२७ जयन्तीकल्पः

हेर्गग्रामनिवासी रवीन्द्र भट्टः

अज्ञानकल्पितानां प्राचीनधर्मशास्त्रविदुषां मिथ्याप्रलापं अपाकर्तुं आचार्यमध्वः ‘जयन्तीकल्पः’ इति ग्रन्थं निर्माय ज्ञानिजनसन्दोहं तुषितवान्।

द्वादशश्लोकात्मिका इयं तन्वीकृतिः महान्तं विषयं प्रतिपादयति।

भुवमवतीर्णस्य भगवतः श्रीकृष्णस्य जन्मदिनरहस्यं मृदुगुञ्जति कर्णरन्ध्रे।

तस्मात् सत्सु अनेकेषु ग्रन्थेषु, ग्रन्थोऽयं अमलजलमये सरोवरे राजहंस इव शोभते।

ईदृशोऽयं ग्रन्थरत्नः सर्वमूलेषु अन्यतमः तथापि अप्रसिद्ध इव आसीत्।

यदा बन्नञ्जे गोविन्द आचार्यः स्वीयया ‘चन्द्रिकया’ अस्य अस्फुटितार्थं प्रकाशयामास तदा सर्वो लोकः अस्य सौरभं घ्रातुं आरभत।

मङ्गलपद्ये आचार्यगोविन्दः स्पष्टयति - आचार्यभावमज्ञात्वा सम्प्रत्यपि च केचन।

भिन्नव्रतत्वं मन्यन्ते तदर्थं अयमुद्यमः ॥ इति ॥

अतः श्रीमदाचार्यस्य भावं जिज्ञासूनां, विष्णुतीर्थीयं, तथा पौराणिकं वचः, अन्यच्च सङ्गृह्य अस्य रहस्यं उन्मोचयितुं नितान्तं अयतय।

रोहिण्यां अर्धरात्रे तु यदा कालाष्टमी भवेत्।

जयन्ती नाम सा ज्ञेया……………… ॥

इतीमां माध्वीं वाणीं मनसि निधाय स्वाभिमतं निर्भीकतया परामृशति।

प्रमाणान्तराणि अपि संवादति। पुराणेषु पठ्यमानस्य ‘‘श्रावण’’ शब्दस्य ‘सिंहमासः’ इत्येव अर्थः करणीयः नान्यः इति उद्घोष्य सोऽर्थः कथं घटते इति च साधयति। सर्वान् अपि अन्यान् प्रमादं सूचयति ‘‘लिपिकृतः प्रमाद्येयुः’ इति। अत्रैव केचन विशेषाः प्रज्ञामात्रगोचराः अर्थाः आचार्येण आविष्कृताः

[[245]]

दृश्यन्ते। यथा- 1) पाण्डवान् जयेन योजयामास इति योगः।

  1. ज्ञानभक्तिकर्मयोगानां अयमीश्वरः इति योगेश्वरः।

  2. भक्तियोगेन भक्तानां पुरः सम्भवति आविर्भवति इति योगसम्भवः।

  3. नीला विवाहे सप्तगोवृषान् विन्दति निग्रहीतुमिति गोविन्दः कृष्णः।

  4. याति च सर्वत्र जानाति च सर्वमिति यज्ञः।

एवमन्येऽपि सन्त्यनेके अर्थाः। विस्तरभयात् विरम्यते।

उत्तरत्र अष्टमश्लोकव्याख्यानावसरे अनर्थान् अपावरयति। अन्ते, रोहिणीनक्षत्रयोगात् सा ‘जयन्ती’ भवति नो चेत् केवल ‘जन्माष्टमी’ भवतीति कृष्णजन्माष्टमी-जयन्त्योः अनन्यतां साधयति।

उत्तरत्र पुण्यं पापहरं इत्यत्र ‘पान्तं न पातीति पापम्। धर्मं रक्षितारं रक्षति। पापं रक्षितारमेव न रक्षति। हिनस्तीति। पापं पातकं हरति पातकिनं च हरति’ इति स्वीयया मनोज्ञया शैल्या पापपदार्थं व्याख्याय विनेयान् आनन्दयति।

अग्रे आचार्यमध्वः योगायेति कञ्चन मन्त्रप्रतीकं सूचयति। अयं मन्त्रः भविष्यपुराणे ‘योगाय योगपतये योगेश्वराय योगसम्भवाय श्रीगोविन्दाय नमो नमः’ इति पठितः। सम्प्रति प्रचलितः पुराणपाठः ईषद्भिन्नः- ‘योगेश्वराय योगसम्भवाय योगपतये श्रीगोविन्दाय नमो नमः’ इति पाठान्तरमपि प्रदर्श्य तत्र लिपिकृतां प्रमादं सूचयति। क्षीरोदार्णवसम्भूत अत्रिनेत्र समुद्भव.

……… इति श्लोकं समुच्चार्य सकृदेव अर्घ्यं दद्यात् इति सिद्धान्तयति। त्रिः अर्घ्यमिति रामानुजीयाः इति त्र्यर्घ्यस्य श्रीवैष्णवसम्प्रदायमूलत्वमपि सूचयति।

एवमेव ‘जातः कंसवधार्थाय भूभारहरणाय च इत्ययं मन्त्रभागोऽपि

[[246]]

रामानुजीय सम्प्रदाये पठितः। मूलपाठं अजानद्भिः अर्वाचीनैः तत् श्लोकद्वयं जयन्तीकल्पेऽपि प्राक्षेपि। सः प्रमाद एव इति निर्भीकतया स्वाभिमतं उपस्थापयति।

श्रीकृष्णजन्माष्टमी पूजानन्तरं रात्रौ अनेके श्रद्धालवः जाग्रति। तत् जागरणं वैकल्पिकं इति आचार्यसिद्धान्तः। यदि कोऽपि जिजागरिषति तर्हि जागृयादेव। परन्तु उत्तरत्र क्रियामाणेषु कर्मसु अजामित्वाय सुषुप्स्यति।

तर्हि जागरणविधिलोपः न सम्भवति इति। इत्थं अत्र श्रद्धालुः पूजार्थं उत्सहेत, न जागरणार्थमिति आचार्यहृदयं मुक्तहृदयः परामृशति। अन्ते आचार्यवचनं स्वच्छं नलिनं तदपीतरैः।

अपव्याख्यानमलिनं क्षालयामास शक्तितः।

इत्यनेन अपव्याख्यानक्षालनार्थं अयमुद्यमः मया विहितः इति सादरं निवेदयन् उपसंहरति।