेन वेद पुरा, अवेदिषं पुरा। अत्र यत् प्राचीनटीकासु पठ्यते - ‘ यावत् पुरानिपातयोर्लट्’ इति सूत्रेणातीतार्थे लडिति, तल्लिपिकृत्प्रमादपतितं प्रतीमः। भविष्यदर्थे हि तत्र लड् विधीयते, नातीतार्थे’इत्यादिवाक्यैः लिपिकृत्प्रमादं संमार्जयामास।

कुत्रचित् लिपिकृत्प्रमादः कोशादिस्थलेषु।तद्यथा ‘यतिराड्घनाघनः’ इति पदव्याख्यानावसरे ‘लिकुचान्वययतिश्रेष्ठाख्यः घनाघनः वार्षुकाब्दः, ‘शक्र- घातुकमत्तेभवार्षुकाब्दा घनाघनाः’ इत्यमरः’, इति वाक्यं मूल- मातृकायामुपलभ्यते, अत्र सूक्ष्मेक्षी गोविन्दाचार्यः लिपिकृतां प्रमादं प्रादर्शयत्। तत्र च अधस्तात् टिप्पण्यां विवृतमेवम्- ‘शक्रो धातुकमत्तेभो वर्षुकाब्दो घनाघनः’ इति प्रचलितः पाठः। अत्र यत् कोशेषु पठ्यते -

[[260]]

‘घनाघनः वार्षुकाब्दः’ इति, ‘वार्षुकाब्दा घनाघनाः’ इति, ‘वार्षुकमेघो जलधेर्जलम्’ इति च, स लिपिकृत्प्रमादः ‘वर्षुक’ इत्येव साधुपदम्। अहो गोविन्दाचार्यस्य सूक्ष्मेक्षित्वम्। अहो तेषां शुद्धपाठा-विष्करणनैर्भर्यम्।

श्रीमध्वविजयप्रयोगसमर्थनम् – श्रीमध्वविजये कुत्रचिदपाणिनीयाः प्रयोगाः दृश्यन्ते। पूर्वव्याख्यानेषु न प्रयोगाणां समन्वयो वा सङ्गमनं वा न प्राप्यते। तत्वचन्द्रिकायान्तु अनुपदं पाणिनीयानां प्रयोगाणां सूत्रोदाहरणपुरस्सरं व्याख्यानं, अपाणिनीयानां प्रयोगाणां साधुत्वसमर्थनम्। प्रसिद्धं खलु गोविन्दाचार्यवचनं, साधवः शब्दाः द्विविधाः पाणिनीया अपाणिनीयाश्चेति। अपाणिनीयानां प्रयोगाणां कुत्रचित् उत्तरोत्तरमुनिप्रामाण्यमङ्गीकुर्वतां वैयाकरणानां मतमनुकुर्वाणः भाष्याद्युत्तरग्रन्थसंवादेन साधुत्वं साधितवान्। तद्यथा – ‘सन्मात्सर्यं बद्धुमूचेऽशुभानां’ इति श्लोकव्याख्यानावसरे ‘बद्धुम्’ इति प्रयोगसमर्थनम् तत्वचन्द्रिकायां, ‘कथमत्र ‘बद्धुम् ‘ ? ‘बन्धुम्’ इत्येव मूलपाठः स्यात्।

अथवा नेदं क्र्यादेः ‘बन्ध बन्धने’ इत्यस्य रूपम् किन्तु भ्वादेः ‘बध बन्धने’ इत्यस्य। नन्वयं नित्यसन्नन्तः। बीभत्सत इति च रूपं निष्यादयन्ति।

पतञ्जलिरप्याह ‘ नेतेभ्यः प्राक् सन आत्मनेपदम् नापि परस्मैपदं पश्यामः’ इति। सत्यम्। अथाप्यन्ये ‘बधते’ इत्यादि रूपमप्यङ्गीकुर्वन्ति।

वार्तिकमप्यत्र संवदते ‘अत्रापि सन्नर्थविशेष इष्यते [३.१.६] इति।

जुगुप्सायामर्थविशेषे गम्यमान एव सन् प्रत्ययो भवतीत्युक्तं भवति। तेन बन्धनार्थे न सन् भवति। तेन बन्धनार्थे गम्यमाने ‘बधते’ इत्येव रूपम्।

क्षीरस्वामी चाऽह- ‘जुगुप्सायां सन् बीभत्सते अन्यत्र बधते’ इति।

काशकृत्स्नधातुपाठेऽप्येवम्। तेन ‘बद्धम्’ इति सुवचम् ‘ इत्यादिवाक्यैः कुत्रचित् अपाणिनीयानां प्रयोगाणां साधुत्वं, पाणिनीयप्रयोगाणामेव साधुत्वभ्रान्तिं निराकृत्य साधितम्। तद्यथा ‘विविधभूरतीत्यगोदावरीतटमगात्’ इति श्लोके विविधभूः इति शब्दस्य साधुत्वसमर्थनम्। व्याख्यानान्तरेषु महाकविप्रयोगत्वात् साधुत्वं वा, औणादिकं उप्रत्ययं सम्पाद्य वधूशब्दवत्

[[261]]

