२८ वायुस्तुतिटीकाव्याख्या

विद्वान् श्रीरामविठ्ठलाचार्यः

श्रीबन्नञ्जेगोविन्दाचार्याः प्रतिभापर्वतोपमाः पाण्डित्यशिखरप्रायाः। न केवलं धीमन्तः धृतिस्थितिमन्तश्च। बहवो विद्वांसः भवन्ति। न तु सर्वेऽपि संशोधकाः। संशोधकाः भवेयुरपि। तत्ववादश्रद्धालवो न भवन्ति।

प्रायो जनाः सिद्धमार्गेष्वेव सञ्चरिष्णवः। न नवीनमार्गसिषाधयिषवः।

अत एव पण्डिताः बहुलाः। संशोधका विरलाः। संशोधकेष्वपि पिहितनयन श्रोत्राः विहितस्वविचाराग्रहाः अग्रहा एव दृश्यन्ते।

अकृतपरिश्रमा अपि कृतपरिश्रमं निन्दन्ति तेनैव स्वयं नन्दन्ति च।

वाङ्मयसागरः अगाधः अपारश्च। पारङ्गताः एव बहवः। ततोऽपि बहवः तीरंगताः। तलस्पर्शिनस्तु केचन एव।

बन्नञ्जे गोविन्दाचार्याः तलस्पर्शिपण्डिताः आयौवनात् संशोधनशीलाः।

बाल्यादध्ययनशीलाश्च। पण्डितकुटुम्बे लब्धोदयाः। अभिजातकवयः। ते विदग्धा विवाददिग्धाश्च। सौहार्देन जिज्ञासया च परिपृष्टाः दत्तोत्तराः भवन्ति स्म। मदेन पृष्टाः अश्रोतारः अप्रतिक्रियाश्च भवन्ति स्म। सत्यवचने निर्भराः निर्भराश्चासन्। आक्षेप्तारः भवन्त्यधिकाः। प्रष्टारश्च। तदीयविचाराः सर्वैरपि अङ्गीकरणीया एव इति न ते साग्रहा आसन्। विचाररुचिराः भवेयुरिति भावयन्ति स्म। नैतावता ते प्रश्नार्हा नैवेति नैव भाव्यते। प्रहारः तेषां साधनानि, तेषामुपायनं च खुरि??? सम्भावयेत्येवाशयः।

आस्तां तावत्। साम्प्रतं च तेषां कृतिविशेषं तैरेव सम्पादितां वेदात्म- तीर्थकृतव्याख्यासहितां वायुस्तुतिमन्तरेण किञ्चिदिव प्रस्तोतुमुपक्रमे।

उपक्रमेऽस्मिन् ग्रन्थे पञ्चत्रिंशत् पुटपरिमितां स्तुतिभूमिकां व्यलिखन्।

हृद्यगद्यमयी विमर्शमयी च सा भूमिका संस्कृतप्रेमिणां रसायनभूता प्रभूतं भासते।

[[250]]

आरम्भे लिकुचवंशीयानां परिचयः तेषां कृतिसञ्चयपरिचयश्च क्रियेते विव्रियेते च। वायुस्तुतिकर्तुः श्रीत्रिविक्रमपण्डिताचार्यस्य मध्वार्येण संगमः संवादः संभाषः संगमनञ्च न्यरूपि।

ततः परं वायुस्तुतिरचनसन्दर्भविषये किंवदन्तीः निरूप्य विममर्श। अन्ते कथाविसंवादेन विष्णुस्तुतिं कृत्वा मध्वप्रभावृतः वायुस्तुतिञ्च चकार।

स्तोत्रावसाने ‘स्तुतिमकृत हरेर्वायुदेवस्य चास्य’ कविघोषः सुस्थ इति निश्चिकाय।

अथ नखस्तुतिविषये विमर्शबुद्धिः प्रसारिता। पान्त्वस्मानिति पद्यमेव नखस्तुतिपरं दृश्यते। द्वितीये पद्ये नखस्तुतिः न श्रूयते। भिन्नकालिकं पद्यद्वयं संयोजितमिति निरणायि। तत्र तत्राधारप्रमाणानि निरूपितानि च।

ततः नखस्तुतिछन्दस्सौन्दर्यं वर्णितम्। तदनु स्तुतेरस्याः मन्त्रकाव्यात्मतां वर्णयन्तः महिमातिशयं वर्णयन्ति- ‘यद् गृहस्थेन रचितेयं सन्न्यासिभिरपि मन्त्रतुल्यतयाऽमान्यत, नित्यमपाठ्यत’। श्रीवादिराजयतिराजस्य- ‘वायुस्तुतिरतिर्नित्यमिति’ प्रंशसामुल्लिलेख।

अथ वायुस्तुतिटीकाः अधिकृत्य विचारः प्रास्तूयत। कन्नड-आङ्ग्ल- भाषानुवादाश्च उल्लिखिताः।

कृतेरस्याः हरिवायुस्तुतिरिति नामविषये नैकटीकाभावाः न्यरूप्यन्त।

वायुस्तुतावेव तत्र तत्र हरिस्तुतिरपि कृतेति हेतुना हरिवायुस्तुतिरिति नामेति भावयन्ति। केचन टीकाकाराः समग्रायाः स्तुतेः प्रतिपद्यं हरिपरतां वायुपरतां सम्भाव्यव्याख्यान्ति। एवं विमर्शविषयाः।

ततश्च वाग्भूषणरूपायां स्तुतौ मायावादप्रखरदूषणप्रक्षेपः कुत इति केषाञ्चन आशयो विमृश्यते। एतद्व्याजेन सत्ये, सत्यमार्गे च लघुभावनावतां वामबुद्धिजीवानामर्वाचीनानां विमर्शः निष्ठुरतया कृतः।

ग्रन्थारम्भे कविकर्णामृताभिधान श्रीवेदात्मयतिकृतौ नखस्तुतिपद्यद्वयं न

[[251]]

व्याख्यातमिति स्तुतिचन्द्रिकाभिधायां स्वकृतटीकायामेव आद्यपद्यद्वय- व्याख्यानमाख्यातम्।

‘तथैव वायुस्तुतेः प्राचीनटीकायामस्फुटानामर्थानां प्रकाशनाय लघ्वी वायुस्तुतिटीका स्तुतिचन्द्रिका नाम’ कृतेति प्रतिज्ञा कृता।

हृद्यं मङ्गलपद्यमिदम्- हरिचरणं गुरुचरणं परिचरणेन प्रसाद्य भवतरणम्।

कृतमुखहृदयाभरणं वितन्यते हरिस्तवनम् ॥

आद्यं नखस्तुतिपद्यं- ‘तदेतदृचाऽभ्युक्तम् सिंहं नसन्त मध्वो अयासं हरिमरूषं दिवो अस्य पतिम्’ इति वेदवचसा प्रकाशितम्।

इदञ्चान्यत् हृद्यं मङ्गलपद्यं वायुस्तुतिव्याख्यारम्भे सहजतया स्फुरितम्- ‘लक्ष्मीशं तमनीशं परिपूर्णमनीषं च भारतीशम्।

नत्वा त्रिविक्रमार्यं विहर मनस्तत्कृतावीषत् ॥’ आचार्यगोविन्दकृता चेयं टीका न केवलं मूलटीकाविवरणपरा। अपि च स्वयमपि वायुस्तुतिविवरणपरा च। तत्र तत्र विविधकोशोल्लेखः व्याकरणपरिचयः श्रुतिस्मृत्यादीनां समुल्लेखश्च टीकायामस्यां क्रियन्ते।

तदयं संक्षेपतः इक्षुकाण्डपरिचयः। सरसनाः सरसाश्च सहृदयाः स्वयं समास्वादयन्तु ॥


[[252]]