प्रयोगमङ्गीकृत्य साधुत्वं साधयितुं प्रयत्नः कृतः। परन्तु गोविन्दाचार्यः मूले कुठारन्यायेन शब्दशास्त्रनिजभावं विमृश्य साधुत्वं प्रत्यपादयत्‘ ननु कथं शसि भूरिति ? तर्हि त्वमपि पृछ्यसे कथं शसि स्त्रीरिति ? ननु पाणिनिना मुखत उक्तम्- ‘स्त्रियाः’[६.४.७९ ‘वाऽम्शसोः’ [६.४.८० ] इयङादेश इति। तर्हि अन्यदपि पठ्यतां सूत्रम्- ‘भुवो वा शसि’ उवङादेश इति। ननु न पठितं प्राचीनैः। अत एवेदानीं पठ्यते। ननु पुरातनैः पठ्यते। पुरातनाः पेठुरिति वयमनुसराम एवं केवलं चक्षु निमील्य। अहो वैयाकरणम्मन्य अद्भुता प्रतिभा तत्रभवतः। उन्मीलय तावच्चक्षुषी। पाणिनिना न पठितमिति अक्षादूहिन्यामुपसङ्ख्यानं कात्यायनः पपाठ। केनाप्यपठितं पुंशब्दस्य सुपि ‘पुङ्ख’ इति रूपमनुभूतिस्वरूपाचार्यः पपाठ। कुर्मि कुर्वः कुर्म इति वाल्मीकिरपूर्वं पपाठ। बहुलमेवंविधाः प्रयोगभेदा भवन्ति देशभेदेन च।

पाणिनिरप्याह तत्रतत्र प्राचां मतेनेदं रूपमुदीचां मतेनेदं रूपमिति। ननु ते सर्वेऽपि पुरातनाः? तर्हीदमवगच्छ पुरातना अप्यधुनातना आसन्। अधुनातना अपि पुरातना भविष्यन्ति। ये तलस्पृशः, ये पारदृश्वानः, ते क्कचिल्लीलया शास्त्रजलधिमतिक्रम्यापि जिगमिषन्ति’ इत्यादिवाक्यैः। अहो अधीतमहा भाष्यकैयटादिव्याकरणग्रन्थानां गोविन्दाचार्याणां विमर्शनशैली, वाक्यान्यपि महाभाष्यशैलीं स्मारयन्तीव विराजन्ते। एवमेव बहुत्र व्याख्यानमिदं पदनिष्पत्तिप्रदर्शनपुरस्सरं व्याकरणाधिजिगमिषूणाम् अधीतव्याकरणानाम् आम्ररसायनमिव विभाति।

अलङ्कारछन्दोविमर्शः व्याख्यानस्याऽस्य प्रमुखं वैशिष्ट्यं यत् प्रायः सर्वैः व्याख्याकारैरस्पृष्टस्य मध्वविजयगतस्य अलङ्कारछन्दश्शास्त्रस्य विमर्शनम्। गोविन्दाचार्येण सचित्रं बन्धादिस्वरूपं प्रतिपाद्य प्रायः विद्वज्जगति अन्यैरकृतं सुदुश्शकं कार्यं व्यधायि। स्वभावकविः खलु आचार्यः, तेषां अलङ्कारछन्दश्शास्त्रादिविषये कुतूहलप्रवृत्तिः सहजा एव। कुत्रचित् छन्दश्शास्त्रसाहाय्यात् मूलपाठशोधनं व्यधायि। तद्यथा ‘अयमेव गोविषयतोऽपि’ इति श्लोके ‘कुत्रचित्’ इति

[[262]]

अधिकं पदं प्रचलितपाठे दृश्यते। तत्र गोविन्दाचार्यवचनम्।’ केचित् पठन्ति

  • ‘अयमेव गोविषयतोऽपि कुत्रचित् सदसि जनतार्थितो जवात्’ इति।

अनधीतच्छन्दःशास्त्राणां विभ्रमविलसितमेतत्। तथा ह्यत्र उद्गता नाम विषमच्छन्दः। प्रथमपादे द्वितीये च दशाक्षराणि, तृतीय एकादश, चतुर्थे त्रयोदशेति। तथाहि लक्षणम्- ‘प्रथमे सजसा लश्चेत् द्वितीये नसजा गुरुः।

तृतीये भ्नज्लगास्तुर्ये सज्सज्गैः सहितोद्गता’ इति तेन चतुश्चत्वारिंशदक्षरा त्रिष्टुबेवेयम्। यत् केचिदन्यथा वदन्ति तत् सर्वमप्रमाणकमित्युपेक्ष्यम्’इति।

तथैव कुत्रचित् छन्दोविशेषाश्रयणे प्रयोजनविशेषम् न्यरूपयत्। तद्यथा मङ्गलश्लोकव्याख्यानम्। दिङ्मात्रं निर्दिश्यते लेखनविस्तारभयात्।

धन्योमह्यत इति श्लोकबन्धेन ग्रन्थनामदृढीकरणम्। आर्यादिमात्राछन्दसां लक्षणविवरणपुरस्सरं निरूपणम् इत्याद्यनेके विषया काव्यपीयूषरसास्वादन- चित्तानां आह्लादकराः। अलङ्कारविमर्शश्च आनन्दवर्धनादि-अलङ्कार- शास्त्रविदुषां ग्रन्थाध्ययनं विना अधिगन्तुमपि न शक्यते इति नाहं तस्य विमर्शने समर्थः इति निवेद्य ‘अलङ्कारशास्त्रस्य विमर्शः ध्वनिरसादिलक्षण- विमर्शनपुरस्सरमकरोदिति शीर्षिकां प्रदर्श्य विरमामि।

सन्त्यन्येपि बहवो विशेषाः व्याख्यानस्यास्य। लेखविस्तरभयात् बहु न निरूप्यते। समग्रनिरूपणं शक्यमिति भ्रान्तिस्तु कालिदासस्य ‘तितीर्षुर्दुस्तरं मोहादुडुपेनास्मि सागरम्’ इति वाक्यस्मरणेन निवारणीया। दिग्दर्शनं व्यधायि। अनेन केषाञ्चित् तत्वचन्द्रिकापठनरुचित्पद्यते चेत् सार्थकं मे लेखनमिति धिया गोविन्दाचार्याय प्रणतिततीः निवेद्य विरम्यते।


[[263]]